| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

अथ सिन्धुसौवीरपते रहूगणस्य व्रजत इक्षुमत्यास्तटे तत्कुलपतिना शिबिकावाहपुरुषान्वेषणसमये दैवेनोपसादितः स द्विजवर उपलब्ध एष पीवा युवा संहननाङ्गो गोखरवद्धुरं वोढुमलमिति पूर्वविष्टिगृहीतैः सह गृहीतः प्रसभमतदर्ह उवाह शिबिकां स महानुभावः १।
अथ सिन्धुसौवीर-पते रहूगणस्य व्रजतः इक्षुमत्याः तटे तद्-कुल-पतिना शिबिका-वाह-पुरुष-अन्वेषण-समये दैवेन उपसादितः स द्विजवरः उपलब्ध-स द्विजवरः उपलब्ध-स एष पीवाः युवा संहनन-अङ्गः गो-खर-वत् धुरम् वोढुम् अलम् इति पूर्व-विष्टि-गृहीतैः सह गृहीतः प्रसभम् अतदर्हः उवाह शिबिकाम् स महा-अनुभावः।
atha sindhusauvīra-pate rahūgaṇasya vrajataḥ ikṣumatyāḥ taṭe tad-kula-patinā śibikā-vāha-puruṣa-anveṣaṇa-samaye daivena upasāditaḥ sa dvijavaraḥ upalabdha-sa dvijavaraḥ upalabdha-sa eṣa pīvāḥ yuvā saṃhanana-aṅgaḥ go-khara-vat dhuram voḍhum alam iti pūrva-viṣṭi-gṛhītaiḥ saha gṛhītaḥ prasabham atadarhaḥ uvāha śibikām sa mahā-anubhāvaḥ.
यदा हि द्विजवरस्येषुमात्रावलोकानुगतेर्न समाहिता पुरुषगतिस्तदा विषमगतां स्वशिबिकां रहूगण उपधार्य पुरुषानधिवहत आह हे वोढारः साध्वतिक्रमत किमिति विषममुह्यते यानमिति २।
यदा हि द्विजवरस्य इषु-मात्र-अवलोक-अनुगतेः न समाहिता पुरुष-गतिः तदा विषम-गताम् स्व-शिबिकाम् रहू-गणः उपधार्य पुरुषान् अधिवहतः आह हे वोढारः साधु अतिक्रमत किम् इति विषमम् उह्यते यानम् इति।
yadā hi dvijavarasya iṣu-mātra-avaloka-anugateḥ na samāhitā puruṣa-gatiḥ tadā viṣama-gatām sva-śibikām rahū-gaṇaḥ upadhārya puruṣān adhivahataḥ āha he voḍhāraḥ sādhu atikramata kim iti viṣamam uhyate yānam iti.
श्रीशुक उवाच
अथ त ईश्वरवचः सोपालम्भमुपाकर्ण्योपायतुरीयाच्छङ्कितमनसस्तं विज्ञापयां बभूवुः ३।
अथ ते ईश्वर-वचः स उपालम्भम् उपाकर्ण्य उपाय-तुरीयात् शङ्कित-मनसः तम् विज्ञापयाम् बभूवुः।
atha te īśvara-vacaḥ sa upālambham upākarṇya upāya-turīyāt śaṅkita-manasaḥ tam vijñāpayām babhūvuḥ.
न वयं नरदेव प्रमत्ता भवन्नियमानुपथाः साध्वेव वहामः अयमधुनैव नियुक्तोऽपि न द्रुतं व्रजति नानेन सह वोढुमु ह वयं पारयाम इति ४।
न वयम् नरदेव प्रमत्ताः भवत्-नियम-अनुपथाः साधु एव वहामः अयम् अधुना एव नियुक्तः अपि न द्रुतम् व्रजति न अनेन सह वोढुम् उ ह वयम् पारयामः इति।
na vayam naradeva pramattāḥ bhavat-niyama-anupathāḥ sādhu eva vahāmaḥ ayam adhunā eva niyuktaḥ api na drutam vrajati na anena saha voḍhum u ha vayam pārayāmaḥ iti.
