| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

अतः परं प्लक्षादीनां प्रमाणलक्षणसंस्थानतो वर्षविभाग उपवर्ण्यते १
अतस् परम् प्लक्ष-आदीनाम् प्रमाण-लक्षण-संस्थानतः वर्ष-विभागः उपवर्ण्यते
atas param plakṣa-ādīnām pramāṇa-lakṣaṇa-saṃsthānataḥ varṣa-vibhāgaḥ upavarṇyate
जम्बूद्वीपोऽयं यावत्प्रमाणविस्तारस्तावता क्षारोदधिना परिवेष्टितो यथा मेरुर्जम्ब्वाख्येन लवणोदधिरपि ततो द्विगुणविशालेन प्लक्षाख्येन परिक्षिप्तो यथा परिखा बाह्योपवनेन प्लक्षो जम्बू प्रमाणो द्वीपाख्याकरो हिरण्मय उत्थितो यत्राग्निरुपास्ते सप्तजिह्वस्तस्याधिपतिः प्रियव्रतात्मज इध्मजिह्वः स्वं द्वीपं सप्तवर्षाणि विभज्य सप्तवर्षनामभ्य आत्मजेभ्य आकलय्य स्वयमात्मयोगेनोपरराम २
जम्बूद्वीपः अयम् यावत्-प्रमाण-विस्तारः तावता क्षार-उदधिना परिवेष्टितः यथा मेरुः जम्बु-आख्येन लवण-उदधिः अपि ततस् द्विगुण-विशालेन प्लक्ष-आख्येन परिक्षिप्तः यथा परिखा बाह्य-उपवनेन प्लक्षः द्वीप-आख्या-करः हिरण्मयः उत्थितः यत्र अग्निः उपास्ते सप्तजिह्वः तस्य अधिपतिः प्रियव्रत-आत्मजः इध्मजिह्वः स्वम् द्वीपम् सप्त-वर्षाणि विभज्य सप्त-वर्ष-नामभ्यः आत्मजेभ्यः आकलय्य स्वयम् आत्म-योगेन उपरराम
jambūdvīpaḥ ayam yāvat-pramāṇa-vistāraḥ tāvatā kṣāra-udadhinā pariveṣṭitaḥ yathā meruḥ jambu-ākhyena lavaṇa-udadhiḥ api tatas dviguṇa-viśālena plakṣa-ākhyena parikṣiptaḥ yathā parikhā bāhya-upavanena plakṣaḥ dvīpa-ākhyā-karaḥ hiraṇmayaḥ utthitaḥ yatra agniḥ upāste saptajihvaḥ tasya adhipatiḥ priyavrata-ātmajaḥ idhmajihvaḥ svam dvīpam sapta-varṣāṇi vibhajya sapta-varṣa-nāmabhyaḥ ātmajebhyaḥ ākalayya svayam ātma-yogena upararāma
अथ विंशोऽध्यायः 5.20 - श्रीशुक उवाच
शिवं यवसं सुभद्रं शान्तं क्षेमममृतमभयमिति वर्षाणि तेषु गिरयो नद्यश्च सप्तैवाभिज्ञाताः ३
शिवम् यवसम् सुभद्रम् शान्तम् क्षेमम् अमृतम् अभयम् इति वर्षाणि तेषु गिरयः नद्यः च सप्त एव अभिज्ञाताः
śivam yavasam subhadram śāntam kṣemam amṛtam abhayam iti varṣāṇi teṣu girayaḥ nadyaḥ ca sapta eva abhijñātāḥ
मणिकूटो वज्रकूट इन्द्र सेनो ज्योतिष्मान्सुपर्णो हिरण्यष्ठीवो मेघमाल इति सेतुशैलाः अरुणा नृम्णाङ्गिरसी सावित्री सुप्रभाता ऋतम्भरा सत्यम्भरा इति महानद्यः यासां जलोपस्पर्शनविधूतरजस्तमसो हंसपतङ्गोर्ध्वायनसत्याङ्गसंज्ञाश्चत्वारो वर्णाः सहस्रायुषो विबुधोपमसन्दर्शनप्रजननाः स्वर्गद्वारं त्रय्या विद्यया भगवन्तं त्रयीमयं सूर्यमात्मानं यजन्ते ४
मणिकूटः वज्रकूटः इन्द्र सेनः ज्योतिष्मान् सुपर्णः हिरण्यष्ठीवः मेघमालः इति सेतुशैलाः अरुणा नृम्णा आङ्गिरसी सावित्री सुप्रभाता ऋतम्भरा सत्यम्भरा इति महा-नद्यः यासाम् जल-उपस्पर्शन-विधूत-रजः-तमसः हंसपतङ्ग-ऊर्ध्वायन-सत्याङ्ग-संज्ञाः चत्वारः वर्णाः विबुध-उपम-सन्दर्शन-प्रजननाः स्वर्ग-द्वारम् त्रय्या विद्यया भगवन्तम् त्रयी-मयम् सूर्यम् आत्मानम् यजन्ते
maṇikūṭaḥ vajrakūṭaḥ indra senaḥ jyotiṣmān suparṇaḥ hiraṇyaṣṭhīvaḥ meghamālaḥ iti setuśailāḥ aruṇā nṛmṇā āṅgirasī sāvitrī suprabhātā ṛtambharā satyambharā iti mahā-nadyaḥ yāsām jala-upasparśana-vidhūta-rajaḥ-tamasaḥ haṃsapataṅga-ūrdhvāyana-satyāṅga-saṃjñāḥ catvāraḥ varṇāḥ vibudha-upama-sandarśana-prajananāḥ svarga-dvāram trayyā vidyayā bhagavantam trayī-mayam sūryam ātmānam yajante
