| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच।
तस्यां विदर्भोऽजनयत्पुत्रौ नाम्ना कुशक्रथौ । तृतीयं रोमपादं च विदर्भकुलनन्दनम् १।
तस्याम् विदर्भः अजनयत् पुत्रौ नाम्ना कुश-क्रथौ । तृतीयम् रोमपादम् च विदर्भ-कुल-नन्दनम्।
tasyām vidarbhaḥ ajanayat putrau nāmnā kuśa-krathau . tṛtīyam romapādam ca vidarbha-kula-nandanam.
रोमपादसुतो बभ्रुर्बभ्रोः कृतिरजायत । उशिकस्तत्सुतस्तस्माच्चेदिश्चैद्यादयो नृपाः २।
रोमपाद-सुतः बभ्रुः बभ्रोः कृतिः अजायत । उशिकः तद्-सुतः तस्मात् चेदिः चैद्य-आदयः नृपाः।
romapāda-sutaḥ babhruḥ babhroḥ kṛtiḥ ajāyata . uśikaḥ tad-sutaḥ tasmāt cediḥ caidya-ādayaḥ nṛpāḥ.
क्रथस्य कुन्तिः पुत्रोऽभूद्वृष्णिस्तस्याथ निर्वृतिः। ततो दशार्हो नाम्नाभूत्तस्य व्योमः सुतस्ततः ३।
क्रथस्य कुन्तिः पुत्रः अभूत् वृष्णिः तस्य अथ निर्वृतिः। ततस् दशार्हः नाम्ना अभूत् तस्य व्योमः सुतः ततस्।
krathasya kuntiḥ putraḥ abhūt vṛṣṇiḥ tasya atha nirvṛtiḥ. tatas daśārhaḥ nāmnā abhūt tasya vyomaḥ sutaḥ tatas.
जीमूतो विकृतिस्तस्य यस्य भीमरथः सुतः। ततो नवरथः पुत्रो जातो दशरथस्ततः ४।
जीमूतः विकृतिः तस्य यस्य भीमरथः सुतः। ततस् नवरथः पुत्रः जातः दशरथः ततस्।
jīmūtaḥ vikṛtiḥ tasya yasya bhīmarathaḥ sutaḥ. tatas navarathaḥ putraḥ jātaḥ daśarathaḥ tatas.
करम्भिः शकुनेः पुत्रो देवरातस्तदात्मजः। देवक्षत्रस्ततस्तस्य मधुः कुरुवशादनुः ५।
करम्भिः शकुनेः पुत्रः देवरातः तद्-आत्मजः। देवक्षत्रः ततस् तस्य मधुः कुरु-वशादनुः।
karambhiḥ śakuneḥ putraḥ devarātaḥ tad-ātmajaḥ. devakṣatraḥ tatas tasya madhuḥ kuru-vaśādanuḥ.
पुरुहोत्रस्त्वनोः पुत्रस्तस्यायुः सात्वतस्ततः। भजमानो भजिर्दिव्यो वृष्णिर्देवावृधोऽन्धकः ६।
पुरुहोत्रः तु अनोः पुत्रः तस्य आयुः सात्वतः ततस्। भजमानः भजिः दिव्यः वृष्णिः देवावृधः अन्धकः।
puruhotraḥ tu anoḥ putraḥ tasya āyuḥ sātvataḥ tatas. bhajamānaḥ bhajiḥ divyaḥ vṛṣṇiḥ devāvṛdhaḥ andhakaḥ.
सात्वतस्य सुताः सप्त महाभोजश्च मारिष। भजमानस्य निम्लोचिः किङ्कणो धृष्टिरेव च ७।
सात्वतस्य सुताः सप्त महाभोजः च मारिष। भजमानस्य निम्लोचिः किङ्कणः धृष्टिः एव च।
sātvatasya sutāḥ sapta mahābhojaḥ ca māriṣa. bhajamānasya nimlociḥ kiṅkaṇaḥ dhṛṣṭiḥ eva ca.
एकस्यामात्मजाः पत्न्यामन्यस्यां च त्रयः सुताः। शताजिच्च सहस्राजिदयुताजिदिति प्रभो ८।
एकस्याम् आत्मजाः पत्न्याम् अन्यस्याम् च त्रयः सुताः। शताजित् च सहस्राजित् अयुताजित् इति प्रभो।
ekasyām ātmajāḥ patnyām anyasyām ca trayaḥ sutāḥ. śatājit ca sahasrājit ayutājit iti prabho.
बभ्रुर्देवावृधसुतस्तयोः श्लोकौ पठन्त्यमू। यथैव शृणुमो दूरात्सम्पश्यामस्तथान्तिकात् ९।
बभ्रुः देवावृध-सुतः तयोः श्लोकौ पठन्ति अमू। यथा एव शृणुमः दूरात् सम्पश्यामः तथा अन्तिकात्।
babhruḥ devāvṛdha-sutaḥ tayoḥ ślokau paṭhanti amū. yathā eva śṛṇumaḥ dūrāt sampaśyāmaḥ tathā antikāt.
बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः। पुरुषाः पञ्चषष्टिश्च षट्सहस्राणि चाष्ट च १०।
बभ्रुः श्रेष्ठः मनुष्याणाम् देवैः देवावृधः समः। पुरुषाः पञ्चषष्टिः च षष्-सहस्राणि च अष्ट च।
babhruḥ śreṣṭhaḥ manuṣyāṇām devaiḥ devāvṛdhaḥ samaḥ. puruṣāḥ pañcaṣaṣṭiḥ ca ṣaṣ-sahasrāṇi ca aṣṭa ca.
येऽमृतत्वमनुप्राप्ता बभ्रोर्देवावृधादपि। महाभोजोऽतिधर्मात्मा भोजा आसंस्तदन्वये ११।
ये अमृत-त्वम् अनुप्राप्ताः बभ्रोः देवावृधात् अपि। महाभोजः अति धर्म-आत्मा भोजाः आसन् तद्-अन्वये।
ye amṛta-tvam anuprāptāḥ babhroḥ devāvṛdhāt api. mahābhojaḥ ati dharma-ātmā bhojāḥ āsan tad-anvaye.
वृष्णेः सुमित्रः पुत्रोऽभूद्युधाजिच्च परन्तप। शिनिस्तस्यानमित्रश्च निघ्नोऽभूदनमित्रतः १२।
वृष्णेः सुमित्रः पुत्रः अभूत् युधाजित् च परन्तप। शिनिः तस्य अनमित्रः च निघ्नः अभूत् अनमित्रतः।
vṛṣṇeḥ sumitraḥ putraḥ abhūt yudhājit ca parantapa. śiniḥ tasya anamitraḥ ca nighnaḥ abhūt anamitrataḥ.
सत्राजितः प्रसेनश्च निघ्नस्याथासतुः सुतौ। अनमित्रसुतो योऽन्यः शिनिस्तस्य च सत्यकः १३।
सत्राजितः प्रसेनः च निघ्नस्य अथ असतुः सुतौ। अनमित्र-सुतः यः अन्यः शिनिः तस्य च सत्यकः।
satrājitaḥ prasenaḥ ca nighnasya atha asatuḥ sutau. anamitra-sutaḥ yaḥ anyaḥ śiniḥ tasya ca satyakaḥ.
युयुधानः सात्यकिर्वै जयस्तस्य कुणिस्ततः। युगन्धरोऽनमित्रस्य वृष्णिः पुत्रोऽपरस्ततः १४।
युयुधानः सात्यकिः वै जयः तस्य कुणिः ततस्। युगन्धरः अनमित्रस्य वृष्णिः पुत्रः अपरः ततस्।
yuyudhānaḥ sātyakiḥ vai jayaḥ tasya kuṇiḥ tatas. yugandharaḥ anamitrasya vṛṣṇiḥ putraḥ aparaḥ tatas.
श्वफल्कश्चित्ररथश्च गान्दिन्यां च श्वफल्कतः। अक्रूरप्रमुखा आसन्पुत्रा द्वादश विश्रुताः १५।
श्वफल्कः चित्ररथः च गान्दिन्याम् च श्वफल्कतः। अक्रूर-प्रमुखाः आसन् पुत्राः द्वादश विश्रुताः।
śvaphalkaḥ citrarathaḥ ca gāndinyām ca śvaphalkataḥ. akrūra-pramukhāḥ āsan putrāḥ dvādaśa viśrutāḥ.
आसङ्गः सारमेयश्च मृदुरो मृदुविद्गिरिः। धर्मवृद्धः सुकर्मा च क्षेत्रोपेक्षोऽरिमर्दनः १६।
आसङ्गः सारमेयः च मृदुरः मृदु-विद् गिरिः। धर्मवृद्धः सुकर्मा च क्षेत्रोपेक्षः अरिमर्दनः।
āsaṅgaḥ sārameyaḥ ca mṛduraḥ mṛdu-vid giriḥ. dharmavṛddhaḥ sukarmā ca kṣetropekṣaḥ arimardanaḥ.
शत्रुघ्नो गन्धमादश्च प्रतिबाहुश्च द्वादश। तेषां स्वसा सुचाराख्या द्वावक्रूरसुतावपि १७।
शत्रुघ्नः गन्धमादः च प्रतिबाहुः च द्वादश। तेषाम् स्वसा सुचार-आख्या द्वौ अक्रूर-सुतौ अपि।
śatrughnaḥ gandhamādaḥ ca pratibāhuḥ ca dvādaśa. teṣām svasā sucāra-ākhyā dvau akrūra-sutau api.