सांसर्गिको दोष एव नूनमेकस्यापि सर्वेषां सांसर्गिकाणां भवितुमर्हतीति निश्चित्य निशम्य कृपणवचो राजा रहूगण उपासितवृद्धोऽपि निसर्गेण बलात्कृत ईषदुत्थितमन्युरविस्पष्टब्रह्मतेजसं जातवेदसमिव रजसावृतमतिराह ५।
सांसर्गिकः दोषः एव नूनम् एकस्य अपि सर्वेषाम् सांसर्गिकाणाम् भवितुम् अर्हति इति निश्चित्य निशम्य कृपण-वचः राजा रहू-गणः उपासित-वृद्धः अपि निसर्गेण बलात्कृतः ईषत् उत्थित-मन्युः अविस्पष्ट-ब्रह्म-तेजसम् जातवेदसम् इव रजसा आवृत-मतिः आह।
sāṃsargikaḥ doṣaḥ eva nūnam ekasya api sarveṣām sāṃsargikāṇām bhavitum arhati iti niścitya niśamya kṛpaṇa-vacaḥ rājā rahū-gaṇaḥ upāsita-vṛddhaḥ api nisargeṇa balātkṛtaḥ īṣat utthita-manyuḥ avispaṣṭa-brahma-tejasam jātavedasam iva rajasā āvṛta-matiḥ āha.
अहो कष्टं भ्रातर्व्यक्तमुरुपरिश्रान्तो दीर्घमध्वानमेक एव ऊहिवान्सुचिरं नातिपीवा न संहननाङ्गो जरसा चोपद्रुतो भवान्सखे नो एवापर एते सङ्घट्टिन इति बहुविप्रलब्धोऽप्यविद्यया रचितद्रव्य-गुणकर्माशयस्वचरमकलेवरेऽवस्तुनि संस्थानविशेषेऽहं ममेत्यनध्यारोपितमिथ्याप्रत्ययो ब्रह्मभूतस्तूष्णीं शिबिकां पूर्ववदुवाह ६।
अहो कष्टम् भ्रातर् व्यक्तम् उरु-परिश्रान्तः दीर्घम् अध्वानम् एकः एव ऊहिवान् सु चिरम् न अति पीवाः न संहनन-अङ्गः जरसा च उपद्रुतः भवान् सखे नो एव अपरे एते सङ्घट्टिनः इति बहु-विप्रलब्धः अपि अविद्यया रचित-द्रव्य-गुण-कर्म-आशय-स्व-चरम-कलेवरे अवस्तुनि संस्थान-विशेषे अहम् मम इति अनध्यारोपित-मिथ्याप्रत्ययः ब्रह्म-भूतः तूष्णीम् शिबिकाम् पूर्ववत् उवाह।
aho kaṣṭam bhrātar vyaktam uru-pariśrāntaḥ dīrgham adhvānam ekaḥ eva ūhivān su ciram na ati pīvāḥ na saṃhanana-aṅgaḥ jarasā ca upadrutaḥ bhavān sakhe no eva apare ete saṅghaṭṭinaḥ iti bahu-vipralabdhaḥ api avidyayā racita-dravya-guṇa-karma-āśaya-sva-carama-kalevare avastuni saṃsthāna-viśeṣe aham mama iti anadhyāropita-mithyāpratyayaḥ brahma-bhūtaḥ tūṣṇīm śibikām pūrvavat uvāha.