प्रत्नस्य विष्णो रूपं यत्सत्यस्यर्तस्य ब्रह्मणः अमृतस्य च मृत्योश्च सूर्यमात्मानमीमहीति ५
प्रत्नस्य विष्णोः रूपम् यत् सत्यस्य ऋतस्य ब्रह्मणः अमृतस्य च मृत्योः च सूर्यम् आत्मानम् ईमहि इति
pratnasya viṣṇoḥ rūpam yat satyasya ṛtasya brahmaṇaḥ amṛtasya ca mṛtyoḥ ca sūryam ātmānam īmahi iti
प्लक्षादिषु पञ्चसु पुरुषाणामायुरिन्द्रियमोजः सहो बलं बुद्धिर्विक्रम इति च सर्वेषामौत्पत्तिकी सिद्धिरविशेषेण वर्तते ६
प्लक्ष-आदिषु पञ्चसु पुरुषाणाम् आयुः इन्द्रियम् ओजः सहः बलम् बुद्धिः विक्रमः इति च सर्वेषाम् औत्पत्तिकी सिद्धिः अविशेषेण वर्तते
plakṣa-ādiṣu pañcasu puruṣāṇām āyuḥ indriyam ojaḥ sahaḥ balam buddhiḥ vikramaḥ iti ca sarveṣām autpattikī siddhiḥ aviśeṣeṇa vartate
प्लक्षः स्वसमानेनेक्षुरसोदेनावृतो यथा तथा द्वीपोऽपि शाल्मलो द्विगुणविशालः समानेन सुरोदेनावृतः परिवृङ्क्ते ७
प्लक्षः स्व-समानेन इक्षु-रस-उदेन आवृतः यथा तथा द्वीपः अपि शाल्मलः द्विगुण-विशालः समानेन सुरोदेन आवृतः परिवृङ्क्ते
plakṣaḥ sva-samānena ikṣu-rasa-udena āvṛtaḥ yathā tathā dvīpaḥ api śālmalaḥ dviguṇa-viśālaḥ samānena surodena āvṛtaḥ parivṛṅkte
यत्र ह वै शाल्मली प्लक्षायामा यस्यां वाव किल निलयमाहुर्भगवतश्छन्दःस्तुतः पतत्त्रिराजस्य सा द्वीपहूतये उपलक्ष्यते ८
यत्र ह वै शाल्मली प्लक्ष-आयामा यस्याम् वाव किल निलयम् आहुः भगवतः छन्दः-स्तुतः पतत्त्रि-राजस्य सा द्वीप-हूतये उपलक्ष्यते
yatra ha vai śālmalī plakṣa-āyāmā yasyām vāva kila nilayam āhuḥ bhagavataḥ chandaḥ-stutaḥ patattri-rājasya sā dvīpa-hūtaye upalakṣyate
तद्द्वीपाधिपतिः प्रियव्रतात्मजो यज्ञबाहुः स्वसुतेभ्यः सप्तभ्यस्तन्नामानि सप्तवर्षाणि व्यभजत्सुरोचनं सौमनस्यं रमणकं देववर्षं पारिभद्रमाप्यायनमविज्ञातमिति ९
तद्-द्वीप-अधिपतिः प्रियव्रत-आत्मजः यज्ञबाहुः स्व-सुतेभ्यः सप्तभ्यः तद्-नामानि सप्त-वर्षाणि व्यभजत् सुरोचनम् सौमनस्यम् रमणकम् देव-वर्षम् पारिभद्रम् आप्यायनम् अविज्ञातम् इति
tad-dvīpa-adhipatiḥ priyavrata-ātmajaḥ yajñabāhuḥ sva-sutebhyaḥ saptabhyaḥ tad-nāmāni sapta-varṣāṇi vyabhajat surocanam saumanasyam ramaṇakam deva-varṣam pāribhadram āpyāyanam avijñātam iti
तेषु वर्षाद्रयो नद्यश्च सप्तैवाभिज्ञाताः स्वरसः शतशृङ्गो वामदेवः कुन्दो मुकुन्दः पुष्पवर्षः सहस्रश्रुतिरिति अनुमतिः सिनीवाली सरस्वती कुहू रजनी नन्दा राकेति १०
तेषु वर्ष-अद्रयः नद्यः च सप्त एव अभिज्ञाताः स्वरसः शतशृङ्गः वामदेवः कुन्दः मुकुन्दः पुष्प-वर्षः सहस्र-श्रुतिः इति अनुमतिः सिनीवाली सरस्वती कुहू रजनी नन्दा राका इति
teṣu varṣa-adrayaḥ nadyaḥ ca sapta eva abhijñātāḥ svarasaḥ śataśṛṅgaḥ vāmadevaḥ kundaḥ mukundaḥ puṣpa-varṣaḥ sahasra-śrutiḥ iti anumatiḥ sinīvālī sarasvatī kuhū rajanī nandā rākā iti
तद्वर्षपुरुषाः श्रुतधरवीर्यधरवसुन्धरेषन्धरसंज्ञा भगवन्तं वेदमयं सोममात्मानं वेदेन यजन्ते ११
तद्-वर्ष-पुरुषाः श्रुतधर-वीर्यधर-वसुन्धर-इषन्धर-संज्ञाः भगवन्तम् वेद-मयम् सोमम् आत्मानम् वेदेन यजन्ते
