गायति चेदम् । कर्तास्य सर्गादिषु यो न बध्यते न हन्यते देहगतोऽपि दैहिकैः । द्र ष्टुर्न दृग्यस्य गुणैर्विदूष्यते तस्मै नमोऽसक्तविविक्तसाक्षिणे १२
PADACHEDA
गायति च इदम् । कर्ता अस्य सर्ग-आदिषु यः न बध्यते न हन्यते देह-गतः अपि दैहिकैः । द्रष्टुः न दृश् यस्य गुणैः विदूष्यते तस्मै नमः असक्त-विविक्त-साक्षिणे
TRANSLITERATION
gāyati ca idam . kartā asya sarga-ādiṣu yaḥ na badhyate na hanyate deha-gataḥ api daihikaiḥ . draṣṭuḥ na dṛś yasya guṇaiḥ vidūṣyate tasmai namaḥ asakta-vivikta-sākṣiṇe
अस्मिन्नेव वर्षे पुरुषैर्लब्धजन्मभिः शुक्ललोहितकृष्णवर्णेन स्वारब्धेन कर्मणा दिव्यमानुषनारकगतयो बह्व्य आत्मन आनुपूर्व्येण सर्वा ह्येव सर्वेषां विधीयन्ते यथावर्णविधानमपवर्गश्चापि भवति १९
PADACHEDA
अस्मिन् एव वर्षे पुरुषैः लब्ध-जन्मभिः शुक्ल-लोहित-कृष्ण-वर्णेन सु आरब्धेन कर्मणा दिव्य-मानुष-नारक-गतयः बह्व्यः आत्मनः आनुपूर्व्येण सर्वाः हि एव सर्वेषाम् विधीयन्ते यथा वर्ण-विधानम् अपवर्गः च अपि भवति
TRANSLITERATION
asmin eva varṣe puruṣaiḥ labdha-janmabhiḥ śukla-lohita-kṛṣṇa-varṇena su ārabdhena karmaṇā divya-mānuṣa-nāraka-gatayaḥ bahvyaḥ ātmanaḥ ānupūrvyeṇa sarvāḥ hi eva sarveṣām vidhīyante yathā varṇa-vidhānam apavargaḥ ca api bhavati
योऽसौ भगवति सर्वभूतात्मन्यनात्म्येऽनिरुक्तेऽनिलयने परमात्मनि वासुदेवेऽनन्यनिमित्तभक्तियोगलक्षणो नानागतिनिमित्ताविद्याग्रन्थिरन्धनद्वारेण यदा हि महापुरुषपुरुषप्रसङ्गः २०
PADACHEDA
यः असौ भगवति सर्व-भूत-आत्मनि अनात्म्ये अनिरुक्ते अनिलयने परमात्मनि वासुदेवे अनन्य-निमित्त-भक्तियोग-लक्षणः नाना गति-निमित्त-अविद्या-ग्रन्थि-रन्धन-द्वारेण यदा हि महापुरुष-पुरुष-प्रसङ्गः
Participate in traditional Shiva Pūjā performed with authentic mantras, their meanings, and prescribed rituals for matrimony harmony, stability and longevity.
Welcome
Begin your learning journey
Gyaandweep's eGurukuls bring Vedic knowledge to structured, guided learning paths.
✓
You're all set
Head to your chosen Gurukula and begin your first Learning Path.