| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

दुरत्ययेऽध्वन्यजया निवेशितो रजस्तमःसत्त्वविभक्तकर्मदृक्। स एष सार्थोऽर्थपरः परिभ्रमन्भवाटवीं याति न शर्म विन्दति १।
दुरत्यये अध्वनि अजया निवेशितः रजः-तमः-सत्त्व-विभक्त-कर्म-दृश्। सः एष सार्थः अर्थ-परः परिभ्रमन् भव-अटवीम् याति न शर्म विन्दति।
duratyaye adhvani ajayā niveśitaḥ rajaḥ-tamaḥ-sattva-vibhakta-karma-dṛś. saḥ eṣa sārthaḥ artha-paraḥ paribhraman bhava-aṭavīm yāti na śarma vindati.
यस्यामिमे षण्नरदेव दस्यवः सार्थं विलुम्पन्ति कुनायकं बलात्। गोमायवो यत्र हरन्ति सार्थिकं प्रमत्तमाविश्य यथोरणं वृकाः २।
यस्याम् इमे षट् नरदेव दस्यवः सार्थम् विलुम्पन्ति कु नायकम् बलात्। गोमायवः यत्र हरन्ति सार्थिकम् प्रमत्तम् आविश्य यथा उरणम् वृकाः।
yasyām ime ṣaṭ naradeva dasyavaḥ sārtham vilumpanti ku nāyakam balāt. gomāyavaḥ yatra haranti sārthikam pramattam āviśya yathā uraṇam vṛkāḥ.
ब्राह्मण उवाच।
प्रभूतवीरुत्तृणगुल्मगह्वरे कठोरदंशैर्मशकैरुपद्रुतः। क्वचित्तु गन्धर्वपुरं प्रपश्यति क्वचित्क्वचिच्चाशुरयोल्मुकग्रहम् ३।
प्रभूत-वीरुध्-तृण-गुल्म-गह्वरे कठोर-दंशैः मशकैः उपद्रुतः। क्वचिद् तु गन्धर्वपुरम् प्रपश्यति क्वचिद् क्वचिद् च आशुरया उल्मुक-ग्रहम्।
prabhūta-vīrudh-tṛṇa-gulma-gahvare kaṭhora-daṃśaiḥ maśakaiḥ upadrutaḥ. kvacid tu gandharvapuram prapaśyati kvacid kvacid ca āśurayā ulmuka-graham.
निवासतोयद्रविणात्मबुद्धिस्ततस्ततो धावति भो अटव्याम्। क्वचिच्च वात्योत्थितपांसुधूम्रा दिशो न जानाति रजस्वलाक्षः ४।
निवास-तोय-द्रविण-आत्म-बुद्धिः ततस् ततस् धावति भो अटव्याम्। क्वचिद् च वात्या-उत्थित-पांसु-धूम्राः दिशः न जानाति रजस्वला-अक्षः।
nivāsa-toya-draviṇa-ātma-buddhiḥ tatas tatas dhāvati bho aṭavyām. kvacid ca vātyā-utthita-pāṃsu-dhūmrāḥ diśaḥ na jānāti rajasvalā-akṣaḥ.
अदृश्यझिल्लीस्वनकर्णशूल उलूकवाग्भिर्व्यथितान्तरात्मा। अपुण्यवृक्षान्श्रयते क्षुधार्दितो मरीचितोयान्यभिधावति क्वचित् ५।
अदृश्य-झिल्ली-स्वन-कर्ण-शूलः उलूक-वाग्भिः व्यथित-अन्तरात्मा। अपुण्य-वृक्षान् श्रयते क्षुधा-अर्दितः मरीचि-तोयानि अभिधावति क्वचिद्।
adṛśya-jhillī-svana-karṇa-śūlaḥ ulūka-vāgbhiḥ vyathita-antarātmā. apuṇya-vṛkṣān śrayate kṣudhā-arditaḥ marīci-toyāni abhidhāvati kvacid.
