| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
विरूपः केतुमान् शंभुः अंबरीषसुतास्त्रयः । विरूपात्पृषदश्वोऽभूत् तत्पुत्रस्तु रथीतरः ॥ १ ॥
विरूपः केतुमान् शंभुः अंबरीष-सुताः त्रयः । विरूपात् पृषदश्वः अभूत् तद्-पुत्रः तु रथीतरः ॥ १ ॥
virūpaḥ ketumān śaṃbhuḥ aṃbarīṣa-sutāḥ trayaḥ . virūpāt pṛṣadaśvaḥ abhūt tad-putraḥ tu rathītaraḥ .. 1 ..
रथीतरस्याप्रजस्य भार्यायां तन्तवेऽर्थितः । अङ्गिरा जनयामास ब्रह्मवर्चस्विनः सुतान् ॥ २ ॥
रथीतरस्य अप्रजस्य भार्यायाम् तन्तवे अर्थितः । अङ्गिराः जनयामास ब्रह्म-वर्चस्विनः सुतान् ॥ २ ॥
rathītarasya aprajasya bhāryāyām tantave arthitaḥ . aṅgirāḥ janayāmāsa brahma-varcasvinaḥ sutān .. 2 ..
एते क्षेत्रप्रसूता वै पुनस्त्वाङ्गिरसाः स्मृताः । रथीतराणां प्रवराः क्षत्रोपेता द्विजातयः ॥ ३ ॥
एते क्षेत्र-प्रसूताः वै पुनर् तु आङ्गिरसाः स्मृताः । रथीतराणाम् प्रवराः क्षत्र-उपेताः द्विजातयः ॥ ३ ॥
ete kṣetra-prasūtāḥ vai punar tu āṅgirasāḥ smṛtāḥ . rathītarāṇām pravarāḥ kṣatra-upetāḥ dvijātayaḥ .. 3 ..
क्षुवतस्तु मनोर्जज्ञे इक्ष्वाकुर्घ्राणतः सुतः । तस्य पुत्रशतज्येष्ठा विकुक्षिनिमिदण्डकाः ॥ ४ ॥
क्षुवतः तु मनोः जज्ञे इक्ष्वाकुः घ्राणतः सुतः । तस्य पुत्र-शत-ज्येष्ठाः विकुक्षि-निमि-दण्डकाः ॥ ४ ॥
kṣuvataḥ tu manoḥ jajñe ikṣvākuḥ ghrāṇataḥ sutaḥ . tasya putra-śata-jyeṣṭhāḥ vikukṣi-nimi-daṇḍakāḥ .. 4 ..
तेषां पुरस्ताद् अभवन् आर्यावर्ते नृपा नृप । पञ्चविंशतिः पश्चाच्च त्रयो मध्ये परेऽन्यतः ॥ ५ ॥
तेषाम् पुरस्तात् अभवन् आर्यावर्ते नृपाः नृप । पञ्चविंशतिः पश्चात् च त्रयः मध्ये परे अन्यतस् ॥ ५ ॥
teṣām purastāt abhavan āryāvarte nṛpāḥ nṛpa . pañcaviṃśatiḥ paścāt ca trayaḥ madhye pare anyatas .. 5 ..
स एकदाष्टकाश्राद्धे इक्ष्वाकुः सुतमादिशत् । मांसमानीयतां मेध्यं विकुक्षे गच्छ मा चिरम् ॥ ६ ॥
सः एकदा अष्टका-श्राद्धे इक्ष्वाकुः सुतम् आदिशत् । मांसम् आनीयताम् मेध्यम् विकुक्षे गच्छ मा चिरम् ॥ ६ ॥
saḥ ekadā aṣṭakā-śrāddhe ikṣvākuḥ sutam ādiśat . māṃsam ānīyatām medhyam vikukṣe gaccha mā ciram .. 6 ..
तथेति स वनं गत्वा मृगान् हत्वा क्रियार्हणान् । श्रान्तो बुभुक्षितो वीरः शशं चाददपस्मृतिः ॥ ७ ॥
तथा इति स वनम् गत्वा मृगान् हत्वा क्रिया-अर्हणान् । श्रान्तः बुभुक्षितः वीरः शशम् च अदत् अपस्मृतिः ॥ ७ ॥
tathā iti sa vanam gatvā mṛgān hatvā kriyā-arhaṇān . śrāntaḥ bubhukṣitaḥ vīraḥ śaśam ca adat apasmṛtiḥ .. 7 ..
