| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

एवं पितरि सम्प्रवृत्ते तदनुशासने वर्तमान आग्नीध्रो जम्बूद्वीपौकसः प्रजा औरसवद्धर्मावेक्षमाणः पर्यगोपायत् १
एवम् पितरि सम्प्रवृत्ते तद्-अनुशासने वर्तमाने आग्नीध्रः जम्बूद्वीप-ओकसः प्रजाः औरस-वत् धर्म-अवेक्षमाणः पर्यगोपायत्
evam pitari sampravṛtte tad-anuśāsane vartamāne āgnīdhraḥ jambūdvīpa-okasaḥ prajāḥ aurasa-vat dharma-avekṣamāṇaḥ paryagopāyat
स च कदाचित्पितृलोककामः सुरवरवनिताक्रीडाचलद्रोण्यां भगवन्तं विश्वसृजां पतिमाभृतपरिचर्योपकरण आत्मैकाग्र्येण तपस्व्याराधयां बभूव २
स च कदाचिद् पितृ-लोक-कामः सुरवर-वनिता-क्रीडा-अचल-द्रोण्याम् भगवन्तम् विश्वसृजाम् पतिम् आभृत-परिचर्या-उपकरणः आत्म-ऐकाग्र्येण तपस्वी आराधयाम् बभूव
sa ca kadācid pitṛ-loka-kāmaḥ suravara-vanitā-krīḍā-acala-droṇyām bhagavantam viśvasṛjām patim ābhṛta-paricaryā-upakaraṇaḥ ātma-aikāgryeṇa tapasvī ārādhayām babhūva
अथ द्वितीयोऽध्यायः
तदुपलभ्य भगवानादिपुरुषः सदसि गायन्तीं पूर्वचित्तिं नामाप्सरसमभियापयामास ३
तत् उपलभ्य भगवान् आदिपुरुषः सदसि गायन्तीम् पूर्वचित्तिम् नाम अप्सरसम् अभियापयामास
tat upalabhya bhagavān ādipuruṣaḥ sadasi gāyantīm pūrvacittim nāma apsarasam abhiyāpayāmāsa
श्रीशुक उवाच
सा च तदाश्रमोपवनमतिरमणीयं विविधनिबिडविटपिविटपनिकरसंश्लिष्टपुरट लतारूढस्थलविहङ्गममिथुनैः प्रोच्यमानश्रुतिभिः प्रतिबोध्यमानसलिलकुक्कुटकारण्डवकलहंसादिभिर्विचित्रमुपकूजितामलजलाशयकमलाकरमुपबभ्राम ४
सा च तद्-आश्रम-उपवनम् अति रमणीयम् विविध-निबिड-विटपि-विटप-निकर-संश्लिष्ट-पुरट लता-आरूढ-स्थल-विहङ्गम-मिथुनैः प्रोच्यमान-श्रुतिभिः प्रतिबोध्यमान-सलिल-कुक्कुट-कारण्डव-कलहंस-आदिभिः विचित्रम् उपकूजित-अमल-जलाशय-कमल-आकरम् उपबभ्राम
sā ca tad-āśrama-upavanam ati ramaṇīyam vividha-nibiḍa-viṭapi-viṭapa-nikara-saṃśliṣṭa-puraṭa latā-ārūḍha-sthala-vihaṅgama-mithunaiḥ procyamāna-śrutibhiḥ pratibodhyamāna-salila-kukkuṭa-kāraṇḍava-kalahaṃsa-ādibhiḥ vicitram upakūjita-amala-jalāśaya-kamala-ākaram upababhrāma
तस्याः सुललितगमनपदविन्यासगतिविलासायाश्चानुपदं खणखणायमानरुचिरचरणाभरणस्वनमुपाकर्ण्य नरदेवकुमारः समाधियोगेनामीलितनयननलिनमुकुलयुगलमीषद्विकचय्य व्यचष्ट ५
तस्याः सु ललित-गमन-पद-विन्यास-गति-विलासायाः च अनुपदम् खणखणायमान-रुचिर-चरण-आभरण-स्वनम् उपाकर्ण्य नरदेव-कुमारः समाधि-योगेन आमीलित-नयन-नलिन-मुकुल-युगलम् ईषत्
