| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

अकोविदः कोविदवादवादान्वदस्यथो नातिविदां वरिष्ठः। न सूरयो हि व्यवहारमेनं तत्त्वावमर्शेन सहामनन्ति १।
अकोविदः कोविद-वाद-वादान् वदसि अथो न अति विदाम् वरिष्ठः। न सूरयः हि व्यवहारम् एनम् तत्त्व-अवमर्शेन सह आमनन्ति।
akovidaḥ kovida-vāda-vādān vadasi atho na ati vidām variṣṭhaḥ. na sūrayaḥ hi vyavahāram enam tattva-avamarśena saha āmananti.
तथैव राजन्नुरुगार्हमेध वितानविद्योरुविजृम्भितेषु। न वेदवादेषु हि तत्त्ववादः प्रायेण शुद्धो नु चकास्ति साधुः २।
तथा एव राजन् उरुगार्हमेध वितान-विद्या-ऊरु-विजृम्भितेषु। न वेद-वादेषु हि तत्त्व-वादः प्रायेण शुद्धः नु चकास्ति साधुः।
tathā eva rājan urugārhamedha vitāna-vidyā-ūru-vijṛmbhiteṣu. na veda-vādeṣu hi tattva-vādaḥ prāyeṇa śuddhaḥ nu cakāsti sādhuḥ.
न तस्य तत्त्वग्रहणाय साक्षाद्वरीयसीरपि वाचः समासन्। स्वप्ने निरुक्त्या गृहमेधिसौख्यं न यस्य हेयानुमितं स्वयं स्यात् ३।
न तस्य तत्त्व-ग्रहणाय साक्षात् वरीयसीः अपि वाचः समासन्। स्वप्ने निरुक्त्या गृहमेधि-सौख्यम् न यस्य हेय-अनुमितम् स्वयम् स्यात्।
na tasya tattva-grahaṇāya sākṣāt varīyasīḥ api vācaḥ samāsan. svapne niruktyā gṛhamedhi-saukhyam na yasya heya-anumitam svayam syāt.
यावन्मनो रजसा पूरुषस्य सत्त्वेन वा तमसा वानुरुद्धम्। चेतोभिराकूतिभिरातनोति निरङ्कुशं कुशलं चेतरं वा ४।
यावत् मनः रजसा पूरुषस्य सत्त्वेन वा तमसा वा अनुरुद्धम्। चेतोभिः आकूतिभिः आतनोति निरङ्कुशम् कुशलम् च इतरम् वा।
yāvat manaḥ rajasā pūruṣasya sattvena vā tamasā vā anuruddham. cetobhiḥ ākūtibhiḥ ātanoti niraṅkuśam kuśalam ca itaram vā.
स वासनात्मा विषयोपरक्तो गुणप्रवाहो विकृतः षोडशात्मा। बिभ्रत्पृथङ्नामभि रूपभेदमन्तर्बहिष्ट्वं च पुरैस्तनोति ५।
स वासना-आत्मा विषय-उपरक्तः गुण-प्रवाहः विकृतः षोडश-आत्मा। बिभ्रत् पृथक् नामभिः रूप-भेदम् अन्तर् बहिस् त्वम् च पुरैः तनोति।
sa vāsanā-ātmā viṣaya-uparaktaḥ guṇa-pravāhaḥ vikṛtaḥ ṣoḍaśa-ātmā. bibhrat pṛthak nāmabhiḥ rūpa-bhedam antar bahis tvam ca puraiḥ tanoti.
दुःखं सुखं व्यतिरिक्तं च तीव्रं कालोपपन्नं फलमाव्यनक्ति। आलिङ्ग्य मायारचितान्तरात्मा स्वदेहिनं संसृतिचक्रकूटः ६।
दुःखम् सुखम् व्यतिरिक्तम् च तीव्रम् काल-उपपन्नम् फलम् आव्यनक्ति। आलिङ्ग्य माया-रचित-अन्तरात्मा स्व-देहिनम् संसृति-चक्र-कूटः।
duḥkham sukham vyatiriktam ca tīvram kāla-upapannam phalam āvyanakti. āliṅgya māyā-racita-antarātmā sva-dehinam saṃsṛti-cakra-kūṭaḥ.
