| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

तथा च भद्रश्रवा नाम धर्मसुतस्तत्कुलपतयः पुरुषा भद्राश्ववर्षे साक्षाद्भगवतो वासुदेवस्य प्रियां तनुं धर्ममयीं हयशीर्षाभिधानां परमेण समाधिना सन्निधाप्येदमभिगृणन्त उपधावन्ति १
तथा च भद्रश्रवाः नाम धर्मसुतः तद्-कुल-पतयः पुरुषाः भद्राश्व-वर्षे साक्षात् भगवतः वासुदेवस्य प्रियाम् तनुम् धर्म-मयीम् हयशीर्ष-अभिधानाम् परमेण समाधिना सन्निधाप्य इदम् अभिगृणन्तः उपधावन्ति
tathā ca bhadraśravāḥ nāma dharmasutaḥ tad-kula-patayaḥ puruṣāḥ bhadrāśva-varṣe sākṣāt bhagavataḥ vāsudevasya priyām tanum dharma-mayīm hayaśīrṣa-abhidhānām parameṇa samādhinā sannidhāpya idam abhigṛṇantaḥ upadhāvanti
ॐ नमो भगवते धर्मायात्मविशोधनाय नम इति २
ओम् नमः भगवते धर्माय आत्म-विशोधनाय नमः इति
om namaḥ bhagavate dharmāya ātma-viśodhanāya namaḥ iti
अथाष्टादशोऽध्यायः - श्रीशुक उवाच
अहो विचित्रं भगवद्विचेष्टितं घ्नन्तं जनोऽयं हि मिषन्न पश्यति । ध्यायन्नसद्यर्हि विकर्म सेवितुं निर्हृत्य पुत्रं पितरं जिजीविषति ३
अहो विचित्रम् भगवत्-विचेष्टितम् घ्नन्तम् जनः अयम् हि मिषन् न पश्यति । ध्यायन् असत् यर्हि विकर्म सेवितुम् निर्हृत्य पुत्रम् पितरम् जिजीविषति
aho vicitram bhagavat-viceṣṭitam ghnantam janaḥ ayam hi miṣan na paśyati . dhyāyan asat yarhi vikarma sevitum nirhṛtya putram pitaram jijīviṣati
भद्रश्रवस ऊचुः
वदन्ति विश्वं कवयः स्म नश्वरं पश्यन्ति चाध्यात्मविदो विपश्चितः । तथापि मुह्यन्ति तवाज मायया सुविस्मितं कृत्यमजं नतोऽस्मि तम् ४
वदन्ति विश्वम् कवयः स्म नश्वरम् पश्यन्ति च अध्यात्म-विदः विपश्चितः । तथा अपि मुह्यन्ति तव अज मायया सु विस्मितम् कृत्यम् अजम् नतः अस्मि तम्
vadanti viśvam kavayaḥ sma naśvaram paśyanti ca adhyātma-vidaḥ vipaścitaḥ . tathā api muhyanti tava aja māyayā su vismitam kṛtyam ajam nataḥ asmi tam
विश्वोद्भवस्थाननिरोधकर्म ते ह्यकर्तुरङ्गीकृतमप्यपावृतः । युक्तं न चित्रं त्वयि कार्यकारणे सर्वात्मनि व्यतिरिक्ते च वस्तुतः ५
विश्व-उद्भव-स्थान-निरोध-कर्म ते हि अकर्तुः अङ्गीकृतम् अपि अपावृतः । युक्तम् न चित्रम् त्वयि कार्य-कारणे सर्व-आत्मनि व्यतिरिक्ते च वस्तुतः
viśva-udbhava-sthāna-nirodha-karma te hi akartuḥ aṅgīkṛtam api apāvṛtaḥ . yuktam na citram tvayi kārya-kāraṇe sarva-ātmani vyatirikte ca vastutaḥ
वेदान्युगान्ते तमसा तिरस्कृतान्रसातलाद्यो नृतुरङ्गविग्रहः । प्रत्याददे वै कवयेऽभियाचते तस्मै नमस्तेऽवितथेहिताय इति ६
