| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

नभगवंशवर्णनं नाभागचरितम्, अंबरीषोपाख्यानं दुर्वासः पलायनं च -
नभग-वंश-वर्णनम् नाभाग-चरितम्, अंबरीष-उपाख्यानम् दुर्वासः पलायनम् च
nabhaga-vaṃśa-varṇanam nābhāga-caritam, aṃbarīṣa-upākhyānam durvāsaḥ palāyanam ca
नाभागो नभगापत्यं यं ततं भ्रातरः कविम् । यविष्ठं व्यभजन् दायं ब्रह्मचारिणमागतम् ॥ १ ॥
नाभागः नभग-अपत्यम् यम् ततम् भ्रातरः कविम् । यविष्ठम् व्यभजन् दायम् ब्रह्मचारिणम् आगतम् ॥ १ ॥
nābhāgaḥ nabhaga-apatyam yam tatam bhrātaraḥ kavim . yaviṣṭham vyabhajan dāyam brahmacāriṇam āgatam .. 1 ..
भ्रातरोऽभाङ्क्त किं मह्यं भजाम पितरं तव । त्वां ममार्यास्तताभाङ्क्षुः मा पुत्रक तदादृथाः ॥ २ ॥
भ्रातरः अभाङ्क्त किम् मह्यम् भजाम पितरम् तव । त्वाम् मम आर्याः तत अभाङ्क्षुः मा पुत्रक तत् आदृथाः ॥ २ ॥
bhrātaraḥ abhāṅkta kim mahyam bhajāma pitaram tava . tvām mama āryāḥ tata abhāṅkṣuḥ mā putraka tat ādṛthāḥ .. 2 ..
इमे अंगिरसः सत्रं आसतेऽद्य सुमेधसः । षष्ठं षष्ठं उपेत्याहः कवे मुह्यन्ति कर्मणि ॥ ३ ॥
इमे अंगिरसः सत्रम् आसते अद्य सुमेधसः । षष्ठम् षष्ठम् उपेत्य अहर् कवे मुह्यन्ति कर्मणि ॥ ३ ॥
ime aṃgirasaḥ satram āsate adya sumedhasaḥ . ṣaṣṭham ṣaṣṭham upetya ahar kave muhyanti karmaṇi .. 3 ..
तांन् त्वं शंसय सूक्ते द्वे वैश्वदेवे महात्मनः । ते स्वर्यन्तो धनं सत्र परिशेषितमात्मनः ॥ ४ ॥
तान् त्वम् शंसय सूक्ते द्वे वैश्वदेवे महात्मनः । ते स्वर् यन्तः धनम् सत्र परिशेषितम् आत्मनः ॥ ४ ॥
tān tvam śaṃsaya sūkte dve vaiśvadeve mahātmanaḥ . te svar yantaḥ dhanam satra pariśeṣitam ātmanaḥ .. 4 ..
दास्यन्ति तेऽथ तान् गच्छ तथा स कृतवान् यथा । तस्मै दत्त्वा ययुः स्वर्गं ते सत्रपरिशेषणम् ॥ ५ ॥
दास्यन्ति ते अथ तान् गच्छ तथा स कृतवान् यथा । तस्मै दत्त्वा ययुः स्वर्गम् ते सत्र-परिशेषणम् ॥ ५ ॥
dāsyanti te atha tān gaccha tathā sa kṛtavān yathā . tasmai dattvā yayuḥ svargam te satra-pariśeṣaṇam .. 5 ..
तं कश्चित् स्वीकरिष्यन्तं पुरुषः कृष्णदर्शनः । उवाचोत्तरतोऽभ्येत्य ममेदं वास्तुकं वसु ॥ ६ ॥
तम् कश्चिद् स्वीकरिष्यन्तम् पुरुषः कृष्ण-दर्शनः । उवाच उत्तरतस् अभ्येत्य मम इदम् वास्तुकम् वसु ॥ ६ ॥
tam kaścid svīkariṣyantam puruṣaḥ kṛṣṇa-darśanaḥ . uvāca uttaratas abhyetya mama idam vāstukam vasu .. 6 ..
ममेदं ऋषिभिः दत्तं इति तर्हि स्म मानवः । स्यान्नौ ते पितरि प्रश्नः पृष्टवान् पितरं यथा ॥ ७ ॥
मम इदम् ऋषिभिः दत्तम् इति तर्हि स्म मानवः । स्यात् नौ ते पितरि प्रश्नः पृष्टवान् पितरम् यथा ॥ ७ ॥
mama idam ṛṣibhiḥ dattam iti tarhi sma mānavaḥ . syāt nau te pitari praśnaḥ pṛṣṭavān pitaram yathā .. 7 ..
यज्ञवास्तुगतं सर्वं उच्छिष्टं ऋषयः क्वचित् । चक्रुर्विभागं रुद्राय स देवः सर्वमर्हति ॥ ८ ॥
यज्ञ-वास्तु-गतम् सर्वम् उच्छिष्टम् ऋषयः क्वचिद् । चक्रुः विभागम् रुद्राय स देवः सर्वम् अर्हति ॥ ८ ॥
yajña-vāstu-gatam sarvam ucchiṣṭam ṛṣayaḥ kvacid . cakruḥ vibhāgam rudrāya sa devaḥ sarvam arhati .. 8 ..
नाभागस्तं प्रणम्याह तवेश किल वास्तुकम् । इत्याह मे पिता ब्रह्मन् शिरसा त्वां प्रसादये ॥ ९ ॥
नाभागः तम् प्रणम्य आह तव ईश किल वास्तुकम् । इति आह मे पिता ब्रह्मन् शिरसा त्वाम् प्रसादये ॥ ९ ॥
nābhāgaḥ tam praṇamya āha tava īśa kila vāstukam . iti āha me pitā brahman śirasā tvām prasādaye .. 9 ..