देववानुपदेवश्च तथा चित्ररथात्मजाः। पृथुर्विदूरथाद्याश्च बहवो वृष्णिनन्दनाः १८।
देववान् उपदेवः च तथा चित्ररथ-आत्मजाः। पृथुः विदूरथ-आद्याः च बहवः वृष्णि-नन्दनाः।
devavān upadevaḥ ca tathā citraratha-ātmajāḥ. pṛthuḥ vidūratha-ādyāḥ ca bahavaḥ vṛṣṇi-nandanāḥ.
कुकुरो भजमानश्च शुचिः कम्बलबर्हिषः। कुकुरस्य सुतो वह्निर्विलोमा तनयस्ततः १९।
कुकुरः भजमानः च शुचिः कम्बलबर्हिषः। कुकुरस्य सुतः वह्निः विलोमा तनयः ततस्।
kukuraḥ bhajamānaḥ ca śuciḥ kambalabarhiṣaḥ. kukurasya sutaḥ vahniḥ vilomā tanayaḥ tatas.
कपोतरोमा तस्यानुः सखा यस्य च तुम्बुरुः। अन्धकाद्दुन्दुभिस्तस्मादविद्योतः पुनर्वसुः २० (अरिद्योतः पाठभेदः)।
कपोतरोमा तस्य अनुः सखा यस्य च तुम्बुरुः। अन्धकात् दुन्दुभिः तस्मात् अविद्योतः पुनर्वसुः (अरिद्योतः पाठ-भेदः।
kapotaromā tasya anuḥ sakhā yasya ca tumburuḥ. andhakāt dundubhiḥ tasmāt avidyotaḥ punarvasuḥ (aridyotaḥ pāṭha-bhedaḥ.
तस्याहुकश्चाहुकी च कन्या चैवाहुकात्मजौ। देवकश्चोग्रसेनश्च चत्वारो देवकात्मजाः २१।
तस्य आहुकः च आहुकी च कन्या च एव आहुक-आत्मजौ। देवकः च उग्रसेनः च चत्वारः देवक-आत्मजाः।
tasya āhukaḥ ca āhukī ca kanyā ca eva āhuka-ātmajau. devakaḥ ca ugrasenaḥ ca catvāraḥ devaka-ātmajāḥ.
देववानुपदेवश्च सुदेवो देववर्धनः। तेषां स्वसारः सप्तासन्धृतदेवादयो नृप २२।
देववान् उपदेवः च सुदेवः देववर्धनः। तेषाम् स्वसारः सप्ता आसन् धृतदेव-आदयः नृप।
devavān upadevaḥ ca sudevaḥ devavardhanaḥ. teṣām svasāraḥ saptā āsan dhṛtadeva-ādayaḥ nṛpa.
शान्तिदेवोपदेवा च श्रीदेवा देवरक्षिता। सहदेवा देवकी च वसुदेव उवाह ताः २३।
शान्तिदेवा उपदेवा च श्रीदेवा देवरक्षिता। सहदेवा देवकी च वसुदेवः उवाह ताः।
śāntidevā upadevā ca śrīdevā devarakṣitā. sahadevā devakī ca vasudevaḥ uvāha tāḥ.
कंसः सुनामा न्यग्रोधः कङ्कः शङ्कुः सुहूस्तथा। राष्ट्रपालोऽथ धृष्टिश्च तुष्टिमानौग्रसेनयः २४।
कंसः सुनामा न्यग्रोधः कङ्कः शङ्कुः सुहूः तथा। राष्ट्रपालः अथ धृष्टिः च तुष्टिमान् औग्रसेनयः।
kaṃsaḥ sunāmā nyagrodhaḥ kaṅkaḥ śaṅkuḥ suhūḥ tathā. rāṣṭrapālaḥ atha dhṛṣṭiḥ ca tuṣṭimān augrasenayaḥ.
कंसा कंसवती कङ्का शूरभू राष्टपालिका। उग्रसेनदुहितरो वसुदेवानुजस्त्रियः २५।
कंसा कंसवती कङ्का शूरभू राष्टपालिका। उग्रसेन-दुहितरः वसुदेव-अनुज-स्त्रियः।
kaṃsā kaṃsavatī kaṅkā śūrabhū rāṣṭapālikā. ugrasena-duhitaraḥ vasudeva-anuja-striyaḥ.
शूरो विदूरथादासीद्भजमानस्तु तत्सुतः। शिनिस्तस्मात्स्वयं भोजो हृदिकस्तत्सुतो मतः २६।
शूरः विदूरथात् अदासीत् भजमानः तु तद्-सुतः। शिनिः तस्मात् स्वयम् भोजः हृदिकः तद्-सुतः मतः।
śūraḥ vidūrathāt adāsīt bhajamānaḥ tu tad-sutaḥ. śiniḥ tasmāt svayam bhojaḥ hṛdikaḥ tad-sutaḥ mataḥ.
