| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

जैमिनीयाश्वमेधपर्व
प्रियव्रतो भागवत आत्मारामः कथं मुने। गृहेऽरमत यन्मूलः कर्मबन्धः पराभवः १।
प्रियव्रतः भागवतः आत्म-आरामः कथम् मुने। गृहे अरमत यद्-मूलः कर्म-बन्धः पराभवः।
priyavrataḥ bhāgavataḥ ātma-ārāmaḥ katham mune. gṛhe aramata yad-mūlaḥ karma-bandhaḥ parābhavaḥ.
प्रियव्रतविजयम्
न नूनं मुक्तसङ्गानां तादृशानां द्विजर्षभ। गृहेष्वभिनिवेशोऽयं पुंसां भवितुमर्हति २।
न नूनम् मुक्त-सङ्गानाम् तादृशानाम् द्विजर्षभ। गृहेषु अभिनिवेशः अयम् पुंसाम् भवितुम् अर्हति।
na nūnam mukta-saṅgānām tādṛśānām dvijarṣabha. gṛheṣu abhiniveśaḥ ayam puṃsām bhavitum arhati.
राजोवाच
महतां खलु विप्रर्षे उत्तमश्लोकपादयोः। छायानिर्वृतचित्तानां न कुटुम्बे स्पृहामतिः ३।
महताम् खलु विप्रर्षे उत्तम-श्लोक-पादयोः। छाया-निर्वृत-चित्तानाम् न कुटुम्बे स्पृहा-मतिः।
mahatām khalu viprarṣe uttama-śloka-pādayoḥ. chāyā-nirvṛta-cittānām na kuṭumbe spṛhā-matiḥ.
संशयोऽयं महान्ब्रह्मन्दारागारसुतादिषु। सक्तस्य यत्सिद्धिरभूत्कृष्णे च मतिरच्युता ४।
संशयः अयम् महान् ब्रह्मन् दार-आगार-सुत-आदिषु। सक्तस्य यत् सिद्धिः अभूत् कृष्णे च मतिः अच्युता।
saṃśayaḥ ayam mahān brahman dāra-āgāra-suta-ādiṣu. saktasya yat siddhiḥ abhūt kṛṣṇe ca matiḥ acyutā.
बाढमुक्तं भगवत उत्तमश्लोकस्य श्रीमच्चरणारविन्दमकरन्दरस आवेशितचेतसो भागवतपरमहंसदयितकथां किञ्चिदन्तरायविहतां स्वां शिवतमां पदवीं न प्रायेण हिन्वन्ति ५
बाढम् उक्तम् भगवतः उत्तमश्लोकस्य श्रीमत्-चरण-अरविन्द-मकरन्द-रसे आवेशित-चेतसः भागवत-परमहंस-दयित-कथाम् किञ्चिद् अन्तराय-विहताम् स्वाम् शिवतमाम् पदवीम् न प्रायेण हिन्वन्ति
bāḍham uktam bhagavataḥ uttamaślokasya śrīmat-caraṇa-aravinda-makaranda-rase āveśita-cetasaḥ bhāgavata-paramahaṃsa-dayita-kathām kiñcid antarāya-vihatām svām śivatamām padavīm na prāyeṇa hinvanti
यर्हि वाव ह राजन्स राजपुत्रः प्रियव्रतः परमभागवतो नारदस्य चरणोपसेवयाञ्जसावगतपरमार्थसतत्त्वो ब्रह्मसत्रेण दीक्षिष्यमाणो ऽवनितलपरिपालनायाम्नात प्रवरगुणगणैकान्तभाजनतया स्वपित्रोपामन्त्रितो भगवति वासुदेव एवाव्यवधानसमाधियोगेन समावेशित सकलकारकक्रियाकलापो नैवाभ्यनन्दद्यद्यपि तदप्रत्याम्नातव्यं तदधिकरण आत्मनोऽन्यस्मादसतोऽपि पराभवमन्वीक्षमाणः ६
यर्हि वाव ह राजन् स राज-पुत्रः प्रियव्रतः परम-भागवतः नारदस्य चरण-उपसेवया अञ्जसा अवगत-परम-अर्थ-स तत्त्वः ब्रह्मसत्रेण दीक्षिष्यमाणः अवनि-तल-परिपालनाय आम्नात-प्रवर-गुण-गण-एकान्त-भाजन-तया स्व-पित्रा उपामन्त्रितः भगवति वासुदेवे एव अव्यवधान-समाधि-योगेन समावेशित न एव अभ्यनन्दत् यदि अपि तत् अ प्रत्याम्नातव्यम् तद्-अधिकरणे आत्मनः अन्यस्मात् असतः अपि पराभवम् अन्वीक्षमाणः
