| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
शर्यातिर्मानवो राजा ब्रह्मिष्ठः संबभूव ह । यो वा अंगिरसां सत्रे द्वितीयं अह ऊचिवान् ॥ १ ॥
शर्यातिः मानवः राजा ब्रह्मिष्ठः संबभूव ह । यः वै अंगिरसाम् सत्रे द्वितीयम् अहर् ऊचिवान् ॥ १ ॥
śaryātiḥ mānavaḥ rājā brahmiṣṭhaḥ saṃbabhūva ha . yaḥ vai aṃgirasām satre dvitīyam ahar ūcivān .. 1 ..
सुकन्या नाम तस्यासीत् कन्या कमललोचना । तया सार्धं वनगतो हि अगमत् व्यवनाश्रमम् ॥ २ ॥
सुकन्या नाम तस्य आसीत् कन्या कमल-लोचना । तया सार्धम् वन-गतः हि अगमत् व्यवन-आश्रमम् ॥ २ ॥
sukanyā nāma tasya āsīt kanyā kamala-locanā . tayā sārdham vana-gataḥ hi agamat vyavana-āśramam .. 2 ..
सा सखीभिः परिवृता विचिन्वन्त्यंघ्रिपान् वने । वल्मीकरन्ध्रे ददृशे खद्योते इव ज्योतिषी ॥ ३ ॥
सा सखीभिः परिवृता विचिन्वन्ती अंघ्रिपान् वने । वल्मीक-रन्ध्रे ददृशे खद्योते इव ज्योतिषी ॥ ३ ॥
sā sakhībhiḥ parivṛtā vicinvantī aṃghripān vane . valmīka-randhre dadṛśe khadyote iva jyotiṣī .. 3 ..
ते दैवचोदिता बाला ज्योतिषी कण्टकेन वै । अविध्यन् मुग्धभावेन सुस्रावासृक् ततो बहिः ॥ ४ ॥
ते दैव-चोदिताः बालाः ज्योतिषी कण्टकेन वै । अविध्यत् मुग्ध-भावेन सुस्राव असृक् ततस् बहिस् ॥ ४ ॥
te daiva-coditāḥ bālāḥ jyotiṣī kaṇṭakena vai . avidhyat mugdha-bhāvena susrāva asṛk tatas bahis .. 4 ..
शकृत् मूत्रनिरोधोऽभूत् सैनिकानां च तत्क्षणात् । राजर्षिः तं उपालक्ष्य पुरुषान् विस्मितोऽब्रवीत् ॥ ५ ॥
शकृत् मूत्र-निरोधः अभूत् सैनिकानाम् च तद्-क्षणात् । राजर्षिः तम् उपालक्ष्य पुरुषान् विस्मितः अब्रवीत् ॥ ५ ॥
śakṛt mūtra-nirodhaḥ abhūt sainikānām ca tad-kṣaṇāt . rājarṣiḥ tam upālakṣya puruṣān vismitaḥ abravīt .. 5 ..
अप्यभद्रं न युष्माभिः भार्गवस्य विचेष्टितम् । व्यक्तं केनापि नस्तस्य कृतं आश्रमदूषणम् ॥ ६ ॥
अपि अभद्रम् न युष्माभिः भार्गवस्य विचेष्टितम् । व्यक्तम् केन अपि नः तस्य कृतम् आश्रम-दूषणम् ॥ ६ ॥
api abhadram na yuṣmābhiḥ bhārgavasya viceṣṭitam . vyaktam kena api naḥ tasya kṛtam āśrama-dūṣaṇam .. 6 ..
सुकन्या प्राह पितरं भीता किञ्चित् कृतं मया । द्वे ज्योतिषी अजानन्त्या निर्भिन्ने कण्टकेन वै ॥ ७ ॥
सुकन्या प्राह पितरम् भीता किञ्चिद् कृतम् मया । द्वे ज्योतिषी अ जानन्त्याः निर्भिन्ने कण्टकेन वै ॥ ७ ॥
sukanyā prāha pitaram bhītā kiñcid kṛtam mayā . dve jyotiṣī a jānantyāḥ nirbhinne kaṇṭakena vai .. 7 ..