शेषं निवेदयामास पित्रे तेन च तद्गुरुः । चोदितः प्रोक्षणायाह दुष्टमेतद् अकर्मकम् ॥ ८ ॥
शेषम् निवेदयामास पित्रे तेन च तद्-गुरुः । चोदितः प्रोक्षणाय आह दुष्टम् एतत् अकर्मकम् ॥ ८ ॥
śeṣam nivedayāmāsa pitre tena ca tad-guruḥ . coditaḥ prokṣaṇāya āha duṣṭam etat akarmakam .. 8 ..
ज्ञात्वा पुत्रस्य तत्कर्म गुरुणाभिहितं नृपः । देशान्निःसारयामास सुतं त्यक्तविधिं रुषा ॥ ९ ॥
ज्ञात्वा पुत्रस्य तत् कर्म गुरुणा अभिहितम् नृपः । देशात् निःसारयामास सुतम् त्यक्त-विधिम् रुषा ॥ ९ ॥
jñātvā putrasya tat karma guruṇā abhihitam nṛpaḥ . deśāt niḥsārayāmāsa sutam tyakta-vidhim ruṣā .. 9 ..
स तु विप्रेण संवादं जापकेन समाचरन् । त्यक्त्वा कलेवरं योगी स तेनावाप यत् परम् ॥ १० ॥
स तु विप्रेण संवादम् जापकेन समाचरन् । त्यक्त्वा कलेवरम् योगी स तेन अवाप यत् परम् ॥ १० ॥
sa tu vipreṇa saṃvādam jāpakena samācaran . tyaktvā kalevaram yogī sa tena avāpa yat param .. 10 ..
पितर्युपरतेऽभ्येत्य विकुक्षिः पृथिवीमिमाम् । शासदीजे हरिं यज्ञैः शशाद इति विश्रुतः ॥ ११ ॥
पितरि उपरते अभ्येत्य विकुक्षिः पृथिवीम् इमाम् । शासत् ईजे हरिम् यज्ञैः शशादः इति विश्रुतः ॥ ११ ॥
pitari uparate abhyetya vikukṣiḥ pṛthivīm imām . śāsat īje harim yajñaiḥ śaśādaḥ iti viśrutaḥ .. 11 ..
पुरञ्जयस्तस्य सुत इन्द्रवाह इतीरितः । ककुत्स्थ इति चाप्युक्तः शृणु नामानि कर्मभिः ॥ १२ ॥
पुरञ्जयः तस्य सुतः इन्द्रवाहः इति ईरितः । ककुत्स्थः इति च अपि उक्तः शृणु नामानि कर्मभिः ॥ १२ ॥
purañjayaḥ tasya sutaḥ indravāhaḥ iti īritaḥ . kakutsthaḥ iti ca api uktaḥ śṛṇu nāmāni karmabhiḥ .. 12 ..
कृतान्त आसीत् समरो देवानां सह दानवैः । पार्ष्णिग्राहो वृतो वीरो देवैर्दैत्यपराजितैः ॥ १३ ॥
कृतान्तः आसीत् समरः देवानाम् सह दानवैः । पार्ष्णिग्राहः वृतः वीरः देवैः दैत्य-पराजितैः ॥ १३ ॥
kṛtāntaḥ āsīt samaraḥ devānām saha dānavaiḥ . pārṣṇigrāhaḥ vṛtaḥ vīraḥ devaiḥ daitya-parājitaiḥ .. 13 ..
वचनाद् देवदेवस्य विष्णोर्विश्वात्मनः प्रभोः । वाहनत्वे वृतस्तस्य बभूवेन्द्रो महावृषः ॥ १४ ॥
वचनात् देवदेवस्य विष्णोः विश्वात्मनः प्रभोः । वाहन-त्वे वृतः तस्य बभूव इन्द्रः महा-वृषः ॥ १४ ॥
vacanāt devadevasya viṣṇoḥ viśvātmanaḥ prabhoḥ . vāhana-tve vṛtaḥ tasya babhūva indraḥ mahā-vṛṣaḥ .. 14 ..
स सन्नद्धो धनुर्दिव्यं आदाय विशिखान्छितान् । स्तूयमानः समारुह्य युयुत्सुः ककुदि स्थितः ॥ १५ ॥
स सन्नद्धः धनुः दिव्यम् आदाय विशिखान् शितान् । स्तूयमानः समारुह्य युयुत्सुः ककुदि स्थितः ॥ १५ ॥
sa sannaddhaḥ dhanuḥ divyam ādāya viśikhān śitān . stūyamānaḥ samāruhya yuyutsuḥ kakudi sthitaḥ .. 15 ..