yarhi vāva ha rājan sa rāja-putraḥ priyavrataḥ parama-bhāgavataḥ nāradasya caraṇa-upasevayā añjasā avagata-parama-artha-sa tattvaḥ brahmasatreṇa dīkṣiṣyamāṇaḥ avani-tala-paripālanāya āmnāta-pravara-guṇa-gaṇa-ekānta-bhājana-tayā sva-pitrā upāmantritaḥ bhagavati vāsudeve eva avyavadhāna-samādhi-yogena samāveśita na eva abhyanandat yadi api tat a pratyāmnātavyam tad-adhikaraṇe ātmanaḥ anyasmāt asataḥ api parābhavam anvīkṣamāṇaḥ
अथ ह भगवानादिदेव एतस्य गुणविसर्गस्य परिबृंहणानुध्यानव्यवसितसकलजगद् अभिप्राय आत्मयोनिरखिलनिगमनिजगणपरिवेष्टितः स्वभवनादवततार ७
अथ ह भगवान् आदिदेवः एतस्य गुण-विसर्गस्य अभिप्रायः आत्मयोनिः अखिल-निगम-निज-गण-परिवेष्टितः स्व-भवनात् अवततार
atha ha bhagavān ādidevaḥ etasya guṇa-visargasya abhiprāyaḥ ātmayoniḥ akhila-nigama-nija-gaṇa-pariveṣṭitaḥ sva-bhavanāt avatatāra
स तत्र तत्र गगनतल उडुपतिरिव विमानावलिभिरनुपथममर परिवृढैरभिपूज्यमानः पथि पथि च वरूथशः सिद्धगन्धर्वसाध्य-चारणमुनि गणैरुपगीयमानो गन्धमादनद्रोणीमवभासयन्नुपससर्प ८
स तत्र तत्र गगन-तले उडुपतिः इव विमान-आवलिभिः अनुपथम् अमर परिवृढैः अभिपूज्यमानः पथि पथि च वरूथशस् सिद्ध-गन्धर्व-साध्य-चारण-मुनि गणैः उपगीयमानः गन्धमादन-द्रोणीम् अवभासयन् उपससर्प
sa tatra tatra gagana-tale uḍupatiḥ iva vimāna-āvalibhiḥ anupatham amara parivṛḍhaiḥ abhipūjyamānaḥ pathi pathi ca varūthaśas siddha-gandharva-sādhya-cāraṇa-muni gaṇaiḥ upagīyamānaḥ gandhamādana-droṇīm avabhāsayan upasasarpa
तत्र ह वा एनं देवर्षिर्हंसयानेन पितरं भगवन्तं हिरण्यगर्भमुपलभमानः सहसैवोत्थायार्हणेन सह पितापुत्राभ्यामवहिताञ्जलिरुपतस्थे ९
तत्र ह वा एनम् देवर्षिः हंस-यानेन पितरम् भगवन्तम् हिरण्यगर्भम् उपलभमानः सहसा एव उत्थाय अर्हणेन सह पिता-पुत्राभ्याम् अवहित-अञ्जलिः उपतस्थे
tatra ha vā enam devarṣiḥ haṃsa-yānena pitaram bhagavantam hiraṇyagarbham upalabhamānaḥ sahasā eva utthāya arhaṇena saha pitā-putrābhyām avahita-añjaliḥ upatasthe
भगवानपि भारत तदुपनीतार्हणः सूक्तवाकेनातितरामुदितगुणगणावतारसुजयः प्रियव्रतमादिपुरुषस्तं सदयहासावलोक इति होवाच १०
भगवान् अपि भारत तद्-उपनीत-अर्हणः सूक्तवाकेन अतितराम् उदित-गुण-गण-अवतार-सु जयः प्रियव्रतम् आदि-पुरुषः तम् सदय-हास-अवलोकः इति ह उवाच
bhagavān api bhārata tad-upanīta-arhaṇaḥ sūktavākena atitarām udita-guṇa-gaṇa-avatāra-su jayaḥ priyavratam ādi-puruṣaḥ tam sadaya-hāsa-avalokaḥ iti ha uvāca