दुहितुस्तद् वचः श्रुत्वा शर्यातिर्जातसाध्वसः । मुनिं प्रसादयामास वल्मीकान्तर्हितं शनैः ॥ ८ ॥
दुहितुः तत् वचः श्रुत्वा शर्यातिः जात-साध्वसः । मुनिम् प्रसादयामास वल्मीक-अन्तर्हितम् शनैस् ॥ ८ ॥
duhituḥ tat vacaḥ śrutvā śaryātiḥ jāta-sādhvasaḥ . munim prasādayāmāsa valmīka-antarhitam śanais .. 8 ..
तद् अभिप्रायमाज्ञाय प्रादाद् दुहितरं मुनेः । कृच्छ्रात् मुक्तः तमामंत्र्य पुरं प्रायात् समाहितः ॥ ९ ॥
तत् अभिप्रायम् आज्ञाय प्रादात् दुहितरम् मुनेः । कृच्छ्रात् मुक्तः तम् आमंत्र्य पुरम् प्रायात् समाहितः ॥ ९ ॥
tat abhiprāyam ājñāya prādāt duhitaram muneḥ . kṛcchrāt muktaḥ tam āmaṃtrya puram prāyāt samāhitaḥ .. 9 ..
सुकन्या च्यवनं प्राप्य पतिं परमकोपनम् । प्रीणयामास चित्तज्ञा अप्रमत्तानुवृत्तिभिः ॥ १० ॥
सुकन्या च्यवनम् प्राप्य पतिम् परम-कोपनम् । प्रीणयामास चित्त-ज्ञा अप्रमत्त-अनुवृत्तिभिः ॥ १० ॥
sukanyā cyavanam prāpya patim parama-kopanam . prīṇayāmāsa citta-jñā apramatta-anuvṛttibhiḥ .. 10 ..
कस्यचित् त्वथ कालस्य नासत्यावाश्रमागतौ । तौ पूजयित्वा प्रोवाच वयो मे दत्तमीश्वरौ ॥ ११ ॥
कस्यचिद् तु अथ कालस्य नासत्यौ आश्रम-आगतौ । तौ पूजयित्वा प्रोवाच वयः मे दत्तम् ईश्वरौ ॥ ११ ॥
kasyacid tu atha kālasya nāsatyau āśrama-āgatau . tau pūjayitvā provāca vayaḥ me dattam īśvarau .. 11 ..
ग्रहं ग्रहीष्ये सोमस्य यज्ञे वामप्यसोमपोः । क्रियतां मे वयो रूपं प्रमदानां यदीप्सितम् ॥ १२ ॥
ग्रहम् ग्रहीष्ये सोमस्य यज्ञे वाम् अप्य-सोमपोः । क्रियताम् मे वयः रूपम् प्रमदानाम् यत् ईप्सितम् ॥ १२ ॥
graham grahīṣye somasya yajñe vām apya-somapoḥ . kriyatām me vayaḥ rūpam pramadānām yat īpsitam .. 12 ..
बाढं इति ऊचतुर्विप्रं अभिनन्द्य भिषक्तमौ । निमज्जतां भवान् अस्मिन् ह्रदे सिद्धविनिर्मिते ॥ १३ ॥
बाढम् इति ऊचतुः विप्रम् अभिनन्द्य भिषक्तमौ । निमज्जताम् भवान् अस्मिन् ह्रदे सिद्ध-विनिर्मिते ॥ १३ ॥
bāḍham iti ūcatuḥ vipram abhinandya bhiṣaktamau . nimajjatām bhavān asmin hrade siddha-vinirmite .. 13 ..
इत्युक्त्वा जरया ग्रस्त देहो धमनिसन्ततः । ह्रदं प्रवेशितोऽश्विभ्यां वलीपलित विप्रियः ॥ १४ ॥
इति उक्त्वा जरया देहः धमनि-सन्ततः । ह्रदम् प्रवेशितः अश्विभ्याम् वली-पलित विप्रियः ॥ १४ ॥
iti uktvā jarayā dehaḥ dhamani-santataḥ . hradam praveśitaḥ aśvibhyām valī-palita vipriyaḥ .. 14 ..
पुरुषास्त्रय उत्तस्थुः अपीव्या वनिताप्रियाः । पद्मस्रजः कुण्डलिनः तुल्यरूपाः सुवाससः ॥ १५ ॥
पुरुषाः त्रयः उत्तस्थुः वनिता-प्रियाः । पद्म-स्रजः कुण्डलिनः तुल्य-रूपाः सु वाससः ॥ १५ ॥
puruṣāḥ trayaḥ uttasthuḥ vanitā-priyāḥ . padma-srajaḥ kuṇḍalinaḥ tulya-rūpāḥ su vāsasaḥ .. 15 ..