तेजसाऽऽप्यायितो विष्णोः पुरुषस्य परात्मनः । प्रतीच्यां दिशि दैत्यानां न्यरुणत् त्रिदशैः पुरम् ॥ १६ ॥
तेजसा आप्यायितः विष्णोः पुरुषस्य परात्मनः । प्रतीच्याम् दिशि दैत्यानाम् न्यरुणत् त्रिदशैः पुरम् ॥ १६ ॥
tejasā āpyāyitaḥ viṣṇoḥ puruṣasya parātmanaḥ . pratīcyām diśi daityānām nyaruṇat tridaśaiḥ puram .. 16 ..
तैस्तस्य चाभूत् प्रधनं तुमुलं लोमहर्षणम् । यमाय भल्लैरनयद् दैत्यान् येऽभिययुर्मृधे ॥ १७ ॥
तैः तस्य च अभूत् प्रधनम् तुमुलम् लोम-हर्षणम् । यमाय भल्लैः अनयत् दैत्यान् ये अभिययुः मृधे ॥ १७ ॥
taiḥ tasya ca abhūt pradhanam tumulam loma-harṣaṇam . yamāya bhallaiḥ anayat daityān ye abhiyayuḥ mṛdhe .. 17 ..
तस्येषुपाताभिमुखं युगान्ताग्निं इवोल्बणम् । विसृज्य दुद्रुवुर्दैत्या हन्यमानाः स्वमालयम् ॥ १८ ॥
तस्य इषु-पात-अभिमुखम् युगान्त-अग्निम् इव उल्बणम् । विसृज्य दुद्रुवुः दैत्याः हन्यमानाः स्वम् आलयम् ॥ १८ ॥
tasya iṣu-pāta-abhimukham yugānta-agnim iva ulbaṇam . visṛjya dudruvuḥ daityāḥ hanyamānāḥ svam ālayam .. 18 ..
जित्वा परं धनं सर्वं सश्रीकं वज्रपाणये । प्रत्ययच्छत्स राजर्षिः इति नामभिराहृतः ॥ १९ ॥
जित्वा परम् धनम् सर्वम् स श्रीकम् वज्रपाणये । प्रत्ययच्छत् स राजर्षिः इति नामभिः आहृतः ॥ १९ ॥
jitvā param dhanam sarvam sa śrīkam vajrapāṇaye . pratyayacchat sa rājarṣiḥ iti nāmabhiḥ āhṛtaḥ .. 19 ..
पुरञ्जयस्य पुत्रोऽभूद् अनेनास्तत्सुतः पृथुः । विश्वगन्धिस्ततश्चन्द्रो युवनाश्वस्तु तत्सुतः ॥ २० ॥
पुरञ्जयस्य पुत्रः अभूत् अनेनाः तद्-सुतः पृथुः । विश्वगन्धिः ततस् चन्द्रः युवनाश्वः तु तद्-सुतः ॥ २० ॥
purañjayasya putraḥ abhūt anenāḥ tad-sutaḥ pṛthuḥ . viśvagandhiḥ tatas candraḥ yuvanāśvaḥ tu tad-sutaḥ .. 20 ..
शाबस्तः तत्सुतो येन शाबस्ती निर्ममे पुरी । बृहदश्वस्तु शाबस्तिः ततः कुवलयाश्वकः ॥ २१ ॥
शाबस्तः तद्-सुतः येन शाबस्ती निर्ममे पुरी । बृहदश्वः तु शाबस्तिः ततस् कुवलयाश्वकः ॥ २१ ॥
śābastaḥ tad-sutaḥ yena śābastī nirmame purī . bṛhadaśvaḥ tu śābastiḥ tatas kuvalayāśvakaḥ .. 21 ..
यः प्रियार्थमुतंकस्य धुन्धुनामासुरं बली । सुतानां एकविंशत्या सहस्रैः अहनद् वृतः ॥ २२ ॥
यः प्रिय-अर्थम् उतंकस्य धुन्धु-नाम-असुरम् बली । सुतानाम् एकविंशत्या सहस्रैः अहनत् वृतः ॥ २२ ॥
yaḥ priya-artham utaṃkasya dhundhu-nāma-asuram balī . sutānām ekaviṃśatyā sahasraiḥ ahanat vṛtaḥ .. 22 ..