तावानयं व्यवहारः सदाविः क्षेत्रज्ञसाक्ष्यो भवति स्थूलसूक्ष्मः। तस्मान्मनो लिङ्गमदो वदन्ति गुणागुणत्वस्य परावरस्य ७।
तावान् अयम् व्यवहारः सदा आविस् क्षेत्रज्ञ-साक्ष्यः भवति स्थूल-सूक्ष्मः। तस्मात् मनः लिङ्गम् अदः वदन्ति गुण-अगुण-त्वस्य परावरस्य।
tāvān ayam vyavahāraḥ sadā āvis kṣetrajña-sākṣyaḥ bhavati sthūla-sūkṣmaḥ. tasmāt manaḥ liṅgam adaḥ vadanti guṇa-aguṇa-tvasya parāvarasya.
गुणानुरक्तं व्यसनाय जन्तोः क्षेमाय नैर्गुण्यमथो मनः स्यात्। यथा प्रदीपो घृतवर्तिमश्नन्शिखाः सधूमा भजति ह्यन्यदा स्वम्। पदं तथा गुणकर्मानुबद्धं वृत्तीर्मनः श्रयतेऽन्यत्र तत्त्वम् ८।
गुण-अनुरक्तम् व्यसनाय जन्तोः क्षेमाय नैर्गुण्यम् अथो मनः स्यात्। यथा प्रदीपः घृत-वर्तिम् अश्नन् शिखाः स धूमाः भजति हि अन्यदा स्वम्। पदम् तथा गुण-कर्म-अनुबद्धम् वृत्तीः मनः श्रयते अन्यत्र तत्त्वम्।
guṇa-anuraktam vyasanāya jantoḥ kṣemāya nairguṇyam atho manaḥ syāt. yathā pradīpaḥ ghṛta-vartim aśnan śikhāḥ sa dhūmāḥ bhajati hi anyadā svam. padam tathā guṇa-karma-anubaddham vṛttīḥ manaḥ śrayate anyatra tattvam.
एकादशासन्मनसो हि वृत्तय आकूतयः पञ्च धियोऽभिमानः। मात्राणि कर्माणि पुरं च तासां वदन्ति हैकादश वीर भूमीः ९।
एकादश आसत्-मनसः हि वृत्तयः आकूतयः पञ्च धियः अभिमानः। मात्राणि कर्माणि पुरम् च तासाम् वदन्ति ह एकादश वीर भूमीः।
ekādaśa āsat-manasaḥ hi vṛttayaḥ ākūtayaḥ pañca dhiyaḥ abhimānaḥ. mātrāṇi karmāṇi puram ca tāsām vadanti ha ekādaśa vīra bhūmīḥ.
गन्धाकृतिस्पर्शरसश्रवांसि विसर्गरत्यर्त्यभिजल्पशिल्पाः। एकादशं स्वीकरणं ममेति शय्यामहं द्वादशमेक आहुः १०।
गन्ध-आकृति-स्पर्श-रस-श्रवांसि विसर्ग-रति-अर्ति-अभिजल्प-शिल्पाः। एकादशम् स्वीकरणम् मम इति शय्याम् अहम् द्वादशम् एके आहुः।
gandha-ākṛti-sparśa-rasa-śravāṃsi visarga-rati-arti-abhijalpa-śilpāḥ. ekādaśam svīkaraṇam mama iti śayyām aham dvādaśam eke āhuḥ.
द्रव्यस्वभावाशयकर्मकालैरेकादशामी मनसो विकाराः। सहस्रशः शतशः कोटिशश्च क्षेत्रज्ञतो न मिथो न स्वतः स्युः ११।
द्रव्य-स्वभाव-आशय-कर्म-कालैः एकादशा अमी मनसः विकाराः। सहस्रशस् शतशस् कोटिशस् च क्षेत्रज्ञतः न मिथस् न स्वतस् स्युः।
dravya-svabhāva-āśaya-karma-kālaiḥ ekādaśā amī manasaḥ vikārāḥ. sahasraśas śataśas koṭiśas ca kṣetrajñataḥ na mithas na svatas syuḥ.