देवमीढः शतधनुः कृतवर्मेति तत्सुताः। देवमीढस्य शूरस्य मारिषा नाम पत्न्यभूत् २७।
देवमीढः शतधनुः कृतवर्मा इति तद्-सुताः। देवमीढस्य शूरस्य मारिषा नाम पत्नी अभूत्।
devamīḍhaḥ śatadhanuḥ kṛtavarmā iti tad-sutāḥ. devamīḍhasya śūrasya māriṣā nāma patnī abhūt.
तस्यां स जनयामास दश पुत्रानकल्मषान्। वसुदेवं देवभागं देवश्रवसमानकम् २८।
तस्याम् स जनयामास दश पुत्रान् अकल्मषान्। वसुदेवम् देवभागम् देवश्रवस-मानकम्।
tasyām sa janayāmāsa daśa putrān akalmaṣān. vasudevam devabhāgam devaśravasa-mānakam.
सृञ्जयं श्यामकं कङ्कं शमीकं वत्सकं वृकम्। देवदुन्दुभयो नेदुरानका यस्य जन्मनि २९।
सृञ्जयम् श्यामकम् कङ्कम् शमीकम् वत्सकम् वृकम्। देव-दुन्दुभयः नेदुः आनकाः यस्य जन्मनि।
sṛñjayam śyāmakam kaṅkam śamīkam vatsakam vṛkam. deva-dundubhayaḥ neduḥ ānakāḥ yasya janmani.
वसुदेवं हरेः स्थानं वदन्त्यानकदुन्दुभिम्। पृथा च श्रुतदेवा च श्रुतकीर्तिः श्रुतश्रवाः ३०।
वसुदेवम् हरेः स्थानम् वदन्ति आनकदुन्दुभिम्। पृथा च श्रुतदेवा च श्रुतकीर्तिः श्रुतश्रवाः।
vasudevam hareḥ sthānam vadanti ānakadundubhim. pṛthā ca śrutadevā ca śrutakīrtiḥ śrutaśravāḥ.
राजाधिदेवी चैतेषां भगिन्यः पञ्च कन्यकाः। कुन्तेः सख्युः पिता शूरो ह्यपुत्रस्य पृथामदात् ३१।
राजाधिदेवी च एतेषाम् भगिन्यः पञ्च कन्यकाः। कुन्तेः सख्युः पिता शूरः हि अपुत्रस्य पृथाम् अदात्।
rājādhidevī ca eteṣām bhaginyaḥ pañca kanyakāḥ. kunteḥ sakhyuḥ pitā śūraḥ hi aputrasya pṛthām adāt.
साप दुर्वाससो विद्यां देवहूतीं प्रतोषितात्। तस्या वीर्यपरीक्षार्थमाजुहाव रविं शुचिः ३२।
सा अप दुर्वाससः विद्याम् देवहूतीम् प्रतोषितात्। तस्याः वीर्य-परीक्षा-अर्थम् आजुहाव रविम् शुचिः।
sā apa durvāsasaḥ vidyām devahūtīm pratoṣitāt. tasyāḥ vīrya-parīkṣā-artham ājuhāva ravim śuciḥ.
तदैवोपागतं देवं वीक्ष्य विस्मितमानसा। प्रत्ययार्थं प्रयुक्ता मे याहि देव क्षमस्व मे ३३।
तदा एव उपागतम् देवम् वीक्ष्य विस्मित-मानसा। प्रत्यय-अर्थम् प्रयुक्ता मे याहि देव क्षमस्व मे।
tadā eva upāgatam devam vīkṣya vismita-mānasā. pratyaya-artham prayuktā me yāhi deva kṣamasva me.
अमोघं देवसन्दर्शमादधे त्वयि चात्मजम्। योनिर्यथा न दुष्येत कर्ताहं ते सुमध्यमे ३४।
अमोघम् देव-सन्दर्शम् आदधे त्वयि च आत्मजम्। योनिः यथा न दुष्येत कर्ताहम् ते सुमध्यमे।
amogham deva-sandarśam ādadhe tvayi ca ātmajam. yoniḥ yathā na duṣyeta kartāham te sumadhyame.
इति तस्यां स आधाय गर्भं सूर्यो दिवं गतः। सद्यः कुमारः सञ्जज्ञे द्वितीय इव भास्करः ३५।
इति तस्याम् सः आधाय गर्भम् सूर्यः दिवम् गतः। सद्यस् कुमारः सञ्जज्ञे द्वितीयः इव भास्करः।
iti tasyām saḥ ādhāya garbham sūryaḥ divam gataḥ. sadyas kumāraḥ sañjajñe dvitīyaḥ iva bhāskaraḥ.