धुन्धुमार इति ख्यातः तत्सुतास्ते च जज्वलुः । धुन्धोर्मुखाग्निना सर्वे त्रय एवावशेषिताः ॥ २३ ॥
धुन्धुमारः इति ख्यातः तद्-सुताः ते च जज्वलुः । धुन्धोः मुख-अग्निना सर्वे त्रयः एव अवशेषिताः ॥ २३ ॥
dhundhumāraḥ iti khyātaḥ tad-sutāḥ te ca jajvaluḥ . dhundhoḥ mukha-agninā sarve trayaḥ eva avaśeṣitāḥ .. 23 ..
दृढाश्वः कपिलाश्वश्च भद्राश्व इति भारत । दृढाश्वपुत्रो हर्यश्वो निकुम्भः तत्सुतः स्मृतः ॥ २४ ॥
दृढाश्वः कपिलाश्वः च भद्राश्वः इति भारत । दृढाश्व-पुत्रः हर्यश्वः निकुम्भः तद्-सुतः स्मृतः ॥ २४ ॥
dṛḍhāśvaḥ kapilāśvaḥ ca bhadrāśvaḥ iti bhārata . dṛḍhāśva-putraḥ haryaśvaḥ nikumbhaḥ tad-sutaḥ smṛtaḥ .. 24 ..
बहुलाश्वो निकुम्भस्य कृशाश्वोऽथास्य सेनजित् । युवनाश्वोऽभवत्तस्य सोऽनपत्यो वनं गतः ॥ २५ ॥
बहुलाश्वः निकुम्भस्य कृशाश्वः अथ अस्य सेनजित् । युवनाश्वः अभवत् तस्य सः अनपत्यः वनम् गतः ॥ २५ ॥
bahulāśvaḥ nikumbhasya kṛśāśvaḥ atha asya senajit . yuvanāśvaḥ abhavat tasya saḥ anapatyaḥ vanam gataḥ .. 25 ..
भार्याशतेन निर्विण्ण ऋषयोऽस्य कृपालवः । इष्टिं स्म वर्तयां चक्रुः ऐन्द्रीं ते सुसमाहिताः ॥ २६ ॥
भार्या-शतेन निर्विण्णः ऋषयः अस्य कृपालवः । इष्टिम् स्म वर्तयाम् ऐन्द्रीम् ते सु समाहिताः ॥ २६ ॥
bhāryā-śatena nirviṇṇaḥ ṛṣayaḥ asya kṛpālavaḥ . iṣṭim sma vartayām aindrīm te su samāhitāḥ .. 26 ..
राजा तद् यज्ञसदनं प्रविष्टो निशि तर्षितः । दृष्ट्वा शयानान् विप्रांस्तान् पपौ मंत्रजलं स्वयम् ॥ २७ ॥
राजा तत् यज्ञ-सदनम् प्रविष्टः निशि तर्षितः । दृष्ट्वा शयानान् विप्रान् तान् पपौ मंत्र-जलम् स्वयम् ॥ २७ ॥
rājā tat yajña-sadanam praviṣṭaḥ niśi tarṣitaḥ . dṛṣṭvā śayānān viprān tān papau maṃtra-jalam svayam .. 27 ..
उत्थितास्ते निशम्याथ व्युदकं कलशं प्रभो । पप्रच्छुः कस्य कर्मेदं पीतं पुंसवनं जलम् ॥ २८ ॥
उत्थिताः ते निशम्य अथ व्युदकम् कलशम् प्रभो । पप्रच्छुः कस्य कर्म इदम् पीतम् पुंसवनम् जलम् ॥ २८ ॥
utthitāḥ te niśamya atha vyudakam kalaśam prabho . papracchuḥ kasya karma idam pītam puṃsavanam jalam .. 28 ..
राज्ञा पीतं विदित्वाथ ईश्वरप्रहितेन ते । ईश्वराय नमश्चक्रुः अहो दैवबलं बलम् ॥ २९ ॥
राज्ञा पीतम् विदित्वा अथ ईश्वर-प्रहितेन ते । ईश्वराय नमश्चक्रुः अहो दैव-बलम् बलम् ॥ २९ ॥
rājñā pītam viditvā atha īśvara-prahitena te . īśvarāya namaścakruḥ aho daiva-balam balam .. 29 ..