tasyāḥ su lalita-gamana-pada-vinyāsa-gati-vilāsāyāḥ ca anupadam khaṇakhaṇāyamāna-rucira-caraṇa-ābharaṇa-svanam upākarṇya naradeva-kumāraḥ samādhi-yogena āmīlita-nayana-nalina-mukula-yugalam īṣat
तामेवाविदूरे मधुकरीमिव सुमनस उपजिघ्रन्तीं दिविजमनुजमनोनयनाह्लाददुघैर्गतिविहारव्रीडाविनयावलोकसुस्वराक्षरावयवैर्मनसि नृणां कुसुमायुधस्य विदधतीं विवरं निजमुखविगलितामृतासवसहासभाषणामोदमदान्धमधुकरनिकरोपरोधेन द्रुतपदविन्यासेन वल्गुस्पन्दनस्तनकलशकबरभाररशनां देवीं तदवलोकनेन विवृतावसरस्य भगवतो मकरध्वजस्य वशमुपनीतो जडवदिति होवाच ६
ताम् एव अविदूरे मधुकरीम् इव सुमनसः उपजिघ्रन्तीम् दिविज-मनुज-मनः-नयन-आह्लाद-दुघैः गति-विहार-व्रीडा-विनय-अवलोक-सु स्वर-अक्षर-अवयवैः मनसि नृणाम् कुसुमायुधस्य विदधतीम् निज-मुख-विगलित-अमृत-आसव-स हास-भाषण-आमोद-मद-अन्ध-मधुकर-निकर-उपरोधेन द्रुत-पद-विन्यासेन वल्गु-स्पन्दन-स्तन-कलश-कबर-भार-रशनाम् देवीम् तद्-अवलोकनेन विवृत-अवसरस्य भगवतः मकरध्वजस्य वशम् उपनीतः जड-वत् इति ह उवाच
tām eva avidūre madhukarīm iva sumanasaḥ upajighrantīm divija-manuja-manaḥ-nayana-āhlāda-dughaiḥ gati-vihāra-vrīḍā-vinaya-avaloka-su svara-akṣara-avayavaiḥ manasi nṛṇām kusumāyudhasya vidadhatīm nija-mukha-vigalita-amṛta-āsava-sa hāsa-bhāṣaṇa-āmoda-mada-andha-madhukara-nikara-uparodhena druta-pada-vinyāsena valgu-spandana-stana-kalaśa-kabara-bhāra-raśanām devīm tad-avalokanena vivṛta-avasarasya bhagavataḥ makaradhvajasya vaśam upanītaḥ jaḍa-vat iti ha uvāca
का त्वं चिकीर्षसि च किं मुनिवर्य शैले । मायासि कापि भगवत्परदेवतायाः । विज्ये बिभर्षि धनुषी सुहृदात्मनोऽर्थे । किं वा मृगान्मृगयसे विपिने प्रमत्तान् ७ ।
का त्वम् चिकीर्षसि च किम् मुनि-वर्य शैले । माया असि का अपि भगवत्-पर-देवतायाः । विज्ये बिभर्षि धनुषी सुहृद-आत्मनः अर्थे । किम् वा मृगान् मृगयसे विपिने प्रमत्तान् ।
kā tvam cikīrṣasi ca kim muni-varya śaile . māyā asi kā api bhagavat-para-devatāyāḥ . vijye bibharṣi dhanuṣī suhṛda-ātmanaḥ arthe . kim vā mṛgān mṛgayase vipine pramattān .
बाणाविमौ भगवतः शतपत्रपत्रौ। शान्तावपुङ्खरुचिरावतितिग्मदन्तौ। कस्मै युयुङ्क्षसि वने विचरन्न विद्मः। क्षेमाय नो जडधियां तव विक्रमोऽस्तु ८।
बाणौ इमौ भगवतः शत-पत्र-पत्रौ। शान्तौ अपुङ्ख-रुचिरौ अति तिग्मदन्तौ। कस्मै युयुङ्क्षसि वने विचरन् न विद्मः। क्षेमाय नः जड-धियाम् तव विक्रमः अस्तु।
bāṇau imau bhagavataḥ śata-patra-patrau. śāntau apuṅkha-rucirau ati tigmadantau. kasmai yuyuṅkṣasi vane vicaran na vidmaḥ. kṣemāya naḥ jaḍa-dhiyām tava vikramaḥ astu.