यत् ते पितावदद् धर्मं त्वं च सत्यं प्रभाषसे । ददामि ते मन्त्रदृशे ज्ञानं ब्रह्म सनातनम् ॥ १० ॥
यत् ते पिता अवदत् धर्मम् त्वम् च सत्यम् प्रभाषसे । ददामि ते मन्त्र-दृशे ज्ञानम् ब्रह्म सनातनम् ॥ १० ॥
yat te pitā avadat dharmam tvam ca satyam prabhāṣase . dadāmi te mantra-dṛśe jñānam brahma sanātanam .. 10 ..
गृहाण द्रविणं दत्तं मत्सत्रे परिशेषितम् । इत्युक्त्वान्तर्हितो रुद्रो भगवान् सत्यवत्सलः ॥ ११ ॥
गृहाण द्रविणम् दत्तम् मद्-सत्रे परिशेषितम् । इति उक्त्वा अन्तर्हितः रुद्रः भगवान् सत्य-वत्सलः ॥ ११ ॥
gṛhāṇa draviṇam dattam mad-satre pariśeṣitam . iti uktvā antarhitaḥ rudraḥ bhagavān satya-vatsalaḥ .. 11 ..
य एतत् संस्मरेत् प्रातः सायं च सुसमाहितः । कविर्भवति मंत्रज्ञो गतिं चैव तथाऽऽत्मनः ॥ १२ ॥
यः एतत् संस्मरेत् प्रातर् सायम् च सु समाहितः । कविः भवति मंत्र-ज्ञः गतिम् च एव तथा आत्मनः ॥ १२ ॥
yaḥ etat saṃsmaret prātar sāyam ca su samāhitaḥ . kaviḥ bhavati maṃtra-jñaḥ gatim ca eva tathā ātmanaḥ .. 12 ..
नाभागाद् अंबरीषोऽभूत् महाभागवतः कृती । नास्पृशद् ब्रह्मशापोऽपि यं न प्रतिहतः क्वचित् ॥ १३ ॥
नाभागात् अंबरीषः अभूत् महा-भागवतः कृती । न अस्पृशत् ब्रह्म-शापः अपि यम् न प्रतिहतः क्वचिद् ॥ १३ ॥
nābhāgāt aṃbarīṣaḥ abhūt mahā-bhāgavataḥ kṛtī . na aspṛśat brahma-śāpaḥ api yam na pratihataḥ kvacid .. 13 ..
श्रीराजोवाच ।
भगवन् श्रोतुमिच्छामि राजर्षेः तस्य धीमतः । न प्राभूद् यत्र निर्मुक्तो ब्रह्मदण्डो दुरत्ययः ॥ १४ ॥
भगवन् श्रोतुम् इच्छामि राजर्षेः तस्य धीमतः । न प्राभूत् यत्र निर्मुक्तः ब्रह्मदण्डः दुरत्ययः ॥ १४ ॥
bhagavan śrotum icchāmi rājarṣeḥ tasya dhīmataḥ . na prābhūt yatra nirmuktaḥ brahmadaṇḍaḥ duratyayaḥ .. 14 ..
श्रीशुक उवाच ।
अंबरीषो महाभागः सप्तद्वीपवतीं महीम् । अव्ययां च श्रियं लब्ध्वा विभवं चातुलं भुवि ॥ १५ ॥*
अंबरीषः महाभागः सप्त-द्वीपवतीम् महीम् । अव्ययाम् च श्रियम् लब्ध्वा विभवम् च अतुलम् भुवि ॥ १५ ॥
aṃbarīṣaḥ mahābhāgaḥ sapta-dvīpavatīm mahīm . avyayām ca śriyam labdhvā vibhavam ca atulam bhuvi .. 15 ..
मेनेऽतिदुर्लभं पुंसां सर्वं तत् स्वप्नसंस्तुतम् । विद्वान् विभवनिर्वाणं तमो विशति यत् पुमान् ॥ १६ ॥
मेने अति दुर्लभम् पुंसाम् सर्वम् तत् स्वप्न-संस्तुतम् । विद्वान् विभव-निर्वाणम् तमः विशति यत् पुमान् ॥ १६ ॥
mene ati durlabham puṃsām sarvam tat svapna-saṃstutam . vidvān vibhava-nirvāṇam tamaḥ viśati yat pumān .. 16 ..
वासुदेवे भगवति तद्भक्तेषु च साधुषु । प्राप्तो भावं परं विश्वं येनेदं लोष्टवत् स्मृतम् ॥ १७ ॥
वासुदेवे भगवति तद्-भक्तेषु च साधुषु । प्राप्तः भावम् परम् विश्वम् येन इदम् लोष्ट-वत् स्मृतम् ॥ १७ ॥
vāsudeve bhagavati tad-bhakteṣu ca sādhuṣu . prāptaḥ bhāvam param viśvam yena idam loṣṭa-vat smṛtam .. 17 ..
स वै मनः कृष्णपदारविन्दयोः वचांसि वैकुण्ठगुणानुवर्णने । करौ हरेर्मन्दिरमार्जनादिषु श्रुतिं चकाराच्युतसत्कथोदये ॥ १८ ॥
स वै मनः कृष्ण-पद-अरविन्दयोः वचांसि वैकुण्ठ-गुण-अनुवर्णने । करौ हरेः मन्दिर-मार्जन-आदिषु श्रुतिम् चकार अच्युत-सत्-कथा-उदये ॥ १८ ॥
sa vai manaḥ kṛṣṇa-pada-aravindayoḥ vacāṃsi vaikuṇṭha-guṇa-anuvarṇane . karau hareḥ mandira-mārjana-ādiṣu śrutim cakāra acyuta-sat-kathā-udaye .. 18 ..