ततः काल उपावृत्ते कुक्षिं निर्भिद्य दक्षिणम् । युवनाश्वस्य तनयः चक्रवर्ती जजान ह ॥ ३० ॥
ततस् काले उपावृत्ते कुक्षिम् निर्भिद्य दक्षिणम् । युवनाश्वस्य तनयः चक्रवर्ती जजान ह ॥ ३० ॥
tatas kāle upāvṛtte kukṣim nirbhidya dakṣiṇam . yuvanāśvasya tanayaḥ cakravartī jajāna ha .. 30 ..
कं धास्यति कुमारोऽयं स्तन्यं रोरूयते भृशम् । मां धाता वत्स मा रोदीः इतीन्द्रो देशिनीमदात् ॥ ३१ ॥
कम् धास्यति कुमारः अयम् स्तन्यम् रोरूयते भृशम् । माम् धाता वत्स मा रोदीः इति इन्द्रः देशिनीम् अदात् ॥ ३१ ॥
kam dhāsyati kumāraḥ ayam stanyam rorūyate bhṛśam . mām dhātā vatsa mā rodīḥ iti indraḥ deśinīm adāt .. 31 ..
न ममार पिता तस्य विप्रदेवप्रसादतः । युवनाश्वोऽथ तत्रैव तपसा सिद्धिमन्वगात् ॥ ३२ ॥
न ममार पिता तस्य विप्र-देव-प्रसादतः । युवनाश्वः अथ तत्र एव तपसा सिद्धिम् अन्वगात् ॥ ३२ ॥
na mamāra pitā tasya vipra-deva-prasādataḥ . yuvanāśvaḥ atha tatra eva tapasā siddhim anvagāt .. 32 ..
त्रसद्दस्युरितीन्द्रोऽङ्ग विदधे नाम यस्य वै । यस्मात् त्रसन्ति हि उद्विग्ना दस्यवो रावणादयः ॥ ३३ ॥
त्रसत्-दस्युः इति इन्द्रः अङ्ग विदधे नाम यस्य वै । यस्मात् त्रसन्ति हि उद्विग्नाः दस्यवः रावण-आदयः ॥ ३३ ॥
trasat-dasyuḥ iti indraḥ aṅga vidadhe nāma yasya vai . yasmāt trasanti hi udvignāḥ dasyavaḥ rāvaṇa-ādayaḥ .. 33 ..
यौवनाश्वोऽथ मान्धाता चक्रवर्त्यवनीं प्रभुः । सप्तद्वीपवतीमेकः शशासाच्युततेजसा ॥ ३४ ॥
यौवनाश्वः अथ मान्धाता चक्रवर्ती अवनीम् प्रभुः । सप्त-द्वीपवतीम् एकः शशास अच्युत-तेजसा ॥ ३४ ॥
yauvanāśvaḥ atha māndhātā cakravartī avanīm prabhuḥ . sapta-dvīpavatīm ekaḥ śaśāsa acyuta-tejasā .. 34 ..
ईजे च यज्ञं क्रतुभिः आत्मविद् भूरिदक्षिणैः । सर्वदेवमयं देवं सर्वात्मकमतीन्द्रियम् ॥ ३५ ॥
ईजे च यज्ञम् क्रतुभिः आत्म-विद् भूरि-दक्षिणैः । सर्व-देव-मयम् देवम् सर्व-आत्मकम् अतीन्द्रियम् ॥ ३५ ॥
īje ca yajñam kratubhiḥ ātma-vid bhūri-dakṣiṇaiḥ . sarva-deva-mayam devam sarva-ātmakam atīndriyam .. 35 ..
द्रव्यं मंत्रो विधिर्यज्ञो यजमानस्तथर्त्विजः । धर्मो देशश्च कालश्च सर्वं एतद् यदात्मकम् ॥ ३६ ॥
द्रव्यम् मंत्रः विधिः यज्ञः यजमानः तथा ऋत्विजः । धर्मः देशः च कालः च सर्वम् एतत् यद्-आत्मकम् ॥ ३६ ॥
dravyam maṃtraḥ vidhiḥ yajñaḥ yajamānaḥ tathā ṛtvijaḥ . dharmaḥ deśaḥ ca kālaḥ ca sarvam etat yad-ātmakam .. 36 ..