शिष्या इमे भगवतः परितः पठन्ति। गायन्ति साम सरहस्यमजस्रमीशम्। युष्मच्छिखाविलुलिताः सुमनोऽभिवृष्टीः। सर्वे भजन्त्यृषिगणा इव वेदशाखाः ९।
शिष्याः इमे भगवतः परितस् पठन्ति। गायन्ति साम स रहस्यम् अजस्रम् ईशम्। युष्मद्-शिखा-विलुलिताः सुमनः-अभिवृष्टीः। सर्वे भजन्ति ऋषि-गणाः इव वेद-शाखाः।
śiṣyāḥ ime bhagavataḥ paritas paṭhanti. gāyanti sāma sa rahasyam ajasram īśam. yuṣmad-śikhā-vilulitāḥ sumanaḥ-abhivṛṣṭīḥ. sarve bhajanti ṛṣi-gaṇāḥ iva veda-śākhāḥ.
वाचं परं चरणपञ्जरतित्तिरीणां। ब्रह्मन्नरूपमुखरां शृणवाम तुभ्यम्। लब्धा कदम्बरुचिरङ्कविटङ्कबिम्बे। यस्यामलातपरिधिः क्व च वल्कलं ते १०।
वाचम् परम् चरण-पञ्जर-तित्तिरीणाम्। ब्रह्मन् अरूप-मुखराम् शृणवाम तुभ्यम्। लब्धा कदम्ब-रुचिः अङ्क-विटङ्क-बिम्बे। यस्य अमलात-परिधिः क्व च वल्कलम् ते।
vācam param caraṇa-pañjara-tittirīṇām. brahman arūpa-mukharām śṛṇavāma tubhyam. labdhā kadamba-ruciḥ aṅka-viṭaṅka-bimbe. yasya amalāta-paridhiḥ kva ca valkalam te.
किं सम्भृतं रुचिरयोर्द्विज शृङ्गयोस्ते। मध्ये कृशो वहसि यत्र दृशिः श्रिता मे। पङ्कोऽरुणः सुरभिरात्मविषाण ईदृग्। येनाश्रमं सुभग मे सुरभीकरोषि ११।
किम् सम्भृतम् रुचिरयोः द्विज शृङ्गयोः ते। मध्ये कृशः वहसि यत्र दृशिः श्रिता मे। पङ्कः अरुणः सुरभिः आत्म-विषाणः ईदृश्। येन आश्रमम् सुभग मे सुरभीकरोषि।
kim sambhṛtam rucirayoḥ dvija śṛṅgayoḥ te. madhye kṛśaḥ vahasi yatra dṛśiḥ śritā me. paṅkaḥ aruṇaḥ surabhiḥ ātma-viṣāṇaḥ īdṛś. yena āśramam subhaga me surabhīkaroṣi.
लोकं प्रदर्शय सुहृत्तम तावकं मे। यत्रत्य इत्थमुरसावयवावपूर्वौ। अस्मद्विधस्य मनौन्नयनौ बिभर्ति। बह्वद्भुतं सरसराससुधादि वक्त्रे १२।
लोकम् प्रदर्शय सुहृत्तम तावकम् मे। यत्रत्यः इत्थम् उरसा अवयवौ अपूर्वौ। अस्मद्विधस्य मनौन्नयनौ बिभर्ति। बहु-अद्भुतम् सरस-रास-सुधा-आदि वक्त्रे।
lokam pradarśaya suhṛttama tāvakam me. yatratyaḥ ittham urasā avayavau apūrvau. asmadvidhasya manaunnayanau bibharti. bahu-adbhutam sarasa-rāsa-sudhā-ādi vaktre.
का वात्मवृत्तिरदनाद्धविरङ्ग वाति। विष्णोः कलास्यनिमिषोन्मकरौ च कर्णौ। उद्विग्नमीनयुगलं द्विजपङ्क्तिशोचिर्। आसन्नभृङ्गनिकरं सर इन्मुखं ते १३।
का वा आत्म-वृत्तिः अदनात् हविः अङ्ग वाति। विष्णोः कला-आस्य-निमिष-उन्मकरौ च कर्णौ। उद्विग्न-मीन-युगलम् द्विज-पङ्क्ति-शोचिः। आसन्न-भृङ्ग-निकरम् सरः इद् मुखम् ते।
kā vā ātma-vṛttiḥ adanāt haviḥ aṅga vāti. viṣṇoḥ kalā-āsya-nimiṣa-unmakarau ca karṇau. udvigna-mīna-yugalam dvija-paṅkti-śociḥ. āsanna-bhṛṅga-nikaram saraḥ id mukham te.