मुकुन्दलिंगालयदर्शने दृशौ तद्भृत्यगात्रस्पर्शेङ्गसंगमम् । घ्राणं च तत्पादसरोजसौरभे श्रीमत् तुलस्या रसनां तदर्पिते ॥ १९ ॥
मुकुन्द-लिंग-आलय-दर्शने दृशौ तद्-भृत्य-गात्र-स्पर्श-इङ्ग-संगमम् । घ्राणम् च तद्-पाद-सरोज-सौरभे श्रीमत् तुलस्याः रसनाम् तद्-अर्पिते ॥ १९ ॥
mukunda-liṃga-ālaya-darśane dṛśau tad-bhṛtya-gātra-sparśa-iṅga-saṃgamam . ghrāṇam ca tad-pāda-saroja-saurabhe śrīmat tulasyāḥ rasanām tad-arpite .. 19 ..
पादौ हरेः क्षेत्रपदानुसर्पणे शिरो हृषीकेश पदाभिवन्दने । कामं च दास्ये न तु कामकाम्यया यथोत्तमश्लोक जनाश्रया रतिः ॥ २० ॥
पादौ हरेः क्षेत्र-पद-अनुसर्पणे शिरः हृषीकेश पद-अभिवन्दने । कामम् च दास्ये न तु काम-काम्यया यथा उत्तमश्लोक जन-आश्रया रतिः ॥ २० ॥
pādau hareḥ kṣetra-pada-anusarpaṇe śiraḥ hṛṣīkeśa pada-abhivandane . kāmam ca dāsye na tu kāma-kāmyayā yathā uttamaśloka jana-āśrayā ratiḥ .. 20 ..
एवं सदा कर्मकलापमात्मनः परेऽधियज्ञे भगवत्यधोक्षजे । सर्वात्मभावं विदधन्महीमिमां तन्निष्ठविप्राभिहितः शशास ह ॥ २१ ॥
एवम् सदा कर्म-कलापम् आत्मनः परे अधियज्ञे भगवति अधोक्षजे । सर्व-आत्म-भावम् विदधन् महीम् इमाम् तद्-निष्ठ-विप्र-अभिहितः शशास ह ॥ २१ ॥
evam sadā karma-kalāpam ātmanaḥ pare adhiyajñe bhagavati adhokṣaje . sarva-ātma-bhāvam vidadhan mahīm imām tad-niṣṭha-vipra-abhihitaḥ śaśāsa ha .. 21 ..
ईजेऽश्वमेधैरधियज्ञमीश्वरं महाविभूत्योपचितांगदक्षिणैः । ततैर्वसिष्ठासितगौतमादिभिः धन्वन्यभिस्रोतमसौ सरस्वतीम् ॥ २२ ॥
ईजे अश्वमेधैः अधियज्ञम् ईश्वरम् महा-विभूत्या उपचित-अंग-दक्षिणैः । ततैः वसिष्ठ-असित-गौतम-आदिभिः धन्वनि अभिस्रोतम् असौ सरस्वतीम् ॥ २२ ॥
īje aśvamedhaiḥ adhiyajñam īśvaram mahā-vibhūtyā upacita-aṃga-dakṣiṇaiḥ . tataiḥ vasiṣṭha-asita-gautama-ādibhiḥ dhanvani abhisrotam asau sarasvatīm .. 22 ..
यस्य क्रतुषु गीर्वाणैः सदस्या ऋत्विजो जनाः । तुल्यरूपाः चानिमिषा व्यदृश्यन्त सुवाससः ॥ २३ ॥
यस्य क्रतुषु गीर्वाणैः सदस्याः ऋत्विजः जनाः । तुल्य-रूपाः च अनिमिषाः व्यदृश्यन्त सु वाससः ॥ २३ ॥
yasya kratuṣu gīrvāṇaiḥ sadasyāḥ ṛtvijaḥ janāḥ . tulya-rūpāḥ ca animiṣāḥ vyadṛśyanta su vāsasaḥ .. 23 ..
स्वर्गो न प्रार्थितो यस्य मनुजैः अमरप्रियः । श्रृण्वद्भिः उपगायद्भिः उत्तमश्लोकचेष्टितम् ॥ २४ ॥
स्वर्गः न प्रार्थितः यस्य मनुजैः अमर-प्रियः । श्रृण्वद्भिः उपगायद्भिः उत्तमश्लोक-चेष्टितम् ॥ २४ ॥
svargaḥ na prārthitaḥ yasya manujaiḥ amara-priyaḥ . śrṛṇvadbhiḥ upagāyadbhiḥ uttamaśloka-ceṣṭitam .. 24 ..
समर्द्धयन्ति तान् कामाः स्वाराज्यपरिभाविताः । दुर्लभा नापि सिद्धानां मुकुन्दं हृदि पश्यतः ॥ २५ ॥
समर्द्धयन्ति तान् कामाः स्वाराज्य-परिभाविताः । दुर्लभा ना अपि सिद्धानाम् मुकुन्दम् हृदि पश्यतः ॥ २५ ॥
samarddhayanti tān kāmāḥ svārājya-paribhāvitāḥ . durlabhā nā api siddhānām mukundam hṛdi paśyataḥ .. 25 ..
स इत्थं भक्तियोगेन तपोयुक्तेन पार्थिवः । स्वधर्मेण हरिं प्रीणन् संगान् सर्वान् शनैर्जहौ ॥ २६ ॥
सः इत्थम् भक्ति-योगेन तपः-युक्तेन पार्थिवः । स्वधर्मेण हरिम् प्रीणन् संगान् सर्वान् शनैस् जहौ ॥ २६ ॥
saḥ ittham bhakti-yogena tapaḥ-yuktena pārthivaḥ . svadharmeṇa harim prīṇan saṃgān sarvān śanais jahau .. 26 ..
