| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
मान्धातुः पुत्रप्रवरो योऽम्बरीषः प्रकीर्तितः । पितामहेन प्रवृतो यौवनाश्वश्च तत्सुतः । हारीतस्तस्य पुत्रोऽभूत् मान्धातृप्रवरा इमे ॥ १ ॥
मान्धातुः पुत्र-प्रवरः यः अम्बरीषः प्रकीर्तितः । पितामहेन प्रवृतः यौवनाश्वः च तद्-सुतः । हारीतः तस्य पुत्रः अभूत् मान्धातृ-प्रवराः इमे ॥ १ ॥
māndhātuḥ putra-pravaraḥ yaḥ ambarīṣaḥ prakīrtitaḥ . pitāmahena pravṛtaḥ yauvanāśvaḥ ca tad-sutaḥ . hārītaḥ tasya putraḥ abhūt māndhātṛ-pravarāḥ ime .. 1 ..
नर्मदा भ्रातृभिर्दत्ता पुरुकुत्साय योरगैः । तया रसातलं नीतो भुजगेन्द्रप्रयुक्तया ॥ २ ॥
नर्मदा भ्रातृभिः दत्ता पुरुकुत्साय या उरगैः । तया रसातलम् नीतः भुजग-इन्द्र-प्रयुक्तया ॥ २ ॥
narmadā bhrātṛbhiḥ dattā purukutsāya yā uragaiḥ . tayā rasātalam nītaḥ bhujaga-indra-prayuktayā .. 2 ..
गन्धर्वान् अवधीत् तत्र वध्यान् वै विष्णुशक्तिधृक् । नागाल्लब्धवरः सर्पात् अभयं स्मरतामिदम् ॥ ३ ॥
गन्धर्वान् अवधीत् तत्र वध्यान् वै विष्णुशक्तिधृक् । नागात् लब्ध-वरः सर्पात् अभयम् स्मरताम् इदम् ॥ ३ ॥
gandharvān avadhīt tatra vadhyān vai viṣṇuśaktidhṛk . nāgāt labdha-varaḥ sarpāt abhayam smaratām idam .. 3 ..
त्रसद्दस्युः पौरुकुत्सो योऽनरण्यस्य देहकृत् । हर्यश्वः तत्सुतः तस्मात् अरुणोऽथ त्रिबन्धनः ॥ ४ ॥
त्रसद्दस्युः पौरुकुत्सः यः अन् अरण्यस्य देहकृत् । हर्यश्वः तद्-सुतः तस्मात् अरुणः अथ त्रिबन्धनः ॥ ४ ॥
trasaddasyuḥ paurukutsaḥ yaḥ an araṇyasya dehakṛt . haryaśvaḥ tad-sutaḥ tasmāt aruṇaḥ atha tribandhanaḥ .. 4 ..
तस्य सत्यव्रतः पुत्रः त्रिशङ्कुरिति विश्रुतः । प्राप्तश्चाण्डालतां शापाग् गुरोः कौशिकतेजसा ॥ ५ ॥
तस्य सत्यव्रतः पुत्रः त्रिशङ्कुः इति विश्रुतः । प्राप्तः चाण्डाल-ताम् शापात् गुरोः कौशिक-तेजसा ॥ ५ ॥
tasya satyavrataḥ putraḥ triśaṅkuḥ iti viśrutaḥ . prāptaḥ cāṇḍāla-tām śāpāt guroḥ kauśika-tejasā .. 5 ..
सशरीरो गतः स्वर्गं अद्यापि दिवि दृश्यते । पातितोऽवाक्शिरा देवैः तेनैव स्तम्भितो बलात् ॥ ६ ॥
स शरीरः गतः स्वर्गम् अद्या अपि दिवि दृश्यते । पातितः अवाक्शिराः देवैः तेन एव स्तम्भितः बलात् ॥ ६ ॥
sa śarīraḥ gataḥ svargam adyā api divi dṛśyate . pātitaḥ avākśirāḥ devaiḥ tena eva stambhitaḥ balāt .. 6 ..