वेदान् युग-अन्ते तमसा तिरस्कृतान् रसातल-आद्यः नृ-तुरङ्ग-विग्रहः । प्रत्याददे वै कवये अभियाचते तस्मै नमः ते अ वितथ-ईहिताय इति
vedān yuga-ante tamasā tiraskṛtān rasātala-ādyaḥ nṛ-turaṅga-vigrahaḥ . pratyādade vai kavaye abhiyācate tasmai namaḥ te a vitatha-īhitāya iti
हरिवर्षे चापि भगवान्नरहरिरूपेणास्ते तद्रूपग्रहणनिमित्तमुत्तरत्राभिधास्ये तद्दयितं रूपं महापुरुषगुणभाजनो महाभागवतो दैत्यदानव-कुलतीर्थीकरणशीलाचरितः प्रह्लादोऽव्यवधानानन्यभक्तियोगेन सह तद्वर्षपुरुषैरुपास्ते इदं चोदाहरति ७
हरिवर्षे च अपि भगवान् नरहरि-रूपेण आस्ते तद्-रूप-ग्रहण-निमित्तम् उत्तरत्र अभिधास्ये तत् दयितम् रूपम् महापुरुष-गुण-भाजनः दैत्य-दानव-कुल-तीर्थीकरण-शील-आचरितः प्रह्लादः अव्यवधान-अनन्य-भक्तियोगेन सह तद्-वर्ष-पुरुषैः उपास्ते इदम् च उदाहरति
harivarṣe ca api bhagavān narahari-rūpeṇa āste tad-rūpa-grahaṇa-nimittam uttaratra abhidhāsye tat dayitam rūpam mahāpuruṣa-guṇa-bhājanaḥ daitya-dānava-kula-tīrthīkaraṇa-śīla-ācaritaḥ prahlādaḥ avyavadhāna-ananya-bhaktiyogena saha tad-varṣa-puruṣaiḥ upāste idam ca udāharati
ॐ नमो भगवते नरसिंहाय नमस्तेजस्तेजसे आविराविर्भव वज्रनख वज्रदंष्ट्र कर्माशयान्रन्धय रन्धय तमो ग्रस ग्रस ॐ स्वाहा अभयमभयमात्मनि भूयिष्ठा ॐ क्ष्रौम् ८
ओम् नमः भगवते नरसिंहाय नमः तेजः तेजसे आविस् आविर्भव वज्रनख वज्रदंष्ट्र कर्म-आशयान् रन्धय रन्धय तमः ग्रस ग्रस ओम् स्वाहा अभयम् अभयम् आत्मनि भूयिष्ठा
om namaḥ bhagavate narasiṃhāya namaḥ tejaḥ tejase āvis āvirbhava vajranakha vajradaṃṣṭra karma-āśayān randhaya randhaya tamaḥ grasa grasa om svāhā abhayam abhayam ātmani bhūyiṣṭhā
स्वस्त्यस्तु विश्वस्य खलः प्रसीदतां ध्यायन्तु भूतानि शिवं मिथो धियामनश्च भद्रं भजतादधोक्षजे आवेश्यतां नो मतिरप्यहैतुकी ९
स्वस्ति अस्तु विश्वस्य खलः प्रसीदताम् ध्यायन्तु भूतानि शिवम् मिथस् धिया मनः च भद्रम् भजतात् अधोक्षजे आवेश्यताम् नः मतिः अपि अहैतुकी
svasti astu viśvasya khalaḥ prasīdatām dhyāyantu bhūtāni śivam mithas dhiyā manaḥ ca bhadram bhajatāt adhokṣaje āveśyatām naḥ matiḥ api ahaitukī
मागारदारात्मजवित्तबन्धुषु सङ्गो यदि स्याद्भगवत्प्रियेषु नः । यः प्राणवृत्त्या परितुष्ट आत्मवान्सिद्ध्यत्यदूरान्न तथेन्द्रियप्रियः १०
मा आगार-दार-आत्मज-वित्त-बन्धुषु सङ्गः यदि स्यात् भगवत्-प्रियेषु नः । यः प्राण-वृत्त्या परितुष्टः आत्मवान् सिद्धि-अति अदूरात् न तथा इन्द्रिय-प्रियः
