| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

भरतस्यात्मजः सुमतिर्नामाभिहितो यमु ह वाव केचित्पाखण्डिन ऋषभ पदवीमनुवर्तमानं चानार्या अवेदसमाम्नातां देवतां स्वमनीषया पापीयस्या कलौ कल्पयिष्यन्ति १
भरतस्य आत्मजः सुमतिः नाम अभिहितः यमु ह वाव केचिद् पाखण्डिनः ऋषभ पदवीम् अनुवर्तमानम् च अनार्याः अ वेद-समाम्नाताम् देवताम् स्व-मनीषया पापीयस्या कलौ कल्पयिष्यन्ति
bharatasya ātmajaḥ sumatiḥ nāma abhihitaḥ yamu ha vāva kecid pākhaṇḍinaḥ ṛṣabha padavīm anuvartamānam ca anāryāḥ a veda-samāmnātām devatām sva-manīṣayā pāpīyasyā kalau kalpayiṣyanti
तस्माद्वृद्धसेनायां देवताजिन्नाम पुत्रोऽभवत् २
तस्मात् वृद्धसेनायाम् देवताजित् नाम पुत्रः अभवत्
tasmāt vṛddhasenāyām devatājit nāma putraḥ abhavat
श्रीशुक उवाच
अथासुर्यां तत्तनयो देवद्युम्नस्ततो धेनुमत्यां सुतः परमेष्ठी तस्य सुवर्चलायां प्रतीह उपजातः ३
अथ असुर्याम् तद्-तनयः देवद्युम्नः ततस् धेनुमत्याम् सुतः परमेष्ठी तस्य सुवर्चलायाम् प्रतीहः उपजातः
atha asuryām tad-tanayaḥ devadyumnaḥ tatas dhenumatyām sutaḥ parameṣṭhī tasya suvarcalāyām pratīhaḥ upajātaḥ
य आत्मविद्यामाख्याय स्वयं संशुद्धो महापुरुषमनुसस्मार ४
यः आत्म-विद्याम् आख्याय स्वयम् संशुद्धः महापुरुषम् अनुसस्मार
yaḥ ātma-vidyām ākhyāya svayam saṃśuddhaḥ mahāpuruṣam anusasmāra
प्रतीहात्सुवर्चलायां प्रतिहर्त्रादयस्त्रय आसन्निज्याकोविदाः सूनवः प्रतिहर्तुः स्तुत्यामजभूमानावजनिषाताम् ५
प्रतीहात् सुवर्चलायाम् प्रतिहर्तृ-आदयः त्रयः आसन् इज्या-कोविदाः सूनवः प्रतिहर्तुः स्तुत्याम् अजभूमानौ अजनिषाताम्
pratīhāt suvarcalāyām pratihartṛ-ādayaḥ trayaḥ āsan ijyā-kovidāḥ sūnavaḥ pratihartuḥ stutyām ajabhūmānau ajaniṣātām
भूम्न ऋषिकुल्यायामुद्गीथस्ततः प्रस्तावो देवकुल्यायां प्रस्तावान्नियुत्सायां हृदयज । आसीद्विभुर्विभो रत्यां च पृथुषेणस्तस्मान्नक्त । आकूत्यां जज्ञे नक्ताद्द्रुतिपुत्रो गयो राजर्षिप्रवर उदारश्रवा । अजायत साक्षाद्भगवतो विष्णोर्जगद्रिरक्षिषया गृहीतसत्त्वस्य कलात्मवत्त्वादिलक्षणेन महापुरुषतां प्राप्तः ६
भूम्नः ऋषिकुल्यायाम् उद्गीथः ततस् प्रस्तावः देवकुल्यायाम् प्रस्तावात् नियुत्सायाम् हृदय-ज । आसीत् विभुः विभोः रत्याम् च पृथुषेणः तस्मात् नक्त । आकूत्याम् जज्ञे नक्तात् द्रुति-पुत्रः गयः राजर्षि-प्रवरः उदार-श्रवाः । अजायत साक्षात् भगवतः विष्णोः जगत्-रिरक्षिषया गृहीत-सत्त्वस्य कला-आत्मवत्-त्व-आदि-लक्षणेन महापुरुष-ताम् प्राप्तः
bhūmnaḥ ṛṣikulyāyām udgīthaḥ tatas prastāvaḥ devakulyāyām prastāvāt niyutsāyām hṛdaya-ja . āsīt vibhuḥ vibhoḥ ratyām ca pṛthuṣeṇaḥ tasmāt nakta . ākūtyām jajñe naktāt druti-putraḥ gayaḥ rājarṣi-pravaraḥ udāra-śravāḥ . ajāyata sākṣāt bhagavataḥ viṣṇoḥ jagat-rirakṣiṣayā gṛhīta-sattvasya kalā-ātmavat-tva-ādi-lakṣaṇena mahāpuruṣa-tām prāptaḥ
