| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
अनोः सभानरश्चक्षुः परोक्षश्च त्रयः सुताः । सभानरात् कालनरः सृञ्जयः तत्सुतस्ततः ॥ १ ॥
अनोः सभानरः चक्षुः परोक्षः च त्रयः सुताः । सभानरात् कालनरः सृञ्जयः तद्-सुतः ततस् ॥ १ ॥
anoḥ sabhānaraḥ cakṣuḥ parokṣaḥ ca trayaḥ sutāḥ . sabhānarāt kālanaraḥ sṛñjayaḥ tad-sutaḥ tatas .. 1 ..
जनमेजयः तस्य पुत्रो महाशालो महामनाः । उशीनरः तितिक्षुश्च महामनस आत्मजौ ॥ २ ॥
जनमेजयः तस्य पुत्रः महाशालः महामनाः । उशीनरः तितिक्षुः च महामनसः आत्मजौ ॥ २ ॥
janamejayaḥ tasya putraḥ mahāśālaḥ mahāmanāḥ . uśīnaraḥ titikṣuḥ ca mahāmanasaḥ ātmajau .. 2 ..
शिबिर्वनः शमिर्दक्षः चत्वार् उशीनरात्मजाः । वृषादर्भः सुधीरश्च मद्रः केकय आत्मवान् ॥ ३ ॥
शिबिः वनः शमिः दक्षः चत्वार् उशीनर-आत्मजाः । वृषादर्भः सु धीरः च मद्रः केकयः आत्मवान् ॥ ३ ॥
śibiḥ vanaḥ śamiḥ dakṣaḥ catvār uśīnara-ātmajāḥ . vṛṣādarbhaḥ su dhīraḥ ca madraḥ kekayaḥ ātmavān .. 3 ..
शिबेश्चत्वार एवासन् तितिक्षोश्च रुशद्रथः । ततो होमोऽथ सुतपा बलिः सुतपसोऽभवत् ॥ ४ ॥
शिबेः चत्वारः एव आसन् तितिक्षोः च रुशद्रथः । ततस् होमः अथ सुतपाः बलिः सुतपसः अभवत् ॥ ४ ॥
śibeḥ catvāraḥ eva āsan titikṣoḥ ca ruśadrathaḥ . tatas homaḥ atha sutapāḥ baliḥ sutapasaḥ abhavat .. 4 ..
अंगवंगकलिंगाद्याः सुह्मपुण्ड्रान्ध्रसंज्ञिताः । जज्ञिरे दीर्घतमसो बलेः क्षेत्रे महीक्षितः ॥ ५ ॥
अंग-वंग-कलिंग-आद्याः सुह्म-पुण्ड्र-अन्ध्र-संज्ञिताः । जज्ञिरे दीर्घतमसः बलेः क्षेत्रे महीक्षितः ॥ ५ ॥
aṃga-vaṃga-kaliṃga-ādyāḥ suhma-puṇḍra-andhra-saṃjñitāḥ . jajñire dīrghatamasaḥ baleḥ kṣetre mahīkṣitaḥ .. 5 ..
चक्रुः स्वनाम्ना विषयान् षडिमान् प्राच्यकांश्च ते । खनपानोऽङ्गतो जज्ञे तस्माद् दिविरथस्ततः ॥ ६ ॥
चक्रुः स्व-नाम्ना विषयान् षट् इमान् प्राच्यकान् च ते । खन-पानः अङ्गतः जज्ञे तस्मात् दिविरथः ततस् ॥ ६ ॥
cakruḥ sva-nāmnā viṣayān ṣaṭ imān prācyakān ca te . khana-pānaḥ aṅgataḥ jajñe tasmāt divirathaḥ tatas .. 6 ..
सुतो धर्मरथो यस्य जज्ञे चित्ररथोऽप्रजाः । रोमपाद इति ख्यातः तस्मै दशरथः सखा ॥ ७ ॥
सुतः धर्मरथः यस्य जज्ञे चित्ररथः अप्रजाः । रोमपादः इति ख्यातः तस्मै दशरथः सखा ॥ ७ ॥
sutaḥ dharmarathaḥ yasya jajñe citrarathaḥ aprajāḥ . romapādaḥ iti khyātaḥ tasmai daśarathaḥ sakhā .. 7 ..