यावत् सूर्य उदेति स्म यावच्च प्रतितिष्ठति । सर्वं तत् यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥ ३७ ॥
यावत् सूर्यः उदेति स्म यावत् च प्रतितिष्ठति । सर्वम् तत् यौवनाश्वस्य मान्धातुः क्षेत्रम् उच्यते ॥ ३७ ॥
yāvat sūryaḥ udeti sma yāvat ca pratitiṣṭhati . sarvam tat yauvanāśvasya māndhātuḥ kṣetram ucyate .. 37 ..
शशबिन्दोर्दुहितरि बिन्दुमत्यामधान् नृपः । पुरुकुत्सं अंबरीषं मुचुकुन्दं च योगिनम् । तेषां स्वसारः पञ्चाशत् सौभरिं वव्रिरे पतिम् ॥ ३८॥
शशबिन्दोः दुहितरि बिन्दुमत्याम् अधात् नृपः । पुरुकुत्सम् अंबरीषम् मुचुकुन्दम् च योगिनम् । तेषाम् स्वसारः पञ्चाशत् सौभरिम् वव्रिरे पतिम् ॥ ३८॥
śaśabindoḥ duhitari bindumatyām adhāt nṛpaḥ . purukutsam aṃbarīṣam mucukundam ca yoginam . teṣām svasāraḥ pañcāśat saubharim vavrire patim .. 38..
यमुनान्तर्जले मग्नः तप्यमानः परंतपः । निर्वृतिं मीनराजस्य दृष्ट्वा मैथुनधर्मिणः ॥ ३९ ॥
यमुना-अन्तर् जले मग्नः तप्यमानः परंतपः । निर्वृतिम् मीन-राजस्य दृष्ट्वा मैथुन-धर्मिणः ॥ ३९ ॥
yamunā-antar jale magnaḥ tapyamānaḥ paraṃtapaḥ . nirvṛtim mīna-rājasya dṛṣṭvā maithuna-dharmiṇaḥ .. 39 ..
जातस्पृहो नृपं विप्रः कन्यां एकां अयाचत । सोऽप्याह गृह्यतां ब्रह्मन् कामं कन्या स्वयंवरे ॥ ४० ॥
जात-स्पृहः नृपम् विप्रः कन्याम् एकाम् अयाचत । सः अपि आह गृह्यताम् ब्रह्मन् कामम् कन्या स्वयंवरे ॥ ४० ॥
jāta-spṛhaḥ nṛpam vipraḥ kanyām ekām ayācata . saḥ api āha gṛhyatām brahman kāmam kanyā svayaṃvare .. 40 ..
स विचिन्त्याप्रियं स्त्रीणां जरठोऽयं असम्मतः । वलीपलित एजत्क इत्यहं प्रत्युदाहृतः ॥ ४१ ॥
स विचिन्त्य अप्रियम् स्त्रीणाम् जरठः अयम् अ सम्मतः । वलीपलिते एजत्कः इति अहम् प्रत्युदाहृतः ॥ ४१ ॥
sa vicintya apriyam strīṇām jaraṭhaḥ ayam a sammataḥ . valīpalite ejatkaḥ iti aham pratyudāhṛtaḥ .. 41 ..
साधयिष्ये तथात्मानं सुरस्त्रीणामभीप्सितम् । किं पुनर्मनुजेन्द्राणां इति व्यवसितः प्रभुः ॥ ४२ ॥
साधयिष्ये तथा आत्मानम् सुर-स्त्रीणाम् अभीप्सितम् । किम् पुनर् मनुज-इन्द्राणाम् इति व्यवसितः प्रभुः ॥ ४२ ॥
sādhayiṣye tathā ātmānam sura-strīṇām abhīpsitam . kim punar manuja-indrāṇām iti vyavasitaḥ prabhuḥ .. 42 ..
मुनिः प्रवेशितः क्षत्त्रा कन्यान्तःपुरमृद्धिमत् । वृतः स राजकन्याभिः एकं पञ्चाशता वरः ॥ ४३ ॥
मुनिः प्रवेशितः क्षत्त्रा कन्या-अन्तःपुरम् ऋद्धिमत् । वृतः स राज-कन्याभिः एकम् पञ्चाशता वरः ॥ ४३ ॥
muniḥ praveśitaḥ kṣattrā kanyā-antaḥpuram ṛddhimat . vṛtaḥ sa rāja-kanyābhiḥ ekam pañcāśatā varaḥ .. 43 ..