अथ पुनः स्वशिबिकायां विषमगतायां प्रकुपित उवाच रहूगणः किमिदमरे त्वं जीवन्मृतो मां कदर्थीकृत्य भर्तृशासनमतिचरसि प्रमत्तस्य च ते करोमि चिकित्सां दण्डपाणिरिव जनताया यथा प्रकृतिं स्वां भजिष्यस इति ७।
अथ पुनर् स्व-शिबिकायाम् विषम-गतायाम् प्रकुपितः उवाच रहूगणः किम् इदम् अरे त्वम् जीवन्मृतः माम् कदर्थीकृत्य भर्तृ-शासनम् अतिचरसि प्रमत्तस्य च ते करोमि चिकित्साम् दण्ड-पाणिः इव जनतायाः यथा प्रकृतिम् स्वाम् भजिष्यसे इति।
atha punar sva-śibikāyām viṣama-gatāyām prakupitaḥ uvāca rahūgaṇaḥ kim idam are tvam jīvanmṛtaḥ mām kadarthīkṛtya bhartṛ-śāsanam aticarasi pramattasya ca te karomi cikitsām daṇḍa-pāṇiḥ iva janatāyāḥ yathā prakṛtim svām bhajiṣyase iti.
एवं बह्वबद्धमपि भाषमाणं नरदेवाभिमानं रजसा तमसानुविद्धेन मदेन तिरस्कृताशेषभगवत्प्रियनिकेतं पण्डितमानिनं स भगवान्ब्राह्मणो ब्रह्मभूतसर्वभूत सुहृदात्मा योगेश्वरचर्यायां नातिव्युत्पन्नमतिं स्मयमान इव विगतस्मय इदमाह ८।
एवम् बहु अबद्धम् अपि भाषमाणम् नरदेव-अभिमानम् रजसा तमसा अनुविद्धेन मदेन तिरस्कृत-अशेष-भगवत्-प्रिय-निकेतम् पण्डित-मानिनम् स भगवान् ब्राह्मणः ब्रह्म-भूत-सर्व-भूत सुहृद्-आत्मा योग-ईश्वर-चर्यायाम् न अति व्युत्पन्न-मतिम् स्मयमानः इव विगत-स्मयः इदम् आह।
evam bahu abaddham api bhāṣamāṇam naradeva-abhimānam rajasā tamasā anuviddhena madena tiraskṛta-aśeṣa-bhagavat-priya-niketam paṇḍita-māninam sa bhagavān brāhmaṇaḥ brahma-bhūta-sarva-bhūta suhṛd-ātmā yoga-īśvara-caryāyām na ati vyutpanna-matim smayamānaḥ iva vigata-smayaḥ idam āha.
त्वयोदितं व्यक्तमविप्रलब्धं भर्तुः स मे स्याद्यदि वीर भारः। गन्तुर्यदि स्यादधिगम्यमध्वा पीवेति राशौ न विदां प्रवादः ९।
त्वया उदितम् व्यक्तम् अविप्रलब्धम् भर्तुः स मे स्यात् यदि वीर भारः। गन्तुः यदि स्यात् अधिगम्यम् अध्वा पीवा इति राशौ न विदाम् प्रवादः।
tvayā uditam vyaktam avipralabdham bhartuḥ sa me syāt yadi vīra bhāraḥ. gantuḥ yadi syāt adhigamyam adhvā pīvā iti rāśau na vidām pravādaḥ.
स्थौल्यं कार्श्यं व्याधय आधयश्च क्षुत्तृड्भयं कलिरिच्छा जरा च। निद्रा रतिर्मन्युरहं मदः शुचो देहेन जातस्य हि मे न सन्ति १०।
स्थौल्यम् कार्श्यम् व्याधयः आधयः च क्षुध्-तृष् भयम् कलिः इच्छा जरा च। निद्रा रतिः मन्युः अहम् मदः शुचः देहेन जातस्य हि मे न सन्ति।
sthaulyam kārśyam vyādhayaḥ ādhayaḥ ca kṣudh-tṛṣ bhayam kaliḥ icchā jarā ca. nidrā ratiḥ manyuḥ aham madaḥ śucaḥ dehena jātasya hi me na santi.