शान्तां स्वकन्यां प्रायच्छद् ऋष्यशृङ्ग उवाह याम् । देवेऽवर्षति यं रामा आनिन्युर्हरिणीसुतम् ॥ ८ ॥
शान्ताम् स्व-कन्याम् प्रायच्छत् ऋष्यशृङ्गः उवाह याम् । देवे अवर्षति यम् रामाः आनिन्युः हरिणी-सुतम् ॥ ८ ॥
śāntām sva-kanyām prāyacchat ṛṣyaśṛṅgaḥ uvāha yām . deve avarṣati yam rāmāḥ āninyuḥ hariṇī-sutam .. 8 ..
नाट्यसंगीतवादित्रैः विभ्रमालिंंगनार्हणैः । स तु राज्ञोऽनपत्यस्य निरूप्येष्टिं मरुत्वतः ॥ ९ ॥
नाट्य-संगीत-वादित्रैः विभ्रम-आलिंंगन-अर्हणैः । स तु राज्ञः अनपत्यस्य निरूप्य इष्टिम् मरुत्वतः ॥ ९ ॥
nāṭya-saṃgīta-vāditraiḥ vibhrama-āliṃṃgana-arhaṇaiḥ . sa tu rājñaḥ anapatyasya nirūpya iṣṭim marutvataḥ .. 9 ..
प्रजामदाद् दशरथो येन लेभेऽप्रजाः प्रजाः । चतुरंगो रोमपादात् पृथुलाक्षस्तु तत्सुतः ॥ १० ॥
प्रजाम् अदात् दशरथः येन लेभे अप्रजाः प्रजाः । चतुरंगः रोमपादात् पृथुलाक्षः तु तद्-सुतः ॥ १० ॥
prajām adāt daśarathaḥ yena lebhe aprajāḥ prajāḥ . caturaṃgaḥ romapādāt pṛthulākṣaḥ tu tad-sutaḥ .. 10 ..
बृहद्रथो बृहत्कर्मा बृहद्भानुश्च तत्सुताः । आद्याद् बृहन्मनास्तस्मात् जयद्रथ उदाहृतः ॥ ११ ॥
बृहद्रथः बृहत्कर्मा बृहद्भानुः च तद्-सुताः । आद्यात् बृहन्मनाः तस्मात् जयद्रथः उदाहृतः ॥ ११ ॥
bṛhadrathaḥ bṛhatkarmā bṛhadbhānuḥ ca tad-sutāḥ . ādyāt bṛhanmanāḥ tasmāt jayadrathaḥ udāhṛtaḥ .. 11 ..
विजयस्तस्य संभूत्यां ततो धृतिरजायत । ततो धृतव्रतस्तस्य सत्कर्माधिरथस्ततः ॥ १२ ॥
विजयः तस्य संभूत्याम् ततस् धृतिः अजायत । ततस् धृत-व्रतः तस्य सत्कर्मा अधिरथः ततस् ॥ १२ ॥
vijayaḥ tasya saṃbhūtyām tatas dhṛtiḥ ajāyata . tatas dhṛta-vrataḥ tasya satkarmā adhirathaḥ tatas .. 12 ..
योऽसौ गंगातटे क्रीडन् मञ्जूषान्तर्गतं शिशुम् । कुन्त्यापविद्धं कानीनं अनपत्योऽकरोत्सुतम् ॥ १३ ॥
यः असौ गंगा-तटे क्रीडन् मञ्जूषा-अन्तर्गतम् शिशुम् । कुन्त्या अपविद्धम् कानीनम् अनपत्यः अकरोत् सुतम् ॥ १३ ॥
yaḥ asau gaṃgā-taṭe krīḍan mañjūṣā-antargatam śiśum . kuntyā apaviddham kānīnam anapatyaḥ akarot sutam .. 13 ..