योऽसौ त्वया करसरोजहतः पतङ्गो। दिक्षु भ्रमन्भ्रमत एजयतेऽक्षिणी मे। मुक्तं न ते स्मरसि वक्रजटावरूथं। कष्टोऽनिलो हरति लम्पट एष नीवीम् १४।
यः असौ त्वया कर-सरोज-हतः पतङ्गो। दिक्षु भ्रमन् भ्रमते एजयते अक्षिणी मे। मुक्तम् न ते स्मरसि वक्र-जटा-वरूथम्। कष्टः अनिलः हरति लम्पटः एष नीवीम्।
yaḥ asau tvayā kara-saroja-hataḥ pataṅgo. dikṣu bhraman bhramate ejayate akṣiṇī me. muktam na te smarasi vakra-jaṭā-varūtham. kaṣṭaḥ anilaḥ harati lampaṭaḥ eṣa nīvīm.
रूपं तपोधन तपश्चरतां तपोघ्नं। । ह्येतत्तु केन तपसा भवतोपलब्धम् । चर्तुं तपोऽर्हसि मया सह मित्र मह्यं । किं वा प्रसीदति स वै भवभावनो मे १५ ।
रूपम् तपोधन तपः चरताम् तपः-घ्नम्। । हि एतत् तु केन तपसा भवता उपलब्धम् । चर्तुम् तपः अर्हसि मया सह मित्र मह्यम् । किम् वा प्रसीदति स वै भव-भावनः मे ।
rūpam tapodhana tapaḥ caratām tapaḥ-ghnam. . hi etat tu kena tapasā bhavatā upalabdham . cartum tapaḥ arhasi mayā saha mitra mahyam . kim vā prasīdati sa vai bhava-bhāvanaḥ me .
न त्वां त्यजामि दयितं द्विजदेवदत्तं । यस्मिन्मनो दृगपि नो न वियाति लग्नम् । मां चारुशृङ्ग्यर्हसि नेतुमनुव्रतं ते । चित्तं यतः प्रतिसरन्तु शिवाः सचिव्यः १६ ।
न त्वाम् त्यजामि दयितम् द्विजदेवदत्तम् । यस्मिन् मनः दृश् अपि नो न वियाति लग्नम् । माम् चारुशृङ्गि अर्हसि नेतुम् अनुव्रतम् ते । चित्तम् यतस् प्रतिसरन्तु शिवाः सचिव्यः ।
na tvām tyajāmi dayitam dvijadevadattam . yasmin manaḥ dṛś api no na viyāti lagnam . mām cāruśṛṅgi arhasi netum anuvratam te . cittam yatas pratisarantu śivāḥ sacivyaḥ .
इति ललनानुनयातिविशारदो ग्राम्यवैदग्ध्यया परिभाषया तां विबुधवधूं विबुधमतिरधिसभाजयामास १७
इति ललना-अनुनय-अति विशारदः ग्राम्य-वैदग्ध्यया परिभाषया ताम् विबुध-वधूम् विबुध-मतिः अधिसभाजयामास
iti lalanā-anunaya-ati viśāradaḥ grāmya-vaidagdhyayā paribhāṣayā tām vibudha-vadhūm vibudha-matiḥ adhisabhājayāmāsa
सा च ततस्तस्य वीरयूथपतेर्बुद्धिशीलरूपवयःश्रियौदार्येण पराक्षिप्तमनास्तेन सहायुतायुतपरिवत्सरोपलक्षणं कालं जम्बूद्वीपपतिना भौमस्वर्गभोगान्बुभुजे १८
सा च ततस् तस्य वीर-यूथ-पतेः बुद्धि-शील-रूप-वयः-श्रिया औदार्येण पराक्षिप्त-मनाः तेन सह अयुत-अयुत-परिवत्सर-उपलक्षणम् कालम् जम्बूद्वीप-पतिना भौम-स्वर्ग-भोगान् बुभुजे
sā ca tatas tasya vīra-yūtha-pateḥ buddhi-śīla-rūpa-vayaḥ-śriyā audāryeṇa parākṣipta-manāḥ tena saha ayuta-ayuta-parivatsara-upalakṣaṇam kālam jambūdvīpa-patinā bhauma-svarga-bhogān bubhuje
श्रीशुक उवाच