गृहेषु दारेषु सुतेषु बन्धुषु द्विपोत्तमस्यन्दन वाजिवस्तुषु । अक्षय्यरत्नाभरणाम्बरादिषु अनन्तकोशेषु अकरोत् असन् मतिम् ॥ २७ ॥
गृहेषु दारेषु सुतेषु बन्धुषु द्विप-उत्तम-स्यन्दन-वाजि-वस्तुषु । अक्षय्य-रत्न-आभरण-अम्बर-आदिषु अनन्त-कोशेषु अकरोत् असत् मतिम् ॥ २७ ॥
gṛheṣu dāreṣu suteṣu bandhuṣu dvipa-uttama-syandana-vāji-vastuṣu . akṣayya-ratna-ābharaṇa-ambara-ādiṣu ananta-kośeṣu akarot asat matim .. 27 ..
तस्मा अदाद् हरिश्चक्रं प्रत्यनीक-भयावहम् । एकान्तभक्तिभावेन प्रीतो भृत्याभिरक्षणम् ॥ २८ ॥
तस्मै अदात् हरिः चक्रम् प्रत्यनीक-भय-आवहम् । एकान्त-भक्ति-भावेन प्रीतः भृत्य-अभिरक्षणम् ॥ २८ ॥
tasmai adāt hariḥ cakram pratyanīka-bhaya-āvaham . ekānta-bhakti-bhāvena prītaḥ bhṛtya-abhirakṣaṇam .. 28 ..
आरिराधयिषुः कृष्णं महिष्या तुल्यशीलया । युक्तः सांवत्सरं वीरो दधार द्वादशीव्रतम् ॥ २९ ॥
आरिराधयिषुः कृष्णम् महिष्या तुल्य-शीलया । युक्तः सांवत्सरम् वीरः दधार द्वादशीव्रतम् ॥ २९ ॥
ārirādhayiṣuḥ kṛṣṇam mahiṣyā tulya-śīlayā . yuktaḥ sāṃvatsaram vīraḥ dadhāra dvādaśīvratam .. 29 ..
व्रतान्ते कार्तिके मासि त्रिरात्रं समुपोषितः । स्नातः कदाचित् कालिन्द्यां हरिं मधुवनेऽर्चयत् ॥ ३० ॥
व्रत-अन्ते कार्तिके मासि त्रि-रात्रम् समुपोषितः । स्नातः कदाचिद् कालिन्द्याम् हरिम् मधुवने अर्चयत् ॥ ३० ॥
vrata-ante kārtike māsi tri-rātram samupoṣitaḥ . snātaḥ kadācid kālindyām harim madhuvane arcayat .. 30 ..
महाभिषेकविधिना सर्वोपस्करसम्पदा । अभिषिच्याम्बराकल्पैः गन्धमाल्यार्हणादिभिः ॥ ३१ ॥
महा-अभिषेक-विधिना सर्व-उपस्कर-सम्पदा । अभिषिच्य अम्बर-आकल्पैः गन्ध-माल्य-अर्हण-आदिभिः ॥ ३१ ॥
mahā-abhiṣeka-vidhinā sarva-upaskara-sampadā . abhiṣicya ambara-ākalpaiḥ gandha-mālya-arhaṇa-ādibhiḥ .. 31 ..
तद्गतान्तरभावेन पूजयामास केशवम् । ब्राह्मणांश्च महाभागान् सिद्धार्थानपि भक्तितः ॥ ३२ ॥
तद्-गत-अन्तर-भावेन पूजयामास केशवम् । ब्राह्मणान् च महाभागान् सिद्धार्थान् अपि भक्तितः ॥ ३२ ॥
tad-gata-antara-bhāvena pūjayāmāsa keśavam . brāhmaṇān ca mahābhāgān siddhārthān api bhaktitaḥ .. 32 ..
गवां रुक्मविषाणीनां रूप्याङ्घ्रीणां सुवाससाम् । पयःशीलवयोरूप वत्सोपस्करसंपदाम् ॥ ३३ ॥
गवाम् रुक्म-विषाणीनाम् रूप्य-अङ्घ्रीणाम् सु वाससाम् । वत्स-उपस्कर-संपदाम् ॥ ३३ ॥
gavām rukma-viṣāṇīnām rūpya-aṅghrīṇām su vāsasām . vatsa-upaskara-saṃpadām .. 33 ..
प्राहिणोत् साधुविप्रेभ्यो गृहेषु न्यर्बुदानि षट् । भोजयित्वा द्विजानग्रे स्वाद्वन्नं गुणवत्तमम् ॥ ३४ ॥
प्राहिणोत् साधु-विप्रेभ्यः गृहेषु न्यर्बुदानि षड् । भोजयित्वा द्विजान् अग्रे स्वादु-अन्नम् गुणवत्तमम् ॥ ३४ ॥
prāhiṇot sādhu-viprebhyaḥ gṛheṣu nyarbudāni ṣaḍ . bhojayitvā dvijān agre svādu-annam guṇavattamam .. 34 ..
लब्धकामैः अनुज्ञातः पारणायोपचक्रमे । तस्य तर्ह्यतिथिः साक्षात् दुर्वासा भगवानभूत् ॥ ३५ ॥
लब्ध-कामैः अनुज्ञातः पारणाय उपचक्रमे । तस्य तर्हि अतिथिः साक्षात् दुर्वासाः भगवान् अभूत् ॥ ३५ ॥
labdha-kāmaiḥ anujñātaḥ pāraṇāya upacakrame . tasya tarhi atithiḥ sākṣāt durvāsāḥ bhagavān abhūt .. 35 ..
तं आनर्चातिथिं भूपः प्रत्युत्थान् आसनार्हणैः । ययाचेऽभ्यवहाराय पादमूलमुपागतः ॥ ३६ ॥
तम् आनर्च अतिथिम् भूपः प्रत्युत्थान् आसन-अर्हणैः । ययाचे अभ्यवहाराय पाद-मूलम् उपागतः ॥ ३६ ॥
tam ānarca atithim bhūpaḥ pratyutthān āsana-arhaṇaiḥ . yayāce abhyavahārāya pāda-mūlam upāgataḥ .. 36 ..