वृषसेनः सुतस्तस्य कर्णस्य जगतीपते । द्रुह्योश्च तनयो बभ्रुः सेतुः तस्यात्मजस्ततः ॥ १४ ॥
वृषसेनः सुतः तस्य कर्णस्य जगतीपते । द्रुह्योः च तनयः बभ्रुः सेतुः तस्य आत्मजः ततस् ॥ १४ ॥
vṛṣasenaḥ sutaḥ tasya karṇasya jagatīpate . druhyoḥ ca tanayaḥ babhruḥ setuḥ tasya ātmajaḥ tatas .. 14 ..
आरब्धस्तस्य गान्धारः तस्य धर्मस्ततो धृतः । धृतस्य दुर्मदस्तस्मात् प्रचेताः प्राचेतसः शतम् ॥ १५ ॥
आरब्धः तस्य गान्धारः तस्य धर्मः ततस् धृतः । धृतस्य दुर्मदः तस्मात् प्रचेताः प्राचेतसः शतम् ॥ १५ ॥
ārabdhaḥ tasya gāndhāraḥ tasya dharmaḥ tatas dhṛtaḥ . dhṛtasya durmadaḥ tasmāt pracetāḥ prācetasaḥ śatam .. 15 ..
म्लेच्छाधिपतयोऽभूवन् उदीचीं दिशमाश्रिताः । तुर्वसोश्च सुतो वह्निः वह्नेर्भर्गोऽथ भानुमान् ॥ १६ ॥
म्लेच्छ-अधिपतयः अभूवन् उदीचीम् दिशम् आश्रिताः । तुर्वसोः च सुतः वह्निः वह्नेः भर्गः अथ भानुमान् ॥ १६ ॥
mleccha-adhipatayaḥ abhūvan udīcīm diśam āśritāḥ . turvasoḥ ca sutaḥ vahniḥ vahneḥ bhargaḥ atha bhānumān .. 16 ..
त्रिभानुस्तत्सुतोऽस्यापि करन्धम उदारधीः । मरुतस्तत्सुतोऽपुत्रः पुत्रं पौरवमन्वभूत् ॥ १७ ॥
त्रिभानुः तद्-सुतः अस्य अपि करन्धमः उदार-धीः । मरुतः तद्-सुतः अपुत्रः पुत्रम् पौरवम् अन्वभूत् ॥ १७ ॥
tribhānuḥ tad-sutaḥ asya api karandhamaḥ udāra-dhīḥ . marutaḥ tad-sutaḥ aputraḥ putram pauravam anvabhūt .. 17 ..
दुष्मन्तः स पुनर्भेजे स्व वंशं राज्यकामुकः । ययातेर्ज्येष्ठपुत्रस्य यदोर्वंशं नरर्षभ ॥ १८ ॥
दुष्मन्तः स पुनर् भेजे स्व-वंशम् राज्य-कामुकः । ययातेः ज्येष्ठ-पुत्रस्य यदोः वंशम् नर-ऋषभ ॥ १८ ॥
duṣmantaḥ sa punar bheje sva-vaṃśam rājya-kāmukaḥ . yayāteḥ jyeṣṭha-putrasya yadoḥ vaṃśam nara-ṛṣabha .. 18 ..
वर्णयामि महापुण्यं सर्वपापहरं नृणाम् । यदोर्वंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यते ॥ १९ ॥
वर्णयामि महा-पुण्यम् सर्व-पाप-हरम् नृणाम् । यदोः वंशम् नरः श्रुत्वा सर्व-पापैः प्रमुच्यते ॥ १९ ॥
varṇayāmi mahā-puṇyam sarva-pāpa-haram nṛṇām . yadoḥ vaṃśam naraḥ śrutvā sarva-pāpaiḥ pramucyate .. 19 ..