निबोध तातेदमृतं ब्रवीमि मासूयितुं देवमर्हस्यप्रमेयम्। ११
निबोध तात इदम् ऋतम् ब्रवीमि मा असूयितुम् देवम् अर्हसि अप्रमेयम्। ११
nibodha tāta idam ṛtam bravīmi mā asūyitum devam arhasi aprameyam. 11
न तस्य कश्चित्तपसा विद्यया वा न योगवीर्येण मनीषया वा। १२
न तस्य कश्चिद् तपसा विद्यया वा न योग-वीर्येण मनीषया वा। १२
na tasya kaścid tapasā vidyayā vā na yoga-vīryeṇa manīṣayā vā. 12
श्रीभगवानुवाच
भवाय नाशाय च कर्म कर्तुं शोकाय मोहाय सदा भयाय। १३
भवाय नाशाय च कर्म कर्तुम् शोकाय मोहाय सदा भयाय। १३
bhavāya nāśāya ca karma kartum śokāya mohāya sadā bhayāya. 13
यद्वाचि तन्त्यां गुणकर्मदामभिः सुदुस्तरैर्वत्स वयं सुयोजिताः। १४
यद्-वाचि तन्त्याम् गुण-कर्म-दामभिः सु दुस्तरैः वत्स वयम् सु योजिताः। १४
yad-vāci tantyām guṇa-karma-dāmabhiḥ su dustaraiḥ vatsa vayam su yojitāḥ. 14
ईशाभिसृष्टं ह्यवरुन्ध्महेऽङ्ग दुःखं सुखं वा गुणकर्मसङ्गात्। १५
ईश-अभिसृष्टम् हि अवरुन्ध्महे अङ्ग दुःखम् सुखम् वा गुण-कर्म-सङ्गात्। १५
īśa-abhisṛṣṭam hi avarundhmahe aṅga duḥkham sukham vā guṇa-karma-saṅgāt. 15
मुक्तोऽपि तावद्बिभृयात्स्वदेहमारब्धमश्नन्नभिमानशून्यः। १६
मुक्तः अपि तावत् बिभृयात् स्व-देहम् आरब्धम् अश्नन् अभिमान-शून्यः। १६
muktaḥ api tāvat bibhṛyāt sva-deham ārabdham aśnan abhimāna-śūnyaḥ. 16
भयं प्रमत्तस्य वनेष्वपि स्याद्यतः स आस्ते सहषट्सपत्नः। १७
भयम् प्रमत्तस्य वनेषु अपि स्यात् यतस् सः आस्ते सह षष्-सपत्नः। १७
bhayam pramattasya vaneṣu api syāt yatas saḥ āste saha ṣaṣ-sapatnaḥ. 17
यः षट्सपत्नान्विजिगीषमाणो गृहेषु निर्विश्य यतेत पूर्वम्। १८
यः षट् सपत्नान् विजिगीषमाणः गृहेषु निर्विश्य यतेत पूर्वम्। १८
yaḥ ṣaṭ sapatnān vijigīṣamāṇaḥ gṛheṣu nirviśya yateta pūrvam. 18
त्वं त्वब्जनाभाङ्घ्रिसरोजकोश दुर्गाश्रितो निर्जितषट्सपत्नः। १९
त्वम् तु अब्जनाभ-अङ्घ्रि-सरोज-कोश दुर्ग-आश्रितः निर्जित-षष्-सपत्नः। १९
tvam tu abjanābha-aṅghri-saroja-kośa durga-āśritaḥ nirjita-ṣaṣ-sapatnaḥ. 19
इति समभिहितो महाभागवतो भगवतस्त्रिभुवनगुरोरनुशासनमात्मनो लघुतयावनत शिरोधरो बाढमिति सबहुमानमुवाह २०
इति समभिहितः महाभागवतः भगवतः त्रिभुवन-गुरोः अनुशासनम् आत्मनः लघु-तया अवनत शिरोधरः बाढम् इति स बहु-मानम् उवाह
iti samabhihitaḥ mahābhāgavataḥ bhagavataḥ tribhuvana-guroḥ anuśāsanam ātmanaḥ laghu-tayā avanata śirodharaḥ bāḍham iti sa bahu-mānam uvāha
भगवानपि मनुना यथावदुपकल्पितापचितिः प्रियव्रत नारदयोरविषममभिसमीक्षमाणयोरात्मसमवस्थानमवाङ्मनसं क्षयमव्यवहृतं प्रवर्तयन्नगमत् २१
