| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

किम्पुरुषे वर्षे भगवन्तमादिपुरुषं लक्ष्मणाग्रजं सीताभिरामं रामं तच्चरणसन्निकर्षाभिरतः परमभागवतो हनुमान्सह किम्पुरुषैरविरत-भक्तिरुपास्ते १
किम्पुरुषे वर्षे भगवन्तम् आदिपुरुषम् लक्ष्मण-अग्रजम् सीता-अभिरामम् रामम् तद्-चरण-सन्निकर्ष-अभिरतः परम-भागवतः हनुमान् सह किम्पुरुषैः अविरत-भक्तिः उपास्ते
kimpuruṣe varṣe bhagavantam ādipuruṣam lakṣmaṇa-agrajam sītā-abhirāmam rāmam tad-caraṇa-sannikarṣa-abhirataḥ parama-bhāgavataḥ hanumān saha kimpuruṣaiḥ avirata-bhaktiḥ upāste
आर्ष्टिषेणेन सह गन्धर्वैरनुगीयमानां परमकल्याणीं भर्तृभगवत्कथां समुपशृणोति स्वयं चेदं गायति २
आर्ष्टिषेणेन सह गन्धर्वैः अनुगीयमानाम् परम-कल्याणीम् भर्तृ-भगवत्-कथाम् समुपशृणोति स्वयम् च इदम् गायति
ārṣṭiṣeṇena saha gandharvaiḥ anugīyamānām parama-kalyāṇīm bhartṛ-bhagavat-kathām samupaśṛṇoti svayam ca idam gāyati
श्रीशुक उवाच
ॐ नमो भगवते उत्तमश्लोकाय नम आर्यलक्षणशीलव्रताय नम उपशिक्षितात्मन उपासित लोकाय नमः साधुवादनिकषणाय नमो ब्रह्मण्यदेवाय महापुरुषाय महाराजाय नम इति ३
ओम् नमः भगवते उत्तमश्लोकाय नमः आर्य-लक्षण-शील-व्रताय नमः उपशिक्षित-आत्मने लोकाय नमः साधुवाद-निकषणाय नमः ब्रह्मण्यदेवाय महापुरुषाय महाराजाय नमः इति
om namaḥ bhagavate uttamaślokāya namaḥ ārya-lakṣaṇa-śīla-vratāya namaḥ upaśikṣita-ātmane lokāya namaḥ sādhuvāda-nikaṣaṇāya namaḥ brahmaṇyadevāya mahāpuruṣāya mahārājāya namaḥ iti
यत्तद्विशुद्धानुभवमात्रमेकं स्वतेजसा ध्वस्तगुणव्यवस्थम् । प्रत्यक्प्रशान्तं सुधियोपलम्भनं ह्यनामरूपं निरहं प्रपद्ये ४
यत् तत् विशुद्ध-अनुभव-मात्रम् एकम् स्व-तेजसा ध्वस्त-गुण-व्यवस्थम् । प्रत्यक्-प्रशान्तम् सु धिया उपलम्भनम् हि अ नाम-रूपम् निः अहम् प्रपद्ये
yat tat viśuddha-anubhava-mātram ekam sva-tejasā dhvasta-guṇa-vyavastham . pratyak-praśāntam su dhiyā upalambhanam hi a nāma-rūpam niḥ aham prapadye
मर्त्यावतारस्त्विह मर्त्यशिक्षणं रक्षोवधायैव न केवलं विभोः । कुतोऽन्यथा स्याद्र मतः स्व आत्मनः सीताकृतानि व्यसनानीश्वरस्य ५
मर्त्य-अवतारः तु इह मर्त्य-शिक्षणम् रक्षः-वधाय एव न केवलम् विभोः । कुतस् अन्यथा स्याद्र मतः स्वः आत्मनः सीता-कृतानि व्यसनानि ईश्वरस्य
martya-avatāraḥ tu iha martya-śikṣaṇam rakṣaḥ-vadhāya eva na kevalam vibhoḥ . kutas anyathā syādra mataḥ svaḥ ātmanaḥ sītā-kṛtāni vyasanāni īśvarasya
