| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

नभगवंशवर्णनं नाभागचरितम्, अंबरीषोपाख्यानं दुर्वासः पलायनं च -
nabhagavaṃśavarṇanaṃ nābhāgacaritam, aṃbarīṣopākhyānaṃ durvāsaḥ palāyanaṃ ca -
नाभागो नभगापत्यं यं ततं भ्रातरः कविम् । यविष्ठं व्यभजन् दायं ब्रह्मचारिणमागतम् ॥ १ ॥
nābhāgo nabhagāpatyaṃ yaṃ tataṃ bhrātaraḥ kavim . yaviṣṭhaṃ vyabhajan dāyaṃ brahmacāriṇamāgatam .. 1 ..
भ्रातरोऽभाङ्क्त किं मह्यं भजाम पितरं तव । त्वां ममार्यास्तताभाङ्क्षुः मा पुत्रक तदादृथाः ॥ २ ॥
bhrātaro'bhāṅkta kiṃ mahyaṃ bhajāma pitaraṃ tava . tvāṃ mamāryāstatābhāṅkṣuḥ mā putraka tadādṛthāḥ .. 2 ..
इमे अंगिरसः सत्रं आसतेऽद्य सुमेधसः । षष्ठं षष्ठं उपेत्याहः कवे मुह्यन्ति कर्मणि ॥ ३ ॥
ime aṃgirasaḥ satraṃ āsate'dya sumedhasaḥ . ṣaṣṭhaṃ ṣaṣṭhaṃ upetyāhaḥ kave muhyanti karmaṇi .. 3 ..
तांन् त्वं शंसय सूक्ते द्वे वैश्वदेवे महात्मनः । ते स्वर्यन्तो धनं सत्र परिशेषितमात्मनः ॥ ४ ॥
tāṃn tvaṃ śaṃsaya sūkte dve vaiśvadeve mahātmanaḥ . te svaryanto dhanaṃ satra pariśeṣitamātmanaḥ .. 4 ..
दास्यन्ति तेऽथ तान् गच्छ तथा स कृतवान् यथा । तस्मै दत्त्वा ययुः स्वर्गं ते सत्रपरिशेषणम् ॥ ५ ॥
dāsyanti te'tha tān gaccha tathā sa kṛtavān yathā . tasmai dattvā yayuḥ svargaṃ te satrapariśeṣaṇam .. 5 ..
तं कश्चित् स्वीकरिष्यन्तं पुरुषः कृष्णदर्शनः । उवाचोत्तरतोऽभ्येत्य ममेदं वास्तुकं वसु ॥ ६ ॥
taṃ kaścit svīkariṣyantaṃ puruṣaḥ kṛṣṇadarśanaḥ . uvācottarato'bhyetya mamedaṃ vāstukaṃ vasu .. 6 ..
ममेदं ऋषिभिः दत्तं इति तर्हि स्म मानवः । स्यान्नौ ते पितरि प्रश्नः पृष्टवान् पितरं यथा ॥ ७ ॥
mamedaṃ ṛṣibhiḥ dattaṃ iti tarhi sma mānavaḥ . syānnau te pitari praśnaḥ pṛṣṭavān pitaraṃ yathā .. 7 ..
यज्ञवास्तुगतं सर्वं उच्छिष्टं ऋषयः क्वचित् । चक्रुर्विभागं रुद्राय स देवः सर्वमर्हति ॥ ८ ॥
yajñavāstugataṃ sarvaṃ ucchiṣṭaṃ ṛṣayaḥ kvacit . cakrurvibhāgaṃ rudrāya sa devaḥ sarvamarhati .. 8 ..
नाभागस्तं प्रणम्याह तवेश किल वास्तुकम् । इत्याह मे पिता ब्रह्मन् शिरसा त्वां प्रसादये ॥ ९ ॥
nābhāgastaṃ praṇamyāha taveśa kila vāstukam . ityāha me pitā brahman śirasā tvāṃ prasādaye .. 9 ..
यत् ते पितावदद् धर्मं त्वं च सत्यं प्रभाषसे । ददामि ते मन्त्रदृशे ज्ञानं ब्रह्म सनातनम् ॥ १० ॥
yat te pitāvadad dharmaṃ tvaṃ ca satyaṃ prabhāṣase . dadāmi te mantradṛśe jñānaṃ brahma sanātanam .. 10 ..