तान् निरीक्ष्य वरारोहा सरूपान् सूर्यवर्चसः । अजानती पतिं साध्वी अश्विनौ शरणं ययौ ॥ १६ ॥
तान् निरीक्ष्य वरारोहा सरूपान् सूर्य-वर्चसः । अ जानती पतिम् साध्वी अश्विनौ शरणम् ययौ ॥ १६ ॥
tān nirīkṣya varārohā sarūpān sūrya-varcasaḥ . a jānatī patim sādhvī aśvinau śaraṇam yayau .. 16 ..
दर्शयित्वा पतिं तस्यै पातिव्रत्येन तोषितौ । ऋषिमामन्त्र्य ययतुः विमानेन त्रिविष्टपम् ॥ १७ ॥
दर्शयित्वा पतिम् तस्यै पातिव्रत्येन तोषितौ । ऋषिम् आमन्त्र्य ययतुः विमानेन त्रिविष्टपम् ॥ १७ ॥
darśayitvā patim tasyai pātivratyena toṣitau . ṛṣim āmantrya yayatuḥ vimānena triviṣṭapam .. 17 ..
यक्ष्यमाणोऽथ शर्यातिः च्यवनस्याश्रमं गतः । ददर्श दुहितुः पार्श्वे पुरुषं सूर्यवर्चसम् ॥ १८ ॥
यक्ष्यमाणः अथ शर्यातिः च्यवनस्य आश्रमम् गतः । ददर्श दुहितुः पार्श्वे पुरुषम् सूर्य-वर्चसम् ॥ १८ ॥
yakṣyamāṇaḥ atha śaryātiḥ cyavanasya āśramam gataḥ . dadarśa duhituḥ pārśve puruṣam sūrya-varcasam .. 18 ..
राजा दुहितरं प्राह कृतपादाभिवन्दनाम् । आशिषश्चाप्रयुञ्जानो नातिप्रीतिमना इव ॥ १९ ॥
राजा दुहितरम् प्राह कृत-पाद-अभिवन्दनाम् । आशिषः च अ प्रयुञ्जानः न अति प्रीति-मनाः इव ॥ १९ ॥
rājā duhitaram prāha kṛta-pāda-abhivandanām . āśiṣaḥ ca a prayuñjānaḥ na ati prīti-manāḥ iva .. 19 ..
चिकीर्षितं ते किमिदं पतिस्त्वया प्रलम्भितो लोकनमस्कृतो मुनिः । यत्त्वं जराग्रस्तमसत्यसम्मतं विहाय जारं भजसेऽमुमध्वगम् ॥ २० ॥
चिकीर्षितम् ते किम् इदम् पतिः त्वया प्रलम्भितः लोक-नमस्कृतः मुनिः । यत् त्वम् जरा-ग्रस्तम् असत्य-सम्मतम् विहाय जारम् भजसे अमुम् अध्वगम् ॥ २० ॥
cikīrṣitam te kim idam patiḥ tvayā pralambhitaḥ loka-namaskṛtaḥ muniḥ . yat tvam jarā-grastam asatya-sammatam vihāya jāram bhajase amum adhvagam .. 20 ..
कथं मतिस्तेऽवगतान्यथा सतां कुलप्रसूते कुलदूषणं त्विदम् । बिभर्षि जारं यदपत्रपा कुलं पितुश्च भर्तुश्च नयस्यधस्तमः ॥ २१ ॥
कथम् मतिः ते अवगता अन्यथा सताम् कुल-प्रसूते कुल-दूषणम् तु इदम् । बिभर्षि जारम् यत् अपत्रपा कुलम् पितुः च भर्तुः च नयसि अधस्तमः ॥ २१ ॥
katham matiḥ te avagatā anyathā satām kula-prasūte kula-dūṣaṇam tu idam . bibharṣi jāram yat apatrapā kulam pituḥ ca bhartuḥ ca nayasi adhastamaḥ .. 21 ..
एवं ब्रुवाणं पितरं स्मयमाना शुचिस्मिता । उवाच तात जामाता तवैष भृगुनन्दनः ॥ २२ ॥
एवम् ब्रुवाणम् पितरम् स्मयमाना शुचि-स्मिता । उवाच तात जामाता तव एष भृगुनन्दनः ॥ २२ ॥
evam bruvāṇam pitaram smayamānā śuci-smitā . uvāca tāta jāmātā tava eṣa bhṛgunandanaḥ .. 22 ..