तं सात्यजन्नदीतोये कृच्छ्राल्लोकस्य बिभ्यती। प्रपितामहस्तामुवाह पाण्डुर्वै सत्यविक्रमः ३६।
तम् सा अत्यजत् नदी-तोये कृच्छ्रात् लोकस्य बिभ्यती। प्रपितामहः ताम् उवाह पाण्डुः वै सत्य-विक्रमः।
tam sā atyajat nadī-toye kṛcchrāt lokasya bibhyatī. prapitāmahaḥ tām uvāha pāṇḍuḥ vai satya-vikramaḥ.
श्रुतदेवां तु कारूषो वृद्धशर्मा समग्रहीत्। यस्यामभूद्दन्तवक्र ऋषिशप्तो दितेः सुतः ३७।
श्रुतदेवाम् तु कारूषः वृद्धशर्मा समग्रहीत्। यस्याम् अभूत् दन्तवक्रः ऋषि-शप्तः दितेः सुतः।
śrutadevām tu kārūṣaḥ vṛddhaśarmā samagrahīt. yasyām abhūt dantavakraḥ ṛṣi-śaptaḥ diteḥ sutaḥ.
कैकेयो धृष्टकेतुश्च श्रुतकीर्तिमविन्दत। सन्तर्दनादयस्तस्यां पञ्चासन्कैकयाः सुताः ३८।
कैकेयः धृष्टकेतुः च श्रुत-कीर्तिम् अविन्दत। सन्तर्दन-आदयः तस्याम् पञ्च आसन् कैकयाः सुताः।
kaikeyaḥ dhṛṣṭaketuḥ ca śruta-kīrtim avindata. santardana-ādayaḥ tasyām pañca āsan kaikayāḥ sutāḥ.
राजाधिदेव्यामावन्त्यौ जयसेनोऽजनिष्ट ह। दमघोषश्चेदिराजः श्रुतश्रवसमग्रहीत् ३९।
राजाधिदेव्याम् आवन्त्यौ जयसेनः अजनिष्ट ह। दमघोषः चेदि-राजः श्रुतश्रवसम् अग्रहीत्।
rājādhidevyām āvantyau jayasenaḥ ajaniṣṭa ha. damaghoṣaḥ cedi-rājaḥ śrutaśravasam agrahīt.
शिशुपालः सुतस्तस्याः कथितस्तस्य सम्भवः। देवभागस्य कंसायां चित्रकेतुबृहद्बलौ ४०।
शिशुपालः सुतः तस्याः कथितः तस्य सम्भवः। देवभागस्य कंसायाम् चित्रकेतु-बृहद्बलौ।
śiśupālaḥ sutaḥ tasyāḥ kathitaḥ tasya sambhavaḥ. devabhāgasya kaṃsāyām citraketu-bṛhadbalau.
कंसवत्यां देवश्रवसः सुवीर इषुमांस्तथा। बकः कङ्कात्तु कङ्कायां सत्यजित्पुरुजित्तथा ४१।
कंसवत्याम् देवश्रवसः सुवीरः इषुमान् तथा। बकः कङ्कात् तु कङ्कायाम् सत्यजित् पुरुजित् तथा।
kaṃsavatyām devaśravasaḥ suvīraḥ iṣumān tathā. bakaḥ kaṅkāt tu kaṅkāyām satyajit purujit tathā.
सृञ्जयो राष्ट्रपाल्यां च वृषदुर्मर्षणादिकान्। हरिकेशहिरण्याक्षौ शूरभूम्यां च श्यामकः ४२।
सृञ्जयः राष्ट्रपाल्याम् च वृष-दुर्मर्षण-आदिकान्। हरिकेश-हिरण्याक्षौ शूरभूम्याम् च श्यामकः।
sṛñjayaḥ rāṣṭrapālyām ca vṛṣa-durmarṣaṇa-ādikān. harikeśa-hiraṇyākṣau śūrabhūmyām ca śyāmakaḥ.
मिश्रकेश्यामप्सरसि वृकादीन्वत्सकस्तथा। तक्षपुष्करशालादीन्दुर्वाक्ष्यां वृक आदधे ४३।
मिश्रकेश्याम् अप्सरसि वृक-आदीन् वत्सकः तथा। तक्ष-पुष्कर-शाला-आदीन् दुर्वा-अक्ष्याम् वृकः आदधे।
miśrakeśyām apsarasi vṛka-ādīn vatsakaḥ tathā. takṣa-puṣkara-śālā-ādīn durvā-akṣyām vṛkaḥ ādadhe.
सुमित्रार्जुनपालादीन्समीकात्तु सुदामनी। आनकः कर्णिकायां वै ऋतधामाजयावपि ४४।
सुमित्रा-अर्जुन-पाल-आदीन् समीकात् तु सुदामनी। आनकः कर्णिकायाम् वै ऋतधाम-अजयौ अपि।
sumitrā-arjuna-pāla-ādīn samīkāt tu sudāmanī. ānakaḥ karṇikāyām vai ṛtadhāma-ajayau api.
