| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

नमो नमः कारणविग्रहाय स्वरूपतुच्छीकृतविग्रहाय। नमोऽवधूत द्विजबन्धुलिङ्ग निगूढनित्यानुभवाय तुभ्यम् १।
नमः नमः कारण-विग्रहाय स्व-रूप-तुच्छीकृत-विग्रहाय। नमः अवधूत द्विज-बन्धु-लिङ्ग निगूढ-नित्य-अनुभवाय तुभ्यम्।
namaḥ namaḥ kāraṇa-vigrahāya sva-rūpa-tucchīkṛta-vigrahāya. namaḥ avadhūta dvija-bandhu-liṅga nigūḍha-nitya-anubhavāya tubhyam.
ज्वरामयार्तस्य यथागदं सत्निदाघदग्धस्य यथा हिमाम्भः। कुदेहमानाहिविदष्टदृष्टेः ब्रह्मन्वचस्तेऽमृतमौषधं मे २।
ज्वर-आमय-आर्तस्य यथा अगदम् सत्नि-दाघ-दग्धस्य यथा हिम-अम्भः। कु देह-मान-अहि-विदष्ट-दृष्टेः ब्रह्मन् वचः ते अमृतम् औषधम् मे।
jvara-āmaya-ārtasya yathā agadam satni-dāgha-dagdhasya yathā hima-ambhaḥ. ku deha-māna-ahi-vidaṣṭa-dṛṣṭeḥ brahman vacaḥ te amṛtam auṣadham me.
रहूगण उवाच।
तस्माद्भवन्तं मम संशयार्थं प्रक्ष्यामि पश्चादधुना सुबोधम्। अध्यात्मयोगग्रथितं तवोक्तमाख्याहि कौतूहलचेतसो मे ३।
तस्मात् भवन्तम् मम संशय-अर्थम् प्रक्ष्यामि पश्चात् अधुना सु बोधम्। अध्यात्म-योग-ग्रथितम् तव उक्तम् आख्याहि कौतूहल-चेतसः मे।
tasmāt bhavantam mama saṃśaya-artham prakṣyāmi paścāt adhunā su bodham. adhyātma-yoga-grathitam tava uktam ākhyāhi kautūhala-cetasaḥ me.
यदाह योगेश्वर दृश्यमानं क्रियाफलं सद्व्यवहारमूलम्। न ह्यञ्जसा तत्त्वविमर्शनाय भवानमुष्मिन्भ्रमते मनो मे ४।
यत् आह योगेश्वर दृश्यमानम् क्रिया-फलम् सत्-व्यवहार-मूलम्। न हि अञ्जसा तत्त्व-विमर्शनाय भवान् अमुष्मिन् भ्रमते मनः मे।
yat āha yogeśvara dṛśyamānam kriyā-phalam sat-vyavahāra-mūlam. na hi añjasā tattva-vimarśanāya bhavān amuṣmin bhramate manaḥ me.
अयं जनो नाम चलन्पृथिव्यां यः पार्थिवः पार्थिव कस्य हेतोः। तस्यापि चाङ्घ्र्योरधि गुल्फजङ्घा जानूरुमध्योरशिरोधरांसाः ५।
अयम् जनः नाम चलन् पृथिव्याम् यः पार्थिवः पार्थिव कस्य हेतोः। तस्य अपि च अङ्घ्र्योः अधि गुल्फ-जङ्घाः जानु-ऊरु-मध्य-ऊर-शिरोधरा-अंसाः।
ayam janaḥ nāma calan pṛthivyām yaḥ pārthivaḥ pārthiva kasya hetoḥ. tasya api ca aṅghryoḥ adhi gulpha-jaṅghāḥ jānu-ūru-madhya-ūra-śirodharā-aṃsāḥ.