प्रतिनन्द्य स तां याच्ञां कर्तुमावश्यकं गतः । निममज्ज बृहद् ध्यायन् कालिन्दीसलिले शुभे ॥ ३७ ॥
प्रतिनन्द्य स ताम् याच्ञाम् कर्तुम् आवश्यकम् गतः । निममज्ज बृहत् ध्यायन् कालिन्दी-सलिले शुभे ॥ ३७ ॥
pratinandya sa tām yācñām kartum āvaśyakam gataḥ . nimamajja bṛhat dhyāyan kālindī-salile śubhe .. 37 ..
मुहूर्तार्धावशिष्टायां द्वादश्यां पारणं प्रति । चिन्तयामास धर्मज्ञो द्विजैः तद् धर्मसंकटे ॥ ३८ ॥
मुहूर्त-अर्ध-अवशिष्टायाम् द्वादश्याम् पारणम् प्रति । चिन्तयामास धर्म-ज्ञः द्विजैः तत् धर्म-संकटे ॥ ३८ ॥
muhūrta-ardha-avaśiṣṭāyām dvādaśyām pāraṇam prati . cintayāmāsa dharma-jñaḥ dvijaiḥ tat dharma-saṃkaṭe .. 38 ..
ब्राह्मणातिक्रमे दोषो द्वादश्यां यदपारणे । यत्कृत्वा साधु मे भूयाद् अधर्मो वा न मां स्पृशेत् ॥ ३९ ॥
ब्राह्मण-अतिक्रमे दोषः द्वादश्याम् यत् अपारणे । यत् कृत्वा साधु मे भूयात् अधर्मः वा न माम् स्पृशेत् ॥ ३९ ॥
brāhmaṇa-atikrame doṣaḥ dvādaśyām yat apāraṇe . yat kṛtvā sādhu me bhūyāt adharmaḥ vā na mām spṛśet .. 39 ..
अम्भसा केवलेनाथ करिष्ये व्रतपारणम् । आहुरब्भक्षणं विप्रा हि अशितं नाशितं च तत् ॥ ४० ॥
अम्भसा केवलेन अथ करिष्ये व्रत-पारणम् । आहुः अप्-भक्षणम् विप्राः हि अशितम् न अशितम् च तत् ॥ ४० ॥
ambhasā kevalena atha kariṣye vrata-pāraṇam . āhuḥ ap-bhakṣaṇam viprāḥ hi aśitam na aśitam ca tat .. 40 ..
इत्यपः प्राश्य राजर्षिः चिन्तयन् मनसाच्युतम् । प्रत्यचष्ट कुरुश्रेष्ठ द्विज आगमनमेव सः ॥ ४१ ॥
इति अपः प्राश्य राजर्षिः चिन्तयन् मनसा अच्युतम् । प्रत्यचष्ट कुरु-श्रेष्ठ द्विजः आगमनम् एव सः ॥ ४१ ॥
iti apaḥ prāśya rājarṣiḥ cintayan manasā acyutam . pratyacaṣṭa kuru-śreṣṭha dvijaḥ āgamanam eva saḥ .. 41 ..
दुर्वासा यमुनाकूलात् कृत आवश्यक आगतः । राज्ञाभिनन्दितस्तस्य बुबुधे चेष्टितं धिया ॥ ४२ ॥
दुर्वासाः यमुना-कूलात् कृतः आवश्यकः आगतः । राज्ञा अभिनन्दितः तस्य बुबुधे चेष्टितम् धिया ॥ ४२ ॥
durvāsāḥ yamunā-kūlāt kṛtaḥ āvaśyakaḥ āgataḥ . rājñā abhinanditaḥ tasya bubudhe ceṣṭitam dhiyā .. 42 ..
मन्युना प्रचलद्गात्रो भ्रुकुटीकुटिलाननः । बुभुक्षितश्च सुतरां कृताञ्जलिमभाषत ॥ ४३ ॥
मन्युना प्रचलत्-गात्रः भ्रुकुटी-कुटिल-आननः । बुभुक्षितः च सुतराम् कृताञ्जलिम् अभाषत ॥ ४३ ॥
manyunā pracalat-gātraḥ bhrukuṭī-kuṭila-ānanaḥ . bubhukṣitaḥ ca sutarām kṛtāñjalim abhāṣata .. 43 ..
अहो अस्य नृशंसस्य श्रियोन्मत्तस्य पश्यत । धर्मव्यतिक्रमं विष्णोः अभक्तस्य ईशमानिनः ॥ ४४ ॥
अहो अस्य नृशंसस्य श्रिया उन्मत्तस्य पश्यत । धर्म-व्यतिक्रमम् विष्णोः अभक्तस्य ईश-मानिनः ॥ ४४ ॥
aho asya nṛśaṃsasya śriyā unmattasya paśyata . dharma-vyatikramam viṣṇoḥ abhaktasya īśa-māninaḥ .. 44 ..
यो मां अतिथिं आयातं आतिथ्येन निमंत्र्य च । अदत्त्वा भुक्तवान् तस्य सद्यस्ते दर्शये फलम् ॥ ४५ ॥
यः माम् अतिथिम् आयातम् आतिथ्येन निमंत्र्य च । अ दत्त्वा भुक्तवान् तस्य सद्यस् ते दर्शये फलम् ॥ ४५ ॥
yaḥ mām atithim āyātam ātithyena nimaṃtrya ca . a dattvā bhuktavān tasya sadyas te darśaye phalam .. 45 ..