भगवान् अपि मनुना यथावत् उपकल्पित-अपचितिः प्रियव्रत नारदयोः अविषमम् अभिसमीक्षमाणयोः आत्म-समवस्थानम् अवाङ्मनसम् क्षयम् अव्यवहृतम् प्रवर्तयन् अगमत्
bhagavān api manunā yathāvat upakalpita-apacitiḥ priyavrata nāradayoḥ aviṣamam abhisamīkṣamāṇayoḥ ātma-samavasthānam avāṅmanasam kṣayam avyavahṛtam pravartayan agamat
श्रीशुक उवाच
मनुरपि परेणैवं प्रतिसन्धितमनोरथः सुरर्षिवरानुमतेनात्मजमखिल धरामण्डलस्थितिगुप्तय आस्थाप्य स्वयमतिविषमविषयविषजलाशयाशाया उपरराम २२
मनुः अपि परेण एवम् प्रतिसन्धित-मनोरथः सुर-ऋषि-वर-अनुमतेन आत्मजम् अखिल धरा-मण्डल-स्थिति-गुप्तये आस्थाप्य स्वयम् अति विषम-विषय-विष-जलाशय-आशायाः उपरराम
manuḥ api pareṇa evam pratisandhita-manorathaḥ sura-ṛṣi-vara-anumatena ātmajam akhila dharā-maṇḍala-sthiti-guptaye āsthāpya svayam ati viṣama-viṣaya-viṣa-jalāśaya-āśāyāḥ upararāma
इति ह वाव स जगतीपतिरीश्वरेच्छयाधिनिवेशितकर्माधिकारोऽखिलजगद्बन्धध्वंसन परानुभावस्य भगवत आदिपुरुषस्याङ्घ्रियुगलानवरतध्यानानुभावेन परिरन्धितकषायाशयो ऽवदातोऽपि मानवर्धनो महतां महीतलमनुशशास २३
इति ह वाव स जगतीपतिः ईश्वर-इच्छया अधिनिवेशित-कर्म-अधिकारः अखिल-जगत्-बन्ध-ध्वंसन-पर-अनुभावस्य भगवत आदिपुरुषस्य अङ्घ्रि-युगल-अनवरत-ध्यान-अनुभावेन परिरन्धित-कषाय-आशयः अवदातः अपि मान-वर्धनः महताम् मही-तलम् अनुशशास
iti ha vāva sa jagatīpatiḥ īśvara-icchayā adhiniveśita-karma-adhikāraḥ akhila-jagat-bandha-dhvaṃsana-para-anubhāvasya bhagavata ādipuruṣasya aṅghri-yugala-anavarata-dhyāna-anubhāvena parirandhita-kaṣāya-āśayaḥ avadātaḥ api māna-vardhanaḥ mahatām mahī-talam anuśaśāsa
अथ च दुहितरं प्रजापतेर्विश्वकर्मण उपयेमे बर्हिष्मतीं नाम तस्यामु ह वाव आत्मजानात्मसमानशीलगुणकर्मरूपवीर्योदारान्दश भावयाम्बभूव कन्यां च यवीयसीमूर्जस्वतीं नाम २४
अथ च दुहितरम् प्रजापतेः विश्वकर्मणः उपयेमे बर्हिष्मतीम् नाम तस्याम् उ ह वाव आत्मजान् आत्म-समान-शील-गुण-कर्म-रूप-वीर्य-उदारान् दश भावयाम्बभूव कन्याम् च यवीयसीम् ऊर्जस्वतीम् नाम
atha ca duhitaram prajāpateḥ viśvakarmaṇaḥ upayeme barhiṣmatīm nāma tasyām u ha vāva ātmajān ātma-samāna-śīla-guṇa-karma-rūpa-vīrya-udārān daśa bhāvayāmbabhūva kanyām ca yavīyasīm ūrjasvatīm nāma
आग्नीध्रेध्मजिह्वयज्ञबाहुमहावीरहिरण्यरेतोघृतपृष्ठसवनमेधातिथि-वीतिहोत्रकवय इति सर्व एवाग्निनामानः २५
आग्नीध्र-इध्मजिह्व-यज्ञबाहु-महावीर-हिरण्यरेतः-घृतपृष्ठ-सवन-मेधातिथि-वीतिहोत्र-कवयः इति सर्वे एव अग्नि-नामानः
āgnīdhra-idhmajihva-yajñabāhu-mahāvīra-hiraṇyaretaḥ-ghṛtapṛṣṭha-savana-medhātithi-vītihotra-kavayaḥ iti sarve eva agni-nāmānaḥ