गृहाण द्रविणं दत्तं मत्सत्रे परिशेषितम् । इत्युक्त्वान्तर्हितो रुद्रो भगवान् सत्यवत्सलः ॥ ११ ॥
gṛhāṇa draviṇaṃ dattaṃ matsatre pariśeṣitam . ityuktvāntarhito rudro bhagavān satyavatsalaḥ .. 11 ..
य एतत् संस्मरेत् प्रातः सायं च सुसमाहितः । कविर्भवति मंत्रज्ञो गतिं चैव तथाऽऽत्मनः ॥ १२ ॥
ya etat saṃsmaret prātaḥ sāyaṃ ca susamāhitaḥ . kavirbhavati maṃtrajño gatiṃ caiva tathā''tmanaḥ .. 12 ..
नाभागाद् अंबरीषोऽभूत् महाभागवतः कृती । नास्पृशद् ब्रह्मशापोऽपि यं न प्रतिहतः क्वचित् ॥ १३ ॥
nābhāgād aṃbarīṣo'bhūt mahābhāgavataḥ kṛtī . nāspṛśad brahmaśāpo'pi yaṃ na pratihataḥ kvacit .. 13 ..
श्रीराजोवाच ।
भगवन् श्रोतुमिच्छामि राजर्षेः तस्य धीमतः । न प्राभूद् यत्र निर्मुक्तो ब्रह्मदण्डो दुरत्ययः ॥ १४ ॥
bhagavan śrotumicchāmi rājarṣeḥ tasya dhīmataḥ . na prābhūd yatra nirmukto brahmadaṇḍo duratyayaḥ .. 14 ..
श्रीशुक उवाच ।
अंबरीषो महाभागः सप्तद्वीपवतीं महीम् । अव्ययां च श्रियं लब्ध्वा विभवं चातुलं भुवि ॥ १५ ॥*
aṃbarīṣo mahābhāgaḥ saptadvīpavatīṃ mahīm . avyayāṃ ca śriyaṃ labdhvā vibhavaṃ cātulaṃ bhuvi .. 15 ..*
मेनेऽतिदुर्लभं पुंसां सर्वं तत् स्वप्नसंस्तुतम् । विद्वान् विभवनिर्वाणं तमो विशति यत् पुमान् ॥ १६ ॥
mene'tidurlabhaṃ puṃsāṃ sarvaṃ tat svapnasaṃstutam . vidvān vibhavanirvāṇaṃ tamo viśati yat pumān .. 16 ..
वासुदेवे भगवति तद्भक्तेषु च साधुषु । प्राप्तो भावं परं विश्वं येनेदं लोष्टवत् स्मृतम् ॥ १७ ॥
vāsudeve bhagavati tadbhakteṣu ca sādhuṣu . prāpto bhāvaṃ paraṃ viśvaṃ yenedaṃ loṣṭavat smṛtam .. 17 ..
स वै मनः कृष्णपदारविन्दयोः वचांसि वैकुण्ठगुणानुवर्णने । करौ हरेर्मन्दिरमार्जनादिषु श्रुतिं चकाराच्युतसत्कथोदये ॥ १८ ॥
sa vai manaḥ kṛṣṇapadāravindayoḥ vacāṃsi vaikuṇṭhaguṇānuvarṇane . karau harermandiramārjanādiṣu śrutiṃ cakārācyutasatkathodaye .. 18 ..
मुकुन्दलिंगालयदर्शने दृशौ तद्भृत्यगात्रस्पर्शेङ्गसंगमम् । घ्राणं च तत्पादसरोजसौरभे श्रीमत् तुलस्या रसनां तदर्पिते ॥ १९ ॥
mukundaliṃgālayadarśane dṛśau tadbhṛtyagātrasparśeṅgasaṃgamam . ghrāṇaṃ ca tatpādasarojasaurabhe śrīmat tulasyā rasanāṃ tadarpite .. 19 ..
पादौ हरेः क्षेत्रपदानुसर्पणे शिरो हृषीकेश पदाभिवन्दने । कामं च दास्ये न तु कामकाम्यया यथोत्तमश्लोक जनाश्रया रतिः ॥ २० ॥
pādau hareḥ kṣetrapadānusarpaṇe śiro hṛṣīkeśa padābhivandane . kāmaṃ ca dāsye na tu kāmakāmyayā yathottamaśloka janāśrayā ratiḥ .. 20 ..