स वै स्वधर्मेण प्रजापालनपोषणप्रीणनोपलालनानुशासनलक्षणेनेज्यादिना च भगवति महापुरुषे परावरे ब्रह्मणि सर्वात्मनार्पितपरमार्थलक्षणेन ब्रह्मविच्चरणानुसेवयापादितभगवद्भक्तियोगेन चाभीक्ष्णशः परिभावितातिशुद्धमतिरुपरतानात्म्य आत्मनि स्वयमुपलभ्यमानब्रह्मात्मानुभवोऽपि निरभिमान एवावनिमजूगुपत् ७
स वै स्वधर्मेण प्रजा-पालन-पोषण-प्रीणन-उपलालन-अनुशासन-लक्षणेन इज्या-आदिना च भगवति महापुरुषे परावरे ब्रह्मणि सर्व-आत्मना अर्पित-परमार्थ-लक्षणेन ब्रह्म-विद्-चरण-अनुसेवया आपादित-भगवत्-भक्ति-योगेन च अभीक्ष्णशस् परिभावित-अति शुद्ध-मतिः उपरत-अनात्म्य आत्मनि स्वयम् उपलभ्यमान-ब्रह्म-आत्म-अनुभवः अपि निरभिमानः एव अवनिम् अजूगुपत्
sa vai svadharmeṇa prajā-pālana-poṣaṇa-prīṇana-upalālana-anuśāsana-lakṣaṇena ijyā-ādinā ca bhagavati mahāpuruṣe parāvare brahmaṇi sarva-ātmanā arpita-paramārtha-lakṣaṇena brahma-vid-caraṇa-anusevayā āpādita-bhagavat-bhakti-yogena ca abhīkṣṇaśas paribhāvita-ati śuddha-matiḥ uparata-anātmya ātmani svayam upalabhyamāna-brahma-ātma-anubhavaḥ api nirabhimānaḥ eva avanim ajūgupat
तस्येमां गाथां पाण्डवेय पुराविद उपगायन्ति ८
तस्य इमाम् गाथाम् पाण्डवेय पुराविदः उपगायन्ति
tasya imām gāthām pāṇḍaveya purāvidaḥ upagāyanti
गयं नृपः कः प्रतियाति कर्मभिर्यज्वाभिमानी बहुविद्धर्मगोप्ता । समागतश्रीः सदसस्पतिः सतां सत्सेवकोऽन्यो भगवत्कलामृते ९
गयम् नृपः कः प्रतियाति कर्मभिः यज्वा अभिमानी बहु-विद् धर्म-गोप्ता । समागत-श्रीः सदसस्पतिः सताम् सत्-सेवकः अन्यः भगवत्-कला-अमृते
gayam nṛpaḥ kaḥ pratiyāti karmabhiḥ yajvā abhimānī bahu-vid dharma-goptā . samāgata-śrīḥ sadasaspatiḥ satām sat-sevakaḥ anyaḥ bhagavat-kalā-amṛte
यमभ्यषिञ्चन्परया मुदा सतीः सत्याशिषो दक्षकन्याः सरिद्भिः । यस्य प्रजानां दुदुहे धराशिषो निराशिषो गुणवत्सस्नुतोधाः १०
यम् अभ्यषिञ्चन् परया मुदा सतीः सत्य-आशिषः दक्ष-कन्याः सरिद्भिः । यस्य प्रजानाम् दुदुहे धरा-आशिषः निः आशिषः गुणवत्-सस्नुत-उधाः
yam abhyaṣiñcan parayā mudā satīḥ satya-āśiṣaḥ dakṣa-kanyāḥ saridbhiḥ . yasya prajānām duduhe dharā-āśiṣaḥ niḥ āśiṣaḥ guṇavat-sasnuta-udhāḥ
छन्दांस्यकामस्य च यस्य कामान्दुदूहुराजह्रुरथो बलिं नृपाः । प्रत्यञ्चिता युधि धर्मेण विप्रा यदाशिषां षष्ठमंशं परेत्य ११
छन्दांसि अकामस्य च यस्य कामान् दुदूहुः आजह्रुः अथो बलिम् नृपाः । प्रत्यञ्चिताः युधि धर्मेण विप्राः यद्-आशिषाम् षष्ठम् अंशम् परेत्य
chandāṃsi akāmasya ca yasya kāmān dudūhuḥ ājahruḥ atho balim nṛpāḥ . pratyañcitāḥ yudhi dharmeṇa viprāḥ yad-āśiṣām ṣaṣṭham aṃśam paretya
यस्याध्वरे भगवानध्वरात्मा मघोनि माद्यत्युरुसोमपीथे । श्रद्धाविशुद्धाचलभक्तियोग समर्पितेज्याफलमाजहार १२
यस्य अध्वरे भगवान् अध्वर-आत्मा मघोनि माद्यति उरु-सोम-पीथे । श्रद्धा-विशुद्ध-अचल-भक्ति-योग समर्पित-इज्या-फलम् आजहार