एतेषां कविर्महावीरः सवन इति त्रय आसन्नूर्ध्वरेतसस्त आत्मविद्यायामर्भभावादारभ्य कृतपरिचयाः पारमहंस्यमेवाश्रममभजन् २६
एतेषाम् कविः महावीरः सवनः इति त्रयः आसन् ऊर्ध्वरेतसः ते आत्म-विद्यायाम् अर्भ-भावात् आरभ्य कृत-परिचयाः पारमहंस्यम् एव आश्रमम् अभजन्
eteṣām kaviḥ mahāvīraḥ savanaḥ iti trayaḥ āsan ūrdhvaretasaḥ te ātma-vidyāyām arbha-bhāvāt ārabhya kṛta-paricayāḥ pāramahaṃsyam eva āśramam abhajan
तस्मिन्नु ह वा उपशमशीलाः परमर्षयः सकलजीवनिकायावासस्य भगवतो वासुदेवस्य भीतानां शरणभूतस्य श्रीमच्चरणारविन्दाविरतस्मरणाविगलितपरमभक्तियोगानुभावेन परिभावितान्तर्हृदयाधिगते भगवति सर्वेषां भूतानामात्मभूते प्रत्यग् आत्मन्येवात्मनस्तादात्म्यमविशेषेण समीयुः २७
तस्मिन् नु ह वा उपशम-शीलाः परम-ऋषयः सकल-जीवनिकाय-आवासस्य भगवतः वासुदेवस्य भीतानाम् शरण-भूतस्य श्रीमत्-चरण-अरविन्द-अविरत-स्मरण-अविगलित-परम-भक्तियोग-अनुभावेन परिभावित-अन्तर् हृदय-अधिगते भगवति सर्वेषाम् भूतानाम् आत्म-भूते प्रत्यक् आत्मनि एव आत्मनः तादात्म्यम् अविशेषेण समीयुः
tasmin nu ha vā upaśama-śīlāḥ parama-ṛṣayaḥ sakala-jīvanikāya-āvāsasya bhagavataḥ vāsudevasya bhītānām śaraṇa-bhūtasya śrīmat-caraṇa-aravinda-avirata-smaraṇa-avigalita-parama-bhaktiyoga-anubhāvena paribhāvita-antar hṛdaya-adhigate bhagavati sarveṣām bhūtānām ātma-bhūte pratyak ātmani eva ātmanaḥ tādātmyam aviśeṣeṇa samīyuḥ
अन्यस्यामपि जायायां त्रयः पुत्रा आसन्नुत्तमस्तामसो रैवत इति मन्वन्तराधिपतयः २८
अन्यस्याम् अपि जायायाम् त्रयः पुत्राः आसन् उत्तमः तामसः रैवतः इति मन्वन्तर-अधिपतयः
anyasyām api jāyāyām trayaḥ putrāḥ āsan uttamaḥ tāmasaḥ raivataḥ iti manvantara-adhipatayaḥ
एवमुपशमायनेषु स्वतनयेष्वथ जगतीपतिर्जगतीमर्बुदान्येकादश परिवत्सराणामव्याहताखिलपुरुषकारसारसम्भृतदोर्दण्डयुगलापीडितमौर्वीगुणस्तनितविरमित धर्मप्रतिपक्षो बर्हिष्मत्याश्चानुदिनमेधमानप्रमोदप्रसरणयौषिण्यव्रीडाप्रमुषित हासावलोकरुचिरक्ष्वेल्यादिभिः पराभूयमानविवेक इवानवबुध्यमान इव महामना बुभुजे २९
एवम् उपशम-अयनेषु स्व-तनयेषु अथ जगतीपतिः जगतीम् अर्बुदानि एकादश परिवत्सराणाम् अव्याहत-अखिल-पुरुषकार-सार-सम्भृत-दोस्-दण्ड-युगल-आपीडित-मौर्वी-गुण-स्तनित-विरमित बर्हिष्मत्याः च अनुदिनम् एधमान-प्रमोद-प्रसरण-यौषिण्य-व्रीडा-प्रमुषित-हास-अवलोक-रुचि-रक्षू-इल्या-आदिभिः पराभूयमान-विवेकः इव अनवबुध्यमानः इव महामनाः बुभुजे