यत्रावतीर्णो भगवान् परमात्मा नराकृतिः । यदोः सहस्रजित्क्रोष्टा नलो रिपुरिति श्रुताः ॥ २० ॥
यत्र अवतीर्णः भगवान् परमात्मा नर-आकृतिः । यदोः सहस्रजित् क्रोष्टा नलः रिपुः इति श्रुताः ॥ २० ॥
yatra avatīrṇaḥ bhagavān paramātmā nara-ākṛtiḥ . yadoḥ sahasrajit kroṣṭā nalaḥ ripuḥ iti śrutāḥ .. 20 ..
चत्वारः सूनवस्तत्र शतजित् प्रथमात्मजः । महाहयो रेणुहयो हैहयश्चेति तत्सुताः ॥ २१ ॥
चत्वारः सूनवः तत्र शतजित् प्रथम-आत्मजः । महाहयः रेणुहयः हैहयः च इति तद्-सुताः ॥ २१ ॥
catvāraḥ sūnavaḥ tatra śatajit prathama-ātmajaḥ . mahāhayaḥ reṇuhayaḥ haihayaḥ ca iti tad-sutāḥ .. 21 ..
धर्मस्तु हैहयसुतो नेत्रः कुन्तेः पिता ततः । सोहञ्जिरभवत् कुन्तेः महिष्मान् भद्रसेनकः ॥ २२ ॥
धर्मः तु हैहय-सुतः नेत्रः कुन्तेः पिता ततस् । सः हञ्जिः अभवत् कुन्तेः महिष्मान् भद्रसेनकः ॥ २२ ॥
dharmaḥ tu haihaya-sutaḥ netraḥ kunteḥ pitā tatas . saḥ hañjiḥ abhavat kunteḥ mahiṣmān bhadrasenakaḥ .. 22 ..
दुर्मदो भद्रसेनस्य धनकः कृतवीर्यसूः । कृताग्निः कृतवर्मा च कृतौजा धनकात्मजाः ॥ ॥
दुर्मदः भद्रसेनस्य धनकः कृतवीर्यसूः । कृताग्निः कृतवर्मा च कृतौजाः धनक-आत्मजाः ॥ ॥
durmadaḥ bhadrasenasya dhanakaḥ kṛtavīryasūḥ . kṛtāgniḥ kṛtavarmā ca kṛtaujāḥ dhanaka-ātmajāḥ .. ..
अर्जुनः कृतवीर्यस्य सप्तद्वीपेश्वरोऽभवत् । दत्तात्रेयात् हरेरंशात् प्राप्तयोगमहागुणः ॥ २४ ॥
अर्जुनः कृतवीर्यस्य सप्तद्वीपा-ईश्वरः अभवत् । दत्तात्रेयात् हरेः अंशात् प्राप्त-योग-महा-गुणः ॥ २४ ॥
arjunaḥ kṛtavīryasya saptadvīpā-īśvaraḥ abhavat . dattātreyāt hareḥ aṃśāt prāpta-yoga-mahā-guṇaḥ .. 24 ..
न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः । यज्ञदानतपोयोग श्रुतवीर्यदयादिभिः ॥ २५ ॥
न नूनम् कार्तवीर्यस्य गतिम् यास्यन्ति पार्थिवाः । यज्ञ-दान-तपः-योग श्रुत-वीर्य-दया-आदिभिः ॥ २५ ॥
na nūnam kārtavīryasya gatim yāsyanti pārthivāḥ . yajña-dāna-tapaḥ-yoga śruta-vīrya-dayā-ādibhiḥ .. 25 ..
पञ्चाशीति सहस्राणि ह्यव्याहतबलः समाः । अनष्टवित्तस्मरणो बुभुजेऽक्षय्यषड्वसु ॥ २६ ॥
पञ्च-अशीति सहस्राणि हि अव्याहत-बलः समाः । अ नष्ट-वित्त-स्मरणः बुभुजे अक्षय्य-षड्वसु ॥ २६ ॥
pañca-aśīti sahasrāṇi hi avyāhata-balaḥ samāḥ . a naṣṭa-vitta-smaraṇaḥ bubhuje akṣayya-ṣaḍvasu .. 26 ..