न वै स आत्मात्मवतां सुहृत्तमः सक्तस्त्रिलोक्यां भगवान्वासुदेवः । न स्त्रीकृतं कश्मलमश्नुवीत न लक्ष्मणं चापि विहातुमर्हति ६
न वै सः आत्मा आत्मवताम् सुहृत्तमः सक्तः त्रिलोक्याम् भगवान् वासुदेवः । न स्त्री-कृतम् कश्मलम् अश्नुवीत न लक्ष्मणम् च अपि विहातुम् अर्हति
na vai saḥ ātmā ātmavatām suhṛttamaḥ saktaḥ trilokyām bhagavān vāsudevaḥ . na strī-kṛtam kaśmalam aśnuvīta na lakṣmaṇam ca api vihātum arhati
न जन्म नूनं महतो न सौभगं न वाङ्न बुद्धिर्नाकृतिस्तोषहेतुः । तैर्यद्विसृष्टानपि नो वनौकसश्चकार सख्ये बत लक्ष्मणाग्रजः ७
न जन्म नूनम् महतः न सौभगम् न वाच् न बुद्धिः न आकृतिः तोष-हेतुः । तैः यत् विसृष्टान् अपि नः वनौकसः चकार सख्ये बत लक्ष्मण-अग्रजः
na janma nūnam mahataḥ na saubhagam na vāc na buddhiḥ na ākṛtiḥ toṣa-hetuḥ . taiḥ yat visṛṣṭān api naḥ vanaukasaḥ cakāra sakhye bata lakṣmaṇa-agrajaḥ
सुरोऽसुरो वाप्यथ वानरो नरः सर्वात्मना यः सुकृतज्ञमुत्तमम् । भजेत रामं मनुजाकृतिं हरिं य उत्तराननयत्कोसलान्दिवमिति ८
सुरः असुरः वा अपि अथ वानरः नरः सर्व-आत्मना यः सुकृत-ज्ञम् उत्तमम् । भजेत रामम् मनुज-आकृतिम् हरिम् यः उत्तरान् अनयत् कोसलान् दिवम् इति
suraḥ asuraḥ vā api atha vānaraḥ naraḥ sarva-ātmanā yaḥ sukṛta-jñam uttamam . bhajeta rāmam manuja-ākṛtim harim yaḥ uttarān anayat kosalān divam iti
भारतेऽपि वर्षे भगवान्नरनारायणाख्य आकल्पान्तमुपचितधर्मज्ञान । वैराग्यैश्वर्योपशमोपरमात्मोपलम्भनमनुग्रहायात्मवतामनुकम्पया तपोऽव्यक्तगतिश्चरति ९
भारते अपि वर्षे भगवान् नरनारायण-आख्यः आकल्प-अन्तम् उपचित-धर्म-ज्ञान । वैराग्य-ऐश्वर्य-उपशम-उपरम-आत्म-उपलम्भनम् अनुग्रहाय आत्मवताम् अनुकम्पया तपः अव्यक्त-गतिः चरति
bhārate api varṣe bhagavān naranārāyaṇa-ākhyaḥ ākalpa-antam upacita-dharma-jñāna . vairāgya-aiśvarya-upaśama-uparama-ātma-upalambhanam anugrahāya ātmavatām anukampayā tapaḥ avyakta-gatiḥ carati
वैराग्यैश्वर्योपशमोपरमात्मोपलम्भनमनुग्रहायात्मवतामनुकम्पया तपोऽव्यक्तगतिश्चरति ९
वैराग्य-ऐश्वर्य-उपशम-उपरम-आत्म-उपलम्भनम् अनुग्रहाय आत्मवताम् अनुकम्पया तपः अव्यक्त-गतिः चरति
vairāgya-aiśvarya-upaśama-uparama-ātma-upalambhanam anugrahāya ātmavatām anukampayā tapaḥ avyakta-gatiḥ carati
तं भगवान्नारदो वर्णाश्रमवतीभिर्भारतीभिः प्रजाभिर्भगवत्प्रोक्ताभ्यां साङ्ख्ययोगाभ्यां भगवदनुभावोपवर्णनं सावर्णेरुपदेक्ष्यमाणः परम-भक्तिभावेनोपसरति इदं चाभिगृणाति १०
