| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
हरितो रोहितसुतः चंपः तस्माद्विनिर्मिता । चंपापुरी सुदेवोऽतो विजयो यस्य चात्मजः ॥ १ ॥
हरितः रोहित-सुतः चंपः तस्मात् विनिर्मिता । चंपा-पुरी सुदेवः अतस् विजयः यस्य च आत्मजः ॥ १ ॥
haritaḥ rohita-sutaḥ caṃpaḥ tasmāt vinirmitā . caṃpā-purī sudevaḥ atas vijayaḥ yasya ca ātmajaḥ .. 1 ..
भरुकस्तत्सुतस्तस्माद् वृकस्तस्यापि बाहुकः । सोऽरिभिर्हृतभू राजा सभार्यो वनमाविशत् ॥ २ ॥
भरुकः तद्-सुतः तस्मात् वृकः तस्य अपि बाहुकः । सः अरिभिः हृत-भूः राजा स भार्यः वनम् आविशत् ॥ २ ॥
bharukaḥ tad-sutaḥ tasmāt vṛkaḥ tasya api bāhukaḥ . saḥ aribhiḥ hṛta-bhūḥ rājā sa bhāryaḥ vanam āviśat .. 2 ..
वृद्धं तं पञ्चतां प्राप्तं महिष्यनु मरिष्यती । और्वेण जानतात्मानं प्रजावन्तं निवारिता ॥ ३ ॥
वृद्धम् तम् पञ्चताम् प्राप्तम् महिषी अनु मरिष्यती । और्वेण जानता आत्मानम् प्रजावन्तम् निवारिता ॥ ३ ॥
vṛddham tam pañcatām prāptam mahiṣī anu mariṣyatī . aurveṇa jānatā ātmānam prajāvantam nivāritā .. 3 ..
आज्ञायास्यै सपत्नीभिः गरो दत्तोऽन्धसा सह । सह तेनैव सञ्जातः सगराख्यो महायशाः ॥ ४ ॥
आज्ञाय अस्यै सपत्नीभिः गरः दत्तः अन्धसा सह । सह तेन एव सञ्जातः सगर-आख्यः महा-यशाः ॥ ४ ॥
ājñāya asyai sapatnībhiḥ garaḥ dattaḥ andhasā saha . saha tena eva sañjātaḥ sagara-ākhyaḥ mahā-yaśāḥ .. 4 ..
सगरश्चक्रवर्त्यासीत् सागरो यत्सुतैः कृतः । यस्तालजंघान् यवनात् शकान् हैहयबर्बरान् ॥ ५ ॥
सगरः चक्रवर्ती आसीत् सागरः यद्-सुतैः कृतः । यः तालजंघान् यवनात् शकान् हैहय-बर्बरान् ॥ ५ ॥
sagaraḥ cakravartī āsīt sāgaraḥ yad-sutaiḥ kṛtaḥ . yaḥ tālajaṃghān yavanāt śakān haihaya-barbarān .. 5 ..
नावधीद् गुरुवाक्येन चक्रे विकृतवेषिणः । मुण्डान् श्मश्रुधरान् कांश्चित् मुक्तकेशार्धमुण्डितान् ॥ ६ ॥
न अवधीत् गुरु-वाक्येन चक्रे विकृत-वेषिणः । मुण्डान् श्मश्रु-धरान् कांश्चिद् मुक्तकेश-अर्ध-मुण्डितान् ॥ ६ ॥
na avadhīt guru-vākyena cakre vikṛta-veṣiṇaḥ . muṇḍān śmaśru-dharān kāṃścid muktakeśa-ardha-muṇḍitān .. 6 ..
अनन्तर्वाससः कांश्चिद् अबहिर्वाससोऽपरान् । सोऽश्वमेधैरयजत सर्ववेदसुरात्मकम् ॥ ७ ॥
अन् अन्तर्वाससः कांश्चिद् अ बहिस् वाससः अपरान् । सः अश्वमेधैः अयजत सर्व-वेद-सुर-आत्मकम् ॥ ७ ॥
an antarvāsasaḥ kāṃścid a bahis vāsasaḥ aparān . saḥ aśvamedhaiḥ ayajata sarva-veda-sura-ātmakam .. 7 ..