त्रैशङ्कवो हरिश्चन्द्रो विश्वामित्रवसिष्ठयोः । यन्निमित्तमभूद् युद्धं पक्षिणोर्बहुवार्षिकम् ॥ ७ ॥
त्रैशङ्कवः हरिश्चन्द्रः विश्वामित्र-वसिष्ठयोः । यद्-निमित्तम् अभूत् युद्धम् पक्षिणोः बहु-वार्षिकम् ॥ ७ ॥
traiśaṅkavaḥ hariścandraḥ viśvāmitra-vasiṣṭhayoḥ . yad-nimittam abhūt yuddham pakṣiṇoḥ bahu-vārṣikam .. 7 ..
सोऽनपत्यो विषण्णात्मा नारदस्योपदेशतः । वरुणं शरणं यातः पुत्रो मे जायतां प्रभो ॥ ८ ॥
सः अनपत्यः विषण्ण-आत्मा नारदस्य उपदेशतः । वरुणम् शरणम् यातः पुत्रः मे जायताम् प्रभो ॥ ८ ॥
saḥ anapatyaḥ viṣaṇṇa-ātmā nāradasya upadeśataḥ . varuṇam śaraṇam yātaḥ putraḥ me jāyatām prabho .. 8 ..
यदि वीरो महाराज तेनैव त्वां यजे इति । तथेति वरुणेनास्य पुत्रो जातस्तु रोहितः ॥ ९ ॥
यदि वीरः महा-राज तेन एव त्वाम् यजे इति । तथा इति वरुणेन अस्य पुत्रः जातः तु रोहितः ॥ ९ ॥
yadi vīraḥ mahā-rāja tena eva tvām yaje iti . tathā iti varuṇena asya putraḥ jātaḥ tu rohitaḥ .. 9 ..
जातः सुतो ह्यनेनाङ्ग मां यजस्वेति सोऽब्रवीत् । यदा पशुर्निर्दशः स्याद् अथ मेध्यो भवेदिति ॥ १० ॥
जातः सुतः हि अनेन अङ्ग माम् यजस्व इति सः अब्रवीत् । यदा पशुः निर्दशः स्यात् अथ मेध्यः भवेत् इति ॥ १० ॥
jātaḥ sutaḥ hi anena aṅga mām yajasva iti saḥ abravīt . yadā paśuḥ nirdaśaḥ syāt atha medhyaḥ bhavet iti .. 10 ..
निर्दशे च स आगत्य यजस्वेत्याह सोऽब्रवीत् । दन्ताः पशोर्यत् जायेरन् अथ मेध्यो भवेदिति ॥ ११ ॥
निर्दशे च सः आगत्य यजस्व इति आह सः अब्रवीत् । दन्ताः पशोः यत् जायेरन् अथ मेध्यः भवेत् इति ॥ ११ ॥
nirdaśe ca saḥ āgatya yajasva iti āha saḥ abravīt . dantāḥ paśoḥ yat jāyeran atha medhyaḥ bhavet iti .. 11 ..
दन्ता जाता यजस्वेति स प्रत्याहाथ सोऽब्रवीत् । यदा पतन्त्यस्य दन्ता अथ मेध्यो भवेदिति ॥ १२ ॥
दन्ताः जाताः यजस्व इति स प्रत्याह अथ सः अब्रवीत् । यदा पतन्ति अस्य दन्ताः अथ मेध्यः भवेत् इति ॥ १२ ॥
dantāḥ jātāḥ yajasva iti sa pratyāha atha saḥ abravīt . yadā patanti asya dantāḥ atha medhyaḥ bhavet iti .. 12 ..
पशोर्निपतिता दन्ता यजस्वेत्याह सोऽब्रवीत् । यदा पशोः पुनर्दन्ता जायन्तेऽथ पशुः शुचिः ॥ १३ ॥
पशोः निपतिताः दन्ताः यजस्व इति आह सः अब्रवीत् । यदा पशोः पुनर् दन्ताः जायन्ते अथ पशुः शुचिः ॥ १३ ॥
paśoḥ nipatitāḥ dantāḥ yajasva iti āha saḥ abravīt . yadā paśoḥ punar dantāḥ jāyante atha paśuḥ śuciḥ .. 13 ..