तम् भगवान् नारदः वर्ण-आश्रमवतीभिः भारतीभिः प्रजाभिः भगवत्-प्रोक्ताभ्याम् साङ्ख्य-योगाभ्याम् भगवत्-अनुभाव-उपवर्णनम् सावर्णेः उपदेक्ष्यमाणः परम-भक्ति-भावेन उपसरति इदम् च अभिगृणाति
tam bhagavān nāradaḥ varṇa-āśramavatībhiḥ bhāratībhiḥ prajābhiḥ bhagavat-proktābhyām sāṅkhya-yogābhyām bhagavat-anubhāva-upavarṇanam sāvarṇeḥ upadekṣyamāṇaḥ parama-bhakti-bhāvena upasarati idam ca abhigṛṇāti
ॐ नमो भगवते उपशमशीलायोपरतानात्म्याय नमोऽकिञ्चनवित्ताय ऋषिऋषभाय नरनारायणाय परमहंसपरमगुरवे आत्मारामाधिपतये नमो नम इति ११
ओम् नमः भगवते उपशम-शीलाय उपरत-अनात्म्याय नमः अकिञ्चन-वित्ताय ऋषि-ऋषभाय नर-नारायणाय परमहंस-परम-गुरवे आत्म-आराम-अधिपतये नमः नमः इति
om namaḥ bhagavate upaśama-śīlāya uparata-anātmyāya namaḥ akiñcana-vittāya ṛṣi-ṛṣabhāya nara-nārāyaṇāya paramahaṃsa-parama-gurave ātma-ārāma-adhipataye namaḥ namaḥ iti
गायति चेदम् । कर्तास्य सर्गादिषु यो न बध्यते न हन्यते देहगतोऽपि दैहिकैः । द्र ष्टुर्न दृग्यस्य गुणैर्विदूष्यते तस्मै नमोऽसक्तविविक्तसाक्षिणे १२
गायति च इदम् । कर्ता अस्य सर्ग-आदिषु यः न बध्यते न हन्यते देह-गतः अपि दैहिकैः । द्रष्टुः न दृश् यस्य गुणैः विदूष्यते तस्मै नमः असक्त-विविक्त-साक्षिणे
gāyati ca idam . kartā asya sarga-ādiṣu yaḥ na badhyate na hanyate deha-gataḥ api daihikaiḥ . draṣṭuḥ na dṛś yasya guṇaiḥ vidūṣyate tasmai namaḥ asakta-vivikta-sākṣiṇe
इदं हि योगेश्वर योगनैपुणं हिरण्यगर्भो भगवाञ्जगाद यत् । यदन्तकाले त्वयि निर्गुणे मनो भक्त्या दधीतोज्झितदुष्कलेवरः १३
इदम् हि योगेश्वर योग-नैपुणम् हिरण्यगर्भः भगवान् जगाद यत् । यद्-अन्त-काले त्वयि निर्गुणे मनः भक्त्या दधीत उज्झित-दुष्कलेवरः
idam hi yogeśvara yoga-naipuṇam hiraṇyagarbhaḥ bhagavān jagāda yat . yad-anta-kāle tvayi nirguṇe manaḥ bhaktyā dadhīta ujjhita-duṣkalevaraḥ
यथैहिकामुष्मिककामलम्पटः सुतेषु दारेषु धनेषु चिन्तयन् । शङ्केत विद्वान्कुकलेवरात्ययाद्यस्तस्य यत्नः श्रम एव केवलम् १४
यथा ऐहिक-आमुष्मिक-काम-लम्पटः सुतेषु दारेषु धनेषु चिन्तयन् । शङ्केत विद्वान् कु कलेवर-अत्ययात् यः तस्य यत्नः श्रमः एव केवलम्
yathā aihika-āmuṣmika-kāma-lampaṭaḥ suteṣu dāreṣu dhaneṣu cintayan . śaṅketa vidvān ku kalevara-atyayāt yaḥ tasya yatnaḥ śramaḥ eva kevalam
तन्नः प्रभो त्वं कुकलेवरार्पितां त्वन्माययाहंममतामधोक्षज । भिन्द्याम येनाशु वयं सुदुर्भिदां विधेहि योगं त्वयि नः स्वभावमिति १५
तत् नः प्रभो त्वम् कु कलेवर-अर्पिताम् त्वद्-मायया अहंममताम् अधोक्षज । भिन्द्याम येन आशु वयम् सु दुर्भिदाम् विधेहि योगम् त्वयि नः स्वभावम् इति