ब्राह्मण उवाच।
जीवन्मृतत्वं नियमेन राजनाद्यन्तवद्यद्विकृतस्य दृष्टम्। स्वस्वाम्यभावो ध्रुव ईड्य यत्र तर्ह्युच्यतेऽसौ विधिकृत्ययोगः ११।
जीवन्मृत-त्वम् नियमेन राजन्-नादि-अन्तवत् यत् विकृतस्य दृष्टम्। स्व-स्वामि-अभावः ध्रुवः यत्र तर्हि उच्यते असौ विधि-कृत्य-योगः।
jīvanmṛta-tvam niyamena rājan-nādi-antavat yat vikṛtasya dṛṣṭam. sva-svāmi-abhāvaḥ dhruvaḥ yatra tarhi ucyate asau vidhi-kṛtya-yogaḥ.
विशेषबुद्धेर्विवरं मनाक्च पश्याम यन्न व्यवहारतोऽन्यत्। क ईश्वरस्तत्र किमीशितव्यं तथापि राजन्करवाम किं ते १२।
विशेष-बुद्धेः विवरम् मनाक् च पश्याम यत् न व्यवहारतः अन्यत्। कः ईश्वरः तत्र किम् ईशितव्यम् तथा अपि राजन् करवाम किम् ते।
viśeṣa-buddheḥ vivaram manāk ca paśyāma yat na vyavahārataḥ anyat. kaḥ īśvaraḥ tatra kim īśitavyam tathā api rājan karavāma kim te.
उन्मत्तमत्तजडवत्स्वसंस्थां गतस्य मे वीर चिकित्सितेन। अर्थः कियान्भवता शिक्षितेन स्तब्धप्रमत्तस्य च पिष्टपेषः १३।
उन्मत्त-मत्त-जड-वत् स्व-संस्थाम् गतस्य मे वीर चिकित्सितेन। अर्थः कियान् भवता शिक्षितेन स्तब्ध-प्रमत्तस्य च पिष्ट-पेषः।
unmatta-matta-jaḍa-vat sva-saṃsthām gatasya me vīra cikitsitena. arthaḥ kiyān bhavatā śikṣitena stabdha-pramattasya ca piṣṭa-peṣaḥ.
एतावदनुवादपरिभाषया प्रत्युदीर्य मुनिवर उपशमशील उपरतानात्म्यनिमित्त उपभोगेन कर्मारब्धं व्यपनयन्राजयानमपि तथोवाह १४।
एतावत् अनुवाद-परिभाषया प्रत्युदीर्य मुनि-वरः उपशम-शीलः उपरत-अनात्म्य-निमित्तः उपभोगेन कर्म आरब्धम् व्यपनयन् राज-यानम् अपि तथा उवाह।
etāvat anuvāda-paribhāṣayā pratyudīrya muni-varaḥ upaśama-śīlaḥ uparata-anātmya-nimittaḥ upabhogena karma ārabdham vyapanayan rāja-yānam api tathā uvāha.
स चापि पाण्डवेय सिन्धुसौवीरपतिस्तत्त्वजिज्ञासायां सम्यक्। श्रद्धयाधिकृताधिकारस्तद्धृदयग्रन्थिमोचनं द्विजवच आश्रुत्य बहुयोगग्रन्थसम्मतं त्वरयावरुह्य शिरसा पादमूलमुपसृतः क्षमापयन्विगतनृपदेवस्मय उवाच १५।
स च अपि पाण्डवेय सिन्धुसौवीर-पतिः तत्त्व-जिज्ञासायाम् सम्यक्। श्रद्धया अधिकृत-अधिकारः तद्-हृदय-ग्रन्थि-मोचनम् द्विज-वचः आश्रुत्य बहु-योग-ग्रन्थ-सम्मतम् त्वरया अवरुह्य शिरसा पाद-मूलम् उपसृतः क्षमापयन् विगत-नृप-देव-स्मयः उवाच।
sa ca api pāṇḍaveya sindhusauvīra-patiḥ tattva-jijñāsāyām samyak. śraddhayā adhikṛta-adhikāraḥ tad-hṛdaya-granthi-mocanam dvija-vacaḥ āśrutya bahu-yoga-grantha-sammatam tvarayā avaruhya śirasā pāda-mūlam upasṛtaḥ kṣamāpayan vigata-nṛpa-deva-smayaḥ uvāca.