mā āgāra-dāra-ātmaja-vitta-bandhuṣu saṅgaḥ yadi syāt bhagavat-priyeṣu naḥ . yaḥ prāṇa-vṛttyā parituṣṭaḥ ātmavān siddhi-ati adūrāt na tathā indriya-priyaḥ
यत्सङ्गलब्धं निजवीर्यवैभवं तीर्थं मुहुः संस्पृशतां हि मानसम् । हरत्यजोऽन्तः श्रुतिभिर्गतोऽङ्गजं को वै न सेवेत मुकुन्दविक्रमम् ११
यत् सङ्ग-लब्धम् निज-वीर्य-वैभवम् तीर्थम् मुहुर् संस्पृशताम् हि मानसम् । हरति अजः अन्तर् श्रुतिभिः गतः अङ्गजम् कः वै न सेवेत मुकुन्द-विक्रमम्
yat saṅga-labdham nija-vīrya-vaibhavam tīrtham muhur saṃspṛśatām hi mānasam . harati ajaḥ antar śrutibhiḥ gataḥ aṅgajam kaḥ vai na seveta mukunda-vikramam
यस्यास्ति भक्तिर्भगवत्यकिञ्चना सर्वैर्गुणैस्तत्र समासते सुराः । हरावभक्तस्य कुतो महद्गुणा मनोरथेनासति धावतो बहिः १२
यस्य अस्ति भक्तिः भगवति अकिञ्चना सर्वैः गुणैः तत्र समासते सुराः । हर-अवभक्तस्य कुतस् महत्-गुणाः मनोरथेन असति धावतः बहिस्
yasya asti bhaktiḥ bhagavati akiñcanā sarvaiḥ guṇaiḥ tatra samāsate surāḥ . hara-avabhaktasya kutas mahat-guṇāḥ manorathena asati dhāvataḥ bahis
हरिर्हि साक्षाद्भगवान्शरीरिणामात्मा झषाणामिव तोयमीप्सितम् । हित्वा महांस्तं यदि सज्जते गृहे तदा महत्त्वं वयसा दम्पतीनाम् १३
हरिः हि साक्षात् भगवान् शरीरिणाम् आत्मा झषाणाम् इव तोयम् ईप्सितम् । हित्वा महान् तम् यदि सज्जते गृहे तदा महत्-त्वम् वयसा दम्पतीनाम्
hariḥ hi sākṣāt bhagavān śarīriṇām ātmā jhaṣāṇām iva toyam īpsitam . hitvā mahān tam yadi sajjate gṛhe tadā mahat-tvam vayasā dampatīnām
तस्माद्र जोरागविषादमन्यु मानस्पृहाभयदैन्याधिमूलम् । हित्वा गृहं संसृतिचक्रवालं नृसिंहपादं भजताकुतोभयमिति १४
तस्मात् र जः-राग-विषाद-मन्यु मान-स्पृहा-भय-दैन्य-आधि-मूलम् । हित्वा गृहम् संसृति-चक्रवालम् नृसिंह-पादम् भजत अकुतोभयम् इति
tasmāt ra jaḥ-rāga-viṣāda-manyu māna-spṛhā-bhaya-dainya-ādhi-mūlam . hitvā gṛham saṃsṛti-cakravālam nṛsiṃha-pādam bhajata akutobhayam iti
केतुमालेऽपि भगवान्कामदेवस्वरूपेण लक्ष्म्याः प्रियचिकीर्षया प्रजापतेर्दुहित्तॄणां पुत्राणां तद्वर्षपतीनां पुरुषायुषाहोरात्रपरिसङ्ख्यानानां यासां गर्भा महापुरुषमहास्त्रतेजसोद्वेजितमनसां विध्वस्ता व्यसवः संवत्सरान्ते विनिपतन्ति १५
केतुमाले अपि भगवान् कामदेव-स्व-रूपेण लक्ष्म्याः प्रिय-चिकीर्षया प्रजापतेः दुहित्तॄणाम् पुत्राणाम् तद्-वर्ष-पतीनाम् पुरुष-आयुष-अहर्-रात्र-परिसङ्ख्यानानाम् यासाम् गर्भाः महापुरुष-महा-अस्त्र-तेजसा उद्वेजित-मनसाम् विध्वस्ताः व्यसवः संवत्सर-अन्ते विनिपतन्ति