एवं ब्रुवाण उत्कृत्य जटां रोषप्रदीपितः । तया स निर्ममे तस्मै कृत्यां कालानलोपमाम् ॥ ४६ ॥
एवम् ब्रुवाणः उत्कृत्य जटाम् रोष-प्रदीपितः । तया स निर्ममे तस्मै कृत्याम् काल-अनल-उपमाम् ॥ ४६ ॥
evam bruvāṇaḥ utkṛtya jaṭām roṣa-pradīpitaḥ . tayā sa nirmame tasmai kṛtyām kāla-anala-upamām .. 46 ..
तां आपतन्तीं ज्वलतीं असिहस्तां पदा भुवम् । वेपयन्तीं समुद्वीक्ष्य न चचाल पदान्नृपः ॥ ४७ ॥
ताम् आपतन्तीम् ज्वलतीम् असि-हस्ताम् पदा भुवम् । वेपयन्तीम् समुद्वीक्ष्य न चचाल पदात् नृपः ॥ ४७ ॥
tām āpatantīm jvalatīm asi-hastām padā bhuvam . vepayantīm samudvīkṣya na cacāla padāt nṛpaḥ .. 47 ..
प्राग् दिष्टं भृत्यरक्षायां पुरुषेण महात्मना । ददाह कृत्यां तां चक्रं क्रुद्धाहिमिव पावकः ॥ ४८ ॥
प्राक् दिष्टम् भृत्य-रक्षायाम् पुरुषेण महात्मना । ददाह कृत्याम् ताम् चक्रम् क्रुद्ध-अहिम् इव पावकः ॥ ४८ ॥
prāk diṣṭam bhṛtya-rakṣāyām puruṣeṇa mahātmanā . dadāha kṛtyām tām cakram kruddha-ahim iva pāvakaḥ .. 48 ..
तद् अभिद्रवद् उद्वीक्ष्य स्वप्रयासं च निष्फलम् । दुर्वासा दुद्रुवे भीतो दिक्षु प्राणपरीप्सया ॥ ४९ ॥
तत् अभिद्रवत् उद्वीक्ष्य स्व-प्रयासम् च निष्फलम् । दुर्वासाः दुद्रुवे भीतः दिक्षु प्राण-परीप्सया ॥ ४९ ॥
tat abhidravat udvīkṣya sva-prayāsam ca niṣphalam . durvāsāḥ dudruve bhītaḥ dikṣu prāṇa-parīpsayā .. 49 ..
तमन्वधावद्भगवद्रथांगं दावाग्निः उद्धूतशिखो यथाहिम् । तथानुषक्तं मुनिरीक्षमाणो गुहां विविक्षुः प्रससार मेरोः ॥ ५० ॥
तम् अन्वधावत् भगवत्-रथांगम् दाव-अग्निः उद्धूत-शिखः यथा अहिम् । तथा अनुषक्तम् मुनिः ईक्षमाणः गुहाम् विविक्षुः प्रससार मेरोः ॥ ५० ॥
tam anvadhāvat bhagavat-rathāṃgam dāva-agniḥ uddhūta-śikhaḥ yathā ahim . tathā anuṣaktam muniḥ īkṣamāṇaḥ guhām vivikṣuḥ prasasāra meroḥ .. 50 ..
दिशो नभः क्ष्मां विवरान् समुद्रान् लोकान् सपालान् त्रिदिवं गतः सः । यतो यतो धावति तत्र तत्र सुदर्शनं दुष्प्रसहं ददर्श ॥ ५१ ॥
दिशः नभः क्ष्माम् विवरान् समुद्रान् लोकान् स पालान् त्रिदिवम् गतः सः । यतस् यतस् धावति तत्र तत्र सुदर्शनम् दुष्प्रसहम् ददर्श ॥ ५१ ॥
diśaḥ nabhaḥ kṣmām vivarān samudrān lokān sa pālān tridivam gataḥ saḥ . yatas yatas dhāvati tatra tatra sudarśanam duṣprasaham dadarśa .. 51 ..
अलब्धनाथः स सदा कुतश्चित् संत्रस्तचित्तोऽरणमेषमाणः । देवं विरिञ्चं समगाद्विधातः त्राह्यात्मयोनेऽजिततेजसो माम् ॥ ५२ ॥
अलब्ध-नाथः स सदा कुतश्चिद् संत्रस्त-चित्तः अरणम् एषमाणः । देवम् विरिञ्चम् समगात् विधातर् त्राहि आत्मयोने अजित-तेजसः माम् ॥ ५२ ॥
alabdha-nāthaḥ sa sadā kutaścid saṃtrasta-cittaḥ araṇam eṣamāṇaḥ . devam viriñcam samagāt vidhātar trāhi ātmayone ajita-tejasaḥ mām .. 52 ..
श्रीब्रह्मोवाच ।
स्थानं मदीयं सहविश्वमेतत् क्रीडावसाने द्विपरार्धसंज्ञे । भ्रूभंगमात्रेण हि संदिधक्षोः कालात्मनो यस्य तिरोभविष्यति ॥ ५३ ॥
स्थानम् मदीयम् सह विश्वम् एतत् क्रीडा-अवसाने द्वि-परार्ध-संज्ञे । भ्रू-भंग-मात्रेण हि संदिधक्षोः काल-आत्मनः यस्य तिरोभविष्यति ॥ ५३ ॥
sthānam madīyam saha viśvam etat krīḍā-avasāne dvi-parārdha-saṃjñe . bhrū-bhaṃga-mātreṇa hi saṃdidhakṣoḥ kāla-ātmanaḥ yasya tirobhaviṣyati .. 53 ..