एवं सदा कर्मकलापमात्मनः परेऽधियज्ञे भगवत्यधोक्षजे । सर्वात्मभावं विदधन्महीमिमां तन्निष्ठविप्राभिहितः शशास ह ॥ २१ ॥
evaṃ sadā karmakalāpamātmanaḥ pare'dhiyajñe bhagavatyadhokṣaje . sarvātmabhāvaṃ vidadhanmahīmimāṃ tanniṣṭhaviprābhihitaḥ śaśāsa ha .. 21 ..
ईजेऽश्वमेधैरधियज्ञमीश्वरं महाविभूत्योपचितांगदक्षिणैः । ततैर्वसिष्ठासितगौतमादिभिः धन्वन्यभिस्रोतमसौ सरस्वतीम् ॥ २२ ॥
īje'śvamedhairadhiyajñamīśvaraṃ mahāvibhūtyopacitāṃgadakṣiṇaiḥ . tatairvasiṣṭhāsitagautamādibhiḥ dhanvanyabhisrotamasau sarasvatīm .. 22 ..
यस्य क्रतुषु गीर्वाणैः सदस्या ऋत्विजो जनाः । तुल्यरूपाः चानिमिषा व्यदृश्यन्त सुवाससः ॥ २३ ॥
yasya kratuṣu gīrvāṇaiḥ sadasyā ṛtvijo janāḥ . tulyarūpāḥ cānimiṣā vyadṛśyanta suvāsasaḥ .. 23 ..
स्वर्गो न प्रार्थितो यस्य मनुजैः अमरप्रियः । श्रृण्वद्भिः उपगायद्भिः उत्तमश्लोकचेष्टितम् ॥ २४ ॥
svargo na prārthito yasya manujaiḥ amarapriyaḥ . śrṛṇvadbhiḥ upagāyadbhiḥ uttamaślokaceṣṭitam .. 24 ..
समर्द्धयन्ति तान् कामाः स्वाराज्यपरिभाविताः । दुर्लभा नापि सिद्धानां मुकुन्दं हृदि पश्यतः ॥ २५ ॥
samarddhayanti tān kāmāḥ svārājyaparibhāvitāḥ . durlabhā nāpi siddhānāṃ mukundaṃ hṛdi paśyataḥ .. 25 ..
स इत्थं भक्तियोगेन तपोयुक्तेन पार्थिवः । स्वधर्मेण हरिं प्रीणन् संगान् सर्वान् शनैर्जहौ ॥ २६ ॥
sa itthaṃ bhaktiyogena tapoyuktena pārthivaḥ . svadharmeṇa hariṃ prīṇan saṃgān sarvān śanairjahau .. 26 ..
गृहेषु दारेषु सुतेषु बन्धुषु द्विपोत्तमस्यन्दन वाजिवस्तुषु । अक्षय्यरत्नाभरणाम्बरादिषु अनन्तकोशेषु अकरोत् असन् मतिम् ॥ २७ ॥
gṛheṣu dāreṣu suteṣu bandhuṣu dvipottamasyandana vājivastuṣu . akṣayyaratnābharaṇāmbarādiṣu anantakośeṣu akarot asan matim .. 27 ..
तस्मा अदाद् हरिश्चक्रं प्रत्यनीक-भयावहम् । एकान्तभक्तिभावेन प्रीतो भृत्याभिरक्षणम् ॥ २८ ॥
tasmā adād hariścakraṃ pratyanīka-bhayāvaham . ekāntabhaktibhāvena prīto bhṛtyābhirakṣaṇam .. 28 ..
आरिराधयिषुः कृष्णं महिष्या तुल्यशीलया । युक्तः सांवत्सरं वीरो दधार द्वादशीव्रतम् ॥ २९ ॥
ārirādhayiṣuḥ kṛṣṇaṃ mahiṣyā tulyaśīlayā . yuktaḥ sāṃvatsaraṃ vīro dadhāra dvādaśīvratam .. 29 ..
व्रतान्ते कार्तिके मासि त्रिरात्रं समुपोषितः । स्नातः कदाचित् कालिन्द्यां हरिं मधुवनेऽर्चयत् ॥ ३० ॥
vratānte kārtike māsi trirātraṃ samupoṣitaḥ . snātaḥ kadācit kālindyāṃ hariṃ madhuvane'rcayat .. 30 ..