evam upaśama-ayaneṣu sva-tanayeṣu atha jagatīpatiḥ jagatīm arbudāni ekādaśa parivatsarāṇām avyāhata-akhila-puruṣakāra-sāra-sambhṛta-dos-daṇḍa-yugala-āpīḍita-maurvī-guṇa-stanita-viramita barhiṣmatyāḥ ca anudinam edhamāna-pramoda-prasaraṇa-yauṣiṇya-vrīḍā-pramuṣita-hāsa-avaloka-ruci-rakṣū-ilyā-ādibhiḥ parābhūyamāna-vivekaḥ iva anavabudhyamānaḥ iva mahāmanāḥ bubhuje
[1]यावदवभासयति सुरगिरिमनुपरिक्रामन्भगवानादित्यो वसुधातलमर्धेनैव प्रतपत्यर्धेनावच्छादयति तदा हि भगवदुपासनोपचितातिपुरुष प्रभावस्तदनभिनन्दन्समजवेन रथेन ज्योतिर्मयेन रजनीमपि दिनं करिष्यामीति सप्त कृत्वस्तरणिमनुपर्यक्रामद्द्वितीय इव पतङ्गः ३०
[१]यावत् अवभासयति सुरगिरिम् अनुपरिक्रामन् भगवान् आदित्यः वसुधा-तलम् अर्धेन एव प्रतपति अर्धेन अवच्छादयति तदा हि भगवत्-उपासन-उपचिता अति पुरुष- प्रभावः तत् अन् अभिनन्दन् सम-जवेन रथेन ज्योतिः-मयेन रजनीम् अपि दिनम् करिष्यामि इति सप्त कृत्वस् तरणिम् अनुपर्यक्रामत् द्वितीयः इव पतङ्गः
[1]yāvat avabhāsayati suragirim anuparikrāman bhagavān ādityaḥ vasudhā-talam ardhena eva pratapati ardhena avacchādayati tadā hi bhagavat-upāsana-upacitā ati puruṣa- prabhāvaḥ tat an abhinandan sama-javena rathena jyotiḥ-mayena rajanīm api dinam kariṣyāmi iti sapta kṛtvas taraṇim anuparyakrāmat dvitīyaḥ iva pataṅgaḥ
सप्तद्वीपाः ये वा उ ह तद्रथचरणनेमिकृतपरिखातास्ते सप्त सिन्धव आसन्यत एव कृताः सप्त भुवो द्वीपाः ३१ तुलनीय - ऋ. १.१८०.१०
सप्त-द्वीपाः ये वै उ ह तद्-रथ-चरण-नेमि-कृत-परिखाताः ते सप्त सिन्धवः आसन् अतस् एव कृताः सप्त भुवः द्वीपाः। १।१८०।१०
sapta-dvīpāḥ ye vai u ha tad-ratha-caraṇa-nemi-kṛta-parikhātāḥ te sapta sindhavaḥ āsan atas eva kṛtāḥ sapta bhuvaḥ dvīpāḥ. 1.180.10
जम्बूप्लक्षशाल्मलिकुशक्रौञ्चशाकपुष्करसंज्ञास्तेषां परिमाणं पूर्वस्मात्पूर्वस्मादुत्तर उत्तरो यथासङ्ख्यं द्विगुणमानेन बहिः समन्तत उपकॢप्ताः ३२
जम्बू-प्लक्ष-शाल्मलि-कुश-क्रौञ्च-शाक-पुष्कर-संज्ञाः तेषाम् परिमाणम् पूर्वस्मात् पूर्वस्मात् उत्तरः उत्तरः यथासङ्ख्यम् द्विगुण-मानेन बहिस् समन्ततः उपकॢप्ताः
jambū-plakṣa-śālmali-kuśa-krauñca-śāka-puṣkara-saṃjñāḥ teṣām parimāṇam pūrvasmāt pūrvasmāt uttaraḥ uttaraḥ yathāsaṅkhyam dviguṇa-mānena bahis samantataḥ upakḷptāḥ
दुहितरं चोर्जस्वतीं नामोशनसे प्रायच्छद्यस्यामासीद्देवयानी नाम काव्यसुता ३३
दुहितरम् च ऊर्जस्वतीम् नाम उशनसे प्रायच्छत् यस्याम् आसीत् देवयानी नाम काव्य-सुता
duhitaram ca ūrjasvatīm nāma uśanase prāyacchat yasyām āsīt devayānī nāma kāvya-sutā
नैवंविधः पुरुषकार उरुक्रमस्य । ३४
न एवंविधः पुरुषकारः उरुक्रमस्य । ३४
na evaṃvidhaḥ puruṣakāraḥ urukramasya . 34