अहं भवो दक्षभृगुप्रधानाः प्रजेशभूतेश सुरेशमुख्याः । सर्वे वयं यत् नियमं प्रपन्ना मूर्ध्न्यर्पितं लोकहितं वहामः ॥ ५४ ॥
अहम् भवः दक्ष-भृगु-प्रधानाः प्रजा-ईश-भूत-ईश सुरेश-मुख्याः । सर्वे वयम् यत् नियमम् प्रपन्नाः मूर्ध्नि अर्पितम् लोक-हितम् वहामः ॥ ५४ ॥
aham bhavaḥ dakṣa-bhṛgu-pradhānāḥ prajā-īśa-bhūta-īśa sureśa-mukhyāḥ . sarve vayam yat niyamam prapannāḥ mūrdhni arpitam loka-hitam vahāmaḥ .. 54 ..
प्रत्याख्यातो विरिञ्चेन विष्णुचक्रोपतापितः । दुर्वासाः शरणं यातः शर्वं कैलासवासिनम् ॥ ५५ ॥
प्रत्याख्यातः विरिञ्चेन विष्णु-चक्र-उपतापितः । दुर्वासाः शरणम् यातः शर्वम् कैलास-वासिनम् ॥ ५५ ॥
pratyākhyātaḥ viriñcena viṣṇu-cakra-upatāpitaḥ . durvāsāḥ śaraṇam yātaḥ śarvam kailāsa-vāsinam .. 55 ..
श्रीरुद्र उवाच ।
वयं न तात प्रभवाम भूम्नि यस्मिन् परेऽन्येऽप्यजजीवकोशाः । भवन्ति काले न भवन्ति हीदृशाः सहस्रशो यत्र वयं भ्रमामः ॥ ५६ ॥
वयम् न तात प्रभवाम भूम्नि यस्मिन् परे अन्ये अपि अज-जीव-कोशाः । भवन्ति काले न भवन्ति हि ईदृशाः सहस्रशस् यत्र वयम् भ्रमामः ॥ ५६ ॥
vayam na tāta prabhavāma bhūmni yasmin pare anye api aja-jīva-kośāḥ . bhavanti kāle na bhavanti hi īdṛśāḥ sahasraśas yatra vayam bhramāmaḥ .. 56 ..
अहं सनत्कुमारश्च नारदो भगवानजः । कपिलो अपान्तरतमो देवलो धर्म आसुरिः ॥ ५७ ॥
अहम् सनत्कुमारः च नारदः भगवान् अजः । कपिलः अपान्तरतमः देवलः धर्मः आसुरिः ॥ ५७ ॥
aham sanatkumāraḥ ca nāradaḥ bhagavān ajaḥ . kapilaḥ apāntaratamaḥ devalaḥ dharmaḥ āsuriḥ .. 57 ..
मरीचिप्रमुखाश्चान्ये सिद्धेशाः पारदर्शनाः । विदाम न वयं सर्वे यन्मायां माययाऽऽवृताः ॥ ५८ ॥
मरीचि-प्रमुखाः च अन्ये सिद्ध-ईशाः पार-दर्शनाः । विदाम न वयम् सर्वे यत् मायाम् मायया आवृताः ॥ ५८ ॥
marīci-pramukhāḥ ca anye siddha-īśāḥ pāra-darśanāḥ . vidāma na vayam sarve yat māyām māyayā āvṛtāḥ .. 58 ..
तस्य विश्वेश्वरस्येदं शस्त्रं दुर्विषहं हि नः । तमेवं शरणं याहि हरिस्ते शं विधास्यति ॥ ५९ ॥
तस्य विश्वेश्वरस्य इदम् शस्त्रम् दुर्विषहम् हि नः । तम् एवम् शरणम् याहि हरिः ते शम् विधास्यति ॥ ५९ ॥
tasya viśveśvarasya idam śastram durviṣaham hi naḥ . tam evam śaraṇam yāhi hariḥ te śam vidhāsyati .. 59 ..
ततो निराशो दुर्वासाः पदं भगवतो ययौ । वैकुण्ठाख्यं यदध्यास्ते श्रीनिवासः श्रिया सह ॥ ६० ॥
ततस् निराशः दुर्वासाः पदम् भगवतः ययौ । वैकुण्ठ-आख्यम् यत् अध्यास्ते श्रीनिवासः श्रिया सह ॥ ६० ॥
tatas nirāśaḥ durvāsāḥ padam bhagavataḥ yayau . vaikuṇṭha-ākhyam yat adhyāste śrīnivāsaḥ śriyā saha .. 60 ..
सन्दह्यमानोऽजितशस्त्रवह्निना तत्पादमूले पतितः सवेपथुः । आहाच्युतानन्त सदीप्सित प्रभो कृतागसं माव हि विश्वभावन ॥ ६१ ॥
सन्दह्यमानः अजित-शस्त्र-वह्निना तद्-पाद-मूले पतितः स वेपथुः । आह अच्युत-अनन्त सत्-ईप्सित प्रभो कृत-आगसम् हि विश्वभावन ॥ ६१ ॥
sandahyamānaḥ ajita-śastra-vahninā tad-pāda-mūle patitaḥ sa vepathuḥ . āha acyuta-ananta sat-īpsita prabho kṛta-āgasam hi viśvabhāvana .. 61 ..
अजानता ते परमानुभावं कृतं मयाघं भवतः प्रियाणाम् । विधेहि तस्यापचितिं विधातः मुच्येत यन्नाम्न्युदिते नारकोऽपि ॥ ६२ ॥
अ जानता ते परम-अनुभावम् कृतम् मया अघम् भवतः प्रियाणाम् । विधेहि तस्य अपचितिम् विधातर् मुच्येत यद्-नाम्नि उदिते नारकः अपि ॥ ६२ ॥
a jānatā te parama-anubhāvam kṛtam mayā agham bhavataḥ priyāṇām . vidhehi tasya apacitim vidhātar mucyeta yad-nāmni udite nārakaḥ api .. 62 ..