महाभिषेकविधिना सर्वोपस्करसम्पदा । अभिषिच्याम्बराकल्पैः गन्धमाल्यार्हणादिभिः ॥ ३१ ॥
mahābhiṣekavidhinā sarvopaskarasampadā . abhiṣicyāmbarākalpaiḥ gandhamālyārhaṇādibhiḥ .. 31 ..
तद्गतान्तरभावेन पूजयामास केशवम् । ब्राह्मणांश्च महाभागान् सिद्धार्थानपि भक्तितः ॥ ३२ ॥
tadgatāntarabhāvena pūjayāmāsa keśavam . brāhmaṇāṃśca mahābhāgān siddhārthānapi bhaktitaḥ .. 32 ..
गवां रुक्मविषाणीनां रूप्याङ्घ्रीणां सुवाससाम् । पयःशीलवयोरूप वत्सोपस्करसंपदाम् ॥ ३३ ॥
gavāṃ rukmaviṣāṇīnāṃ rūpyāṅghrīṇāṃ suvāsasām . payaḥśīlavayorūpa vatsopaskarasaṃpadām .. 33 ..
प्राहिणोत् साधुविप्रेभ्यो गृहेषु न्यर्बुदानि षट् । भोजयित्वा द्विजानग्रे स्वाद्वन्नं गुणवत्तमम् ॥ ३४ ॥
prāhiṇot sādhuviprebhyo gṛheṣu nyarbudāni ṣaṭ . bhojayitvā dvijānagre svādvannaṃ guṇavattamam .. 34 ..
लब्धकामैः अनुज्ञातः पारणायोपचक्रमे । तस्य तर्ह्यतिथिः साक्षात् दुर्वासा भगवानभूत् ॥ ३५ ॥
labdhakāmaiḥ anujñātaḥ pāraṇāyopacakrame . tasya tarhyatithiḥ sākṣāt durvāsā bhagavānabhūt .. 35 ..
तं आनर्चातिथिं भूपः प्रत्युत्थान् आसनार्हणैः । ययाचेऽभ्यवहाराय पादमूलमुपागतः ॥ ३६ ॥
taṃ ānarcātithiṃ bhūpaḥ pratyutthān āsanārhaṇaiḥ . yayāce'bhyavahārāya pādamūlamupāgataḥ .. 36 ..
प्रतिनन्द्य स तां याच्ञां कर्तुमावश्यकं गतः । निममज्ज बृहद् ध्यायन् कालिन्दीसलिले शुभे ॥ ३७ ॥
pratinandya sa tāṃ yācñāṃ kartumāvaśyakaṃ gataḥ . nimamajja bṛhad dhyāyan kālindīsalile śubhe .. 37 ..
मुहूर्तार्धावशिष्टायां द्वादश्यां पारणं प्रति । चिन्तयामास धर्मज्ञो द्विजैः तद् धर्मसंकटे ॥ ३८ ॥
muhūrtārdhāvaśiṣṭāyāṃ dvādaśyāṃ pāraṇaṃ prati . cintayāmāsa dharmajño dvijaiḥ tad dharmasaṃkaṭe .. 38 ..
ब्राह्मणातिक्रमे दोषो द्वादश्यां यदपारणे । यत्कृत्वा साधु मे भूयाद् अधर्मो वा न मां स्पृशेत् ॥ ३९ ॥
brāhmaṇātikrame doṣo dvādaśyāṃ yadapāraṇe . yatkṛtvā sādhu me bhūyād adharmo vā na māṃ spṛśet .. 39 ..
अम्भसा केवलेनाथ करिष्ये व्रतपारणम् । आहुरब्भक्षणं विप्रा हि अशितं नाशितं च तत् ॥ ४० ॥
ambhasā kevalenātha kariṣye vratapāraṇam . āhurabbhakṣaṇaṃ viprā hi aśitaṃ nāśitaṃ ca tat .. 40 ..
इत्यपः प्राश्य राजर्षिः चिन्तयन् मनसाच्युतम् । प्रत्यचष्ट कुरुश्रेष्ठ द्विज आगमनमेव सः ॥ ४१ ॥
ityapaḥ prāśya rājarṣiḥ cintayan manasācyutam . pratyacaṣṭa kuruśreṣṭha dvija āgamanameva saḥ .. 41 ..