tat naḥ prabho tvam ku kalevara-arpitām tvad-māyayā ahaṃmamatām adhokṣaja . bhindyāma yena āśu vayam su durbhidām vidhehi yogam tvayi naḥ svabhāvam iti
भारतेऽप्यस्मिन्वर्षे सरिच्छैलाः सन्ति बहवो मलयो मङ्गलप्रस्थो मैनाकस्त्रिकूट ऋषभः कूटकः कोल्लकः सह्यो देवगिरिरृष्यमूकः श्रीशैलो वेङ्कटो महेन्द्रो वारिधारो विन्ध्यः शुक्तिमानृक्षगिरिः । पारियात्रो द्रो णश्चित्रकूटो गोवर्धनो रैवतकः ककुभो नीलो गोकामुख इन्द्र कीलः कामगिरिरिति चान्ये च शतसहस्रशः शैलास्तेषां नितम्बप्रभवा नदा नद्यश्च सन्त्यसङ्ख्याताः १६
भारते अपि अस्मिन् वर्षे सरित्-शैलाः सन्ति बहवः मलयः मङ्गलप्रस्थः मैनाकः त्रिकूटः ऋषभः कूटकः कोल्लकः सह्यः देवगिरिः ऋष्यमूकः श्रीशैलः वेङ्कटः महेन्द्रः वारिधारः विन्ध्यः शुक्तिमान् ऋक्ष-गिरिः । पारियात्रः द्रोणः चित्रकूटः गोवर्धनः रैवतकः ककुभः नीलः गोकामुखः इन्द्र कीलः कामगिरिः इति च अन्ये च शत-सहस्रशस् शैलाः तेषाम् नितम्ब-प्रभवाः नदाः नद्यः च सन्ति असङ्ख्याताः
bhārate api asmin varṣe sarit-śailāḥ santi bahavaḥ malayaḥ maṅgalaprasthaḥ mainākaḥ trikūṭaḥ ṛṣabhaḥ kūṭakaḥ kollakaḥ sahyaḥ devagiriḥ ṛṣyamūkaḥ śrīśailaḥ veṅkaṭaḥ mahendraḥ vāridhāraḥ vindhyaḥ śuktimān ṛkṣa-giriḥ . pāriyātraḥ droṇaḥ citrakūṭaḥ govardhanaḥ raivatakaḥ kakubhaḥ nīlaḥ gokāmukhaḥ indra kīlaḥ kāmagiriḥ iti ca anye ca śata-sahasraśas śailāḥ teṣām nitamba-prabhavāḥ nadāḥ nadyaḥ ca santi asaṅkhyātāḥ
एतासामपो भारत्यः प्रजा नामभिरेव पुनन्तीनामात्मना चोपस्पृशन्ति १७
एतासाम् अपः भारत्यः प्रजाः नामभिः एव पुनन्तीनाम् आत्मना च उपस्पृशन्ति
etāsām apaḥ bhāratyaḥ prajāḥ nāmabhiḥ eva punantīnām ātmanā ca upaspṛśanti
चन्द्र वसा ताम्रपर्णी अवटोदा कृतमाला वैहायसी कावेरी वेणी पयस्विनी शर्करावर्ता तुङ्गभद्रा कृष्णावेण्या भीमरथी गोदावरी निर्विन्ध्या पयोष्णी तापी रेवा सुरसा नर्मदा चर्मण्वती सिन्धुरन्धः । शोणश्च नदौ महानदी वेदस्मृतिरृषिकुल्या त्रिसामा कौशिकी मन्दाकिनी यमुना सरस्वती दृषद्वती गोमती सरयू रोधस्वती सप्तवती सुषोमा शतद्रू श्चन्द्र भागा मरुद्वृधा वितस्ता असिक्नी विश्वेति महानद्यः १८
चन्द्र-वसा ताम्रपर्णी अवटोदा कृतमाला वैहायसी कावेरी वेणी पयस्विनी शर्करावर्ता तुङ्गभद्रा कृष्णा वेण्या भीमरथी गोदावरी निर्विन्ध्या पयोष्णी तापी रेवा सुरसा नर्मदा चर्मण्वती सिन्धुरन्धः । शोणः च नदौ महा-नदी वेदस्मृतिः ऋषिकुल्या त्रिसामा कौशिकी मन्दाकिनी यमुना सरस्वती दृषद्वती गोमती सरयू रोधस्वती सप्तवती सुषोमा शतद्रू श्चन्द्र-भागा मरुद्वृधा वितस्ता असिक्नी विश्वा इति महानद्यः