tad-varṣa-puruṣāḥ śrutadhara-vīryadhara-vasundhara-iṣandhara-saṃjñāḥ bhagavantam veda-mayam somam ātmānam vedena yajante
स्वगोभिः पितृदेवेभ्यो विभजन्कृष्णशुक्लयोः । प्रजानां सर्वासां राजान्धः सोमो न आस्त्विति १२
स्व-गोभिः पितृ-देवेभ्यः विभजन् कृष्ण-शुक्लयोः । प्रजानाम् सर्वासाम् राजा अन्धः सोमः नः आस्तु इति
sva-gobhiḥ pitṛ-devebhyaḥ vibhajan kṛṣṇa-śuklayoḥ . prajānām sarvāsām rājā andhaḥ somaḥ naḥ āstu iti
एवं सुरोदाद्बहिस्तद्द्विगुणः समानेनावृतो घृतोदेन यथापूर्वः कुशद्वीपो यस्मिन्कुशस्तम्बो देवकृतस्तद्द्वीपाख्याकरो ज्वलन इवापरः स्वशष्परोचिषा दिशो विराजयति १३
एवम् सुरोदात् बहिस् तद्-द्विगुणः समानेन आवृतः घृतोदेन यथापूर्वः कुश-द्वीपः यस्मिन् कुश-स्तम्बः देव-कृतः तद्-द्वीप-आख्या-करः ज्वलनः इव अपरः स्व-शष्प-रोचिषा दिशः विराजयति
evam surodāt bahis tad-dviguṇaḥ samānena āvṛtaḥ ghṛtodena yathāpūrvaḥ kuśa-dvīpaḥ yasmin kuśa-stambaḥ deva-kṛtaḥ tad-dvīpa-ākhyā-karaḥ jvalanaḥ iva aparaḥ sva-śaṣpa-rociṣā diśaḥ virājayati
तद्द्वीपपतिः प्रैयव्रतो राजन्हिरण्यरेता नाम स्वं द्वीपं सप्तभ्यः स्वपुत्रेभ्यो यथाभागं विभज्य स्वयं तप आतिष्ठत वसुवसुदानदृढरुचि-नाभिगुप्तस्तुत्यव्रतविविक्तवामदेवनामभ्यः १४
तद्-द्वीप-पतिः प्रैयव्रतः राजन् हिरण्यरेताः नाम स्वम् द्वीपम् सप्तभ्यः स्व-पुत्रेभ्यः यथाभागम् विभज्य स्वयम् तपः आतिष्ठत वसु-वसुदान-दृढरुचि-नाभिगुप्त-स्तुत्यव्रत-विविक्त-वामदेव-नामभ्यः
tad-dvīpa-patiḥ praiyavrataḥ rājan hiraṇyaretāḥ nāma svam dvīpam saptabhyaḥ sva-putrebhyaḥ yathābhāgam vibhajya svayam tapaḥ ātiṣṭhata vasu-vasudāna-dṛḍharuci-nābhigupta-stutyavrata-vivikta-vāmadeva-nāmabhyaḥ
तेषां वर्षेषु सीमागिरयो नद्यश्चाभिज्ञाताः सप्त सप्तैव चक्रश्चतुःशृङ्गः कपिलश्चित्रकूटो देवानीक ऊर्ध्वरोमा द्रविण इति रसकुल्या मधुकुल्या मित्रविन्दा श्रुतविन्दा देवगर्भा घृतच्युता मन्त्रमालेति १५
तेषाम् वर्षेषु सीमा-गिरयः नद्यः च अभिज्ञाताः सप्त सप्त एव चक्रः चतुःशृङ्गः कपिलः चित्रकूटः देवानीक ऊर्ध्व-रोमा द्रविणः इति रसकुल्याः मधुकुल्याः मित्रविन्दा श्रुतविन्दा देव-गर्भा घृत-च्युता मन्त्र-माला इति
teṣām varṣeṣu sīmā-girayaḥ nadyaḥ ca abhijñātāḥ sapta sapta eva cakraḥ catuḥśṛṅgaḥ kapilaḥ citrakūṭaḥ devānīka ūrdhva-romā draviṇaḥ iti rasakulyāḥ madhukulyāḥ mitravindā śrutavindā deva-garbhā ghṛta-cyutā mantra-mālā iti
यासां पयोभिः कुशद्वीपौकसः कुशलकोविदाभियुक्तकुलकसंज्ञा भगवन्तं जातवेदसरूपिणं कर्मकौशलेन यजन्ते १६
यासाम् पयोभिः कुशद्वीप-ओकसः कुशल-कोविद-अभियुक्त-कुलक-संज्ञाः भगवन्तम् जातवेदस-रूपिणम् कर्म-कौशलेन यजन्ते
yāsām payobhiḥ kuśadvīpa-okasaḥ kuśala-kovida-abhiyukta-kulaka-saṃjñāḥ bhagavantam jātavedasa-rūpiṇam karma-kauśalena yajante
परस्य ब्रह्मणः साक्षाज्जातवेदोऽसि हव्यवाट् । देवानां पुरुषाङ्गानां यज्ञेन पुरुषं यजेति १७
परस्य ब्रह्मणः साक्षात् जातवेदः असि हव्यवाट् । देवानाम् पुरुष-अङ्गानाम् यज्ञेन पुरुषम् यज इति