पौरवी रोहिणी भद्रा मदिरा रोचना इला। देवकीप्रमुखाश्चासन्पत्न्य आनकदुन्दुभेः ४५।
पौरवी रोहिणी भद्रा मदिरा रोचना इला। देवकी-प्रमुखाः च आसन् पत्न्यः आनकदुन्दुभेः।
pauravī rohiṇī bhadrā madirā rocanā ilā. devakī-pramukhāḥ ca āsan patnyaḥ ānakadundubheḥ.
बलं गदं सारणं च दुर्मदं विपुलं ध्रुवम्। वसुदेवस्तु रोहिण्यां कृतादीनुदपादयत् ४६।
बलम् गदम् सारणम् च दुर्मदम् विपुलम् ध्रुवम्। वसुदेवः तु रोहिण्याम् कृत-आदीन् उदपादयत्।
balam gadam sāraṇam ca durmadam vipulam dhruvam. vasudevaḥ tu rohiṇyām kṛta-ādīn udapādayat.
सुभद्रो भद्र बाहुश्च दुर्मदो भद्र एव च। पौरव्यास्तनया ह्येते भूताद्या द्वादशाभवन् ४७।
सुभद्रः भद्र बाहुः च दुर्मदः भद्रः एव च। पौरव्याः तनयाः हि एते भूत-आद्याः द्वादश अभवन्।
subhadraḥ bhadra bāhuḥ ca durmadaḥ bhadraḥ eva ca. pauravyāḥ tanayāḥ hi ete bhūta-ādyāḥ dvādaśa abhavan.
नन्दोपनन्दकृतक शूराद्या मदिरात्मजाः। कौशल्या केशिनं त्वेकमसूत कुलनन्दनम् ४८।
नन्द-उपनन्द-कृतक-शूर-आद्याः मदिरा-आत्मजाः। कौशल्या केशिनम् तु एकम् असूत कुल-नन्दनम्।
nanda-upananda-kṛtaka-śūra-ādyāḥ madirā-ātmajāḥ. kauśalyā keśinam tu ekam asūta kula-nandanam.
रोचनायामतो जाता हस्तहेमाङ्गदादयः। इलायामुरुवल्कादीन्यदुमुख्यानजीजनत् ४९।
रोचनायाम् अतस् जाताः हस्त-हेम-अङ्गद-आदयः। इलायाम् उरुवल्क-आदीन् यदु-मुख्यान् अजीजनत्।
rocanāyām atas jātāḥ hasta-hema-aṅgada-ādayaḥ. ilāyām uruvalka-ādīn yadu-mukhyān ajījanat.
विपृष्ठो धृतदेवायामेक आनकदुन्दुभेः। शान्तिदेवात्मजा राजन्प्रशमप्रसितादयः ५०।
विपृष्ठः धृतदेवायाम् एकः आनकदुन्दुभेः। शान्तिदेव-आत्मजाः राजन् प्रशम-प्रसित-आदयः।
vipṛṣṭhaḥ dhṛtadevāyām ekaḥ ānakadundubheḥ. śāntideva-ātmajāḥ rājan praśama-prasita-ādayaḥ.
राजन्यकल्पवर्षाद्या उपदेवासुता दश। वसुहंससुवंशाद्याः श्रीदेवायास्तु षट्सुताः ५१।
राजन्य-कल्प-वर्ष-आद्याः उपदेवा-सुताः दश। वसु-हंस-सुवंश-आद्याः श्रीदेवायाः तु षट् सुताः।
rājanya-kalpa-varṣa-ādyāḥ upadevā-sutāḥ daśa. vasu-haṃsa-suvaṃśa-ādyāḥ śrīdevāyāḥ tu ṣaṭ sutāḥ.
देवरक्षितया लब्धा नव चात्र गदादयः। वसुदेवः सुतानष्टावादधे सहदेवया ५२।
देवरक्षितया लब्धाः नव च अत्र गद-आदयः। वसुदेवः सुतान् अष्टौ आदधे सहदेवया।
devarakṣitayā labdhāḥ nava ca atra gada-ādayaḥ. vasudevaḥ sutān aṣṭau ādadhe sahadevayā.
प्रवरश्रतमुख्यांश्च साक्षाद्धर्मो वसूनिव। वसुदेवस्तु देवक्यामष्ट पुत्रानजीजनत् ५३।
प्रवर-श्रत-मुख्यान् च साक्षात् धर्मः वसून् इव। वसुदेवः तु देवक्याम् अष्ट पुत्रान् अजीजनत्।
pravara-śrata-mukhyān ca sākṣāt dharmaḥ vasūn iva. vasudevaḥ tu devakyām aṣṭa putrān ajījanat.