स एवमपरिमितबलपराक्रम एकदा तु देवर्षिचरणानुशयनानुपतितगुणविसर्ग संसर्गेणानिर्वृतमिवात्मानं मन्यमान आत्मनिर्वेद इदमाह ३५
सः एवम् अपरिमित-बल-पराक्रमः एकदा तु देवर्षि-चरण-अनुशयन-अनुपतित-गुण-विसर्ग संसर्गेण अनिर्वृतम् इव आत्मानम् मन्यमानः आत्म-निर्वेदः इदम् आह
saḥ evam aparimita-bala-parākramaḥ ekadā tu devarṣi-caraṇa-anuśayana-anupatita-guṇa-visarga saṃsargeṇa anirvṛtam iva ātmānam manyamānaḥ ātma-nirvedaḥ idam āha
अहो असाध्वनुष्ठितं यदभिनिवेशितोऽहमिन्द्रियैरविद्यारचितविषमविषयान्धकूपे तदलमलममुष्या वनिताया विनोदमृगं मां धिग्धिगिति गर्हयांचकार ३६
अहो असाधु अनुष्ठितम् यत् अभिनिवेशितः अहम् इन्द्रियैः अविद्या-रचित-विषम-विषय-अन्धकूपे तत् अलम् अलम् अमुष्याः वनितायाः विनोद-मृगम् माम् धिक् धिक् इति गर्हयांचकार
aho asādhu anuṣṭhitam yat abhiniveśitaḥ aham indriyaiḥ avidyā-racita-viṣama-viṣaya-andhakūpe tat alam alam amuṣyāḥ vanitāyāḥ vinoda-mṛgam mām dhik dhik iti garhayāṃcakāra
परदेवताप्रसादाधिगतात्मप्रत्यवमर्शेनानुप्रवृत्तेभ्यः पुत्रेभ्य इमां यथादायं विभज्य भुक्तभोगां च महिषीं मृतकमिव सह महाविभूतिमपहाय स्वयं निहितनिर्वेदो हृदि गृहीतहरिविहारानुभावो भगवतो नारदस्य पदवीं पुनरेवानुससार ३७
पर-देवता-प्रसाद-अधिगत-आत्म-प्रत्यवमर्शेन अनुप्रवृत्तेभ्यः पुत्रेभ्यः इमाम् यथादायम् विभज्य भुक्त-भोगाम् च महिषीम् मृतकम् इव सह महा-विभूतिम् अपहाय स्वयम् निहित-निर्वेदः हृदि गृहीत-हरि-विहार-अनुभावः भगवतः नारदस्य पदवीम् पुनर् एव अनुससार
para-devatā-prasāda-adhigata-ātma-pratyavamarśena anupravṛttebhyaḥ putrebhyaḥ imām yathādāyam vibhajya bhukta-bhogām ca mahiṣīm mṛtakam iva saha mahā-vibhūtim apahāya svayam nihita-nirvedaḥ hṛdi gṛhīta-hari-vihāra-anubhāvaḥ bhagavataḥ nāradasya padavīm punar eva anusasāra
तस्य ह वा एते श्लोकाः। भूसंस्थानं कृतं येन सरिद्गिरिवनादिभिः। भौमं दिव्यं मानुषं च महित्वं कर्मयोगजम्। ४०
तस्य ह वै एते श्लोकाः। भू-संस्थानम् कृतम् येन सरित्-गिरि-वन-आदिभिः। भौमम् दिव्यम् मानुषम् च महि-त्वम् कर्म-योग-जम्। ४०
tasya ha vai ete ślokāḥ. bhū-saṃsthānam kṛtam yena sarit-giri-vana-ādibhiḥ. bhaumam divyam mānuṣam ca mahi-tvam karma-yoga-jam. 40
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे प्रियव्रतविजये प्रथमोऽध्यायः
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् पञ्चम-स्कन्धे प्रियव्रत-विजये प्रथमः अध्यायः
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām pañcama-skandhe priyavrata-vijaye prathamaḥ adhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In