parasya brahmaṇaḥ sākṣāt jātavedaḥ asi havyavāṭ . devānām puruṣa-aṅgānām yajñena puruṣam yaja iti
तथा घृतोदाद्बहिः क्रौञ्चद्वीपो द्विगुणः स्वमानेन क्षीरोदेन परित उपकॢप्तो वृतो यथा कुशद्वीपो घृतोदेन यस्मिन्क्रौञ्चो नाम पर्वतराजो द्वीपनामनिर्वर्तक आस्ते १८
तथा घृतोदात् बहिस् क्रौञ्चद्वीपः द्विगुणः स्व-मानेन क्षीरोदेन परितस् उपकॢप्तः यथा कुशद्वीपः घृतोदेन यस्मिन् क्रौञ्चः नाम पर्वत-राजः द्वीप-नाम-निर्वर्तकः आस्ते
tathā ghṛtodāt bahis krauñcadvīpaḥ dviguṇaḥ sva-mānena kṣīrodena paritas upakḷptaḥ yathā kuśadvīpaḥ ghṛtodena yasmin krauñcaḥ nāma parvata-rājaḥ dvīpa-nāma-nirvartakaḥ āste
योऽसौ गुहप्रहरणोन्मथितनितम्बकुञ्जोऽपि क्षीरोदेनासिच्यमानो भगवता वरुणेनाभिगुप्तो विभयो बभूव १९
यः असौ गुह-प्रहरण-उन्मथित-नितम्ब-कुञ्जः अपि क्षीरोदेन आसिच्यमानः भगवता वरुणेन अभिगुप्तः विभयः बभूव
yaḥ asau guha-praharaṇa-unmathita-nitamba-kuñjaḥ api kṣīrodena āsicyamānaḥ bhagavatā varuṇena abhiguptaḥ vibhayaḥ babhūva
तस्मिन्नपि प्रैयव्रतो घृतपृष्ठो नामाधिपतिः स्वे द्वीपे वर्षाणि सप्त विभज्य तेषु पुत्रनामसु सप्त रिक्थादान्वर्षपान्निवेश्य स्वयं भगवान्भगवतः परमकल्याणयशस आत्मभूतस्य हरेश्चरणारविन्दमुपजगाम २०
तस्मिन् अपि प्रैयव्रतः घृतपृष्ठः नाम अधिपतिः स्वे द्वीपे वर्षाणि सप्त विभज्य तेषु पुत्र-नामसु सप्त रिक्थात् आन् वर्षपान् निवेश्य स्वयम् भगवान् भगवतः परम-कल्याण-यशसः आत्म-भूतस्य हरेः चरण-अरविन्दम् उपजगाम
tasmin api praiyavrataḥ ghṛtapṛṣṭhaḥ nāma adhipatiḥ sve dvīpe varṣāṇi sapta vibhajya teṣu putra-nāmasu sapta rikthāt ān varṣapān niveśya svayam bhagavān bhagavataḥ parama-kalyāṇa-yaśasaḥ ātma-bhūtasya hareḥ caraṇa-aravindam upajagāma
आमो मधुरुहो मेघपृष्ठः सुधामा भ्राजिष्ठो लोहितार्णो वनस्पतिरिति घृतपृष्ठसुतास्तेषां वर्षगिरयः सप्त सप्तैव नद्यश्चाभिख्याताः शुक्लो वर्धमानो भोजन उपबर्हिणो नन्दो नन्दनः सर्वतोभद्र इति अभया अमृतौघा आर्यका तीर्थवती रूपवती पवित्रवती शुक्लेति २१
आमः मधुरुहः मेघपृष्ठः सुधामा भ्राजिष्ठः लोहितार्णः वनस्पतिः इति घृतपृष्ठ-सुताः तेषाम् वर्ष-गिरयः सप्त सप्त एव नद्यः च अभिख्याताः शुक्लः वर्धमानः भोजनः उपबर्हिणः नन्दः नन्दनः सर्वतोभद्रः इति अभया अमृतौघा आर्यका तीर्थवती रूपवती पवित्रवती शुक्ला इति
āmaḥ madhuruhaḥ meghapṛṣṭhaḥ sudhāmā bhrājiṣṭhaḥ lohitārṇaḥ vanaspatiḥ iti ghṛtapṛṣṭha-sutāḥ teṣām varṣa-girayaḥ sapta sapta eva nadyaḥ ca abhikhyātāḥ śuklaḥ vardhamānaḥ bhojanaḥ upabarhiṇaḥ nandaḥ nandanaḥ sarvatobhadraḥ iti abhayā amṛtaughā āryakā tīrthavatī rūpavatī pavitravatī śuklā iti
यासामम्भः पवित्रममलमुपयुञ्जानाः पुरुषऋषभद्रविणदेवकसंज्ञा वर्षपुरुषा आपोमयं देवमपां पूर्णेनाञ्जलिना यजन्ते २२
यासाम् अम्भः पवित्रम् अमलम् उपयुञ्जानाः पुरुष-ऋषभ-द्रविण-देवक-संज्ञाः वर्षपुरुषाः आपः-मयम् देवम् अपाम् पूर्णेन अञ्जलिना यजन्ते
yāsām ambhaḥ pavitram amalam upayuñjānāḥ puruṣa-ṛṣabha-draviṇa-devaka-saṃjñāḥ varṣapuruṣāḥ āpaḥ-mayam devam apām pūrṇena añjalinā yajante
आपः पुरुषवीर्याः स्थ पुनन्तीर्भूर्भुवःसुवः । ता नः पुनीतामीवघ्नीः स्पृशतामात्मना भुव इति २३