श्रीशुक उवाच।
कस्त्वं निगूढश्चरसि द्विजानां बिभर्षि सूत्रं कतमोऽवधूतः। कस्यासि कुत्रत्य इहापि कस्मात्क्षेमाय नश्चेदसि नोत शुक्लः १६।
कः त्वम् निगूढः चरसि द्विजानाम् बिभर्षि सूत्रम् कतमः अवधूतः। कस्य असि कुत्रत्यः इह अपि कस्मात् क्षेमाय नः चेद् असि न उत शुक्लः।
kaḥ tvam nigūḍhaḥ carasi dvijānām bibharṣi sūtram katamaḥ avadhūtaḥ. kasya asi kutratyaḥ iha api kasmāt kṣemāya naḥ ced asi na uta śuklaḥ.
नाहं विशङ्के सुरराजवज्रान्न त्र्यक्षशूलान्न यमस्य दण्डात्। नाग्न्यर्कसोमानिलवित्तपास्त्राच्छङ्के भृशं ब्रह्मकुलावमानात् १७।
न अहम् विशङ्के सुरराज-वज्रात् न त्र्यक्ष-शूलात् न यमस्य दण्डात्। न अग्नि-अर्क-सोम-अनिल-वित्तप-अस्त्रात् शङ्के भृशम् ब्रह्म-कुल-अवमानात्।
na aham viśaṅke surarāja-vajrāt na tryakṣa-śūlāt na yamasya daṇḍāt. na agni-arka-soma-anila-vittapa-astrāt śaṅke bhṛśam brahma-kula-avamānāt.
तद्ब्रूह्यसङ्गो जडवन्निगूढ विज्ञानवीर्यो विचरस्यपारः। वचांसि योगग्रथितानि साधो न नः क्षमन्ते मनसापि भेत्तुम् १८।
तत् ब्रूहि असङ्गः जड-वत् निगूढ विज्ञान-वीर्यः विचरसि अपारः। वचांसि योग-ग्रथितानि साधो न नः क्षमन्ते मनसा अपि भेत्तुम्।
tat brūhi asaṅgaḥ jaḍa-vat nigūḍha vijñāna-vīryaḥ vicarasi apāraḥ. vacāṃsi yoga-grathitāni sādho na naḥ kṣamante manasā api bhettum.
अहं च योगेश्वरमात्मतत्त्वविदां मुनीनां परमं गुरुं वै। प्रष्टुं प्रवृत्तः किमिहारणं तत्साक्षाद्धरिं ज्ञानकलावतीर्णम् १९।
अहम् च योग-ईश्वरम् आत्म-तत्त्व-विदाम् मुनीनाम् परमम् गुरुम् वै। प्रष्टुम् प्रवृत्तः किम् इह अरणम् तत् साक्षात् हरिम् ज्ञान-कला-अवतीर्णम्।
aham ca yoga-īśvaram ātma-tattva-vidām munīnām paramam gurum vai. praṣṭum pravṛttaḥ kim iha araṇam tat sākṣāt harim jñāna-kalā-avatīrṇam.
स वै भवा लोकनिरीक्षणार्थमव्यक्तलिङ्गो विचरत्यपि स्वित्। योगेश्वराणां गतिमन्धबुद्धिः कथं विचक्षीत गृहानुबन्धः २०।
स वै भवा लोक-निरीक्षण-अर्थम् अव्यक्त-लिङ्गः विचरति अपि स्विद्। योग-ईश्वराणाम् गतिम् अन्ध-बुद्धिः कथम् विचक्षीत गृह-अनुबन्धः।
sa vai bhavā loka-nirīkṣaṇa-artham avyakta-liṅgaḥ vicarati api svid. yoga-īśvarāṇām gatim andha-buddhiḥ katham vicakṣīta gṛha-anubandhaḥ.
