| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
एवं भगवताऽऽदिष्टो दुर्वासाश्चक्रतापितः । अंबरीषं उपावृत्य तत्पादौ दुःखितोऽग्रहीत् ॥ १ ॥
एवम् भगवता आदिष्टः दुर्वासाः चक्र-तापितः । अंबरीषम् उपावृत्य तद्-पादौ दुःखितः अग्रहीत् ॥ १ ॥
evam bhagavatā ādiṣṭaḥ durvāsāḥ cakra-tāpitaḥ . aṃbarīṣam upāvṛtya tad-pādau duḥkhitaḥ agrahīt .. 1 ..
तस्य सोद्यमनं वीक्ष्य पादस्पर्शविलज्जितः । अस्तावीत् तत् हरेः अस्त्रं कृपया पीडितो भृशम् ॥ २ ॥
तस्य स उद्यमनम् वीक्ष्य पाद-स्पर्श-विलज्जितः । अस्तावीत् तत् हरेः अस्त्रम् कृपया पीडितः भृशम् ॥ २ ॥
tasya sa udyamanam vīkṣya pāda-sparśa-vilajjitaḥ . astāvīt tat hareḥ astram kṛpayā pīḍitaḥ bhṛśam .. 2 ..
अंबरीष उवाच ।
त्वमग्निर्भगवान् सूर्यः त्वं सोमो ज्योतिषां पतिः । त्वं आपस्त्वं क्षितिर्व्योम वायुर्मात्रेन्द्रियाणि च ॥ ३ ॥
त्वम् अग्निः भगवान् सूर्यः त्वम् सोमः ज्योतिषाम् पतिः । त्वम् आपः त्वम् क्षितिः व्योम वायुः मात्रा-इन्द्रियाणि च ॥ ३ ॥
tvam agniḥ bhagavān sūryaḥ tvam somaḥ jyotiṣām patiḥ . tvam āpaḥ tvam kṣitiḥ vyoma vāyuḥ mātrā-indriyāṇi ca .. 3 ..
सुदर्शन नमस्तुभ्यं सहस्राराच्युतप्रिय । सर्वास्त्रघातिन् विप्राय स्वस्ति भूया इडस्पते ॥ ४ ॥
सुदर्शन नमः तुभ्यम् सहस्र-अर-अच्युत-प्रिय । सर्व-अस्त्र-घातिन् विप्राय स्वस्ति भूयाः इडस्पते ॥ ४ ॥
sudarśana namaḥ tubhyam sahasra-ara-acyuta-priya . sarva-astra-ghātin viprāya svasti bhūyāḥ iḍaspate .. 4 ..
त्वं धर्मस्त्वमृतं सत्यं त्वं यज्ञोऽखिलयज्ञभुक् । त्वं लोकपालः सर्वात्मा त्वं तेजः पौरुषं परम् ॥ ५ ॥
त्वम् धर्मः तु अमृतम् सत्यम् त्वम् यज्ञः अखिल-यज्ञ-भुज् । त्वम् लोकपालः सर्व-आत्मा त्वम् तेजः पौरुषम् परम् ॥ ५ ॥
tvam dharmaḥ tu amṛtam satyam tvam yajñaḥ akhila-yajña-bhuj . tvam lokapālaḥ sarva-ātmā tvam tejaḥ pauruṣam param .. 5 ..
नमः सुनाभाखिलधर्मसेतवे ह्यधर्मशीलासुरधूमकेतवे । त्रैलोक्यगोपाय विशुद्धवर्चसे मनोजवायाद्भुतकर्मणे गृणे ॥ ६ ॥
नमः सुनाभ-अखिल-धर्म-सेतवे हि अधर्म-शील-असुर-धूमकेतवे । त्रैलोक्य-गोपाय विशुद्ध-वर्चसे मनः-जवाय अद्भुत-कर्मणे गृणे ॥ ६ ॥
namaḥ sunābha-akhila-dharma-setave hi adharma-śīla-asura-dhūmaketave . trailokya-gopāya viśuddha-varcase manaḥ-javāya adbhuta-karmaṇe gṛṇe .. 6 ..
त्वत्तेजसा धर्ममयेन संहृतं तमः प्रकाशश्च दृशो महात्मनाम् । दुरत्ययस्ते महिमा गिरां पते त्वद् रूपमेतत् सदसत् परावरम् ॥ ७ ॥
त्वद्-तेजसा धर्म-मयेन संहृतम् तमः प्रकाशः च दृशः महात्मनाम् । दुरत्ययः ते महिमा गिराम् पते त्वत् रूपम् एतत् सत्-असत् परावरम् ॥ ७ ॥
tvad-tejasā dharma-mayena saṃhṛtam tamaḥ prakāśaḥ ca dṛśaḥ mahātmanām . duratyayaḥ te mahimā girām pate tvat rūpam etat sat-asat parāvaram .. 7 ..