क्षेत्रज्ञ एता मनसो विभूतीर्जीवस्य मायारचितस्य नित्याः। आविर्हिताः क्वापि तिरोहिताश्च शुद्धो विचष्टे ह्यविशुद्धकर्तुः १२।
क्षेत्रज्ञः एताः मनसः विभूतीः जीवस्य माया-रचितस्य नित्याः। आविस् हिताः क्वापि तिरोहिताः च शुद्धः विचष्टे हि अविशुद्ध-कर्तुः।
kṣetrajñaḥ etāḥ manasaḥ vibhūtīḥ jīvasya māyā-racitasya nityāḥ. āvis hitāḥ kvāpi tirohitāḥ ca śuddhaḥ vicaṣṭe hi aviśuddha-kartuḥ.
क्षेत्रज्ञ आत्मा पुरुषः पुराणः साक्षात्स्वयं ज्योतिरजः परेशः। नारायणो भगवान्वासुदेवः स्वमाययात्मन्यवधीयमानः १३।
क्षेत्रज्ञः आत्मा पुरुषः पुराणः साक्षात् स्वयम् ज्योतिः अजः पर-ईशः। नारायणः भगवान् वासुदेवः स्व-मायया आत्मनि अवधीयमानः।
kṣetrajñaḥ ātmā puruṣaḥ purāṇaḥ sākṣāt svayam jyotiḥ ajaḥ para-īśaḥ. nārāyaṇaḥ bhagavān vāsudevaḥ sva-māyayā ātmani avadhīyamānaḥ.
यथानिलः स्थावरजङ्गमानामात्मस्वरूपेण निविष्ट ईशेत्। एवं परो भगवान्वासुदेवः क्षेत्रज्ञ आत्मेदमनुप्रविष्टः १४।
यथा अनिलः स्थावर-जङ्गमानाम् आत्म-स्व-रूपेण निविष्टः ईशेत्। एवम् परः भगवान् वासुदेवः क्षेत्रज्ञः आत्मा इदम् अनुप्रविष्टः।
yathā anilaḥ sthāvara-jaṅgamānām ātma-sva-rūpeṇa niviṣṭaḥ īśet. evam paraḥ bhagavān vāsudevaḥ kṣetrajñaḥ ātmā idam anupraviṣṭaḥ.
न यावदेतां तनुभृन्नेन्द्र विधूय मायां वयुनोदयेन। विमुक्तसङ्गो जितषट्सपत्नो वेदात्मतत्त्वं भ्रमतीह तावत् १५।
न यावत् एताम् तनुभृत् न इन्द्र विधूय मायाम् वयुन-उदयेन। विमुक्त-सङ्गः जित-षष्-सपत्नः वेद आत्म-तत्त्वम् भ्रमति इह तावत्।
na yāvat etām tanubhṛt na indra vidhūya māyām vayuna-udayena. vimukta-saṅgaḥ jita-ṣaṣ-sapatnaḥ veda ātma-tattvam bhramati iha tāvat.
न यावदेतन्मन आत्मलिङ्गं संसारतापावपनं जनस्य। यच्छोकमोहामयरागलोभ वैरानुबन्धं ममतां विधत्ते १६।
न यावत् एतत् मनः आत्म-लिङ्गम् संसार-ताप-आवपनम् जनस्य। यत् शोक-मोह-आमय-राग-लोभ वैर-अनुबन्धम् ममताम् विधत्ते।
na yāvat etat manaḥ ātma-liṅgam saṃsāra-tāpa-āvapanam janasya. yat śoka-moha-āmaya-rāga-lobha vaira-anubandham mamatām vidhatte.
भ्रातृव्यमेनं तददभ्रवीर्यमुपेक्षयाध्येधितमप्रमत्तः। गुरोर्हरेश्चरणोपासनास्त्रो जहि व्यलीकं स्वयमात्ममोषम् १७।
भ्रातृव्यम् एनम् तत् अदभ्र-वीर्यम् उपेक्षया अध्येधितम् अप्रमत्तः। गुरोः हरेः चरण-उपासन-अस्त्रः जहि व्यलीकम् स्वयम् आत्म-मोषम्।
bhrātṛvyam enam tat adabhra-vīryam upekṣayā adhyedhitam apramattaḥ. guroḥ hareḥ caraṇa-upāsana-astraḥ jahi vyalīkam svayam ātma-moṣam.
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे ब्राह्मणरहूगणसंवादे एकादशोऽध्यायः।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् पञ्चम-स्कन्धे ब्राह्मण-रहू-गण-संवादे एकादशः अध्यायः।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām pañcama-skandhe brāhmaṇa-rahū-gaṇa-saṃvāde ekādaśaḥ adhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In