और्वोपदिष्टयोगेन हरिमात्मानमीश्वरम् । तस्योत्सृष्टं पशुं यज्ञे जहाराश्वं पुरन्दरः ॥ ८ ॥
और्व-उपदिष्ट-योगेन हरिम् आत्मानम् ईश्वरम् । तस्य उत्सृष्टम् पशुम् यज्ञे जहार अश्वम् पुरन्दरः ॥ ८ ॥
aurva-upadiṣṭa-yogena harim ātmānam īśvaram . tasya utsṛṣṭam paśum yajñe jahāra aśvam purandaraḥ .. 8 ..
सुमत्यास्तनया दृप्ताः पितुरादेशकारिणः । हयं अन्वेषमाणास्ते समन्तात् न्यखनन् मन्महीम् ॥ ९ ॥
सुमत्याः तनयाः दृप्ताः पितुः आदेश-कारिणः । हयम् अन्वेषमाणाः ते समन्तात् न्यखनन् मन्महीम् ॥ ९ ॥
sumatyāḥ tanayāḥ dṛptāḥ pituḥ ādeśa-kāriṇaḥ . hayam anveṣamāṇāḥ te samantāt nyakhanan manmahīm .. 9 ..
प्राग् उदीच्यां दिशि हयं ददृशुः कपिलान्तिके । एष वाजिहरश्चौर आस्ते मीलितलोचनः ॥ १० ॥
प्राक् उदीच्याम् दिशि हयम् ददृशुः कपिल-अन्तिके । एष वाजि-हरः चौरः आस्ते मीलित-लोचनः ॥ १० ॥
prāk udīcyām diśi hayam dadṛśuḥ kapila-antike . eṣa vāji-haraḥ cauraḥ āste mīlita-locanaḥ .. 10 ..
हन्यतां हन्यतां पाप इति षष्टिसहस्रिणः । उदायुधा अभिययुः उन्मिमेष तदा मुनिः ॥ ११ ॥
हन्यताम् हन्यताम् पापः इति षष्टि-सहस्रिणः । उदायुधा अभिययुः उन्मिमेष तदा मुनिः ॥ ११ ॥
hanyatām hanyatām pāpaḥ iti ṣaṣṭi-sahasriṇaḥ . udāyudhā abhiyayuḥ unmimeṣa tadā muniḥ .. 11 ..
स्वशरीराग्निना तावन् महेन्द्रहृतचेतसः । महद्व्यतिक्रमहता भस्मसाद् अभवन् क्षणात् ॥ १२ ॥
स्व-शरीर-अग्निना तावत् महा-इन्द्र-हृत-चेतसः । महत्-व्यतिक्रम-हताः भस्मसात् अभवन् क्षणात् ॥ १२ ॥
sva-śarīra-agninā tāvat mahā-indra-hṛta-cetasaḥ . mahat-vyatikrama-hatāḥ bhasmasāt abhavan kṣaṇāt .. 12 ..
न साधुवादो मुनिकोपभर्जिता नृपेन्द्रपुत्रा इति सत्त्वधामनि । कथं तमो रोषमयं विभाव्यते जगत्पवित्रात्मनि खे रजो भुवः ॥ १३ ॥
न साधुवादः मुनि-कोप-भर्जिताः नृप-इन्द्र-पुत्राः इति सत्त्व-धामनि । कथम् तमः रोष-मयम् विभाव्यते जगत्-पवित्र-आत्मनि खे रजः भुवः ॥ १३ ॥
na sādhuvādaḥ muni-kopa-bharjitāḥ nṛpa-indra-putrāḥ iti sattva-dhāmani . katham tamaḥ roṣa-mayam vibhāvyate jagat-pavitra-ātmani khe rajaḥ bhuvaḥ .. 13 ..