yasya adhvare bhagavān adhvara-ātmā maghoni mādyati uru-soma-pīthe . śraddhā-viśuddha-acala-bhakti-yoga samarpita-ijyā-phalam ājahāra
यत्प्रीणनाद्बर्हिषि देवतिर्यङ् मनुष्यवीरुत्तृणमाविरिञ्चात् । प्रीयेत सद्यः स ह विश्वजीवः प्रीतः स्वयं प्रीतिमगाद्गयस्य १३
यद्-प्रीणनात् बर्हिषि देव-तिर्यञ्च् मनुष्य-वीरुध् तृणम् आ विरिञ्चात् । प्रीयेत सद्यस् स ह विश्वजीवः प्रीतः स्वयम् प्रीतिम् अगात् गयस्य
yad-prīṇanāt barhiṣi deva-tiryañc manuṣya-vīrudh tṛṇam ā viriñcāt . prīyeta sadyas sa ha viśvajīvaḥ prītaḥ svayam prītim agāt gayasya
गयाद्गयन्त्यां चित्ररथः सुगतिरवरोधन इति त्रयः पुत्रा बभूवुश्चित्ररथादूर्णायां सम्राडजनिष्ट तत उत्कलायां मरीचिर्मरीचेर्बिन्दुमत्यां बिन्दुमानुदपद्यत तस्मात्सरघायां मधुर्नामाभवन्मधोः सुमनसि वीरव्रतस्ततो भोजायां मन्थुप्रमन्थू जज्ञाते मन्थोः सत्यायां भौवनस्ततो दूषणायां त्वष्टाजनिष्ट त्वष्टुर्विरोचनायां विरजो विरजस्य शतजित्प्रवरं पुत्रशतं कन्या च विषूच्यां किल जातम् १४
गयात् गयन्त्याम् चित्ररथः सुगतिः अवरोधनः इति त्रयः पुत्राः बभूवुः चित्ररथात् ऊर्णायाम् सम्राज् अजनिष्ट ततस् उत्कलायाम् मरीचिः मरीचेः बिन्दुमत्याम् बिन्दुमान् उदपद्यत तस्मात् सरघायाम् मधुः नाम अभवत् मधोः सुमनसि वीरव्रतः ततस् भोजायाम् मन्थु-प्रमन्थू जज्ञाते मन्थोः सत्यायाम् भौवनः ततस् दूषणायाम् त्वष्टा अजनिष्ट त्वष्टुः विरोचनायाम् विरजः विरजस्य शतजित् प्रवरम् पुत्र-शतम् कन्या च विषूच्याम् किल जातम्
gayāt gayantyām citrarathaḥ sugatiḥ avarodhanaḥ iti trayaḥ putrāḥ babhūvuḥ citrarathāt ūrṇāyām samrāj ajaniṣṭa tatas utkalāyām marīciḥ marīceḥ bindumatyām bindumān udapadyata tasmāt saraghāyām madhuḥ nāma abhavat madhoḥ sumanasi vīravrataḥ tatas bhojāyām manthu-pramanthū jajñāte manthoḥ satyāyām bhauvanaḥ tatas dūṣaṇāyām tvaṣṭā ajaniṣṭa tvaṣṭuḥ virocanāyām virajaḥ virajasya śatajit pravaram putra-śatam kanyā ca viṣūcyām kila jātam
तत्रायं श्लोकः । प्रैयव्रतं वंशमिमं विरजश्चरमोद्भवः । अकरोदत्यलं कीर्त्या विष्णुः सुरगणं यथा १५
तत्र अयम् श्लोकः । प्रैयव्रतम् वंशम् इमम् विरजः चरम-उद्भवः । अकरोत् अत्यलम् कीर्त्या विष्णुः सुर-गणम् यथा
tatra ayam ślokaḥ . praiyavratam vaṃśam imam virajaḥ carama-udbhavaḥ . akarot atyalam kīrtyā viṣṇuḥ sura-gaṇam yathā
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे प्रियव्रतवंशानुकीर्तनं नाम पञ्चदशोऽध्यायः
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् पञ्चम-स्कन्धे प्रियव्रतवंशानुकीर्तनम् नाम पञ्चदशः अध्यायः
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām pañcama-skandhe priyavratavaṃśānukīrtanam nāma pañcadaśaḥ adhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In