कीर्तिमन्तं सुषेणं च भद्रसेनमुदारधीः। ऋजुं सम्मर्दनं भद्रं सङ्कर्षणमहीश्वरम् ५४।
कीर्तिमन्तम् सुषेणम् च भद्रसेनम् उदार-धीः। ऋजुम् सम्मर्दनम् भद्रम् सङ्कर्षण-महीश्वरम्।
kīrtimantam suṣeṇam ca bhadrasenam udāra-dhīḥ. ṛjum sammardanam bhadram saṅkarṣaṇa-mahīśvaram.
अष्टमस्तु तयोरासीत्स्वयमेव हरिः किल। सुभद्रा च महाभागा तव राजन्पितामही ५५।
अष्टमः तु तयोः आसीत् स्वयम् एव हरिः किल। सुभद्रा च महाभागा तव राजन् पितामही।
aṣṭamaḥ tu tayoḥ āsīt svayam eva hariḥ kila. subhadrā ca mahābhāgā tava rājan pitāmahī.
यदा यदा हि धर्मस्य क्षयो वृद्धिश्च पाप्मनः। तदा तु भगवानीश आत्मानं सृजते हरिः ५६।
यदा यदा हि धर्मस्य क्षयः वृद्धिः च पाप्मनः। तदा तु भगवान् ईशः आत्मानम् सृजते हरिः।
yadā yadā hi dharmasya kṣayaḥ vṛddhiḥ ca pāpmanaḥ. tadā tu bhagavān īśaḥ ātmānam sṛjate hariḥ.
न ह्यस्य जन्मनो हेतुः कर्मणो वा महीपते। आत्ममायां विनेशस्य परस्य द्र ष्टुरात्मनः ५७।
न हि अस्य जन्मनः हेतुः कर्मणः वा महीपते। आत्म-मायाम् विना ईशस्य परस्य द्रष्टुः आत्मनः।
na hi asya janmanaḥ hetuḥ karmaṇaḥ vā mahīpate. ātma-māyām vinā īśasya parasya draṣṭuḥ ātmanaḥ.
यन्मायाचेष्टितं पुंसः स्थित्युत्पत्त्यप्ययाय हि। अनुग्रहस्तन्निवृत्तेरात्मलाभाय चेष्यते ५८।
यत् माया-चेष्टितम् पुंसः स्थिति-उत्पत्ति-अप्ययाय हि। अनुग्रहः तद्-निवृत्तेः आत्मलाभाय च इष्यते।
yat māyā-ceṣṭitam puṃsaḥ sthiti-utpatti-apyayāya hi. anugrahaḥ tad-nivṛtteḥ ātmalābhāya ca iṣyate.
अक्षौहिणीनां पतिभिरसुरैर्नृपलाञ्छनैः। भुव आक्रम्यमाणाया अभाराय कृतोद्यमः ५९।
अक्षौहिणीनाम् पतिभिः असुरैः नृप-लाञ्छनैः। भुवः आक्रम्यमाणायाः अभाराय कृत-उद्यमः।
akṣauhiṇīnām patibhiḥ asuraiḥ nṛpa-lāñchanaiḥ. bhuvaḥ ākramyamāṇāyāḥ abhārāya kṛta-udyamaḥ.
कर्माण्यपरिमेयाणि मनसापि सुरेश्वरैः। सहसङ्कर्षणश्चक्रे भगवान्मधुसूदनः ६०।
कर्माणि अपरिमेयाणि मनसा अपि सुर-ईश्वरैः। सह सङ्कर्षणः चक्रे भगवान् मधुसूदनः।
karmāṇi aparimeyāṇi manasā api sura-īśvaraiḥ. saha saṅkarṣaṇaḥ cakre bhagavān madhusūdanaḥ.
कलौ जनिष्यमाणानां दुःखशोकतमोनुदम्। अनुग्रहाय भक्तानां सुपुण्यं व्यतनोद्यशः ६१।
कलौ जनिष्यमाणानाम् दुःख-शोक-तमोनुदम्। अनुग्रहाय भक्तानाम् सु पुण्यम् व्यतनोत् यशः।
kalau janiṣyamāṇānām duḥkha-śoka-tamonudam. anugrahāya bhaktānām su puṇyam vyatanot yaśaḥ.
यस्मिन्सत्कर्णपीयुषे यशस्तीर्थवरे सकृत्। श्रोत्राञ्जलिरुपस्पृश्य धुनुते कर्मवासनाम् ६२।
यस्मिन् सत्-कर्ण-पीयुषे यशः तीर्थ-वरे सकृत्। श्रोत्र-अञ्जलिः उपस्पृश्य धुनुते कर्म-वासनाम्।
yasmin sat-karṇa-pīyuṣe yaśaḥ tīrtha-vare sakṛt. śrotra-añjaliḥ upaspṛśya dhunute karma-vāsanām.