यदा विसृष्टस्त्वमनञ्जनेन वै बलं प्रविष्टोऽजित दैत्यदानवम् । बाहूदरोर्वङ्घ्रिशिरोधराणि वृक्णन् अजस्रं प्रधने विराजसे ॥ ८ ॥
यदा विसृष्टः त्वम् अनञ्जनेन वै बलम् प्रविष्टः अजित दैत्य-दानवम् । बाहु-उदर-ऊरु-अङ्घ्रि-शिरोधराणि वृक्णन् अजस्रम् प्रधने विराजसे ॥ ८ ॥
yadā visṛṣṭaḥ tvam anañjanena vai balam praviṣṭaḥ ajita daitya-dānavam . bāhu-udara-ūru-aṅghri-śirodharāṇi vṛkṇan ajasram pradhane virājase .. 8 ..
स त्वं जगत्त्राण खलप्रहाणये निरूपितः सर्वसहो गदाभृता । विप्रस्य चास्मत् कुलदैवहेतवे विधेहि भद्रं तदनुग्रहो हि नः ॥ ९ ॥
स त्वम् जगत्त्राण खल-प्रहाणये निरूपितः सर्व-सहः गदाभृता । विप्रस्य च अस्मत् कुल-दैव-हेतवे विधेहि भद्रम् तद्-अनुग्रहः हि नः ॥ ९ ॥
sa tvam jagattrāṇa khala-prahāṇaye nirūpitaḥ sarva-sahaḥ gadābhṛtā . viprasya ca asmat kula-daiva-hetave vidhehi bhadram tad-anugrahaḥ hi naḥ .. 9 ..
यद्यस्ति दत्तमिष्टं वा स्वधर्मो वा स्वनुष्ठितः । कुलं नो विप्रदैवं चेद् द्विजो भवतु विज्वरः ॥ १० ॥
यदि अस्ति दत्तम् इष्टम् वा स्वधर्मः वा सु अनुष्ठितः । कुलम् नः विप्र-दैवम् चेद् द्विजः भवतु विज्वरः ॥ १० ॥
yadi asti dattam iṣṭam vā svadharmaḥ vā su anuṣṭhitaḥ . kulam naḥ vipra-daivam ced dvijaḥ bhavatu vijvaraḥ .. 10 ..
यदि नो भगवान् प्रीत एकः सर्वगुणाश्रयः । सर्वभूतात्मभावेन द्विजो भवतु विज्वरः ॥ ११ ॥
यदि नः भगवान् प्रीतः एकः सर्व-गुण-आश्रयः । सर्व-भूत-आत्म-भावेन द्विजः भवतु विज्वरः ॥ ११ ॥
yadi naḥ bhagavān prītaḥ ekaḥ sarva-guṇa-āśrayaḥ . sarva-bhūta-ātma-bhāvena dvijaḥ bhavatu vijvaraḥ .. 11 ..
श्रीशुक उवाच ।
इति संस्तुवतो राज्ञो विष्णुचक्रं सुदर्शनम् । अशाम्यत् सर्वतो विप्रं प्रदहद् राजयाच्ञया ॥ १२ ॥
इति संस्तुवतः राज्ञः विष्णु-चक्रम् सुदर्शनम् । अशाम्यत् सर्वतस् विप्रम् प्रदहत् राज-याच्ञया ॥ १२ ॥
iti saṃstuvataḥ rājñaḥ viṣṇu-cakram sudarśanam . aśāmyat sarvatas vipram pradahat rāja-yācñayā .. 12 ..
स मुक्तोऽस्त्राग्नितापेन दुर्वासाः स्वस्तिमान् ततः । प्रशशंस तमुर्वीशं युञ्जानः परमाशिषः ॥ १३ ॥
स मुक्तः अस्त्र-अग्नि-तापेन दुर्वासाः स्वस्तिमान् ततस् । प्रशशंस तम् उर्वी-ईशम् युञ्जानः परम-आशिषः ॥ १३ ॥
sa muktaḥ astra-agni-tāpena durvāsāḥ svastimān tatas . praśaśaṃsa tam urvī-īśam yuñjānaḥ parama-āśiṣaḥ .. 13 ..