यस्येरिता सांख्यमयी दृढेह नौः यया मुमुक्षुस्तरते दुरत्ययम् । भवार्णवं मृत्युपथं विपश्चितः परात्मभूतस्य कथं पृथङ्मतिः ॥ १४ ॥
यस्य ईरिता सांख्य-मयी दृढा इह नौः यया मुमुक्षुः तरते दुरत्ययम् । भव-अर्णवम् मृत्यु-पथम् विपश्चितः परात्म-भूतस्य कथम् पृथक् मतिः ॥ १४ ॥
yasya īritā sāṃkhya-mayī dṛḍhā iha nauḥ yayā mumukṣuḥ tarate duratyayam . bhava-arṇavam mṛtyu-patham vipaścitaḥ parātma-bhūtasya katham pṛthak matiḥ .. 14 ..
योऽसमञ्जस इत्युक्तः स केशिन्या नृपात्मजः । तस्य पुत्रोऽंशुमान्नाम पितामहहिते रतः ॥ १५ ॥
यः असमञ्जसः इति उक्तः स केशिन्या नृप-आत्मजः । तस्य पुत्रः अंशुमान् नाम पितामह-हिते रतः ॥ १५ ॥
yaḥ asamañjasaḥ iti uktaḥ sa keśinyā nṛpa-ātmajaḥ . tasya putraḥ aṃśumān nāma pitāmaha-hite rataḥ .. 15 ..
असमञ्जस आत्मानं दर्शयन् असमञ्जसम् । जातिस्मरः पुरा संगाद् योगी योगाद् विचालितः ॥ १६ ॥
असमञ्जसः आत्मानम् दर्शयन् असमञ्जसम् । जातिस्मरः पुरा संगात् योगी योगात् विचालितः ॥ १६ ॥
asamañjasaḥ ātmānam darśayan asamañjasam . jātismaraḥ purā saṃgāt yogī yogāt vicālitaḥ .. 16 ..
आचरन् गर्हितं लोके ज्ञातीनां कर्म विप्रियम् । सरय्वां क्रीडतो बालान् प्रास्यदुद्वेजयञ्जनम् ॥ १७ ॥
आचरन् गर्हितम् लोके ज्ञातीनाम् कर्म विप्रियम् । सरय्वाम् क्रीडतः बालान् प्रास्यत् उद्वेजयन् जनम् ॥ १७ ॥
ācaran garhitam loke jñātīnām karma vipriyam . sarayvām krīḍataḥ bālān prāsyat udvejayan janam .. 17 ..
एवंवृत्तः परित्यक्तः पित्रा स्नेहमपोह्य वै । योगैश्वर्येण बालान् तान् दर्शयित्वा ततो ययौ ॥ १८ ॥
एवंवृत्तः परित्यक्तः पित्रा स्नेहम् अपोह्य वै । योग-ऐश्वर्येण बालान् तान् दर्शयित्वा ततस् ययौ ॥ १८ ॥
evaṃvṛttaḥ parityaktaḥ pitrā sneham apohya vai . yoga-aiśvaryeṇa bālān tān darśayitvā tatas yayau .. 18 ..
अयोध्यावासिनः सर्वे बालकान् पुनरागतान् । दृष्ट्वा विसिस्मिरे राजन्राजा चाप्यन्वतप्यत ॥ १९ ॥
अयोध्या-वासिनः सर्वे बालकान् पुनर् आगतान् । दृष्ट्वा विसिस्मिरे राजन् राजा च अपि अन्वतप्यत ॥ १९ ॥
ayodhyā-vāsinaḥ sarve bālakān punar āgatān . dṛṣṭvā visismire rājan rājā ca api anvatapyata .. 19 ..