अंसेऽधि दार्वी शिबिका च यस्यां सौवीरराजेत्यपदेश आस्ते। यस्मिन्भवान्रूढनिजाभिमानो राजास्मि सिन्धुष्विति दुर्मदान्धः ६।
अंसे अधि दार्वी शिबिका च यस्याम् सौवीर-राजा इति अपदेशः आस्ते। यस्मिन् भवान् रूढ-निज-अभिमानः राजा अस्मि सिन्धुषु इति दुर्मद-अन्धः।
aṃse adhi dārvī śibikā ca yasyām sauvīra-rājā iti apadeśaḥ āste. yasmin bhavān rūḍha-nija-abhimānaḥ rājā asmi sindhuṣu iti durmada-andhaḥ.
ब्राह्मण उवाच।
शोच्यानिमांस्त्वमधिकष्टदीनान्विष्ट्या निगृह्णन्निरनुग्रहोऽसि। जनस्य गोप्तास्मि विकत्थमानो न शोभसे वृद्धसभासु धृष्टः ७।
शोच्यान् इमान् त्वम् अधि कष्ट-दीन-अन्विष्ट्या निगृह्णन् निरनुग्रहः असि। जनस्य गोप्ता अस्मि विकत्थमानः न शोभसे वृद्ध-सभासु धृष्टः।
śocyān imān tvam adhi kaṣṭa-dīna-anviṣṭyā nigṛhṇan niranugrahaḥ asi. janasya goptā asmi vikatthamānaḥ na śobhase vṛddha-sabhāsu dhṛṣṭaḥ.
यदा क्षितावेव चराचरस्य विदाम निष्ठां प्रभवं च नित्यम्। तन्नामतोऽन्यद्व्यवहारमूलं निरूप्यतां सत्क्रिययानुमेयम् ८।
यदा क्षितौ एव चराचरस्य विदाम निष्ठाम् प्रभवम् च नित्यम्। तद्-नामतः अन्यत् व्यवहार-मूलम् निरूप्यताम् सत्क्रियया अनुमेयम्।
yadā kṣitau eva carācarasya vidāma niṣṭhām prabhavam ca nityam. tad-nāmataḥ anyat vyavahāra-mūlam nirūpyatām satkriyayā anumeyam.
एवं निरुक्तं क्षितिशब्दवृत्तमसन्निधानात्परमाणवो ये। अविद्यया मनसा कल्पितास्ते येषां समूहेन कृतो विशेषः ९।
एवम् निरुक्तम् क्षिति-शब्द-वृत्तम् असन्निधानात् परमाणवः ये। अविद्यया मनसा कल्पिताः ते येषाम् समूहेन कृतः विशेषः।
evam niruktam kṣiti-śabda-vṛttam asannidhānāt paramāṇavaḥ ye. avidyayā manasā kalpitāḥ te yeṣām samūhena kṛtaḥ viśeṣaḥ.
एवं कृशं स्थूलमणुर्बृहद्यदसच्च सज्जीवमजीवमन्यत्। द्रव्यस्वभावाशयकालकर्म नाम्नाजयावेहि कृतं द्वितीयम् १०।
एवम् कृशम् स्थूलम् अणुः बृहत् यत् असत् च सत्-जीवम् अजीवम् अन्यत्। द्रव्य-स्वभाव-आशय-काल-कर्म नाम्ना अजयाव इहि कृतम् द्वितीयम्।
evam kṛśam sthūlam aṇuḥ bṛhat yat asat ca sat-jīvam ajīvam anyat. dravya-svabhāva-āśaya-kāla-karma nāmnā ajayāva ihi kṛtam dvitīyam.
ज्ञानं विशुद्धं परमार्थमेकमनन्तरं त्वबहिर्ब्रह्म सत्यम्। प्रत्यक्प्रशान्तं भगवच्छब्दसंज्ञं यद्वासुदेवं कवयो वदन्ति ११।
ज्ञानम् विशुद्धम् परम-अर्थम् एकम् अनन्तरम् तु अबहिर् ब्रह्म सत्यम्। प्रत्यक्-प्रशान्तम् भगवत्-शब्द-संज्ञम् यत् वासुदेवम् कवयः वदन्ति।
jñānam viśuddham parama-artham ekam anantaram tu abahir brahma satyam. pratyak-praśāntam bhagavat-śabda-saṃjñam yat vāsudevam kavayaḥ vadanti.