आपः पुरुष-वीर्याः स्थ पुनन्तीः भूः भुवः सुवर् । ताः नः पुनीत अमीव-घ्नीः स्पृशताम् आत्मना भुवः इति
āpaḥ puruṣa-vīryāḥ stha punantīḥ bhūḥ bhuvaḥ suvar . tāḥ naḥ punīta amīva-ghnīḥ spṛśatām ātmanā bhuvaḥ iti
एवं पुरस्तात्क्षीरोदात्परित उपवेशितः शाकद्वीपो द्वात्रिंशल्लक्षयोजनायामः समानेन च दधिमण्डोदेन परीतो यस्मिन्शाको नाम महीरुहः स्वक्षेत्रव्यपदेशको यस्य ह महासुरभिगन्धस्तं द्वीपमनुवासयति २४
एवम् पुरस्तात् क्षीरोदात् परितस् उपवेशितः शाकद्वीपः द्वात्रिंशत्-लक्ष-योजन-आयामः समानेन च दधिमण्ड-उदेन परीतः यस्मिन् शाकः नाम महीरुहः स्व-क्षेत्र-व्यपदेशकः यस्य ह महा-सुरभि-गन्धः तम् द्वीपम् अनुवासयति
evam purastāt kṣīrodāt paritas upaveśitaḥ śākadvīpaḥ dvātriṃśat-lakṣa-yojana-āyāmaḥ samānena ca dadhimaṇḍa-udena parītaḥ yasmin śākaḥ nāma mahīruhaḥ sva-kṣetra-vyapadeśakaḥ yasya ha mahā-surabhi-gandhaḥ tam dvīpam anuvāsayati
तस्यापि प्रैयव्रत एवाधिपतिर्नाम्ना मेधातिथिः सोऽपि विभज्य सप्त वर्षाणि पुत्रनामानि तेषु स्वात्मजान्पुरोजवमनोजवपवमानधूम्रानीक चित्ररेफबहुरूपविश्वधारसंज्ञान्निधाप्याधिपतीन्स्वयं भगवत्यनन्त आवेशितमतिस्तपोवनं प्रविवेश २५
तस्य अपि प्रैयव्रतः एव अधिपतिः नाम्ना मेधातिथिः सः अपि विभज्य सप्त वर्षाणि पुत्र-नामानि तेषु स्व-आत्मजान् पुरोजव-मनोजव-पवमान-धूम्रानीक चित्ररेफ-बहुरूप-विश्वधार-संज्ञान् निधाप्य अधिपतीन् स्वयम् भगवति अनन्ते आवेशित-मतिः तपोवनम् प्रविवेश
tasya api praiyavrataḥ eva adhipatiḥ nāmnā medhātithiḥ saḥ api vibhajya sapta varṣāṇi putra-nāmāni teṣu sva-ātmajān purojava-manojava-pavamāna-dhūmrānīka citrarepha-bahurūpa-viśvadhāra-saṃjñān nidhāpya adhipatīn svayam bhagavati anante āveśita-matiḥ tapovanam praviveśa
एतेषां वर्षमर्यादागिरयो नद्यश्च सप्त सप्तैव ईशान उरुशृङ्गो बलभद्रः शतकेसरः सहस्रस्रोतो देवपालो महानस इति अनघायुर्दा उभयस्पृष्टिरपराजिता पञ्चपदी सहस्रस्रुतिर्निजधृतिरिति २६
एतेषाम् वर्ष-मर्यादा-गिरयः नद्यः च सप्त सप्त एव ईशानः उरुशृङ्गः बलभद्रः शतकेसरः सहस्रस्रोतः देवपालः महानसः इति अनघ-आयुः-दाः उभयस्पृष्टिः अपराजिता पञ्चपदी सहस्रस्रुतिः निजधृतिः इति
eteṣām varṣa-maryādā-girayaḥ nadyaḥ ca sapta sapta eva īśānaḥ uruśṛṅgaḥ balabhadraḥ śatakesaraḥ sahasrasrotaḥ devapālaḥ mahānasaḥ iti anagha-āyuḥ-dāḥ ubhayaspṛṣṭiḥ aparājitā pañcapadī sahasrasrutiḥ nijadhṛtiḥ iti
तद्वर्षपुरुषा ऋतव्रतसत्यव्रतदानव्रतानुव्रतनामानो भगवन्तं वाय्वात्मकं प्राणायामविधूतरजस्तमसः परमसमाधिना यजन्ते २७
तद्-वर्ष-पुरुषाः ऋतव्रत-सत्यव्रत-दानव्रत-अनुव्रत-नामानः भगवन्तम् वायु-आत्मकम् प्राणायाम-विधूत-रजः-तमसः परम-समाधिना यजन्ते
tad-varṣa-puruṣāḥ ṛtavrata-satyavrata-dānavrata-anuvrata-nāmānaḥ bhagavantam vāyu-ātmakam prāṇāyāma-vidhūta-rajaḥ-tamasaḥ parama-samādhinā yajante
अन्तःप्रविश्य भूतानि यो बिभर्त्यात्मकेतुभिः । अन्तर्यामीश्वरः साक्षात्पातु नो यद्वशे स्फुटम् २८
अन्तर् प्रविश्य भूतानि यः बिभर्ति आत्म-केतुभिः । अन्तर्यामी ईश्वरः साक्षात् पातु नः यद्-वशे स्फुटम्