candra-vasā tāmraparṇī avaṭodā kṛtamālā vaihāyasī kāverī veṇī payasvinī śarkarāvartā tuṅgabhadrā kṛṣṇā veṇyā bhīmarathī godāvarī nirvindhyā payoṣṇī tāpī revā surasā narmadā carmaṇvatī sindhurandhaḥ . śoṇaḥ ca nadau mahā-nadī vedasmṛtiḥ ṛṣikulyā trisāmā kauśikī mandākinī yamunā sarasvatī dṛṣadvatī gomatī sarayū rodhasvatī saptavatī suṣomā śatadrū ścandra-bhāgā marudvṛdhā vitastā asiknī viśvā iti mahānadyaḥ
अस्मिन्नेव वर्षे पुरुषैर्लब्धजन्मभिः शुक्ललोहितकृष्णवर्णेन स्वारब्धेन कर्मणा दिव्यमानुषनारकगतयो बह्व्य आत्मन आनुपूर्व्येण सर्वा ह्येव सर्वेषां विधीयन्ते यथावर्णविधानमपवर्गश्चापि भवति १९
अस्मिन् एव वर्षे पुरुषैः लब्ध-जन्मभिः शुक्ल-लोहित-कृष्ण-वर्णेन सु आरब्धेन कर्मणा दिव्य-मानुष-नारक-गतयः बह्व्यः आत्मनः आनुपूर्व्येण सर्वाः हि एव सर्वेषाम् विधीयन्ते यथा वर्ण-विधानम् अपवर्गः च अपि भवति
asmin eva varṣe puruṣaiḥ labdha-janmabhiḥ śukla-lohita-kṛṣṇa-varṇena su ārabdhena karmaṇā divya-mānuṣa-nāraka-gatayaḥ bahvyaḥ ātmanaḥ ānupūrvyeṇa sarvāḥ hi eva sarveṣām vidhīyante yathā varṇa-vidhānam apavargaḥ ca api bhavati
योऽसौ भगवति सर्वभूतात्मन्यनात्म्येऽनिरुक्तेऽनिलयने परमात्मनि वासुदेवेऽनन्यनिमित्तभक्तियोगलक्षणो नानागतिनिमित्ताविद्याग्रन्थिरन्धनद्वारेण यदा हि महापुरुषपुरुषप्रसङ्गः २०
यः असौ भगवति सर्व-भूत-आत्मनि अनात्म्ये अनिरुक्ते अनिलयने परमात्मनि वासुदेवे अनन्य-निमित्त-भक्तियोग-लक्षणः नाना गति-निमित्त-अविद्या-ग्रन्थि-रन्धन-द्वारेण यदा हि महापुरुष-पुरुष-प्रसङ्गः
yaḥ asau bhagavati sarva-bhūta-ātmani anātmye anirukte anilayane paramātmani vāsudeve ananya-nimitta-bhaktiyoga-lakṣaṇaḥ nānā gati-nimitta-avidyā-granthi-randhana-dvāreṇa yadā hi mahāpuruṣa-puruṣa-prasaṅgaḥ
एतदेव हि देवा गायन्ति । अहो अमीषां किमकारि शोभनं प्रसन्न एषां स्विदुत स्वयं हरिः । यैर्जन्म लब्धं नृषु भारताजिरे मुकुन्दसेवौपयिकं स्पृहा हि नः । किं दुष्करैर्नः क्रतुभिस्तपोव्रतैर्दानादिभिर्वा द्युजयेन फल्गुना २१
एतत् एव हि देवाः गायन्ति । अहो अमीषाम् किम् अकारि शोभनम् प्रसन्नः एषाम् स्विद् उत स्वयम् हरिः । यैः जन्म लब्धम् नृषु भारत-अजिरे मुकुन्द-सेवा-औपयिकम् स्पृहा हि नः । किम् दुष्करैः नः क्रतुभिः तपः-व्रतैः दान-आदिभिः वा द्यु-जयेन फल्गुना