अंशुमांश्चोदितो राज्ञा तुरगान्वेषणे ययौ । पितृव्यखातानुपथं भस्मान्ति ददृशे हयम् ॥ २० ॥
अंशुमान् चोदितः राज्ञा तुरग-अन्वेषणे ययौ । पितृव्य-खात-अनुपथम् भस्म-अन्ति ददृशे हयम् ॥ २० ॥
aṃśumān coditaḥ rājñā turaga-anveṣaṇe yayau . pitṛvya-khāta-anupatham bhasma-anti dadṛśe hayam .. 20 ..
तत्रासीनं मुनिं वीक्ष्य कपिलाख्यं अधोक्षजम् । अस्तौत् समाहितमनाः प्राञ्जलिः प्रणतो महान् ॥ २१ ॥
तत्र आसीनम् मुनिम् वीक्ष्य कपिल-आख्यम् अधोक्षजम् । अस्तौत् समाहित-मनाः प्राञ्जलिः प्रणतः महान् ॥ २१ ॥
tatra āsīnam munim vīkṣya kapila-ākhyam adhokṣajam . astaut samāhita-manāḥ prāñjaliḥ praṇataḥ mahān .. 21 ..
अंशुमानुवाच ।
न पश्यति त्वां परमात्मनोऽजनो न बुध्यतेऽद्यापि समाधियुक्तिभिः । कुतोऽपरे तस्य मनःशरीरधी विसर्गसृष्टा वयमप्रकाशाः ॥ २२ ॥
न पश्यति त्वाम् परमात्मनः अजनः न बुध्यते अद्य अपि समाधि-युक्तिभिः । कुतस् अपरे तस्य मनः-शरीर-धी विसर्ग-सृष्टाः वयम् अप्रकाशाः ॥ २२ ॥
na paśyati tvām paramātmanaḥ ajanaḥ na budhyate adya api samādhi-yuktibhiḥ . kutas apare tasya manaḥ-śarīra-dhī visarga-sṛṣṭāḥ vayam aprakāśāḥ .. 22 ..
ये देहभाजस्त्रिगुणप्रधाना गुणान् विपश्यन्त्युत वा तमश्च । यन्मायया मोहितचेतसस्ते विदुः स्वसंस्थं न बहिःप्रकाशाः ॥ २३ ॥
ये देहभाजः त्रिगुण-प्रधानाः गुणान् विपश्यन्ति उत वा तमः च । यद्-मायया मोहित-चेतसः ते विदुः स्व-संस्थम् न बहिस् प्रकाशाः ॥ २३ ॥
ye dehabhājaḥ triguṇa-pradhānāḥ guṇān vipaśyanti uta vā tamaḥ ca . yad-māyayā mohita-cetasaḥ te viduḥ sva-saṃstham na bahis prakāśāḥ .. 23 ..
तं त्वां अहं ज्ञानघनं स्वभाव प्रध्वस्तमायागुणभेदमोहैः । सनन्दनाद्यैर्मुनिभिर्विभाव्यं कथं विमूढः परिभावयामि ॥ २४ ॥
तम् त्वाम् अहम् ज्ञान-घनम् स्वभाव प्रध्वस्त-माया-गुण-भेद-मोहैः । सनन्दन-आद्यैः मुनिभिः विभाव्यम् कथम् विमूढः परिभावयामि ॥ २४ ॥
tam tvām aham jñāna-ghanam svabhāva pradhvasta-māyā-guṇa-bheda-mohaiḥ . sanandana-ādyaiḥ munibhiḥ vibhāvyam katham vimūḍhaḥ paribhāvayāmi .. 24 ..
प्रशान्त मायागुणकर्मलिंगं अनामरूपं सदसद्विमुक्तम् । ज्ञानोपदेशाय गृहीतदेहं नमामहे त्वां पुरुषं पुराणम् ॥ २५ ॥
माया-गुण-कर्म-लिंगम् अ नाम-रूपम् सत्-असत्-विमुक्तम् । ज्ञान-उपदेशाय गृहीत-देहम् नमामहे त्वाम् पुरुषम् पुराणम् ॥ २५ ॥
māyā-guṇa-karma-liṃgam a nāma-rūpam sat-asat-vimuktam . jñāna-upadeśāya gṛhīta-deham namāmahe tvām puruṣam purāṇam .. 25 ..