दुर्वासा उवाच ।
अहो अनन्तदासानां महत्त्वं दृष्टमद्य मे । कृतागसोऽपि यद् राजन् मंगलानि समीहसे ॥ १४ ॥
अहो अनन्त-दासानाम् महत्त्वम् दृष्टम् अद्य मे । कृत-आगसः अपि यत् राजन् मंगलानि समीहसे ॥ १४ ॥
aho ananta-dāsānām mahattvam dṛṣṭam adya me . kṛta-āgasaḥ api yat rājan maṃgalāni samīhase .. 14 ..
दुष्करः को नु साधूनां दुस्त्यजो वा महात्मनाम् । यैः संगृहीतो भगवान् सात्वतां ऋषभो हरिः ॥ १५ ॥
दुष्करः कः नु साधूनाम् दुस्त्यजः वा महात्मनाम् । यैः संगृहीतः भगवान् सात्वताम् ऋषभः हरिः ॥ १५ ॥
duṣkaraḥ kaḥ nu sādhūnām dustyajaḥ vā mahātmanām . yaiḥ saṃgṛhītaḥ bhagavān sātvatām ṛṣabhaḥ hariḥ .. 15 ..
यन्नामश्रुतिमात्रेण पुमान् भवति निर्मलः । तस्य तीर्थपदः किं वा दासानां अवशिष्यते ॥ १६ ॥
यद्-नाम-श्रुति-मात्रेण पुमान् भवति निर्मलः । तस्य तीर्थ-पदः किम् वा दासानाम् अवशिष्यते ॥ १६ ॥
yad-nāma-śruti-mātreṇa pumān bhavati nirmalaḥ . tasya tīrtha-padaḥ kim vā dāsānām avaśiṣyate .. 16 ..
राजन् अनुगृहीतोऽहं त्वयातिकरुणात्मना । मद् अघं पृष्ठतः कृत्वा प्राणा यन्मेऽभिरक्षिताः ॥ १७ ॥
राजन् अनुगृहीतः अहम् त्वया अति करुण-आत्मना । मत् अघम् पृष्ठतस् कृत्वा प्राणाः यत् मे अभिरक्षिताः ॥ १७ ॥
rājan anugṛhītaḥ aham tvayā ati karuṇa-ātmanā . mat agham pṛṣṭhatas kṛtvā prāṇāḥ yat me abhirakṣitāḥ .. 17 ..
राजा तं अकृताहारः प्रत्यागमनकांक्षया । चरणौ उवुपसंगृह्य प्रसाद्य समभोजयत् ॥ १८ ॥
राजा तम् अ कृत-आहारः प्रत्यागमन-कांक्षया । चरणौ उ उपसंगृह्य प्रसाद्य समभोजयत् ॥ १८ ॥
rājā tam a kṛta-āhāraḥ pratyāgamana-kāṃkṣayā . caraṇau u upasaṃgṛhya prasādya samabhojayat .. 18 ..
सोऽशित्वादृतमानीतं आतिथ्यं सार्वकामिकम् । तृप्तात्मा नृपतिं प्राह भुज्यतां इति सादरम् ॥ १९ ॥
सः अशित्वा आदृतम् आनीतम् आतिथ्यम् सार्वकामिकम् । तृप्त-आत्मा नृपतिम् प्राह भुज्यताम् इति सादरम् ॥ १९ ॥
saḥ aśitvā ādṛtam ānītam ātithyam sārvakāmikam . tṛpta-ātmā nṛpatim prāha bhujyatām iti sādaram .. 19 ..
प्रीतोऽस्मि अनुगृहीतोऽस्मि तव भागवतस्य वै । दर्शनस्पर्शनालापैः आतिथ्येनात्ममेधसा ॥ २० ॥
प्रीतः अस्मि अनुगृहीतः अस्मि तव भागवतस्य वै । दर्शन-स्पर्शन-आलापैः आतिथ्येन आत्म-मेधसा ॥ २० ॥
prītaḥ asmi anugṛhītaḥ asmi tava bhāgavatasya vai . darśana-sparśana-ālāpaiḥ ātithyena ātma-medhasā .. 20 ..
कर्मावदातं एतत् ते गायन्ति स्वःस्त्रियो मुहुः । कीर्तिं परमपुण्यां च कीर्तयिष्यति भूरियम् ॥ २१ ॥
कर्म-अवदातम् एतत् ते गायन्ति स्वःस्त्रियः मुहुर् । कीर्तिम् परम-पुण्याम् च कीर्तयिष्यति भूः इयम् ॥ २१ ॥
karma-avadātam etat te gāyanti svaḥstriyaḥ muhur . kīrtim parama-puṇyām ca kīrtayiṣyati bhūḥ iyam .. 21 ..