etat eva hi devāḥ gāyanti . aho amīṣām kim akāri śobhanam prasannaḥ eṣām svid uta svayam hariḥ . yaiḥ janma labdham nṛṣu bhārata-ajire mukunda-sevā-aupayikam spṛhā hi naḥ . kim duṣkaraiḥ naḥ kratubhiḥ tapaḥ-vrataiḥ dāna-ādibhiḥ vā dyu-jayena phalgunā
किं दुष्करैर्नः क्रतुभिस्तपोव्रतैर्दानादिभिर्वा द्युजयेन फल्गुना २१
किम् दुष्करैः नः क्रतुभिः तपः-व्रतैः दान-आदिभिः वा द्यु-जयेन फल्गुना
kim duṣkaraiḥ naḥ kratubhiḥ tapaḥ-vrataiḥ dāna-ādibhiḥ vā dyu-jayena phalgunā
न यत्र नारायणपादपङ्कज स्मृतिः प्रमुष्टातिशयेन्द्रियोत्सवात् २२
न यत्र नारायण-पाद-पङ्कज स्मृतिः प्रमुष्ट-अतिशय-इन्द्रिय-उत्सवात्
na yatra nārāyaṇa-pāda-paṅkaja smṛtiḥ pramuṣṭa-atiśaya-indriya-utsavāt
कल्पायुषां स्थानजयात्पुनर्भवात्क्षणायुषां भारतभूजयो वरम् । क्षणेन मर्त्येन कृतं मनस्विनः सन्न्यस्य संयान्त्यभयं पदं हरेः २३
कल्प-आयुषाम् स्थान-जयात् पुनर्भवात् क्षण-आयुषाम् भारत-भू-जयः वरम् । क्षणेन मर्त्येन कृतम् मनस्विनः सन्न्यस्य संयान्ति अभयम् पदम् हरेः
kalpa-āyuṣām sthāna-jayāt punarbhavāt kṣaṇa-āyuṣām bhārata-bhū-jayaḥ varam . kṣaṇena martyena kṛtam manasvinaḥ sannyasya saṃyānti abhayam padam hareḥ
न यत्र वैकुण्ठकथासुधापगा न साधवो भागवतास्तदाश्रयाः । न यत्र यज्ञेशमखा महोत्सवाः सुरेशलोकोऽपि न वै स सेव्यताम्२४
न यत्र वैकुण्ठ-कथा-सुधा-आपगा न साधवः भागवताः तद्-आश्रयाः । न यत्र यज्ञेश-मखाः महा-उत्सवाः सुरेश-लोकः अपि न वै स सेव्यताम्
na yatra vaikuṇṭha-kathā-sudhā-āpagā na sādhavaḥ bhāgavatāḥ tad-āśrayāḥ . na yatra yajñeśa-makhāḥ mahā-utsavāḥ sureśa-lokaḥ api na vai sa sevyatām
प्राप्ता नृजातिं त्विह ये च जन्तवो ज्ञानक्रियाद्रव्यकलापसम्भृताम् । न वै यतेरन्नपुनर्भवाय ते भूयो वनौका इव यान्ति बन्धनम् २५
प्राप्ताः नृ-जातिम् तु इह ये च जन्तवः ज्ञान-क्रिया-द्रव्य-कलाप-सम्भृताम् । न वै यतेरन् अपुनर्भवाय ते भूयस् वनौकाः इव यान्ति बन्धनम्
prāptāḥ nṛ-jātim tu iha ye ca jantavaḥ jñāna-kriyā-dravya-kalāpa-sambhṛtām . na vai yateran apunarbhavāya te bhūyas vanaukāḥ iva yānti bandhanam
यैः श्रद्धया बर्हिषि भागशो हविर्निरुप्तमिष्टं विधिमन्त्रवस्तुतः । एकः पृथङ्नामभिराहुतो मुदा गृह्णाति पूर्णः स्वयमाशिषां प्रभुः २६
यैः श्रद्धया बर्हिषि भागशस् हविः निरुप्तम् इष्टम् विधि-मन्त्र-वस्तुतः । एकः पृथक् नामभिः आहुतः मुदा गृह्णाति पूर्णः स्वयम् आशिषाम् प्रभुः