दुर्वासा यमुनाकूलात् कृत आवश्यक आगतः । राज्ञाभिनन्दितस्तस्य बुबुधे चेष्टितं धिया ॥ ४२ ॥
durvāsā yamunākūlāt kṛta āvaśyaka āgataḥ . rājñābhinanditastasya bubudhe ceṣṭitaṃ dhiyā .. 42 ..
मन्युना प्रचलद्गात्रो भ्रुकुटीकुटिलाननः । बुभुक्षितश्च सुतरां कृताञ्जलिमभाषत ॥ ४३ ॥
manyunā pracaladgātro bhrukuṭīkuṭilānanaḥ . bubhukṣitaśca sutarāṃ kṛtāñjalimabhāṣata .. 43 ..
अहो अस्य नृशंसस्य श्रियोन्मत्तस्य पश्यत । धर्मव्यतिक्रमं विष्णोः अभक्तस्य ईशमानिनः ॥ ४४ ॥
aho asya nṛśaṃsasya śriyonmattasya paśyata . dharmavyatikramaṃ viṣṇoḥ abhaktasya īśamāninaḥ .. 44 ..
यो मां अतिथिं आयातं आतिथ्येन निमंत्र्य च । अदत्त्वा भुक्तवान् तस्य सद्यस्ते दर्शये फलम् ॥ ४५ ॥
yo māṃ atithiṃ āyātaṃ ātithyena nimaṃtrya ca . adattvā bhuktavān tasya sadyaste darśaye phalam .. 45 ..
एवं ब्रुवाण उत्कृत्य जटां रोषप्रदीपितः । तया स निर्ममे तस्मै कृत्यां कालानलोपमाम् ॥ ४६ ॥
evaṃ bruvāṇa utkṛtya jaṭāṃ roṣapradīpitaḥ . tayā sa nirmame tasmai kṛtyāṃ kālānalopamām .. 46 ..
तां आपतन्तीं ज्वलतीं असिहस्तां पदा भुवम् । वेपयन्तीं समुद्वीक्ष्य न चचाल पदान्नृपः ॥ ४७ ॥
tāṃ āpatantīṃ jvalatīṃ asihastāṃ padā bhuvam . vepayantīṃ samudvīkṣya na cacāla padānnṛpaḥ .. 47 ..
प्राग् दिष्टं भृत्यरक्षायां पुरुषेण महात्मना । ददाह कृत्यां तां चक्रं क्रुद्धाहिमिव पावकः ॥ ४८ ॥
prāg diṣṭaṃ bhṛtyarakṣāyāṃ puruṣeṇa mahātmanā . dadāha kṛtyāṃ tāṃ cakraṃ kruddhāhimiva pāvakaḥ .. 48 ..
तद् अभिद्रवद् उद्वीक्ष्य स्वप्रयासं च निष्फलम् । दुर्वासा दुद्रुवे भीतो दिक्षु प्राणपरीप्सया ॥ ४९ ॥
tad abhidravad udvīkṣya svaprayāsaṃ ca niṣphalam . durvāsā dudruve bhīto dikṣu prāṇaparīpsayā .. 49 ..
तमन्वधावद्भगवद्रथांगं दावाग्निः उद्धूतशिखो यथाहिम् । तथानुषक्तं मुनिरीक्षमाणो गुहां विविक्षुः प्रससार मेरोः ॥ ५० ॥
tamanvadhāvadbhagavadrathāṃgaṃ dāvāgniḥ uddhūtaśikho yathāhim . tathānuṣaktaṃ munirīkṣamāṇo guhāṃ vivikṣuḥ prasasāra meroḥ .. 50 ..
दिशो नभः क्ष्मां विवरान् समुद्रान् लोकान् सपालान् त्रिदिवं गतः सः । यतो यतो धावति तत्र तत्र सुदर्शनं दुष्प्रसहं ददर्श ॥ ५१ ॥
diśo nabhaḥ kṣmāṃ vivarān samudrān lokān sapālān tridivaṃ gataḥ saḥ . yato yato dhāvati tatra tatra sudarśanaṃ duṣprasahaṃ dadarśa .. 51 ..