ketumāle api bhagavān kāmadeva-sva-rūpeṇa lakṣmyāḥ priya-cikīrṣayā prajāpateḥ duhittṝṇām putrāṇām tad-varṣa-patīnām puruṣa-āyuṣa-ahar-rātra-parisaṅkhyānānām yāsām garbhāḥ mahāpuruṣa-mahā-astra-tejasā udvejita-manasām vidhvastāḥ vyasavaḥ saṃvatsara-ante vinipatanti
अतीव सुललितगतिविलासविलसितरुचिरहासलेशावलोकली-लया किञ्चिदुत्तम्भितसुन्दरभ्रूमण्डलसुभगवदनारविन्दश्रिया रमां रमयन्निन्द्रि याणि रमयते १६
अतीव सु ललित-गति-विलास-विलसित-रुचिर-हास-लेश-अवलोक-लीलया किञ्चिद् उत्तम्भित-सुन्दर-भ्रू-मण्डल-सुभग-वदन-अरविन्द-श्रिया रमाम् रमयन् इन्द्रि रमयते
atīva su lalita-gati-vilāsa-vilasita-rucira-hāsa-leśa-avaloka-līlayā kiñcid uttambhita-sundara-bhrū-maṇḍala-subhaga-vadana-aravinda-śriyā ramām ramayan indri ramayate
तद्भगवतो मायामयं रूपं परमसमाधियोगेन रमा देवी संवत्सरस्य रात्रिषु प्रजापतेर्दुहितृभिरुपेताहःसु च तद्भर्तृभिरुपास्ते इदं चोदाहरति १७
तत् भगवतः माया-मयम् रूपम् परम-समाधि-योगेन रमा देवी संवत्सरस्य रात्रिषु प्रजापतेः दुहितृभिः उपेता अहःसु च तद्-भर्तृभिः उपास्ते इदम् च उदाहरति
tat bhagavataḥ māyā-mayam rūpam parama-samādhi-yogena ramā devī saṃvatsarasya rātriṣu prajāpateḥ duhitṛbhiḥ upetā ahaḥsu ca tad-bhartṛbhiḥ upāste idam ca udāharati
ॐ ह्रां ह्रीं ह्रूं ॐ नमो भगवते हृषीकेशाय सर्वगुणविशेषैर्विल-क्षितात्मने आकूतीनां चित्तीनां चेतसां विशेषाणां चाधिपतये षोडशकलाय च्छन्दोमयायान्नमयायामृतमयाय सर्वमयाय ओजसे बलाय कान्ताय कामाय नमस्ते उभयत्र भूयात् १८
ओम् ह्रां ह्रीं ओम् नमः भगवते हृषीकेशाय सर्व-गुण-विशेषैः विलक्षित-आत्मने आकूतीनाम् चित्तीनाम् चेतसाम् विशेषाणाम् च अधिपतये षोडश-कलाय छन्दः-मयाय अन्न-मयाय अमृत-मयाय सर्व-मयाय ओजसे बलाय कान्ताय कामाय नमः ते उभयत्र भूयात्
om hrāṃ hrīṃ om namaḥ bhagavate hṛṣīkeśāya sarva-guṇa-viśeṣaiḥ vilakṣita-ātmane ākūtīnām cittīnām cetasām viśeṣāṇām ca adhipataye ṣoḍaśa-kalāya chandaḥ-mayāya anna-mayāya amṛta-mayāya sarva-mayāya ojase balāya kāntāya kāmāya namaḥ te ubhayatra bhūyāt
स्त्रियो व्रतैस्त्वा हृषीकेश्वरं स्वतो ह्याराध्य लोके पतिमाशासतेऽन्यम् । तासां न ते वै परिपान्त्यपत्यं प्रियं धनायूंषि यतोऽस्वतन्त्राः १९