शशंस पित्रे तत् सर्वं वयोरूपाभिलम्भनम् । विस्मितः परमप्रीतः तनयां परिषस्वजे ॥ २३ ॥
शशंस पित्रे तत् सर्वम् वयः-रूप-अभिलम्भनम् । विस्मितः परम-प्रीतः तनयाम् परिषस्वजे ॥ २३ ॥
śaśaṃsa pitre tat sarvam vayaḥ-rūpa-abhilambhanam . vismitaḥ parama-prītaḥ tanayām pariṣasvaje .. 23 ..
सोमेन याजयन् वीरं ग्रहं सोमस्य चाग्रहीत् । असोमपोः अपि अश्विनोः च्यवनः स्वेन तेजसा ॥ २४ ॥
सोमेन याजयन् वीरम् ग्रहम् सोमस्य च अग्रहीत् । असोमपोः अपि अश्विनोः च्यवनः स्वेन तेजसा ॥ २४ ॥
somena yājayan vīram graham somasya ca agrahīt . asomapoḥ api aśvinoḥ cyavanaḥ svena tejasā .. 24 ..
हन्तुं तमाददे वज्रं सद्यो मन्युरमर्षितः । सवज्रं स्तम्भयामास भुजं इन्द्रस्य भार्गवः ॥ २५ ॥
हन्तुम् तम् आददे वज्रम् सद्यस् मन्युः अमर्षितः । स वज्रम् स्तम्भयामास भुजम् इन्द्रस्य भार्गवः ॥ २५ ॥
hantum tam ādade vajram sadyas manyuḥ amarṣitaḥ . sa vajram stambhayāmāsa bhujam indrasya bhārgavaḥ .. 25 ..
अन्वजानन् ततः सर्वे ग्रहं सोमस्य चाश्विनोः । भिषजाविति यत् पूर्वं सोमाहुत्या बहिष्कृतौ ॥ २६ ॥
अन्वजानन् ततस् सर्वे ग्रहम् सोमस्य च अश्विनोः । भिषजौ इति यत् पूर्वम् सोम-आहुत्या बहिष्कृतौ ॥ २६ ॥
anvajānan tatas sarve graham somasya ca aśvinoḥ . bhiṣajau iti yat pūrvam soma-āhutyā bahiṣkṛtau .. 26 ..
उत्तानबर्हिरानर्तो भूरिषेण इति त्रयः । शर्यातेरभवन् पुत्रा आनर्ताद् रेवतोऽभवत् ॥ २७ ॥
उत्तान-बर्हिः आनर्तः भूरिषेणः इति त्रयः । शर्यातेः अभवन् पुत्राः आनर्तात् रेवतः अभवत् ॥ २७ ॥
uttāna-barhiḥ ānartaḥ bhūriṣeṇaḥ iti trayaḥ . śaryāteḥ abhavan putrāḥ ānartāt revataḥ abhavat .. 27 ..
सोऽन्तःसमुद्रे नगरीं विनिर्माय कुशस्थलीम् । आस्थितोऽभुङ्क्त विषयान् आनर्तादीन् अरिन्दम ॥ २८ ॥
सः अन्तर् समुद्रे नगरीम् विनिर्माय कुशस्थलीम् । आस्थितः अभुङ्क्त विषयान् आनर्त-आदीन् अरिन्दम ॥ २८ ॥
saḥ antar samudre nagarīm vinirmāya kuśasthalīm . āsthitaḥ abhuṅkta viṣayān ānarta-ādīn arindama .. 28 ..
तस्य पुत्रशतं जज्ञे ककुद्मि ज्येष्ठमुत्तमम् । ककुद्मी रेवतीं कन्यां स्वां आदाय विभुं गतः ॥ २९ ॥
तस्य पुत्र-शतम् जज्ञे ककुद्मि ज्येष्ठम् उत्तमम् । ककुद्मी रेवतीम् कन्याम् स्वाम् आदाय विभुम् गतः ॥ २९ ॥
tasya putra-śatam jajñe kakudmi jyeṣṭham uttamam . kakudmī revatīm kanyām svām ādāya vibhum gataḥ .. 29 ..