अलब्धनाथः स सदा कुतश्चित् संत्रस्तचित्तोऽरणमेषमाणः । देवं विरिञ्चं समगाद्विधातः त्राह्यात्मयोनेऽजिततेजसो माम् ॥ ५२ ॥
alabdhanāthaḥ sa sadā kutaścit saṃtrastacitto'raṇameṣamāṇaḥ . devaṃ viriñcaṃ samagādvidhātaḥ trāhyātmayone'jitatejaso mām .. 52 ..
श्रीब्रह्मोवाच ।
स्थानं मदीयं सहविश्वमेतत् क्रीडावसाने द्विपरार्धसंज्ञे । भ्रूभंगमात्रेण हि संदिधक्षोः कालात्मनो यस्य तिरोभविष्यति ॥ ५३ ॥
sthānaṃ madīyaṃ sahaviśvametat krīḍāvasāne dviparārdhasaṃjñe . bhrūbhaṃgamātreṇa hi saṃdidhakṣoḥ kālātmano yasya tirobhaviṣyati .. 53 ..
अहं भवो दक्षभृगुप्रधानाः प्रजेशभूतेश सुरेशमुख्याः । सर्वे वयं यत् नियमं प्रपन्ना मूर्ध्न्यर्पितं लोकहितं वहामः ॥ ५४ ॥
ahaṃ bhavo dakṣabhṛgupradhānāḥ prajeśabhūteśa sureśamukhyāḥ . sarve vayaṃ yat niyamaṃ prapannā mūrdhnyarpitaṃ lokahitaṃ vahāmaḥ .. 54 ..
प्रत्याख्यातो विरिञ्चेन विष्णुचक्रोपतापितः । दुर्वासाः शरणं यातः शर्वं कैलासवासिनम् ॥ ५५ ॥
pratyākhyāto viriñcena viṣṇucakropatāpitaḥ . durvāsāḥ śaraṇaṃ yātaḥ śarvaṃ kailāsavāsinam .. 55 ..
श्रीरुद्र उवाच ।
वयं न तात प्रभवाम भूम्नि यस्मिन् परेऽन्येऽप्यजजीवकोशाः । भवन्ति काले न भवन्ति हीदृशाः सहस्रशो यत्र वयं भ्रमामः ॥ ५६ ॥
vayaṃ na tāta prabhavāma bhūmni yasmin pare'nye'pyajajīvakośāḥ . bhavanti kāle na bhavanti hīdṛśāḥ sahasraśo yatra vayaṃ bhramāmaḥ .. 56 ..
अहं सनत्कुमारश्च नारदो भगवानजः । कपिलो अपान्तरतमो देवलो धर्म आसुरिः ॥ ५७ ॥
ahaṃ sanatkumāraśca nārado bhagavānajaḥ . kapilo apāntaratamo devalo dharma āsuriḥ .. 57 ..
मरीचिप्रमुखाश्चान्ये सिद्धेशाः पारदर्शनाः । विदाम न वयं सर्वे यन्मायां माययाऽऽवृताः ॥ ५८ ॥
marīcipramukhāścānye siddheśāḥ pāradarśanāḥ . vidāma na vayaṃ sarve yanmāyāṃ māyayā''vṛtāḥ .. 58 ..
तस्य विश्वेश्वरस्येदं शस्त्रं दुर्विषहं हि नः । तमेवं शरणं याहि हरिस्ते शं विधास्यति ॥ ५९ ॥
tasya viśveśvarasyedaṃ śastraṃ durviṣahaṃ hi naḥ . tamevaṃ śaraṇaṃ yāhi hariste śaṃ vidhāsyati .. 59 ..
ततो निराशो दुर्वासाः पदं भगवतो ययौ । वैकुण्ठाख्यं यदध्यास्ते श्रीनिवासः श्रिया सह ॥ ६० ॥
tato nirāśo durvāsāḥ padaṃ bhagavato yayau . vaikuṇṭhākhyaṃ yadadhyāste śrīnivāsaḥ śriyā saha .. 60 ..
सन्दह्यमानोऽजितशस्त्रवह्निना तत्पादमूले पतितः सवेपथुः । आहाच्युतानन्त सदीप्सित प्रभो कृतागसं माव हि विश्वभावन ॥ ६१ ॥
sandahyamāno'jitaśastravahninā tatpādamūle patitaḥ savepathuḥ . āhācyutānanta sadīpsita prabho kṛtāgasaṃ māva hi viśvabhāvana .. 61 ..