क्वचिद्वितोयाः सरितोऽभियाति परस्परं चालषते निरन्धः। आसाद्य दावं क्वचिदग्नितप्तो निर्विद्यते क्व च यक्षैर्हृतासुः ६।
क्वचिद् वितोयाः सरितः अभियाति परस्परम् च आलषते निरन्धः। आसाद्य दावम् क्वचिद् अग्नि-तप्तः निर्विद्यते क्व च यक्षैः हृत-असुः।
kvacid vitoyāḥ saritaḥ abhiyāti parasparam ca ālaṣate nirandhaḥ. āsādya dāvam kvacid agni-taptaḥ nirvidyate kva ca yakṣaiḥ hṛta-asuḥ.
शूरैर्हृतस्वः क्व च निर्विण्णचेताः शोचन्विमुह्यन्नुपयाति कश्मलम्। क्वचिच्च गन्धर्वपुरं प्रविष्टः प्रमोदते निर्वृतवन्मुहूर्तम् ७।
शूरैः हृत-स्वः क्व च निर्विण्ण-चेताः शोचन् विमुह्यन् उपयाति कश्मलम्। क्वचिद् च गन्धर्वपुरम् प्रविष्टः प्रमोदते निर्वृत-वत् मुहूर्तम्।
śūraiḥ hṛta-svaḥ kva ca nirviṇṇa-cetāḥ śocan vimuhyan upayāti kaśmalam. kvacid ca gandharvapuram praviṣṭaḥ pramodate nirvṛta-vat muhūrtam.
चलन्क्वचित्कण्टकशर्कराङ्घ्रिर्नगारुरुक्षुर्विमना इवास्ते। पदे पदेऽभ्यन्तरवह्निनार्दितः कौटुम्बिकः क्रुध्यति वै जनाय ८।
चलन् क्वचिद् कण्टक-शर्करा-अङ्घ्रिः नग-आरुरुक्षुः विमनाः इव आस्ते। पदे पदे अभ्यन्तर-वह्निना अर्दितः कौटुम्बिकः क्रुध्यति वै जनाय।
calan kvacid kaṇṭaka-śarkarā-aṅghriḥ naga-ārurukṣuḥ vimanāḥ iva āste. pade pade abhyantara-vahninā arditaḥ kauṭumbikaḥ krudhyati vai janāya.
क्वचिन्निगीर्णोऽजगराहिना जनो नावैति किञ्चिद्विपिनेऽपविद्धः। दष्टः स्म शेते क्व च दन्दशूकैरन्धोऽन्धकूपे पतितस्तमिस्रे ९।
क्वचिद् निगीर्णः अजगर-अहिना जनः न अवैति किञ्चिद् विपिने अपविद्धः। दष्टः स्म शेते क्व च दन्दशूकैः अन्धः-अन्धकूपे पतितः तमिस्रे।
kvacid nigīrṇaḥ ajagara-ahinā janaḥ na avaiti kiñcid vipine apaviddhaḥ. daṣṭaḥ sma śete kva ca dandaśūkaiḥ andhaḥ-andhakūpe patitaḥ tamisre.
कर्हि स्म चित्क्षुद्र रसान्विचिन्वंस्तन्मक्षिकाभिर्व्यथितो विमानः। तत्रातिकृच्छ्रात्प्रतिलब्धमानो बलाद्विलुम्पन्त्यथ तं ततोऽन्ये १०।
कर्हि स्म चित् क्षुद्र रसान् विचिन्वन् तद्-मक्षिकाभिः व्यथितः विमानः। तत्र अतिकृच्छ्रात् प्रतिलब्ध-मानः बलात् विलुम्पन्ति अथ तम् ततस् अन्ये।
karhi sma cit kṣudra rasān vicinvan tad-makṣikābhiḥ vyathitaḥ vimānaḥ. tatra atikṛcchrāt pratilabdha-mānaḥ balāt vilumpanti atha tam tatas anye.
क्वचिच्च शीतातपवातवर्ष प्रतिक्रियां कर्तुमनीश आस्ते। क्वचिन्मिथो विपणन्यच्च किञ्चिद्विद्वेषमृच्छत्युत वित्तशाठ्यात् ११।
क्वचिद् च शीत-आतप-वात-वर्ष प्रतिक्रियाम् कर्तुम् अनीशः आस्ते। क्वचिद् मिथस् विपणन् यत् च किञ्चिद् विद्वेषम् ऋच्छति उत वित्त-शाठ्यात्।
kvacid ca śīta-ātapa-vāta-varṣa pratikriyām kartum anīśaḥ āste. kvacid mithas vipaṇan yat ca kiñcid vidveṣam ṛcchati uta vitta-śāṭhyāt.