तासां कलिरभूद् भूयान् तत् अर्थेऽपोह्य सौहृदम् । ममानुरूपो नायं व इति तद्गतचेतसाम् ॥ ४४ ॥
तासाम् कलिः अभूत् भूयान् तत् अर्थे अपोह्य सौहृदम् । मम अनुरूपः न अयम् वः इति तद्-गत-चेतसाम् ॥ ४४ ॥
tāsām kaliḥ abhūt bhūyān tat arthe apohya sauhṛdam . mama anurūpaḥ na ayam vaḥ iti tad-gata-cetasām .. 44 ..
स बह्वृचस्ताभिरपारणीय तपःश्रियानर्घ्यपरिच्छदेषु । गृहेषु नानोपवनामलाम्भः सरःसु सौगन्धिककाननेषु ॥ ४५ ॥
स बह्वृचः ताभिः अ पारणीय तपः-श्रिया अन् अर्घ्य-परिच्छदेषु । गृहेषु नाना उपवन-अमल-अम्भः सरःसु सौगन्धिक-काननेषु ॥ ४५ ॥
sa bahvṛcaḥ tābhiḥ a pāraṇīya tapaḥ-śriyā an arghya-paricchadeṣu . gṛheṣu nānā upavana-amala-ambhaḥ saraḥsu saugandhika-kānaneṣu .. 45 ..
महार्हशय्यासनवस्त्रभूषण स्नानानुलेपाभ्यवहारमाल्यकैः । स्वलङ्कृतस्त्रीपुरुषेषु नित्यदा रेमेऽनुगायद् द्विजभृङ्गवन्दिषु ॥ ४६ ॥
महार्ह-शय्या-आसन-वस्त्र-भूषण-स्नान-अनुलेप-अभ्यवहार-माल्यकैः । सु अलङ्कृत-स्त्री-पुरुषेषु नित्यदा रेमे अनुगायत् द्विज-भृङ्ग-वन्दिषु ॥ ४६ ॥
mahārha-śayyā-āsana-vastra-bhūṣaṇa-snāna-anulepa-abhyavahāra-mālyakaiḥ . su alaṅkṛta-strī-puruṣeṣu nityadā reme anugāyat dvija-bhṛṅga-vandiṣu .. 46 ..
यद्गार्हस्थ्यं तु संवीक्ष्य सप्तद्वीपवतीपतिः । विस्मितः स्तम्भमजहात् सार्वभौमश्रियान्वितम् ॥ ४७ ॥
यत् गार्हस्थ्यम् तु संवीक्ष्य सप्त-द्वीपवती-पतिः । विस्मितः स्तम्भम् अजहात् सार्वभौम-श्रिया अन्वितम् ॥ ४७ ॥
yat gārhasthyam tu saṃvīkṣya sapta-dvīpavatī-patiḥ . vismitaḥ stambham ajahāt sārvabhauma-śriyā anvitam .. 47 ..
एवं गृहेष्वभिरतो विषयान् विविधैः सुखैः । सेवमानो न चातुष्यद् आज्यस्तोकैरिवानलः ॥ ४८ ॥
एवम् गृहेषु अभिरतः विषयान् विविधैः सुखैः । सेवमानः न चातुष्यत् आज्य-स्तोकैः इव अनलः ॥ ४८ ॥
evam gṛheṣu abhirataḥ viṣayān vividhaiḥ sukhaiḥ . sevamānaḥ na cātuṣyat ājya-stokaiḥ iva analaḥ .. 48 ..
स कदाचिद् उपासीन आत्मापह्नवमात्मनः । ददर्श बह्वृचाचार्यो मीनसङ्गसमुत्थितम् ॥ ४९ ॥
स कदाचिद् उपासीनः आत्म-अपह्नवम् आत्मनः । ददर्श बह्वृच-आचार्यः मीन-सङ्ग-समुत्थितम् ॥ ४९ ॥
sa kadācid upāsīnaḥ ātma-apahnavam ātmanaḥ . dadarśa bahvṛca-ācāryaḥ mīna-saṅga-samutthitam .. 49 ..
अहो इमं पश्यत मे विनाशं तपस्विनः सच्चरितव्रतस्य । अन्तर्जले वारिचरप्रसङ्गात् प्रच्यावितं ब्रह्म चिरं धृतं यत् ॥ ५० ॥
अहो इमम् पश्यत मे विनाशम् तपस्विनः सत्-चरित-व्रतस्य । अन्तर् जले वारिचर-प्रसङ्गात् प्रच्यावितम् ब्रह्म चिरम् धृतम् यत् ॥ ५० ॥
aho imam paśyata me vināśam tapasvinaḥ sat-carita-vratasya . antar jale vāricara-prasaṅgāt pracyāvitam brahma ciram dhṛtam yat .. 50 ..