भोजवृष्ण्यन्धकमधु शूरसेनदशार्हकैः। श्लाघनीयेहितः शश्वत्कुरुसृञ्जयपाण्डुभिः ६३।
भोज-वृष्णि-अन्धक-मधु शूरसेन-दशार्हकैः। श्लाघनीय-ईहितः शश्वत् कुरु-सृञ्जय-पाण्डुभिः।
bhoja-vṛṣṇi-andhaka-madhu śūrasena-daśārhakaiḥ. ślāghanīya-īhitaḥ śaśvat kuru-sṛñjaya-pāṇḍubhiḥ.
स्निग्धस्मितेक्षितोदारैर्वाक्यैर्विक्रमलीलया। नृलोकं रमयामास मूर्त्या सर्वाङ्गरम्यया ६४।
स्निग्ध-स्मित-ईक्षित-उदारैः वाक्यैः विक्रम-लीलया। नृ-लोकम् रमयामास मूर्त्या सर्व-अङ्ग-रम्यया।
snigdha-smita-īkṣita-udāraiḥ vākyaiḥ vikrama-līlayā. nṛ-lokam ramayāmāsa mūrtyā sarva-aṅga-ramyayā.
यस्याननं मकरकुण्डलचारुकर्ण भ्राजत्कपोलसुभगं सविलासहासम्। नित्योत्सवं न ततृपुर्दृशिभिः पिबन्त्यो नार्यो नराश्च मुदिताः कुपिता निमेश्च ६५।
यस्य आननम् मकर-कुण्डल-चारु-कर्ण भ्राजत्-कपोल-सुभगम् स विलास-हासम्। नित्य-उत्सवम् न ततृपुः दृशिभिः पिबन्त्यः नार्यः नराः च मुदिताः कुपिताः निमेः च।
yasya ānanam makara-kuṇḍala-cāru-karṇa bhrājat-kapola-subhagam sa vilāsa-hāsam. nitya-utsavam na tatṛpuḥ dṛśibhiḥ pibantyaḥ nāryaḥ narāḥ ca muditāḥ kupitāḥ nimeḥ ca.
जातो गतः पितृगृहाद्व्रजमेधितार्थो हत्वा रिपून्सुतशतानि कृतोरुदारः। उत्पाद्य तेषु पुरुषः क्रतुभिः समीजे आत्मानमात्मनिगमं प्रथयन्जनेषु ६६।
जातः गतः पितृ-गृहात् व्रजम् एधित-अर्थः हत्वा रिपून् सुत-शतानि कृतोः उदारः। उत्पाद्य तेषु पुरुषः क्रतुभिः समीजे आत्मानम् आत्म-निगमम् प्रथयन् जनेषु।
jātaḥ gataḥ pitṛ-gṛhāt vrajam edhita-arthaḥ hatvā ripūn suta-śatāni kṛtoḥ udāraḥ. utpādya teṣu puruṣaḥ kratubhiḥ samīje ātmānam ātma-nigamam prathayan janeṣu.
पृथ्व्याः स वै गुरुभरं क्षपयन्कुरूणामन्तःसमुत्थकलिना युधि भूपचम्वः। दृष्ट्या विधूय विजये जयमुद्विघोष्य प्रोच्योद्धवाय च परं समगात्स्वधाम ६७।
पृथ्व्याः स वै गुरु-भरम् क्षपयन् कुरूणाम् अन्तर् समुत्थ-कलिना युधि भूप-चम्वः। दृष्ट्या विधूय विजये जयम् उद्विघोष्य प्रोच्य उद्धवाय च परम् समगात् स्व-धाम।
pṛthvyāḥ sa vai guru-bharam kṣapayan kurūṇām antar samuttha-kalinā yudhi bhūpa-camvaḥ. dṛṣṭyā vidhūya vijaye jayam udvighoṣya procya uddhavāya ca param samagāt sva-dhāma.
इति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्र्यां पारमहंस्यां संहितायां नवमस्कन्धे श्रीसूर्यसोमवंशानुकीर्तने यदुवंशानुकीर्तनं नाम चतुर्विंशोऽध्यायः।
इति श्रीमत्-भागवते महापुराणे वैयासिक्याम् अष्टादश-साहस्र्याम् पारमहंस्याम् संहितायाम् नवम-स्कन्धे श्री-सूर्यसोमवंशानुकीर्तने यदुवंशानुकीर्तनम् नाम चतुर्विंशः अध्यायः।
iti śrīmat-bhāgavate mahāpurāṇe vaiyāsikyām aṣṭādaśa-sāhasryām pāramahaṃsyām saṃhitāyām navama-skandhe śrī-sūryasomavaṃśānukīrtane yaduvaṃśānukīrtanam nāma caturviṃśaḥ adhyāyaḥ.
इति नवमः स्कन्धः समाप्तः।
इति नवमः स्कन्धः समाप्तः।
iti navamaḥ skandhaḥ samāptaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In