पुनर्जाता यजस्वेति स प्रत्याहाथ सोऽब्रवीत् । सान्नाहिको यदा राजन् राजन्योऽथ पशुः शुचिः ॥ १४ ॥
पुनर् जाता यजस्व इति स प्रत्याह अथ सः अब्रवीत् । सान्नाहिकः यदा राजन् राजन्यः अथ पशुः शुचिः ॥ १४ ॥
punar jātā yajasva iti sa pratyāha atha saḥ abravīt . sānnāhikaḥ yadā rājan rājanyaḥ atha paśuḥ śuciḥ .. 14 ..
इति पुत्रानुरागेण स्नेहयन् त्रितचेतसा । कालं वञ्चयता तं तमुक्तो देवस्तमैक्षत ॥ १५ ॥
इति पुत्र-अनुरागेण स्नेहयन् त्रित-चेतसा । कालम् वञ्चयता तम् तम् उक्तः देवः तम् ऐक्षत ॥ १५ ॥
iti putra-anurāgeṇa snehayan trita-cetasā . kālam vañcayatā tam tam uktaḥ devaḥ tam aikṣata .. 15 ..
रोहितस्तदभिज्ञाय पितुः कर्म चिकीर्षितम् । प्राणप्रेप्सुर्धनुष्पाणिः अरण्यं प्रत्यपद्यत ॥ १६ ॥
रोहितः तत् अभिज्ञाय पितुः कर्म चिकीर्षितम् । प्राण-प्रेप्सुः धनुष्पाणिः अरण्यम् प्रत्यपद्यत ॥ १६ ॥
rohitaḥ tat abhijñāya pituḥ karma cikīrṣitam . prāṇa-prepsuḥ dhanuṣpāṇiḥ araṇyam pratyapadyata .. 16 ..
पितरं वरुणग्रस्तं श्रुत्वा जातमहोदरम् । [1]रोहितो ग्राममेयाय तमिन्द्रः प्रत्यषेधत ॥ १७ ॥
पितरम् वरुण-ग्रस्तम् श्रुत्वा जात-महोदरम् । [१]रोहितः ग्रामम् एयाय तम् इन्द्रः प्रत्यषेधत ॥ १७ ॥
pitaram varuṇa-grastam śrutvā jāta-mahodaram . [1]rohitaḥ grāmam eyāya tam indraḥ pratyaṣedhata .. 17 ..
भूमेः पर्यटनं पुण्यं तीर्थक्षेत्रनिषेवणैः । रोहितायादिशच्छक्रः सोऽप्यरण्येऽवसत् समाम् ॥ १८ ॥
भूमेः पर्यटनम् पुण्यम् तीर्थ-क्षेत्र-निषेवणैः । रोहिताय आदिशत् शक्रः सः अपि अरण्ये अवसत् समाम् ॥ १८ ॥
bhūmeḥ paryaṭanam puṇyam tīrtha-kṣetra-niṣevaṇaiḥ . rohitāya ādiśat śakraḥ saḥ api araṇye avasat samām .. 18 ..
एवं द्वितीये तृतीये चतुर्थे पञ्चमे तथा । अभ्येत्याभ्येत्य स्थविरो विप्रो भूत्वाऽऽह वृत्रहा ॥ १९ ॥
एवम् द्वितीये तृतीये चतुर्थे पञ्चमे तथा । अभ्येत्य अभ्येत्य स्थविरः विप्रः भूत्वा आह वृत्रहा ॥ १९ ॥
evam dvitīye tṛtīye caturthe pañcame tathā . abhyetya abhyetya sthaviraḥ vipraḥ bhūtvā āha vṛtrahā .. 19 ..
षष्ठं संवत्सरं तत्र चरित्वा रोहितः पुरीम् । उपव्रजन् अजीगर्ताद् अक्रीणान् मध्यमं सुतम् ॥ २० ॥
षष्ठम् संवत्सरम् तत्र चरित्वा रोहितः पुरीम् । उपव्रजन् अजीगर्तात् अक्रीणात् मध्यमम् सुतम् ॥ २० ॥
ṣaṣṭham saṃvatsaram tatra caritvā rohitaḥ purīm . upavrajan ajīgartāt akrīṇāt madhyamam sutam .. 20 ..