त्वन्मायारचिते लोके वस्तुबुद्ध्या गृहादिषु । भ्रमन्ति कामलोभेर्ष्या मोहविभ्रान्तचेतसः ॥ २६ ॥
त्वद्-माया-रचिते लोके वस्तु-बुद्ध्या गृह-आदिषु । भ्रमन्ति काम-लोभ-ईर्ष्याः मोह-विभ्रान्त-चेतसः ॥ २६ ॥
tvad-māyā-racite loke vastu-buddhyā gṛha-ādiṣu . bhramanti kāma-lobha-īrṣyāḥ moha-vibhrānta-cetasaḥ .. 26 ..
अद्य नः सर्वभूतात्मन् कामकर्मेन्द्रियाशयः । मोहपाशो दृढश्छिन्नो भगवन् तव दर्शनात् ॥ २७ ॥
अद्य नः सर्व-भूत-आत्मन् काम-कर्म-इन्द्रिय-आशयः । मोह-पाशः दृढः छिन्नः भगवन् तव दर्शनात् ॥ २७ ॥
adya naḥ sarva-bhūta-ātman kāma-karma-indriya-āśayaḥ . moha-pāśaḥ dṛḍhaḥ chinnaḥ bhagavan tava darśanāt .. 27 ..
श्रीशुक उवाच ।
इत्थं गीतानुभावस्तं भगवान् कपिलो मुनिः । अंशुमन्तं उवाचेदं अनुग्राह्य धिया नृप ॥ २८ ॥
इत्थम् गीत-अनुभावः तम् भगवान् कपिलः मुनिः । अंशुमन्तम् उवाच इदम् अनुग्राह्य धिया नृप ॥ २८ ॥
ittham gīta-anubhāvaḥ tam bhagavān kapilaḥ muniḥ . aṃśumantam uvāca idam anugrāhya dhiyā nṛpa .. 28 ..
श्रीभगवानुवाच ।
अश्वोऽयं नीयतां वत्स पितामहपशुस्तव । इमे च पितरो दग्धा गंगाम्भोऽर्हन्ति नेतरत् ॥ २९ ॥
अश्वः अयम् नीयताम् वत्स पितामह-पशुः तव । इमे च पितरः दग्धाः गंगा-अम्भः अर्हन्ति न इतरत् ॥ २९ ॥
aśvaḥ ayam nīyatām vatsa pitāmaha-paśuḥ tava . ime ca pitaraḥ dagdhāḥ gaṃgā-ambhaḥ arhanti na itarat .. 29 ..
तं परिक्रम्य शिरसा प्रसाद्य हयमानयत् । सगरस्तेन पशुना यज्ञशेषं समापयत् ॥ ३० ॥
तम् परिक्रम्य शिरसा प्रसाद्य हयम् आनयत् । सगरः तेन पशुना यज्ञ-शेषम् समापयत् ॥ ३० ॥
tam parikramya śirasā prasādya hayam ānayat . sagaraḥ tena paśunā yajña-śeṣam samāpayat .. 30 ..
राज्यं अंशुमते न्यस्य निःस्पृहो मुक्तबन्धनः । और्वोपदिष्टमार्गेण लेभे गतिमनुत्तमाम् ॥ ३१ ॥
राज्यम् अंशुमते न्यस्य निःस्पृहः मुक्त-बन्धनः । और्व-उपदिष्ट-मार्गेण लेभे गतिम् अनुत्तमाम् ॥ ३१ ॥
rājyam aṃśumate nyasya niḥspṛhaḥ mukta-bandhanaḥ . aurva-upadiṣṭa-mārgeṇa lebhe gatim anuttamām .. 31 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे अष्टमोऽध्यायः ॥ ८ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् नवम-स्कन्धे अष्टमः अध्यायः ॥ ८ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām navama-skandhe aṣṭamaḥ adhyāyaḥ .. 8 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In