दृष्टः श्रमः कर्मत आत्मनो वै भर्तुर्गन्तुर्भवतश्चानुमन्ये। यथासतोदानयनाद्यभावात्समूल इष्टो व्यवहारमार्गः २१।
दृष्टः श्रमः कर्मतः आत्मनः वै भर्तुः गन्तुः भवतः च अनुमन्ये। यथा असतः उदानयन-आदि-अभावात् स मूलः इष्टः व्यवहार-मार्गः।
dṛṣṭaḥ śramaḥ karmataḥ ātmanaḥ vai bhartuḥ gantuḥ bhavataḥ ca anumanye. yathā asataḥ udānayana-ādi-abhāvāt sa mūlaḥ iṣṭaḥ vyavahāra-mārgaḥ.
स्थाल्यग्नितापात्पयसोऽभितापस्तत्तापतस्तण्डुलगर्भरन्धिः। देहेन्द्रियास्वाशयसन्निकर्षात्तत्संसृतिः पुरुषस्यानुरोधात् २२।
स्थाली-अग्नि-तापात् पयसः अभितापः तद्-तापतः तण्डुल-गर्भ-रन्धिः। देह-इन्द्रिय-आसु-आशय-सन्निकर्षात् तद्-संसृतिः पुरुषस्य अनुरोधात्।
sthālī-agni-tāpāt payasaḥ abhitāpaḥ tad-tāpataḥ taṇḍula-garbha-randhiḥ. deha-indriya-āsu-āśaya-sannikarṣāt tad-saṃsṛtiḥ puruṣasya anurodhāt.
शास्ताभिगोप्ता नृपतिः प्रजानां यः किङ्करो वै न पिनष्टि पिष्टम्। स्वधर्ममाराधनमच्युतस्य यदीहमानो विजहात्यघौघम् २३।
शास्ता अभिगोप्ता नृपतिः प्रजानाम् यः किङ्करः वै न पिनष्टि पिष्टम्। स्वधर्मम् आराधनम् अच्युतस्य यदि ईहमानः विजहाति अघ-ओघम्।
śāstā abhigoptā nṛpatiḥ prajānām yaḥ kiṅkaraḥ vai na pinaṣṭi piṣṭam. svadharmam ārādhanam acyutasya yadi īhamānaḥ vijahāti agha-ogham.
तन्मे भवान्नरदेवाभिमान मदेन तुच्छीकृतसत्तमस्य। कृषीष्ट मैत्रीदृशमार्तबन्धो यथा तरे सदवध्यानमंहः २४।
तत् मे भवान् नरदेव-अभिमान मदेन तुच्छीकृत-सत्तमस्य। कृषीष्ट मैत्री-दृशम् आर्त-बन्धो यथा तरे सत्-अवध्यानम् अंहः।
tat me bhavān naradeva-abhimāna madena tucchīkṛta-sattamasya. kṛṣīṣṭa maitrī-dṛśam ārta-bandho yathā tare sat-avadhyānam aṃhaḥ.
न विक्रिया विश्वसुहृत्सखस्य साम्येन वीताभिमतेस्तवापि। महद्विमानात्स्वकृताद्धि मादृङ्नङ्क्ष्यत्यदूरादपि शूलपाणिः २५।
न विक्रिया विश्व-सुहृद्-सखस्य साम्येन वीत-अभिमतेः तव अपि। महत्-विमानात् स्व-कृतात् हि मादृश् नङ्क्ष्यति अदूरात् अपि शूलपाणिः।
na vikriyā viśva-suhṛd-sakhasya sāmyena vīta-abhimateḥ tava api. mahat-vimānāt sva-kṛtāt hi mādṛś naṅkṣyati adūrāt api śūlapāṇiḥ.
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे दशमोऽध्यायः।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् पञ्चम-स्कन्धे दशमः अध्यायः।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām pañcama-skandhe daśamaḥ adhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In