रहूगणैतत्तपसा न याति न चेज्यया निर्वपणाद्गृहाद्वा। न च्छन्दसा नैव जलाग्निसूर्यैर्विना महत्पादरजोऽभिषेकम् १२।
रहूगण एतत् तपसा न याति न च इज्यया निर्वपणात् गृहात् वा। न छन्दसा ना एव जल-अग्नि-सूर्यैः विना महत् पाद-रजः-अभिषेकम्।
rahūgaṇa etat tapasā na yāti na ca ijyayā nirvapaṇāt gṛhāt vā. na chandasā nā eva jala-agni-sūryaiḥ vinā mahat pāda-rajaḥ-abhiṣekam.
यत्रोत्तमश्लोकगुणानुवादः प्रस्तूयते ग्राम्यकथाविघातः। निषेव्यमाणोऽनुदिनं मुमुक्षोर्मतिं सतीं यच्छति वासुदेवे १३।
यत्र उत्तमश्लोक-गुण-अनुवादः प्रस्तूयते ग्राम्य-कथा-विघातः। निषेव्यमाणः अनुदिनम् मुमुक्षोः मतिम् सतीम् यच्छति वासुदेवे।
yatra uttamaśloka-guṇa-anuvādaḥ prastūyate grāmya-kathā-vighātaḥ. niṣevyamāṇaḥ anudinam mumukṣoḥ matim satīm yacchati vāsudeve.
अहं पुरा भरतो नाम राजा विमुक्तदृष्टश्रुतसङ्गबन्धः। आराधनं भगवत ईहमानो मृगोऽभवं मृगसङ्गाद्धतार्थः १४।
अहम् पुरा भरतः नाम राजा विमुक्त-दृष्ट-श्रुत-सङ्ग-बन्धः। आराधनम् भगवतः ईहमानः मृगः अभवम् मृग-सङ्गात् हत-अर्थः।
aham purā bharataḥ nāma rājā vimukta-dṛṣṭa-śruta-saṅga-bandhaḥ. ārādhanam bhagavataḥ īhamānaḥ mṛgaḥ abhavam mṛga-saṅgāt hata-arthaḥ.
सा मां स्मृतिर्मृगदेहेऽपि वीर कृष्णार्चनप्रभवा नो जहाति। अथो अहं जनसङ्गादसङ्गो विशङ्कमानोऽविवृतश्चरामि १५।
सा माम् स्मृतिः मृग-देहे अपि वीर कृष्ण-अर्चन-प्रभवा नो जहाति। अथो अहम् जन-सङ्गात् असङ्गः विशङ्कमानः अ विवृतः चरामि।
sā mām smṛtiḥ mṛga-dehe api vīra kṛṣṇa-arcana-prabhavā no jahāti. atho aham jana-saṅgāt asaṅgaḥ viśaṅkamānaḥ a vivṛtaḥ carāmi.
तस्मान्नरोऽसङ्गसुसङ्गजात ज्ञानासिनेहैव विवृक्णमोहः। हरिं तदीहाकथनश्रुताभ्यां लब्धस्मृतिर्यात्यतिपारमध्वनः १६।
तस्मात् नरः असङ्ग-सु सङ्ग-जात ज्ञान-असिना इह एव विवृक्ण-मोहः। हरिम् तद्-ईहा-कथन-श्रुताभ्याम् लब्ध-स्मृतिः याति अतिपारम् अध्वनः।
tasmāt naraḥ asaṅga-su saṅga-jāta jñāna-asinā iha eva vivṛkṇa-mohaḥ. harim tad-īhā-kathana-śrutābhyām labdha-smṛtiḥ yāti atipāram adhvanaḥ.
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे ब्राह्मणरहूगणसंवादे द्वादशोऽध्यायः
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् पञ्चम-स्कन्धे ब्राह्मण-रहू-गण-संवादे द्वादशः अध्यायः
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām pañcama-skandhe brāhmaṇa-rahū-gaṇa-saṃvāde dvādaśaḥ adhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In