antar praviśya bhūtāni yaḥ bibharti ātma-ketubhiḥ . antaryāmī īśvaraḥ sākṣāt pātu naḥ yad-vaśe sphuṭam
एवमेव दधिमण्डोदात्परतः पुष्करद्वीपस्ततो द्विगुणायामः समन्तत उपकल्पितः समानेन स्वादूदकेन समुद्रेण बहिरावृतो यस्मिन्बृहत्पुष्करं ज्वलनशिखामलकनकपत्रायुतायुतं भगवतः कमलासनस्याध्यासनं परिकल्पितम् २९
एवम् एव दधिमण्ड-उदात् परतस् पुष्करद्वीपः ततस् द्विगुण-आयामः समन्ततः उपकल्पितः समानेन स्वादु-उदकेन समुद्रेण बहिस् आवृतः यस्मिन् बृहत् पुष्करम् ज्वलन-शिखा-अमल-कनक-पत्र-अयुत-अयुतम् भगवतः कमलासनस्य अध्यासनम् परिकल्पितम्
evam eva dadhimaṇḍa-udāt paratas puṣkaradvīpaḥ tatas dviguṇa-āyāmaḥ samantataḥ upakalpitaḥ samānena svādu-udakena samudreṇa bahis āvṛtaḥ yasmin bṛhat puṣkaram jvalana-śikhā-amala-kanaka-patra-ayuta-ayutam bhagavataḥ kamalāsanasya adhyāsanam parikalpitam
तद्द्वीपमध्ये मानसोत्तरनामैक एवार्वाचीनपराचीनवर्षयोर्मर्यादाचलोऽयुतयोजनोच्छ्रायायामो यत्र तु चतसृषु दिक्षु चत्वारि पुराणि लोकपालानामिन्द्रादीनां यदुपरिष्टात्सूर्यरथस्य मेरुं परिभ्रमतः संवत्सरात्मकं चक्रं देवानामहोरात्राभ्यां परिभ्रमति ३०
तद्-द्वीप-मध्ये मानसोत्तर-नामा एकः एव अर्वाचीन-पराचीन-वर्षयोः मर्यादाचलः अयुत-योजन-उच्छ्राय-आयामः यत्र तु चतसृषु दिक्षु चत्वारि पुराणि लोकपालानाम् इन्द्र-आदीनाम् यत् उपरिष्टात् सूर्य-रथस्य मेरुम् परिभ्रमतः संवत्सर-आत्मकम् चक्रम् देवानाम् अहर्-रात्राभ्याम् परिभ्रमति
tad-dvīpa-madhye mānasottara-nāmā ekaḥ eva arvācīna-parācīna-varṣayoḥ maryādācalaḥ ayuta-yojana-ucchrāya-āyāmaḥ yatra tu catasṛṣu dikṣu catvāri purāṇi lokapālānām indra-ādīnām yat upariṣṭāt sūrya-rathasya merum paribhramataḥ saṃvatsara-ātmakam cakram devānām ahar-rātrābhyām paribhramati
तद्द्वीपस्याप्यधिपतिः प्रैयव्रतो वीतिहोत्रो नामैतस्यात्मजौ रमणक-धातकिनामानौ वर्षपती नियुज्य स स्वयं पूर्वजवद्भगवत्कर्मशील एवास्ते ३१
तद्-द्वीपस्य अपि अधिपतिः प्रैयव्रतः वीतिहोत्रः नाम एतस्य आत्मजौ रमणक-धातकि-नामानौ वर्षपती नियुज्य स स्वयम् पूर्वज-वत् भगवत्-कर्म-शीलः एव आस्ते
tad-dvīpasya api adhipatiḥ praiyavrataḥ vītihotraḥ nāma etasya ātmajau ramaṇaka-dhātaki-nāmānau varṣapatī niyujya sa svayam pūrvaja-vat bhagavat-karma-śīlaḥ eva āste
तद्वर्षपुरुषा भगवन्तं ब्रह्मरूपिणं सकर्मकेण कर्मणाराधयन्तीदं चोदाहरन्ति ३२
तद्-वर्ष-पुरुषाः भगवन्तम् ब्रह्म-रूपिणम् स कर्मकेण कर्मणा आराधयन्ति इदम् च उदाहरन्ति
tad-varṣa-puruṣāḥ bhagavantam brahma-rūpiṇam sa karmakeṇa karmaṇā ārādhayanti idam ca udāharanti
यत्तत्कर्ममयं लिङ्गं ब्रह्मलिङ्गं जनोऽर्चयेत् । एकान्तमद्वयं शान्तं तस्मै भगवते नम इति ३३
यत् तत् कर्म-मयम् लिङ्गम् ब्रह्म-लिङ्गम् जनः अर्चयेत् । एकान्तम् अद्वयम् शान्तम् तस्मै भगवते नमः इति
yat tat karma-mayam liṅgam brahma-liṅgam janaḥ arcayet . ekāntam advayam śāntam tasmai bhagavate namaḥ iti
ततः परस्ताल्लोकालोकनामाचलो लोकालोकयोरन्तराले परित उपक्षिप्तः ३४
ततस् परस्तात् लोकालोक-नाम-अचलः लोकालोकयोः अन्तराले परितस् उपक्षिप्तः