श्रीशुक उवाच ।
एवं संकीर्त्य राजानं दुर्वासाः परितोषितः । ययौ विहायसाऽऽमंत्र्य ब्रह्मलोकमहैतुकम् ॥ २२ ॥
एवम् संकीर्त्य राजानम् दुर्वासाः परितोषितः । ययौ विहायसा आमंत्र्य ब्रह्म-लोकम् अहैतुकम् ॥ २२ ॥
evam saṃkīrtya rājānam durvāsāḥ paritoṣitaḥ . yayau vihāyasā āmaṃtrya brahma-lokam ahaitukam .. 22 ..
संवत्सरोऽत्यगात् तावद् यावता नागतो गतः । मुनिस्तद्दर्शनाकांक्षो राजाऽब्भक्षो बभूव ह ॥ २३ ॥
संवत्सरः अत्यगात् तावत् यावता न अगतः गतः । मुनिः तद्-दर्शन-आकांक्षः राजा अब्भक्षः बभूव ह ॥ २३ ॥
saṃvatsaraḥ atyagāt tāvat yāvatā na agataḥ gataḥ . muniḥ tad-darśana-ākāṃkṣaḥ rājā abbhakṣaḥ babhūva ha .. 23 ..
गतेऽथ दुर्वाससि सोऽम्बरीषो द्विजोपयोगातिपवित्रमाहरत् । ऋषेर्विमोक्षं व्यसनं च बुद्ध्वा मेने स्ववीर्यं च परानुभावम् ॥ २४ ॥
गते अथ दुर्वाससि सः अम्बरीषः द्विज-उपयोग-अति पवित्रम् आहरत् । ऋषेः विमोक्षम् व्यसनम् च बुद्ध्वा मेने स्व-वीर्यम् च पर-अनुभावम् ॥ २४ ॥
gate atha durvāsasi saḥ ambarīṣaḥ dvija-upayoga-ati pavitram āharat . ṛṣeḥ vimokṣam vyasanam ca buddhvā mene sva-vīryam ca para-anubhāvam .. 24 ..
परात्मनि ब्रह्मणि वासुदेवे । क्रियाकलापैः समुवाह भक्तिं ययाऽऽविरिञ्च्यान् निरयांश्चकार ॥ २५ ॥
परात्मनि ब्रह्मणि वासुदेवे । क्रिया-कलापैः समुवाह भक्तिम् यया आ विरिञ्च्यात् निरयान् चकार ॥ २५ ॥
parātmani brahmaṇi vāsudeve . kriyā-kalāpaiḥ samuvāha bhaktim yayā ā viriñcyāt nirayān cakāra .. 25 ..
श्रीशुक उवाच ।
अथाम्बरीषस्तनयेषु राज्यं समानशीलेषु विसृज्य धीरः । वनं विवेशात्मनि वासुदेवे मनो दधद् ध्वस्तगुणप्रवाहः ॥ २६ ॥
अथ अम्बरीषः तनयेषु राज्यम् समान-शीलेषु विसृज्य धीरः । वनम् विवेश आत्मनि वासुदेवे मनः दधत् ध्वस्त-गुण-प्रवाहः ॥ २६ ॥
atha ambarīṣaḥ tanayeṣu rājyam samāna-śīleṣu visṛjya dhīraḥ . vanam viveśa ātmani vāsudeve manaḥ dadhat dhvasta-guṇa-pravāhaḥ .. 26 ..
इत्येतत् पुण्यमाख्यानं अंबरीषस्य भूपतेः । संकीर्तयन् अनुध्यायन् भक्तो भगवतो भवेत् ॥ २७ ॥
इति एतत् पुण्यम् आख्यानम् अंबरीषस्य भूपतेः । संकीर्तयन् अनुध्यायन् भक्तः भगवतः भवेत् ॥ २७ ॥
iti etat puṇyam ākhyānam aṃbarīṣasya bhūpateḥ . saṃkīrtayan anudhyāyan bhaktaḥ bhagavataḥ bhavet .. 27 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे पञ्चमोऽध्यायः ॥ ५ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् नवम-स्कन्धे पञ्चमः अध्यायः ॥ ५ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām navama-skandhe pañcamaḥ adhyāyaḥ .. 5 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In