क्वचित्क्वचित्क्षीणधनस्तु तस्मिन्शय्यासनस्थानविहारहीनः। याचन्परादप्रतिलब्धकामः पारक्यदृष्टिर्लभतेऽवमानम् १२।
क्वचिद् क्वचिद् क्षीण-धनः तु तस्मिन् शय्या-आसन-स्थान-विहार-हीनः। याचन् परात् अ प्रतिलब्ध-कामः पारक्य-दृष्टिः लभते अवमानम्।
kvacid kvacid kṣīṇa-dhanaḥ tu tasmin śayyā-āsana-sthāna-vihāra-hīnaḥ. yācan parāt a pratilabdha-kāmaḥ pārakya-dṛṣṭiḥ labhate avamānam.
अन्योन्यवित्तव्यतिषङ्गवृद्ध वैरानुबन्धो विवहन्मिथश्च। अध्वन्यमुष्मिन्नुरुकृच्छ्रवित्त बाधोपसर्गैर्विहरन्विपन्नः १३।
अन्योन्य-वित्त-व्यतिषङ्ग-वृद्ध वैर-अनुबन्धः विवहन् मिथस् च। अध्वनि अमुष्मिन् उरु-कृच्छ्र-वित्त बाधा-उपसर्गैः विहरन् विपन्नः।
anyonya-vitta-vyatiṣaṅga-vṛddha vaira-anubandhaḥ vivahan mithas ca. adhvani amuṣmin uru-kṛcchra-vitta bādhā-upasargaiḥ viharan vipannaḥ.
तांस्तान्विपन्नान्स हि तत्र तत्र विहाय जातं परिगृह्य सार्थः। आवर्ततेऽद्यापि न कश्चिदत्र वीराध्वनः पारमुपैति योगम् १४।
तान् तान् विपन्नान् स हि तत्र तत्र विहाय जातम् परिगृह्य सार्थः। आवर्तते अद्य अपि न कश्चिद् अत्र वीराध्वनः पारम् उपैति योगम्।
tān tān vipannān sa hi tatra tatra vihāya jātam parigṛhya sārthaḥ. āvartate adya api na kaścid atra vīrādhvanaḥ pāram upaiti yogam.
मनस्विनो निर्जितदिग्गजेन्द्रा ममेति सर्वे भुवि बद्धवैराः। मृधे शयीरन्न तु तद्व्रजन्ति यन्न्यस्तदण्डो गतवैरोऽभियाति १५।
मनस्विनः निर्जित-दिग्गज-इन्द्राः मम इति सर्वे भुवि बद्धवैराः। मृधे शयीरन् न तु तत् व्रजन्ति यत् न्यस्त-दण्डः गत-वैरः अभियाति।
manasvinaḥ nirjita-diggaja-indrāḥ mama iti sarve bhuvi baddhavairāḥ. mṛdhe śayīran na tu tat vrajanti yat nyasta-daṇḍaḥ gata-vairaḥ abhiyāti.
प्रसज्जति क्वापि लताभुजाश्रयस्तदाश्रयाव्यक्तपदद्विजस्पृहः। क्वचित्कदाचिद्धरिचक्रतस्त्रसन्सख्यं विधत्ते बककङ्कगृध्रैः १६।
प्रसज्जति क्वापि लता-भुज-आश्रयः तद्-आश्रय-अव्यक्त-पद-द्विज-स्पृहः। क्वचिद् कदाचिद् हरि-चक्रतः त्रसन् सख्यम् विधत्ते बक-कङ्क-गृध्रैः।
prasajjati kvāpi latā-bhuja-āśrayaḥ tad-āśraya-avyakta-pada-dvija-spṛhaḥ. kvacid kadācid hari-cakrataḥ trasan sakhyam vidhatte baka-kaṅka-gṛdhraiḥ.
तैर्वञ्चितो हंसकुलं समाविशन्नरोचयन्शीलमुपैति वानरान्। तज्जातिरासेन सुनिर्वृतेन्द्रियः परस्परोद्वीक्षणविस्मृतावधिः १७।
तैः वञ्चितः हंस-कुलम् समाविशन् अ रोचयन् शीलम् उपैति वानरान्। तद्-जाति-रासेन सु निर्वृत-इन्द्रियः परस्पर-उद्वीक्षण-विस्मृत-अवधिः।
taiḥ vañcitaḥ haṃsa-kulam samāviśan a rocayan śīlam upaiti vānarān. tad-jāti-rāsena su nirvṛta-indriyaḥ paraspara-udvīkṣaṇa-vismṛta-avadhiḥ.