स्त्रियः व्रतैः त्वा हृषीकेश्वरम् स्वतस् हि आराध्य लोके पतिम् आशासते अन्यम् । तासाम् न ते वै परिपान्ति अपत्यम् प्रियम् धन-आयूंषि यतस् अस्वतन्त्राः
striyaḥ vrataiḥ tvā hṛṣīkeśvaram svatas hi ārādhya loke patim āśāsate anyam . tāsām na te vai paripānti apatyam priyam dhana-āyūṃṣi yatas asvatantrāḥ
स वै पतिः स्यादकुतोभयः स्वयं समन्ततः पाति भयातुरं जनम् । स एक एवेतरथा मिथो भयं नैवात्मलाभादधि मन्यते परम् २०
स वै पतिः स्यात् अकुतोभयः स्वयम् समन्ततः पाति भय-आतुरम् जनम् । सः एकः एवा इतरथा मिथस् भयम् न एव आत्मलाभात् अधि मन्यते परम्
sa vai patiḥ syāt akutobhayaḥ svayam samantataḥ pāti bhaya-āturam janam . saḥ ekaḥ evā itarathā mithas bhayam na eva ātmalābhāt adhi manyate param
या तस्य ते पादसरोरुहार्हणं निकामयेत्साखिलकामलम्पटा । तदेव रासीप्सितमीप्सितोऽर्चितो यद्भग्नयाच्ञा भगवन्प्रतप्यते २१
या तस्य ते पाद-सरोरुह-अर्हणम् निकामयेत् सा अखिल-काम-लम्पटा । तत् एव रासि ईप्सितम् ईप्सितः अर्चितः यत् भग्न-याच्ञा भगवन् प्रतप्यते
yā tasya te pāda-saroruha-arhaṇam nikāmayet sā akhila-kāma-lampaṭā . tat eva rāsi īpsitam īpsitaḥ arcitaḥ yat bhagna-yācñā bhagavan pratapyate
मत्प्राप्तयेऽजेशसुरासुरादयस्तप्यन्त उग्रं तप ऐन्द्रि ये धियः । ऋते भवत्पादपरायणान्न मां विन्दन्त्यहं त्वद्धृदया यतोऽजित २२
मद्-प्राप्तये अज-ईश-सुर-असुर-आदयः तप्यन्ते उग्रम् तपः ऐन्द्रि ये धियः । ऋते भवत्-पाद-परायणात् न माम् विन्दन्ति अहम् त्वद्-हृदयाः यतस् अजित
mad-prāptaye aja-īśa-sura-asura-ādayaḥ tapyante ugram tapaḥ aindri ye dhiyaḥ . ṛte bhavat-pāda-parāyaṇāt na mām vindanti aham tvad-hṛdayāḥ yatas ajita
स त्वं ममाप्यच्युत शीर्ष्णि वन्दितं कराम्बुजं यत्त्वदधायि सात्वताम् । बिभर्षि मां लक्ष्म वरेण्य मायया क ईश्वरस्येहितमूहितुं विभुरिति २३
स त्वम् मम अपि अच्युत शीर्ष्णि वन्दितम् कर-अम्बुजम् यत् त्वद्-अधायि सात्वताम् । बिभर्षि माम् लक्ष्म वरेण्य मायया कः ईश्वरस्य ईहितम् ऊहितुम् विभुः इति
sa tvam mama api acyuta śīrṣṇi vanditam kara-ambujam yat tvad-adhāyi sātvatām . bibharṣi mām lakṣma vareṇya māyayā kaḥ īśvarasya īhitam ūhitum vibhuḥ iti
रम्यके च भगवतः प्रियतमं मात्स्यमवताररूपं तद्वर्षपुरुषस्य मनोः प्राक् । प्रदर्शितं स इदानीमपि महता भक्तियोगेनाराधयतीदं चोदाहरति २४
रम्यके च भगवतः प्रियतमम् मात्स्यम् अवतार-रूपम् तत् वर्षपुरुषस्य मनोः प्राक् । प्रदर्शितम् सः इदानीम् अपि महता भक्ति-योगेन आराधयति इदम् च उदाहरति