शुनःशेपं पशुं पित्रे प्रदाय समवन्दत । ततः पुरुषमेधेन हरिश्चन्द्रो महायशाः ॥ २१ ॥
शुनःशेपम् पशुम् पित्रे प्रदाय समवन्दत । ततस् पुरुष-मेधेन हरिश्चन्द्रः महा-यशाः ॥ २१ ॥
śunaḥśepam paśum pitre pradāya samavandata . tatas puruṣa-medhena hariścandraḥ mahā-yaśāḥ .. 21 ..
मुक्तोदरोऽयजद् देवान् वरुणादीन् महत्कथः । विश्वामित्रोऽभवत् तस्मिन् होता चाध्वर्युरात्मवान् ॥ २२ ॥
मुक्त-उदरः अयजत् देवान् वरुण-आदीन् महत्-कथः । विश्वामित्रः अभवत् तस्मिन् होता च अध्वर्युः आत्मवान् ॥ २२ ॥
mukta-udaraḥ ayajat devān varuṇa-ādīn mahat-kathaḥ . viśvāmitraḥ abhavat tasmin hotā ca adhvaryuḥ ātmavān .. 22 ..
जमदग्निरभूद् ब्रह्मा वसिष्ठोऽयास्यः सामगः । तस्मै तुष्टो ददौ इन्द्रः शातकौम्भमयं रथम् ॥ २३ ॥
जमदग्निः अभूत् ब्रह्मा वसिष्ठः अयास्यः सामगः । तस्मै तुष्टः ददौ इन्द्रः शातकौम्भ-मयम् रथम् ॥ २३ ॥
jamadagniḥ abhūt brahmā vasiṣṭhaḥ ayāsyaḥ sāmagaḥ . tasmai tuṣṭaḥ dadau indraḥ śātakaumbha-mayam ratham .. 23 ..
शुनःशेपस्य माहात्म्यं उपरिष्टात् प्रचक्ष्यते । सत्यंसारां धृतिं दृष्ट्वा सभार्यस्य च भूपतेः ॥ २४ ॥
शुनःशेपस्य माहात्म्यम् उपरिष्टात् प्रचक्ष्यते । सत्यंसाराम् धृतिम् दृष्ट्वा स भार्यस्य च भूपतेः ॥ २४ ॥
śunaḥśepasya māhātmyam upariṣṭāt pracakṣyate . satyaṃsārām dhṛtim dṛṣṭvā sa bhāryasya ca bhūpateḥ .. 24 ..
विश्वामित्रो भृशं प्रीतो ददौ अविहतां गतिम् । मनः पृथिव्यां तामद्भिः तेजसापोऽनिलेन तत् ॥ २५ ॥
विश्वामित्रः भृशम् प्रीतः ददौ अविहताम् गतिम् । मनः पृथिव्याम् ताम् अद्भिः तेजसा अपः अनिलेन तत् ॥ २५ ॥
viśvāmitraḥ bhṛśam prītaḥ dadau avihatām gatim . manaḥ pṛthivyām tām adbhiḥ tejasā apaḥ anilena tat .. 25 ..
खे वायुं धारयन् तच्च भूतादौ तं महात्मनि । तस्मिन् ज्ञानकलां ध्यात्वा तयाज्ञानं विनिर्दहन् ॥ २६ ॥
खे वायुम् धारयन् तत् च भूतादौ तम् महात्मनि । तस्मिन् ज्ञानकलाम् ध्यात्वा तया अज्ञानम् विनिर्दहन् ॥ २६ ॥
khe vāyum dhārayan tat ca bhūtādau tam mahātmani . tasmin jñānakalām dhyātvā tayā ajñānam vinirdahan .. 26 ..
हित्वा तां स्वेन भावेन निर्वाणसुखसंविदा । अनिर्देश्याप्रतर्क्येण तस्थौ विध्वस्तबन्धनः ॥ २७ ॥
हित्वा ताम् स्वेन भावेन निर्वाण-सुख-संविदा । अनिर्देश्य-अप्रतर्क्येण तस्थौ विध्वस्त-बन्धनः ॥ २७ ॥
hitvā tām svena bhāvena nirvāṇa-sukha-saṃvidā . anirdeśya-apratarkyeṇa tasthau vidhvasta-bandhanaḥ .. 27 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे सप्तमोऽध्यायः ॥ ७ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् नवम-स्कन्धे सप्तमः अध्यायः ॥ ७ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām navama-skandhe saptamaḥ adhyāyaḥ .. 7 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In