अजानता ते परमानुभावं कृतं मयाघं भवतः प्रियाणाम् । विधेहि तस्यापचितिं विधातः मुच्येत यन्नाम्न्युदिते नारकोऽपि ॥ ६२ ॥
ajānatā te paramānubhāvaṃ kṛtaṃ mayāghaṃ bhavataḥ priyāṇām . vidhehi tasyāpacitiṃ vidhātaḥ mucyeta yannāmnyudite nārako'pi .. 62 ..
अहं भक्तपराधीनो हि अस्वतंत्र इव द्विज । साधुभिर्ग्रस्तहृदयो भक्तैर्भक्तजनप्रियः ॥ ६३ ॥
ahaṃ bhaktaparādhīno hi asvataṃtra iva dvija . sādhubhirgrastahṛdayo bhaktairbhaktajanapriyaḥ .. 63 ..
नाहं आत्मानमाशासे मद्भक्तैः साधुभिर्विना । श्रियं चात्यन्तिकीं ब्रह्मन् येषां गतिः अहं परा ॥ ६४ ॥
nāhaṃ ātmānamāśāse madbhaktaiḥ sādhubhirvinā . śriyaṃ cātyantikīṃ brahman yeṣāṃ gatiḥ ahaṃ parā .. 64 ..
श्रीभगवानुवाच ।
ये दारागारपुत्राप्तान् प्राणान् वित्तमिमं परम् । हित्वा मां शरणं याताः कथं तान् त्यक्तुमुत्सहे ॥ ६५ ॥
ye dārāgāraputrāptān prāṇān vittamimaṃ param . hitvā māṃ śaraṇaṃ yātāḥ kathaṃ tān tyaktumutsahe .. 65 ..
मयि निर्बद्धहृदयाः साधवः समदर्शनाः । वशीकुर्वन्ति मां भक्त्या सत्स्त्रियः सत्पतिं यथा ॥ ६६ ॥
mayi nirbaddhahṛdayāḥ sādhavaḥ samadarśanāḥ . vaśīkurvanti māṃ bhaktyā satstriyaḥ satpatiṃ yathā .. 66 ..
मत्सेवया प्रतीतं च सालोक्यादि चतुष्टयम् । नेच्छन्ति सेवया पूर्णाः कुतोऽन्यत् कालविद्रुतम् ॥ ६७ ॥
matsevayā pratītaṃ ca sālokyādi catuṣṭayam . necchanti sevayā pūrṇāḥ kuto'nyat kālavidrutam .. 67 ..
साधवो हृदयं मह्यं साधूनां हृदयं त्वहम् । मदन्यत् ते न जानन्ति नाहं तेभ्यो मनागपि ॥ ६८ ॥
sādhavo hṛdayaṃ mahyaṃ sādhūnāṃ hṛdayaṃ tvaham . madanyat te na jānanti nāhaṃ tebhyo manāgapi .. 68 ..
उपायं कथयिष्यामि तव विप्र श्रृणुष्व तत् । अयं ह्यात्माभिचारस्ते यतस्तं याहि मा चिरम् । साधुषु प्रहितं तेजः प्रहर्तुः कुरुतेऽशिवम् ॥ ६९ ॥
upāyaṃ kathayiṣyāmi tava vipra śrṛṇuṣva tat . ayaṃ hyātmābhicāraste yatastaṃ yāhi mā ciram . sādhuṣu prahitaṃ tejaḥ prahartuḥ kurute'śivam .. 69 ..
तपो विद्या च विप्राणां निःश्रेयसकरे उभे । ते एव दुर्विनीतस्य कल्पेते कर्तुरन्यथा ॥ ७० ॥
tapo vidyā ca viprāṇāṃ niḥśreyasakare ubhe . te eva durvinītasya kalpete karturanyathā .. 70 ..
ब्रह्मन् तद् गच्छ भद्रं ते नाभागतनयं नृपम् । क्षमापय महाभागं ततः शान्तिर्भविष्यति ॥ ७१ ॥
brahman tad gaccha bhadraṃ te nābhāgatanayaṃ nṛpam . kṣamāpaya mahābhāgaṃ tataḥ śāntirbhaviṣyati .. 71 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे चतुर्थोऽध्यायः ॥ ४ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ navamaskandhe caturtho'dhyāyaḥ .. 4 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In