तस्यामु ह वा आत्मजान्स राजवर आग्नीध्रो नाभिकिम्पुरुषहरिवर्षेलावृतरम्यकहिरण्मय कुरुभद्रा श्वकेतुमालसंज्ञान्नव पुत्रानजनयत् १९
तस्याम् उ ह वै आत्मजान् स राज-वरः आग्नीध्रः नाभि-किम्पुरुष-हरिवर्ष-इलावृत-रम्यक-हिरण्मय-कुरुभद्रा-श्व-केतुमाल-संज्ञान् नव पुत्रान् अजनयत्
tasyām u ha vai ātmajān sa rāja-varaḥ āgnīdhraḥ nābhi-kimpuruṣa-harivarṣa-ilāvṛta-ramyaka-hiraṇmaya-kurubhadrā-śva-ketumāla-saṃjñān nava putrān ajanayat
सा सूत्वाथ सुतान्नवानुवत्सरं गृह एवापहाय पूर्वचित्तिर्भूय एवाजं देवमुपतस्थे २०
सा सूत्वा अथ सुतान् नव-अनुवत्सरम् गृहे एव अपहाय पूर्वचित्तिः भूयस् एव अजम् देवम् उपतस्थे
sā sūtvā atha sutān nava-anuvatsaram gṛhe eva apahāya pūrvacittiḥ bhūyas eva ajam devam upatasthe
आग्नीध्रसुतास्ते मातुरनुग्रहादौत्पत्तिकेनैव संहननबलोपेताः पित्रा विभक्ता आत्मतुल्यनामानि यथाभागं जम्बूद्वीपवर्षाणि बुभुजुः २१
आग्नीध्र-सुताः ते मातुः अनुग्रहात् औत्पत्तिकेन एव संहनन-बल-उपेताः पित्रा विभक्ताः आत्म-तुल्य-नामानि यथाभागम् जम्बूद्वीप-वर्षाणि बुभुजुः
āgnīdhra-sutāḥ te mātuḥ anugrahāt autpattikena eva saṃhanana-bala-upetāḥ pitrā vibhaktāḥ ātma-tulya-nāmāni yathābhāgam jambūdvīpa-varṣāṇi bubhujuḥ
आग्नीध्रो राजातृप्तः कामानामप्सरसमेवानुदिनमधिमन्यमानस्तस्याः सलोकतां श्रुतिभिरवारुन्ध यत्र पितरो मादयन्ते २२
आग्नीध्रः राजा अतृप्तः कामानाम् अप्सरसम् एव अनुदिनम् अधिमन्यमानः तस्याः सलोकताम् श्रुतिभिः अवारुन्ध यत्र पितरः मादयन्ते
āgnīdhraḥ rājā atṛptaḥ kāmānām apsarasam eva anudinam adhimanyamānaḥ tasyāḥ salokatām śrutibhiḥ avārundha yatra pitaraḥ mādayante
सम्परेते पितरि नव भ्रातरो मेरुदुहितॄर्मेरुदेवीं प्रतिरूपामुग्रदंष्ट्रीं लतां रम्यां श्यामां नारीं भद्रां देववीतिमिति संज्ञा नवोदवहन् २३
सम्परेते पितरि नव भ्रातरः मेरुदुहितॄः मेरुदेवीम् प्रतिरूपाम् उग्रदंष्ट्रीम् लताम् रम्याम् श्यामाम् नारीम् भद्राम् देववीतिम् इति संज्ञाः नव उदवहन्
samparete pitari nava bhrātaraḥ meruduhitṝḥ merudevīm pratirūpām ugradaṃṣṭrīm latām ramyām śyāmām nārīm bhadrām devavītim iti saṃjñāḥ nava udavahan
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे आग्नीध्रवर्णनं नाम द्वितीयोऽध्यायः
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् पञ्चम-स्कन्धे आग्नीध्रवर्णनम् नाम द्वितीयः अध्यायः
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām pañcama-skandhe āgnīdhravarṇanam nāma dvitīyaḥ adhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In