द्रुमेषु रंस्यन्सुतदारवत्सलो व्यवायदीनो विवशः स्वबन्धने। क्वचित्प्रमादाद्गिरिकन्दरे पतन्वल्लीं गृहीत्वा गजभीत आस्थितः १८।
द्रुमेषु रंस्यन् सुत-दार-वत्सलः व्यवाय-दीनः विवशः स्व-बन्धने। क्वचिद् प्रमादात् गिरि-कन्दरे पतन् वल्लीम् गृहीत्वा गज-भीतः आस्थितः।
drumeṣu raṃsyan suta-dāra-vatsalaḥ vyavāya-dīnaḥ vivaśaḥ sva-bandhane. kvacid pramādāt giri-kandare patan vallīm gṛhītvā gaja-bhītaḥ āsthitaḥ.
अतः कथञ्चित्स विमुक्त आपदः पुनश्च सार्थं प्रविशत्यरिन्दम। अध्वन्यमुष्मिन्नजया निवेशितो भ्रमञ्जनोऽद्यापि न वेद कश्चन १९।
अतस् कथञ्चिद् स विमुक्तः आपदः पुनर् च सार्थम् प्रविशति अरिन्दम। अध्वनि अमुष्मिन् अजया निवेशितः भ्रमन् जनः अद्या अपि न वेद कश्चन।
atas kathañcid sa vimuktaḥ āpadaḥ punar ca sārtham praviśati arindama. adhvani amuṣmin ajayā niveśitaḥ bhraman janaḥ adyā api na veda kaścana.
रहूगण त्वमपि ह्यध्वनोऽस्य सन्न्यस्तदण्डः कृतभूतमैत्रः। असज्जितात्मा हरिसेवया शितं ज्ञानासिमादाय तरातिपारम् २०।
रहू-गण त्वम् अपि हि अध्वनः अस्य सत्-न्यस्त-दण्डः कृत-भूत-मैत्रः। असत्-जित-आत्मा हरि-सेवया शितम् ज्ञान-असिम् आदाय तर अति पारम्।
rahū-gaṇa tvam api hi adhvanaḥ asya sat-nyasta-daṇḍaḥ kṛta-bhūta-maitraḥ. asat-jita-ātmā hari-sevayā śitam jñāna-asim ādāya tara ati pāram.
अहो नृजन्माखिलजन्मशोभनं किं जन्मभिस्त्वपरैरप्यमुष्मिन्। न यद्धृषीकेशयशःकृतात्मनां महात्मनां वः प्रचुरः समागमः २१।
अहो नृ-जन्म अखिल-जन्म-शोभनम् किम् जन्मभिः तु अपरैः अपि अमुष्मिन्। न यत् हृषीकेश-यशः-कृतात्मनाम् महात्मनाम् वः प्रचुरः समागमः।
aho nṛ-janma akhila-janma-śobhanam kim janmabhiḥ tu aparaiḥ api amuṣmin. na yat hṛṣīkeśa-yaśaḥ-kṛtātmanām mahātmanām vaḥ pracuraḥ samāgamaḥ.
न ह्यद्भुतं त्वच्चरणाब्जरेणुभिर्हतांहसो भक्तिरधोक्षजेऽमला। मौहूर्तिकाद्यस्य समागमाच्च मे दुस्तर्कमूलोऽपहतोऽविवेकः २२।
न हि अद्भुतम् त्वद्-चरण-अब्ज-रेणुभिः हत-अंहसः भक्तिः अधोक्षजे अमला। मौहूर्तिक-आद्यस्य समागमात् च मे दुस्तर्क-मूलः अपहतः अविवेकः।
na hi adbhutam tvad-caraṇa-abja-reṇubhiḥ hata-aṃhasaḥ bhaktiḥ adhokṣaje amalā. mauhūrtika-ādyasya samāgamāt ca me dustarka-mūlaḥ apahataḥ avivekaḥ.