ramyake ca bhagavataḥ priyatamam mātsyam avatāra-rūpam tat varṣapuruṣasya manoḥ prāk . pradarśitam saḥ idānīm api mahatā bhakti-yogena ārādhayati idam ca udāharati
ॐ नमो भगवते मुख्यतमाय नमः सत्त्वाय प्राणायौजसे सहसे बलाय महामत्स्याय नम इति २५
ओम् नमः भगवते मुख्यतमाय नमः सत्त्वाय प्राणाय ओजसे सहसे बलाय महा-मत्स्याय नमः इति
om namaḥ bhagavate mukhyatamāya namaḥ sattvāya prāṇāya ojase sahase balāya mahā-matsyāya namaḥ iti
अन्तर्बहिश्चाखिललोकपालकैरदृष्टरूपो विचरस्युरुस्वनः । स ईश्वरस्त्वं य इदं वशेऽनयन्नाम्ना यथा दारुमयीं नरः स्त्रियम् २६
अन्तर् बहिस् च अखिल-लोकपालकैः अदृष्ट-रूपः विचरसि उरु-स्वनः । सः ईश्वरः त्वम् यः इदम् वशे अनयत् नाम्ना यथा दारु-मयीम् नरः स्त्रियम्
antar bahis ca akhila-lokapālakaiḥ adṛṣṭa-rūpaḥ vicarasi uru-svanaḥ . saḥ īśvaraḥ tvam yaḥ idam vaśe anayat nāmnā yathā dāru-mayīm naraḥ striyam
यं लोकपालाः किल मत्सरज्वरा हित्वा यतन्तोऽपि पृथक्समेत्य च । पातुं न शेकुर्द्विपदश्चतुष्पदः सरीसृपं स्थाणु यदत्र दृश्यते २७
यम् लोकपालाः किल मत्सर-ज्वराः हित्वा यतन्तः अपि पृथक् समेत्य च । पातुम् न शेकुः द्विपदः चतुष्पदः सरीसृपम् स्थाणु यत् अत्र दृश्यते
yam lokapālāḥ kila matsara-jvarāḥ hitvā yatantaḥ api pṛthak sametya ca . pātum na śekuḥ dvipadaḥ catuṣpadaḥ sarīsṛpam sthāṇu yat atra dṛśyate
भवान्युगान्तार्णव ऊर्मिमालिनि क्षोणीमिमामोषधिवीरुधां निधिम् । मया सहोरु क्रमतेऽज ओजसा तस्मै जगत्प्राणगणात्मने नम इति २८
भवान् युगान्त-अर्णवे ऊर्मिमालिनि क्षोणीम् इमाम् ओषधि-वीरुधाम् निधिम् । मया सह उरु क्रमते अजः ओजसा तस्मै जगत्-प्राण-गण-आत्मने नमः इति
bhavān yugānta-arṇave ūrmimālini kṣoṇīm imām oṣadhi-vīrudhām nidhim . mayā saha uru kramate ajaḥ ojasā tasmai jagat-prāṇa-gaṇa-ātmane namaḥ iti
हिरण्मयेऽपि भगवान्निवसति कूर्मतनुं बिभ्राणस्तस्य तत्प्रियतमां तनुमर्यमा सह वर्षपुरुषैः पितृगणाधिपतिरुपधावति मन्त्रमिमं चानुजपति २९
हिरण्मये अपि भगवान् निवसति कूर्म-तनुम् बिभ्राणः तस्य तद्-प्रियतमाम् तनुम् अर्यमा सह वर्ष-पुरुषैः पितृ-गण-अधिपतिः उपधावति मन्त्रम् इमम् च अनुजपति
hiraṇmaye api bhagavān nivasati kūrma-tanum bibhrāṇaḥ tasya tad-priyatamām tanum aryamā saha varṣa-puruṣaiḥ pitṛ-gaṇa-adhipatiḥ upadhāvati mantram imam ca anujapati
ॐ नमो भगवते अकूपाराय* सर्वसत्त्वगुणविशेषणायानुपलक्षितस्थानाय नमो वर्ष्मणे । नमो भूम्ने नमो नमोऽवस्थानाय नमस्ते ३०