tatas parastāt lokāloka-nāma-acalaḥ lokālokayoḥ antarāle paritas upakṣiptaḥ
यावन्मानसोत्तरमेर्वोरन्तरं तावती भूमिः काञ्चन्यन्यादर्शतलोपमा यस्यां प्रहितः पदार्थो न कथञ्चित्पुनः प्रत्युपलभ्यते तस्मात्सर्वसत्त्वपरिहृतासीत् ३५
यावत् मानस-उत्तरम् एर्वोः अन्तरम् तावती भूमिः काञ्चनी अन्य-आदर्श-तल-उपमा यस्याम् प्रहितः पदार्थः न कथञ्चिद् पुनर् प्रत्युपलभ्यते तस्मात् सर्व-सत्त्व-परिहृता आसीत्
yāvat mānasa-uttaram ervoḥ antaram tāvatī bhūmiḥ kāñcanī anya-ādarśa-tala-upamā yasyām prahitaḥ padārthaḥ na kathañcid punar pratyupalabhyate tasmāt sarva-sattva-parihṛtā āsīt
लोकालोक इति समाख्या यदनेनाचलेन लोकालोकस्यान्तर्वर्तिनावस्थाप्यते ३६
लोकालोकः इति समाख्या यत् अनेन अचलेन लोकालोकस्य अन्तर्वर्तिना अवस्थाप्यते
lokālokaḥ iti samākhyā yat anena acalena lokālokasya antarvartinā avasthāpyate
स लोकत्रयान्ते परित ईश्वरेण विहितो यस्मात्सूर्यादीनां ध्रुवापवर्गाणां ज्योतिर्गणानां गभस्तयोऽर्वाचीनांस्त्रीन्लोकानावितन्वाना न कदाचित्पराचीना भवितुमुत्सहन्ते तावदुन्नहनायामः ३७
स लोक-त्रय-अन्ते परितस् ईश्वरेण विहितः यस्मात् सूर्य-आदीनाम् ध्रुव-अपवर्गाणाम् ज्योतिः-गणानाम् गभस्तयः अर्वाचीनान् त्रीन् लोकान् आवितन्वानाः न कदाचिद् पराचीनाः भवितुम् उत्सहन्ते तावत् उन्नहन-आयामः
sa loka-traya-ante paritas īśvareṇa vihitaḥ yasmāt sūrya-ādīnām dhruva-apavargāṇām jyotiḥ-gaṇānām gabhastayaḥ arvācīnān trīn lokān āvitanvānāḥ na kadācid parācīnāḥ bhavitum utsahante tāvat unnahana-āyāmaḥ
एतावान्लोकविन्यासो मानलक्षणसंस्थाभिर्विचिन्तितः कविभिः स तु पञ्चाशत्कोटिगणितस्य भूगोलस्य तुरीयभागोऽयं लोकालोकाचलः ३८
एतावान् लोक-विन्यासः मान-लक्षण-संस्थाभिः विचिन्तितः कविभिः स तु पञ्चाशत्-कोटि-गणितस्य भू-गोलस्य तुरीय-भागः अयम् लोकालोक-अचलः
etāvān loka-vinyāsaḥ māna-lakṣaṇa-saṃsthābhiḥ vicintitaḥ kavibhiḥ sa tu pañcāśat-koṭi-gaṇitasya bhū-golasya turīya-bhāgaḥ ayam lokāloka-acalaḥ
तदुपरिष्टाच्चतसृष्वाशास्वात्मयोनिनाखिलजगद्गुरुणाधिनिवेशिता ये द्विरदपतय ऋषभः पुष्करचूडो वामनोऽपराजित इति सकललोकस्थितिहेतवः ३९
तद्-उपरिष्टात् चतसृषु आशासु आत्मयोनिना अखिल-जगद्गुरुणा अधिनिवेशिताः ये द्विरद-पतयः ऋषभः पुष्करचूडः वामनः अपराजितः इति सकल-लोक-स्थिति-हेतवः
tad-upariṣṭāt catasṛṣu āśāsu ātmayoninā akhila-jagadguruṇā adhiniveśitāḥ ye dvirada-patayaḥ ṛṣabhaḥ puṣkaracūḍaḥ vāmanaḥ aparājitaḥ iti sakala-loka-sthiti-hetavaḥ
तेषां स्वविभूतीनां लोकपालानां च विविधवीर्योपबृंहणाय भगवान्परममहापुरुषो महाविभूतिपतिरन्तर्याम्यात्मनो विशुद्धसत्त्वं धर्म-ज्ञानवैराग्यैश्वर्याद्यष्टमहासिद्ध्युपलक्षणं विष्वक्सेनादिभिः स्वपार्षदप्रवरैः परिवारितो निजवरायुधोपशोभितैर्निजभुजदण्डैः । सन्धारयमाणस्तस्मिन्गिरिवरे समन्तात्सकललोकस्वस्तय आस्ते ४०
तेषाम् स्व-विभूतीनाम् लोकपालानाम् च विविध-वीर्य-उपबृंहणाय भगवान् परम-महापुरुषः महा-विभूति-पतिः अन्तर्यामी आत्मनः विशुद्ध-सत्त्वम् धर्म-ज्ञान-वैराग्य-ऐश्वर्य-आदि-अष्ट-महा-सिद्धि-उपलक्षणम् विष्वक्सेन-आदिभिः स्व-पार्षद-प्रवरैः परिवारितः निज-वर-आयुध-उपशोभितैः निज-भुज-दण्डैः । सन्धारयमाणः तस्मिन् गिरि-वरे समन्तात् सकल-लोक-स्वस्तये आस्ते