सङ्गं त्यजेत मिथुनव्रतीनां मुमुक्षुः । सर्वात्मना न विसृजेद् बहिरिन्द्रियाणि ॥ एकश्चरन् रहसि चित्तमनन्त ईशे । युञ्जीत तद्व्रतिषु साधुषु चेत् प्रसङ्गः ॥ ५१ ॥
सङ्गम् त्यजेत मिथुन-व्रतीनाम् मुमुक्षुः । सर्व-आत्मना न विसृजेत् बहिस् इन्द्रियाणि ॥ एकः चरन् रहसि चित्तम् अनन्तः ईशे । युञ्जीत तद्-व्रतिषु साधुषु चेद् प्रसङ्गः ॥ ५१ ॥
saṅgam tyajeta mithuna-vratīnām mumukṣuḥ . sarva-ātmanā na visṛjet bahis indriyāṇi .. ekaḥ caran rahasi cittam anantaḥ īśe . yuñjīta tad-vratiṣu sādhuṣu ced prasaṅgaḥ .. 51 ..
एकस्तपस्व्यहमथाम्भसि मत्स्यसङ्गात् पञ्चाशदासमुत पञ्चसहस्रसर्गः । नान्तं व्रजाम्युभयकृत्यमनोरथानां मायागुणैः हृतमतिर्विषयेऽर्थभावः ॥ ५२ ॥
एकः तपस्वी अहम् अथ अम्भसि मत्स्य-सङ्गात् पञ्चाशत्-आसम् उत पञ्च-सहस्र-सर्गः । न अन्तम् व्रजामि उभय-कृत्य-मनोरथानाम् माया-गुणैः हृत-मतिः विषये अर्थ-भावः ॥ ५२ ॥
ekaḥ tapasvī aham atha ambhasi matsya-saṅgāt pañcāśat-āsam uta pañca-sahasra-sargaḥ . na antam vrajāmi ubhaya-kṛtya-manorathānām māyā-guṇaiḥ hṛta-matiḥ viṣaye artha-bhāvaḥ .. 52 ..
एवं वसन् गृहे कालं विरक्तो न्यासमास्थितः । वनं जगाम अनुययुः तत्पत्न्यः पतिदेवताः ॥ ५३ ॥
एवम् वसन् गृहे कालम् विरक्तः न्यासम् आस्थितः । वनम् जगाम अनुययुः तद्-पत्न्यः पति-देवताः ॥ ५३ ॥
evam vasan gṛhe kālam viraktaḥ nyāsam āsthitaḥ . vanam jagāma anuyayuḥ tad-patnyaḥ pati-devatāḥ .. 53 ..
तत्र तप्त्वा तपस्तीक्ष्णं आत्मदर्शनमात्मवान् । सहैवाग्निभिरात्मानं युयोज परमात्मनि ॥ ५४ ॥
तत्र तप्त्वा तपः तीक्ष्णम् आत्म-दर्शनम् आत्मवान् । सह एव अग्निभिः आत्मानम् युयोज परमात्मनि ॥ ५४ ॥
tatra taptvā tapaḥ tīkṣṇam ātma-darśanam ātmavān . saha eva agnibhiḥ ātmānam yuyoja paramātmani .. 54 ..
ताः स्वपत्युर्महाराज निरीक्ष्याध्यात्मिकीं गतिम् । अन्वीयुस्तत्प्रभावेण अग्निं शान्तमिवार्चिषः ॥ ५५ ॥
ताः सु अपत्युः महा-राज निरीक्ष्य आध्यात्मिकीम् गतिम् । अन्वीयुः तद्-प्रभावेण अग्निम् शान्तम् इव अर्चिषः ॥ ५५ ॥
tāḥ su apatyuḥ mahā-rāja nirīkṣya ādhyātmikīm gatim . anvīyuḥ tad-prabhāveṇa agnim śāntam iva arciṣaḥ .. 55 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे षष्ठोऽध्यायः ॥ ६ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् नवम-स्कन्धे षष्ठः अध्यायः ॥ ६ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām navama-skandhe ṣaṣṭhaḥ adhyāyaḥ .. 6 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In