पुत्र्या वरं परिप्रष्टुं ब्रह्मलोकं अपावृतम् । आवर्तमाने गान्धर्वे स्थितोऽलब्धक्षणः क्षणम् ॥ ३० ॥
पुत्र्याः वरम् परिप्रष्टुम् ब्रह्म-लोकम् अपावृतम् । आवर्तमाने गान्धर्वे स्थितः अलब्ध-क्षणः क्षणम् ॥ ३० ॥
putryāḥ varam paripraṣṭum brahma-lokam apāvṛtam . āvartamāne gāndharve sthitaḥ alabdha-kṣaṇaḥ kṣaṇam .. 30 ..
तदन्त आद्यमानम्य स्वाभिप्रायं न्यवेदयत् । तत् श्रुत्वा भगवान् ब्रह्मा प्रहस्य तमुवाच ह ॥ ३१ ॥
तद्-अन्ते आद्यम् आनम्य स्व-अभिप्रायम् न्यवेदयत् । तत् श्रुत्वा भगवान् ब्रह्मा प्रहस्य तम् उवाच ह ॥ ३१ ॥
tad-ante ādyam ānamya sva-abhiprāyam nyavedayat . tat śrutvā bhagavān brahmā prahasya tam uvāca ha .. 31 ..
अहो राजन् निरुद्धास्ते कालेन हृदि ये कृताः । तत्पुत्रपौत्र नप्तॄणां गोत्राणि च न श्रृण्महे ॥ ३२ ॥
अहो राजन् निरुद्धाः ते कालेन हृदि ये कृताः । तद्-पुत्र-पौत्र नप्तॄणाम् गोत्राणि च न श्रृण्महे ॥ ३२ ॥
aho rājan niruddhāḥ te kālena hṛdi ye kṛtāḥ . tad-putra-pautra naptṝṇām gotrāṇi ca na śrṛṇmahe .. 32 ..
कालोऽभियातस्त्रिणव चतुर्युगविकल्पितः । तद्गच्छ देवदेवांशो बलदेवो महाबलः ॥ ३३ ॥
कालः अभियातः त्रिणव चतुर्-युग-विकल्पितः । तत् गच्छ देवदेव-अंशः बलदेवः महा-बलः ॥ ३३ ॥
kālaḥ abhiyātaḥ triṇava catur-yuga-vikalpitaḥ . tat gaccha devadeva-aṃśaḥ baladevaḥ mahā-balaḥ .. 33 ..
कन्यारत्नमिदं राजन् नररत्नाय देहि भोः । भुवो भारावताराय भगवान् भूतभावनः ॥ ३४ ॥
कन्या-रत्नम् इदम् राजन् नर-रत्नाय देहि भोः । भुवः भार-अवताराय भगवान् भूतभावनः ॥ ३४ ॥
kanyā-ratnam idam rājan nara-ratnāya dehi bhoḥ . bhuvaḥ bhāra-avatārāya bhagavān bhūtabhāvanaḥ .. 34 ..
अवतीर्णो निजांशेन पुण्यश्रवणकीर्तनः । इत्यादिष्टोऽभिवन्द्याजं नृपः स्वपुरमागतः । त्यक्तं पुण्यजनत्रासाद्भ्रातृभिर्दिक्ष्ववस्थितैः ॥ ३५ ॥
अवतीर्णः निज-अंशेन पुण्य-श्रवण-कीर्तनः । इति आदिष्टः अभिवन्द्य आजम् नृपः स्व-पुरम् आगतः । त्यक्तम् पुण्यजन-त्रासात् भ्रातृभिः दिक्षु अवस्थितैः ॥ ३५ ॥
avatīrṇaḥ nija-aṃśena puṇya-śravaṇa-kīrtanaḥ . iti ādiṣṭaḥ abhivandya ājam nṛpaḥ sva-puram āgataḥ . tyaktam puṇyajana-trāsāt bhrātṛbhiḥ dikṣu avasthitaiḥ .. 35 ..
सुतां दत्त्वानवद्याङ्गीं बलाय बलशालिने । बदर्याख्यं गतो राजा तप्तुं नारायणाश्रमम् ॥ ३६ ॥
सुताम् दत्त्वा अनवद्य-अङ्गीम् बलाय बल-शालिने । बदरी-आख्यम् गतः राजा तप्तुम् नारायण-आश्रमम् ॥ ३६ ॥
sutām dattvā anavadya-aṅgīm balāya bala-śāline . badarī-ākhyam gataḥ rājā taptum nārāyaṇa-āśramam .. 36 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे तृतीयोऽध्यायः ॥ ३ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् नवम-स्कन्धे तृतीयः अध्यायः ॥ ३ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām navama-skandhe tṛtīyaḥ adhyāyaḥ .. 3 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In