teṣām sva-vibhūtīnām lokapālānām ca vividha-vīrya-upabṛṃhaṇāya bhagavān parama-mahāpuruṣaḥ mahā-vibhūti-patiḥ antaryāmī ātmanaḥ viśuddha-sattvam dharma-jñāna-vairāgya-aiśvarya-ādi-aṣṭa-mahā-siddhi-upalakṣaṇam viṣvaksena-ādibhiḥ sva-pārṣada-pravaraiḥ parivāritaḥ nija-vara-āyudha-upaśobhitaiḥ nija-bhuja-daṇḍaiḥ . sandhārayamāṇaḥ tasmin giri-vare samantāt sakala-loka-svastaye āste
आकल्पमेवं वेषं गत एष भगवानात्मयोगमायया विरचितविविधलोकयात्रागोपीथायेत्यर्थः ४१
आकल्पम् एवम् वेषम् गतः एष भगवान् आत्म-योग-मायया विरचित-विविध-लोकयात्रा-गोपीथाय इति अर्थः
ākalpam evam veṣam gataḥ eṣa bhagavān ātma-yoga-māyayā viracita-vividha-lokayātrā-gopīthāya iti arthaḥ
योऽन्तर्विस्तार एतेन ह्यलोकपरिमाणं च व्याख्यातं यद्बहिर्लोकालोकाचलात्ततः परस्ताद्योगेश्वरगतिं विशुद्धामुदाहरन्ति ४२
यः अन्तर् विस्तारः एतेन हि अलोक-परिमाणम् च व्याख्यातम् यत् बहिस् लोकालोक-अचलात् ततस् परस्तात् योगेश्वर-गतिम् विशुद्धाम् उदाहरन्ति
yaḥ antar vistāraḥ etena hi aloka-parimāṇam ca vyākhyātam yat bahis lokāloka-acalāt tatas parastāt yogeśvara-gatim viśuddhām udāharanti
अण्डमध्यगतः सूर्यो द्यावाभूम्योर्यदन्तरम् । सूर्याण्डगोलयोर्मध्ये कोट्यः स्युः पञ्चविंशतिः ४३
अण्ड-मध्य-गतः सूर्यः द्यावाभूम्योः यत् अन्तरम् । सूर्य-अण्ड-गोलयोः मध्ये कोट्यः स्युः पञ्चविंशतिः
aṇḍa-madhya-gataḥ sūryaḥ dyāvābhūmyoḥ yat antaram . sūrya-aṇḍa-golayoḥ madhye koṭyaḥ syuḥ pañcaviṃśatiḥ
मृतेऽण्ड एष एतस्मिन्यदभूत्ततो मार्तण्ड इति व्यपदेशः हिरण्यगर्भ इति यद्धिरण्याण्डसमुद्भवः ४४
मृते अण्डे एषः एतस्मिन् यत् अभूत् ततस् मार्तण्डः इति व्यपदेशः हिरण्यगर्भः इति यत् हिरण्य-अण्ड-समुद्भवः
mṛte aṇḍe eṣaḥ etasmin yat abhūt tatas mārtaṇḍaḥ iti vyapadeśaḥ hiraṇyagarbhaḥ iti yat hiraṇya-aṇḍa-samudbhavaḥ
सूर्येण हि विभज्यन्ते दिशः खं द्यौर्मही भिदा । स्वर्गापवर्गौ नरका रसौकांसि च सर्वशः ४५
सूर्येण हि विभज्यन्ते दिशः खम् द्यौः मही भिदा । स्वर्ग-अपवर्गौ नरकाः रसौकांसि च सर्वशस्
sūryeṇa hi vibhajyante diśaḥ kham dyauḥ mahī bhidā . svarga-apavargau narakāḥ rasaukāṃsi ca sarvaśas
देवतिर्यङ्मनुष्याणां सरीसृपसवीरुधाम् । सर्वजीवनिकायानां सूर्य आत्मा दृगीश्वरः ४६
देव-तिर्यक्-मनुष्याणाम् सरीसृप-स वीरुधाम् । सर्व-जीवनिकायानाम् सूर्यः आत्मा दृश् ईश्वरः
deva-tiryak-manuṣyāṇām sarīsṛpa-sa vīrudhām . sarva-jīvanikāyānām sūryaḥ ātmā dṛś īśvaraḥ
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे भुवनकोशवर्णने समुद्र वर्षसन्निवेशपरिमाणलक्षणो विंशोऽध्यायः
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् पञ्चम-स्कन्धे भुवनकोश-वर्णने समुद्र वर्ष-सन्निवेश-परिमाण-लक्षणः विंशः अध्यायः
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām pañcama-skandhe bhuvanakośa-varṇane samudra varṣa-sanniveśa-parimāṇa-lakṣaṇaḥ viṃśaḥ adhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In