अहं भक्तपराधीनो हि अस्वतंत्र इव द्विज । साधुभिर्ग्रस्तहृदयो भक्तैर्भक्तजनप्रियः ॥ ६३ ॥
अहम् भक्त-पर-अधीनः हि अस्वतंत्रः इव द्विज । साधुभिः ग्रस्त-हृदयः भक्तैः भक्त-जन-प्रियः ॥ ६३ ॥
aham bhakta-para-adhīnaḥ hi asvataṃtraḥ iva dvija . sādhubhiḥ grasta-hṛdayaḥ bhaktaiḥ bhakta-jana-priyaḥ .. 63 ..
नाहं आत्मानमाशासे मद्भक्तैः साधुभिर्विना । श्रियं चात्यन्तिकीं ब्रह्मन् येषां गतिः अहं परा ॥ ६४ ॥
न अहम् आत्मानम् आशासे मद्-भक्तैः साधुभिः विना । श्रियम् च आत्यन्तिकीम् ब्रह्मन् येषाम् गतिः अहम् परा ॥ ६४ ॥
na aham ātmānam āśāse mad-bhaktaiḥ sādhubhiḥ vinā . śriyam ca ātyantikīm brahman yeṣām gatiḥ aham parā .. 64 ..
श्रीभगवानुवाच ।
ये दारागारपुत्राप्तान् प्राणान् वित्तमिमं परम् । हित्वा मां शरणं याताः कथं तान् त्यक्तुमुत्सहे ॥ ६५ ॥
ये दार-आगार-पुत्र-आप्तान् प्राणान् वित्तम् इमम् परम् । हित्वा माम् शरणम् याताः कथम् तान् त्यक्तुम् उत्सहे ॥ ६५ ॥
ye dāra-āgāra-putra-āptān prāṇān vittam imam param . hitvā mām śaraṇam yātāḥ katham tān tyaktum utsahe .. 65 ..
मयि निर्बद्धहृदयाः साधवः समदर्शनाः । वशीकुर्वन्ति मां भक्त्या सत्स्त्रियः सत्पतिं यथा ॥ ६६ ॥
मयि निर्बद्ध-हृदयाः साधवः सम-दर्शनाः । वशीकुर्वन्ति माम् भक्त्या सत्-स्त्रियः सत्-पतिम् यथा ॥ ६६ ॥
mayi nirbaddha-hṛdayāḥ sādhavaḥ sama-darśanāḥ . vaśīkurvanti mām bhaktyā sat-striyaḥ sat-patim yathā .. 66 ..
मत्सेवया प्रतीतं च सालोक्यादि चतुष्टयम् । नेच्छन्ति सेवया पूर्णाः कुतोऽन्यत् कालविद्रुतम् ॥ ६७ ॥
मद्-सेवया प्रतीतम् च सालोक्य-आदि चतुष्टयम् । न इच्छन्ति सेवया पूर्णाः कुतस् अन्यत् काल-विद्रुतम् ॥ ६७ ॥
mad-sevayā pratītam ca sālokya-ādi catuṣṭayam . na icchanti sevayā pūrṇāḥ kutas anyat kāla-vidrutam .. 67 ..
साधवो हृदयं मह्यं साधूनां हृदयं त्वहम् । मदन्यत् ते न जानन्ति नाहं तेभ्यो मनागपि ॥ ६८ ॥
साधवः हृदयम् मह्यम् साधूनाम् हृदयम् तु अहम् । मत् अन्यत् ते न जानन्ति न अहम् तेभ्यः मनाक् अपि ॥ ६८ ॥
sādhavaḥ hṛdayam mahyam sādhūnām hṛdayam tu aham . mat anyat te na jānanti na aham tebhyaḥ manāk api .. 68 ..
उपायं कथयिष्यामि तव विप्र श्रृणुष्व तत् । अयं ह्यात्माभिचारस्ते यतस्तं याहि मा चिरम् । साधुषु प्रहितं तेजः प्रहर्तुः कुरुतेऽशिवम् ॥ ६९ ॥
उपायम् कथयिष्यामि तव विप्र श्रृणुष्व तत् । अयम् हि आत्म-अभिचारः ते यतस् तम् याहि मा चिरम् । साधुषु प्रहितम् तेजः प्रहर्तुः कुरुते अशिवम् ॥ ६९ ॥
upāyam kathayiṣyāmi tava vipra śrṛṇuṣva tat . ayam hi ātma-abhicāraḥ te yatas tam yāhi mā ciram . sādhuṣu prahitam tejaḥ prahartuḥ kurute aśivam .. 69 ..
तपो विद्या च विप्राणां निःश्रेयसकरे उभे । ते एव दुर्विनीतस्य कल्पेते कर्तुरन्यथा ॥ ७० ॥
तपः विद्या च विप्राणाम् निःश्रेयस-करे उभे । ते एव दुर्विनीतस्य कल्पेते कर्तुः अन्यथा ॥ ७० ॥
tapaḥ vidyā ca viprāṇām niḥśreyasa-kare ubhe . te eva durvinītasya kalpete kartuḥ anyathā .. 70 ..
ब्रह्मन् तद् गच्छ भद्रं ते नाभागतनयं नृपम् । क्षमापय महाभागं ततः शान्तिर्भविष्यति ॥ ७१ ॥
ब्रह्मन् तत् गच्छ भद्रम् ते नाभाग-तनयम् नृपम् । क्षमापय महाभागम् ततस् शान्तिः भविष्यति ॥ ७१ ॥
brahman tat gaccha bhadram te nābhāga-tanayam nṛpam . kṣamāpaya mahābhāgam tatas śāntiḥ bhaviṣyati .. 71 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे चतुर्थोऽध्यायः ॥ ४ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् नवम-स्कन्धे चतुर्थः अध्यायः ॥ ४ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām navama-skandhe caturthaḥ adhyāyaḥ .. 4 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In