ओम् नमः भगवते अकूपाराय सर्व-सत्त्व-गुण-विशेषणाय अनुपलक्षित-स्थानाय नमः वर्ष्मणे । नमः भूम्ने नमः नमः अवस्थानाय नमः ते
om namaḥ bhagavate akūpārāya sarva-sattva-guṇa-viśeṣaṇāya anupalakṣita-sthānāya namaḥ varṣmaṇe . namaḥ bhūmne namaḥ namaḥ avasthānāya namaḥ te
यद्रूपमेतन्निजमाययार्पितमर्थस्वरूपं बहुरूपरूपितम् । सङ्ख्या न यस्यास्त्ययथोपलम्भनात्तस्मै नमस्तेऽव्यपदेशरूपिणे ३१
यत् रूपम् एतत् निज-मायया अर्पितम् अर्थ-स्वरूपम् बहु-रूप-रूपितम् । सङ्ख्या न यस्य अस्ति अयथा उपलम्भनात् तस्मै नमः ते अ व्यपदेश-रूपिणे
yat rūpam etat nija-māyayā arpitam artha-svarūpam bahu-rūpa-rūpitam . saṅkhyā na yasya asti ayathā upalambhanāt tasmai namaḥ te a vyapadeśa-rūpiṇe
जरायुजं स्वेदजमण्डजोद्भिदं चराचरं देवर्षिपितृभूतमैन्द्रियम् । द्यौः खं क्षितिः शैलसरित्समुद्र द्वीपग्रहर्क्षेत्यभिधेय एकः ३२
जरायु-जम् स्वेद-जम् अण्ड-ज-उद्भिदम् चराचरम् देव-ऋषि-पितृ-भूतम् ऐन्द्रियम् । द्यौः खम् क्षितिः शैल-सरित्-समुद्र द्वीप-ग्रह-ऋक्ष-इति अभिधेयः एकः
jarāyu-jam sveda-jam aṇḍa-ja-udbhidam carācaram deva-ṛṣi-pitṛ-bhūtam aindriyam . dyauḥ kham kṣitiḥ śaila-sarit-samudra dvīpa-graha-ṛkṣa-iti abhidheyaḥ ekaḥ
यस्मिन्नसङ्ख्येयविशेषनाम रूपाकृतौ कविभिः कल्पितेयम् । सङ्ख्या यया तत्त्वदृशापनीयते तस्मै नमः साङ्ख्यनिदर्शनाय ते इति ३३
यस्मिन् असङ्ख्येय-विशेष-नाम रूप-आकृतौ कविभिः कल्पिता इयम् । सङ्ख्या यया तत्त्व-दृशा अपनीयते तस्मै नमः साङ्ख्य-निदर्शनाय ते इति
yasmin asaṅkhyeya-viśeṣa-nāma rūpa-ākṛtau kavibhiḥ kalpitā iyam . saṅkhyā yayā tattva-dṛśā apanīyate tasmai namaḥ sāṅkhya-nidarśanāya te iti
उत्तरेषु च कुरुषु भगवान्यज्ञपुरुषः कृतवराहरूप आस्ते तं तु देवी हैषा भूः सह । कुरुभिरस्खलितभक्तियोगेनोपधावति इमां च परमामुपनिषदमावर्तयति ३४
उत्तरेषु च कुरुषु भगवान् यज्ञपुरुषः कृतवराह-रूपः आस्ते तम् तु देवी ह एषा भूः सह । कुरुभिः अस्खलित-भक्ति-योगेन उपधावति इमाम् च परमाम् उपनिषदम् आवर्तयति
uttareṣu ca kuruṣu bhagavān yajñapuruṣaḥ kṛtavarāha-rūpaḥ āste tam tu devī ha eṣā bhūḥ saha . kurubhiḥ askhalita-bhakti-yogena upadhāvati imām ca paramām upaniṣadam āvartayati
ॐ नमो भगवते मन्त्रतत्त्वलिङ्गाय यज्ञक्रतवे महाध्वरावयवाय महापुरुषाय नमः कर्मशुक्लाय त्रियुगाय नमस्ते ३५
ओम् नमः भगवते मन्त्र-तत्त्व-लिङ्गाय यज्ञ-क्रतवे महा-अध्वर-अवयवाय महापुरुषाय नमः कर्म-शुक्लाय त्रि-युगाय नमः ते