yaiḥ śraddhayā barhiṣi bhāgaśas haviḥ niruptam iṣṭam vidhi-mantra-vastutaḥ . ekaḥ pṛthak nāmabhiḥ āhutaḥ mudā gṛhṇāti pūrṇaḥ svayam āśiṣām prabhuḥ
सत्यं दिशत्यर्थितमर्थितो नृणां नैवार्थदो यत्पुनरर्थिता यतः । स्वयं विधत्ते भजतामनिच्छतामिच्छापिधानं निजपादपल्लवम् २७
सत्यम् दिशति अर्थितम् अर्थितः नृणाम् न एव अर्थ-दः यत् पुनर् अर्थिता यतस् । स्वयम् विधत्ते भजताम् अन् इच्छताम् इच्छा-अपिधानम् निज-पाद-पल्लवम्
satyam diśati arthitam arthitaḥ nṛṇām na eva artha-daḥ yat punar arthitā yatas . svayam vidhatte bhajatām an icchatām icchā-apidhānam nija-pāda-pallavam
यद्यत्र नः स्वर्गसुखावशेषितं स्विष्टस्य सूक्तस्य कृतस्य शोभनम् । तेनाजनाभे स्मृतिमज्जन्म नः स्याद्वर्षे हरिर्यद्भजतां शं तनोति २८
यत् यत्र नः स्वर्ग-सुख-अवशेषितम् सु इष्टस्य सूक्तस्य कृतस्य शोभनम् । तेन अज-नाभे स्मृतिमत् जन्म नः स्यात् वर्षे हरिः यत् भजताम् शम् तनोति
yat yatra naḥ svarga-sukha-avaśeṣitam su iṣṭasya sūktasya kṛtasya śobhanam . tena aja-nābhe smṛtimat janma naḥ syāt varṣe hariḥ yat bhajatām śam tanoti
जम्बूद्वीपस्य च राजन्नुपद्वीपानष्टौ हैक उपदिशन्ति सगरात्मजैरश्वा-न्वेषण इमां महीं परितो निखनद्भिरुपकल्पितान् २९
जम्बूद्वीपस्य च राजन् उपद्वीपान् अष्टौ ह एके उपदिशन्ति सगर-आत्मजैः अश्व-अन्वेषणे इमाम् महीम् परितस् निखनद्भिः उपकल्पितान्
jambūdvīpasya ca rājan upadvīpān aṣṭau ha eke upadiśanti sagara-ātmajaiḥ aśva-anveṣaṇe imām mahīm paritas nikhanadbhiḥ upakalpitān
तद्यथा स्वर्णप्रस्थश्चन्द्र शुक्ल आवर्तनो रमणको मन्दरहरिणः पाञ्चजन्यः सिंहलो लङ्केति ३०
तत् यथा स्वर्णप्रस्थः चन्द्र शुक्लः आवर्तनः रमणकः मन्दरहरिणः पाञ्चजन्यः सिंहलः लङ्का इति
tat yathā svarṇaprasthaḥ candra śuklaḥ āvartanaḥ ramaṇakaḥ mandarahariṇaḥ pāñcajanyaḥ siṃhalaḥ laṅkā iti
श्रीशुक उवाच
एवं तव भारतोत्तम जम्बूद्वीपवर्षविभागो यथोपदेशमुपवर्णित इति ३१
एवम् तव भारत-उत्तम जम्बूद्वीप-वर्ष-विभागः यथोपदेशम् उपवर्णितः इति
evam tava bhārata-uttama jambūdvīpa-varṣa-vibhāgaḥ yathopadeśam upavarṇitaḥ iti
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे जम्बूद्वीपवर्णनं नामैकोनविंशोऽध्यायः
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् पञ्चम-स्कन्धे जम्बूद्वीपवर्णनम् नाम एकोनविंशः अध्यायः
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām pañcama-skandhe jambūdvīpavarṇanam nāma ekonaviṃśaḥ adhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In