तस्य पुत्रसहस्रेषु पञ्चैवोर्वरिता मृधे । जयध्वजः शूरसेनो वृषभो मधुरूर्जितः ॥ २७ ॥
तस्य पुत्र-सहस्रेषु पञ्च एवा उर्वरिताः मृधे । ॥ २७ ॥
tasya putra-sahasreṣu pañca evā urvaritāḥ mṛdhe . .. 27 ..
जयध्वजात् तालजंघ तस्य पुत्रशतं त्वभूत् । क्षत्रं यत् तालजंघाख्यं और्वतेजोपसंहृतम् ॥ २८ ॥
जयध्वजात् तालजंघ तस्य पुत्र-शतम् तु अभूत् । क्षत्रम् यत् तालजंघ-आख्यम् और्व-तेज-उपसंहृतम् ॥ २८ ॥
jayadhvajāt tālajaṃgha tasya putra-śatam tu abhūt . kṣatram yat tālajaṃgha-ākhyam aurva-teja-upasaṃhṛtam .. 28 ..
तेषां ज्येष्ठो वीतिहोत्रो वृष्णिः पुत्रो मधोः स्मृतः । तस्य पुत्रशतं त्वासीत् वृष्णिज्येष्ठं यतः कुलम् ॥ २९ ॥
तेषाम् ज्येष्ठः वीतिहोत्रः वृष्णिः पुत्रः मधोः स्मृतः । तस्य पुत्र-शतम् तु आसीत् वृष्णि-ज्येष्ठम् यतस् कुलम् ॥ २९ ॥
teṣām jyeṣṭhaḥ vītihotraḥ vṛṣṇiḥ putraḥ madhoḥ smṛtaḥ . tasya putra-śatam tu āsīt vṛṣṇi-jyeṣṭham yatas kulam .. 29 ..
माधवा वृष्णयो राजन् यादवाश्चेति संज्ञिताः । यदुपुत्रस्य च क्रोष्टोः पुत्रो वृजिनवांस्ततः ॥ ३० ॥
माधवाः वृष्णयः राजन् यादवाः च इति संज्ञिताः । यदु-पुत्रस्य च क्रोष्टोः पुत्रः वृजिनवान् ततस् ॥ ३० ॥
mādhavāḥ vṛṣṇayaḥ rājan yādavāḥ ca iti saṃjñitāḥ . yadu-putrasya ca kroṣṭoḥ putraḥ vṛjinavān tatas .. 30 ..
स्वाहितोऽतो रुशेकुर्वै तस्य चित्ररथस्ततः । शशबिन्दुर्महायोगी महाभागो महानभूत् ॥ ३१ ॥
स्वाहितः अतस् रुशेकुः वै तस्य चित्ररथः ततस् । शशबिन्दुः महा-योगी महाभागः महान् अभूत् ॥ ३१ ॥
svāhitaḥ atas ruśekuḥ vai tasya citrarathaḥ tatas . śaśabinduḥ mahā-yogī mahābhāgaḥ mahān abhūt .. 31 ..
चतुर्दशमहारत्नः चक्रवर्ति अपराजितः । तस्य पत्नीसहस्राणां दशानां सुमहायशाः ॥ ३२ ॥
चतुर्दश-महा-रत्नः चक्रवर्ति-अपराजितः । तस्य पत्नी-सहस्राणाम् दशानाम् सु महा-यशाः ॥ ३२ ॥
caturdaśa-mahā-ratnaḥ cakravarti-aparājitaḥ . tasya patnī-sahasrāṇām daśānām su mahā-yaśāḥ .. 32 ..
दशलक्षसहस्राणि पुत्राणां तास्वजीजनत् । तेषां तु षट्प्रधानानां पृथुश्रवस आत्मजः ॥ ३३ ॥
दश-लक्ष-सहस्राणि पुत्राणाम् तासु अजीजनत् । तेषाम् तु षष्-प्रधानानाम् पृथुश्रवसः आत्मजः ॥ ३३ ॥
daśa-lakṣa-sahasrāṇi putrāṇām tāsu ajījanat . teṣām tu ṣaṣ-pradhānānām pṛthuśravasaḥ ātmajaḥ .. 33 ..