राजोवाच।
नमो महद्भ्योऽस्तु नमः शिशुभ्यो नमो युवभ्यो नम आवटुभ्यः। ये ब्राह्मणा गामवधूतलिङ्गाश्चरन्ति तेभ्यः शिवमस्तु राज्ञाम् २३।
नमः महद्भ्यः अस्तु नमः शिशुभ्यः नमः युवभ्यः नमः आवटुभ्यः। ये ब्राह्मणाः गाम् अवधूत-लिङ्गाः चरन्ति तेभ्यः शिवम् अस्तु राज्ञाम्।
namaḥ mahadbhyaḥ astu namaḥ śiśubhyaḥ namaḥ yuvabhyaḥ namaḥ āvaṭubhyaḥ. ye brāhmaṇāḥ gām avadhūta-liṅgāḥ caranti tebhyaḥ śivam astu rājñām.
इत्येवमुत्तरामातः स वै ब्रह्मर्षिसुतः सिन्धुपतय आत्मसतत्त्वं विगणयतः परानुभावः परमकारुणिकतयोपदिश्य रहूगणेन सकरुणमभिवन्दितचरण आपूर्णार्णव इव निभृतकरणोर्म्याशयो धरणिमिमां विचचार २४।
इति एवम् उत्तरा अमातर् स वै ब्रह्मर्षि-सुतः सिन्धुपतये आत्म-स तत्त्वम् विगणयतः पर-अनुभावः परम-कारुणिक-तया उपदिश्य रहू-गणेन स करुणम् अभिवन्दित-चरणः आपूर्ण-अर्णवः इव निभृत-करण-ऊर्मि-आशयः धरणिम् इमाम् विचचार।
iti evam uttarā amātar sa vai brahmarṣi-sutaḥ sindhupataye ātma-sa tattvam vigaṇayataḥ para-anubhāvaḥ parama-kāruṇika-tayā upadiśya rahū-gaṇena sa karuṇam abhivandita-caraṇaḥ āpūrṇa-arṇavaḥ iva nibhṛta-karaṇa-ūrmi-āśayaḥ dharaṇim imām vicacāra.
सौवीरपतिरपि सुजनसमवगतपरमात्मसतत्त्व आत्मन्यविद्याध्यारोपितां च देहात्ममतिं विससर्ज एवं हि नृप भगवदाश्रिताश्रितानुभावः २५।
सौवीर-पतिः अपि सु जन-समवगत-परमात्म-स तत्त्वः आत्मनि अविद्या-अध्यारोपिताम् च देह-आत्म-मतिम् विससर्ज एवम् हि नृप भगवत्-आश्रित-आश्रित-अनुभावः।
sauvīra-patiḥ api su jana-samavagata-paramātma-sa tattvaḥ ātmani avidyā-adhyāropitām ca deha-ātma-matim visasarja evam hi nṛpa bhagavat-āśrita-āśrita-anubhāvaḥ.
श्रीशुक उवाच।
यो ह वा इह बहुविदा महाभागवत त्वयाभिहितः परोक्षेण वचसा जीवलोकभवाध्वा स ह्यार्यमनीषया कल्पितविषयो नाञ्जसाव्युत्पन्नलोकसमधिगमः अथ तदेवैतद्दुरवगमं समवेतानुकल्पेन निर्दिश्यतामिति २६।
यः ह वा इह बहुविदा महा-भागवत त्वया अभिहितः परोक्षेण वचसा जीव-लोक-भव-अध्वा स हि आर्य-मनीषया कल्पित-विषयः न अञ्जसा अव्युत्पन्न-लोक-समधिगमः अथ तत् एव एतत् दुरवगमम् समवेत-अनुकल्पेन निर्दिश्यताम् इति।
yaḥ ha vā iha bahuvidā mahā-bhāgavata tvayā abhihitaḥ parokṣeṇa vacasā jīva-loka-bhava-adhvā sa hi ārya-manīṣayā kalpita-viṣayaḥ na añjasā avyutpanna-loka-samadhigamaḥ atha tat eva etat duravagamam samaveta-anukalpena nirdiśyatām iti.
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे त्रयोदशोऽध्यायः।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् पञ्चम-स्कन्धे त्रयोदशः अध्यायः।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām pañcama-skandhe trayodaśaḥ adhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In