om namaḥ bhagavate mantra-tattva-liṅgāya yajña-kratave mahā-adhvara-avayavāya mahāpuruṣāya namaḥ karma-śuklāya tri-yugāya namaḥ te
यस्य स्वरूपं कवयो विपश्चितो गुणेषु दारुष्विव जातवेदसम् । मथ्नन्ति मथ्ना मनसा दिदृक्षवो गूढं क्रियार्थैर्नम ईरितात्मने ३६
यस्य स्व-रूपम् कवयः विपश्चितः गुणेषु दारुषु इव जातवेदसम् । मथ्नन्ति मनसा दिदृक्षवः गूढम् क्रिया-अर्थैः नमः ईरित-आत्मने
yasya sva-rūpam kavayaḥ vipaścitaḥ guṇeṣu dāruṣu iva jātavedasam . mathnanti manasā didṛkṣavaḥ gūḍham kriyā-arthaiḥ namaḥ īrita-ātmane
द्र व्यक्रियाहेत्वयनेशकर्तृभिर्मायागुणैर्वस्तुनिरीक्षितात्मने । अन्वीक्षयाङ्गातिशयात्मबुद्धिभिर्निरस्तमायाकृतये नमो नमः ३७
द्र-व्य-क्रिया-हेतु-अयन-ईश-कर्तृभिः माया-गुणैः वस्तु-निरीक्षित-आत्मने । अन्वीक्षया अङ्ग-अतिशय-आत्म-बुद्धिभिः निरस्त-माया-कृतये नमः नमः
dra-vya-kriyā-hetu-ayana-īśa-kartṛbhiḥ māyā-guṇaiḥ vastu-nirīkṣita-ātmane . anvīkṣayā aṅga-atiśaya-ātma-buddhibhiḥ nirasta-māyā-kṛtaye namaḥ namaḥ
करोति विश्वस्थितिसंयमोदयं यस्येप्सितं नेप्सितमीक्षितुर्गुणैः । माया यथायो भ्रमते तदाश्रयं ग्राव्णो नमस्ते गुणकर्मसाक्षिणे ३८
करोति विश्व-स्थिति-संयम-उदयम् यस्य ईप्सितम् न ईप्सितम् ईक्षितुः गुणैः । माया यथा अयः भ्रमते तद्-आश्रयम् ग्राव्णः नमः ते गुण-कर्म-साक्षिणे
karoti viśva-sthiti-saṃyama-udayam yasya īpsitam na īpsitam īkṣituḥ guṇaiḥ . māyā yathā ayaḥ bhramate tad-āśrayam grāvṇaḥ namaḥ te guṇa-karma-sākṣiṇe
प्रमथ्य दैत्यं प्रतिवारणं मृधे यो मां रसाया जगदादिसूकरः । कृत्वाग्रदंष्ट्रे निरगादुदन्वतः क्रीडन्निवेभः प्रणतास्मि तं विभुमिति ३९
प्रमथ्य दैत्यम् प्रतिवारणम् मृधे यः माम् रसायाः जगत्-आदि-सूकरः । कृत्वा अग्र-दंष्ट्रे निरगात् उदन्वतः क्रीडन् इव इभः प्रणता अस्मि तम् विभुम् इति
pramathya daityam prativāraṇam mṛdhe yaḥ mām rasāyāḥ jagat-ādi-sūkaraḥ . kṛtvā agra-daṃṣṭre niragāt udanvataḥ krīḍan iva ibhaḥ praṇatā asmi tam vibhum iti
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे भुवनकोशवर्णनं नामाष्टादशोऽध्यायः ।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् पञ्चम-स्कन्धे भुवनकोशवर्णनम् नाम अष्टादशः अध्यायः ।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām pañcama-skandhe bhuvanakośavarṇanam nāma aṣṭādaśaḥ adhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In