धर्मो नामोशना तस्य हयमेधशतस्य याट् । तत्सुतो रुचकस्तस्य पञ्चासन्नात्मजाः श्रृणु ॥ ३४ ॥
धर्मः नाम उशना तस्य हयमेध-शतस्य याज् । तद्-सुतः रुचकः तस्य पञ्च आसन् आत्मजाः श्रृणु ॥ ३४ ॥
dharmaḥ nāma uśanā tasya hayamedha-śatasya yāj . tad-sutaḥ rucakaḥ tasya pañca āsan ātmajāḥ śrṛṇu .. 34 ..
पुरुजित् रुक्म रुक्मेषु पृथु ज्यामघ संज्ञिताः । ज्यामघस्त्वप्रजोऽप्यन्यां भार्यां शैब्यापतिर्भयात् ॥ ३५ ॥
पुरुजित्-रुक्म-रुक्मेषु पृथु-ज्यामघ-संज्ञिताः । ज्यामघः तु अप्रजः अपि अन्याम् भार्याम् शैब्या-पतिः भयात् ॥ ३५ ॥
purujit-rukma-rukmeṣu pṛthu-jyāmagha-saṃjñitāḥ . jyāmaghaḥ tu aprajaḥ api anyām bhāryām śaibyā-patiḥ bhayāt .. 35 ..
नाविन्दत् शत्रुभवनाद् भोज्यां कन्यामहारषीत् । रथस्थां तां निरीक्ष्याह शैब्या पतिममर्षिता ॥ ३६ ॥
न अविन्दत् शत्रु-भवनात् भोज्याम् कन्याम् अहारषीत् । रथ-स्थाम् ताम् निरीक्ष्य आह शैब्या पतिम् अमर्षिता ॥ ३६ ॥
na avindat śatru-bhavanāt bhojyām kanyām ahāraṣīt . ratha-sthām tām nirīkṣya āha śaibyā patim amarṣitā .. 36 ..
केयं कुहक मत्स्थानं रथमारोपितेति वै । स्नुषा तवेत्यभिहिते स्मयन्ती पतिमब्रवीत् ॥ ३७ ॥
का इयम् कुहक मद्-स्थानम् रथम् आरोपिता इति वै । स्नुषा तव इति अभिहिते स्मयन्ती पतिम् अब्रवीत् ॥ ३७ ॥
kā iyam kuhaka mad-sthānam ratham āropitā iti vai . snuṣā tava iti abhihite smayantī patim abravīt .. 37 ..
अहं बन्ध्यासपत्नी च स्नुषा मे युज्यते कथम् । जनयिष्यसि यं राज्ञि तस्येयमुपयुज्यते ॥ ३८ ॥
अहम् बन्ध्या-सपत्नी च स्नुषा मे युज्यते कथम् । जनयिष्यसि यम् राज्ञि तस्य इयम् उपयुज्यते ॥ ३८ ॥
aham bandhyā-sapatnī ca snuṣā me yujyate katham . janayiṣyasi yam rājñi tasya iyam upayujyate .. 38 ..
अन्वमोदन्त तद्विश्वे देवाः पितर एव च । शैब्या गर्भं अधात्काले कुमारं सुषुवे शुभम् । स विदर्भ इति प्रोक्त उपयेमे स्नुषां सतीम् ॥ ३९ ॥
अन्वमोदन्त तत् विश्वे देवाः पितरः एव च । शैब्या गर्भम् अधात् काले कुमारम् सुषुवे शुभम् । स विदर्भः इति प्रोक्तः उपयेमे स्नुषाम् सतीम् ॥ ३९ ॥
anvamodanta tat viśve devāḥ pitaraḥ eva ca . śaibyā garbham adhāt kāle kumāram suṣuve śubham . sa vidarbhaḥ iti proktaḥ upayeme snuṣām satīm .. 39 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे त्रयोविंशोऽध्यायः ॥ २३ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् नवम-स्कन्धे त्रयोविंशः अध्यायः ॥ २३ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām navama-skandhe trayoviṃśaḥ adhyāyaḥ .. 23 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In