| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

एतावानेव भूवलयस्य सन्निवेशः प्रमाणलक्षणतो व्याख्यातः १
एतावान् एव भू-वलयस्य सन्निवेशः प्रमाण-लक्षणतः व्याख्यातः
etāvān eva bhū-valayasya sanniveśaḥ pramāṇa-lakṣaṇataḥ vyākhyātaḥ
एतेन हि दिवो मण्डलमानं तद्विद उपदिशन्ति यथा द्विदलयोर्निष्पावादीनां ते अन्तरेणान्तरिक्षं तदुभयसन्धितम् २
एतेन हि दिवः मण्डल-मानम् तद्-विदः उपदिशन्ति यथा द्वि-दलयोः निष्पाव-आदीनाम् ते अन्तरेण अन्तरिक्षम् तद्-उभय-सन्धितम्
etena hi divaḥ maṇḍala-mānam tad-vidaḥ upadiśanti yathā dvi-dalayoḥ niṣpāva-ādīnām te antareṇa antarikṣam tad-ubhaya-sandhitam
श्रीशुक उवाच
यन्मध्यगतो भगवांस्तपतां पतिस्तपन आतपेन त्रिलोकीं प्रतपत्यवभासयत्यात्मभासा स एष उदगयन दक्षिणायन वैषुवतसंज्ञाभिर्मान्द्यशैघ्र्यसमानाभिर्गतिभिरारोहणावरोहणसमानस्थानेषु यथासवनमभिपद्यमानो मकरादिषु राशिष्वहोरात्राणि दीर्घह्रस्वसमानानि विधत्ते ३
यद्-मध्य-गतः भगवान् तपताम् पतिः तपनः आतपेन त्रिलोकीम् प्रतपति अवभासयति आत्म-भासा सः एषः उदगयन दक्षिणायन वैषुवत-संज्ञाभिः मान्द्य-शैघ्र्य-समानाभिः गतिभिः आरोहण-अवरोहण-समान-स्थानेषु यथासवनम् अभिपद्यमानः मकर-आदिषु राशिषु अहोरात्राणि दीर्घ-ह्रस्व-समानानि विधत्ते
yad-madhya-gataḥ bhagavān tapatām patiḥ tapanaḥ ātapena trilokīm pratapati avabhāsayati ātma-bhāsā saḥ eṣaḥ udagayana dakṣiṇāyana vaiṣuvata-saṃjñābhiḥ māndya-śaighrya-samānābhiḥ gatibhiḥ ārohaṇa-avarohaṇa-samāna-sthāneṣu yathāsavanam abhipadyamānaḥ makara-ādiṣu rāśiṣu ahorātrāṇi dīrgha-hrasva-samānāni vidhatte
यदा मेषतुलयोर्वर्तते तदाहोरात्राणि समानानि भवन्ति यदा वृषभादिषु पञ्चसु च राशिषु चरति तदाहान्येव वर्धन्ते ह्रसति च मासि मास्येकैका घटिका रात्रिषु ४
यदा मेष-तुलयोः वर्तते तदा अहोरात्राणि समानानि भवन्ति यदा वृषभ-आदिषु पञ्चसु च राशिषु चरति तदा अहानि एव वर्धन्ते ह्रसति च मासि मासि एकैका घटिका रात्रिषु
yadā meṣa-tulayoḥ vartate tadā ahorātrāṇi samānāni bhavanti yadā vṛṣabha-ādiṣu pañcasu ca rāśiṣu carati tadā ahāni eva vardhante hrasati ca māsi māsi ekaikā ghaṭikā rātriṣu
यदा वृश्चिकादिषु पञ्चसु वर्तते तदाहोरात्राणि विपर्ययाणि भवन्ति ५
यदा वृश्चिक-आदिषु पञ्चसु वर्तते तदा अहर्-रात्राणि विपर्ययाणि भवन्ति
yadā vṛścika-ādiṣu pañcasu vartate tadā ahar-rātrāṇi viparyayāṇi bhavanti
यावद्दक्षिणायनमहानि वर्धन्ते यावदुदगयनं रात्रयः ६
यावत् दक्षिणायनम् अहानि वर्धन्ते यावत् उदगयनम् रात्रयः
yāvat dakṣiṇāyanam ahāni vardhante yāvat udagayanam rātrayaḥ
एवं नव कोटय एकपञ्चाशल्लक्षाणि योजनानां मानसोत्तरगिरि-परिवर्तनस्योपदिशन्ति तस्मिन्नैन्द्रीं पुरीं पूर्वस्मान्मेरोर्देवधानीं नाम दक्षिणतो याम्यां संयमनीं नाम पश्चाद्वारुणीं निम्लोचनीं नाम उत्तरतः सौम्यां विभावरीं नाम तासूदयमध्याह्नास्तमयनिशीथानीति भूतानां प्रवृत्तिनिवृत्तिनिमित्तानि समयविशेषेण मेरोश्चतुर्दिशम् ७
एवम् नव कोटयः एकपञ्चाशत्-लक्षाणि योजनानाम् मानसोत्तरगिरि-परिवर्तनस्य उपदिशन्ति तस्मिन् ऐन्द्रीम् पुरीम् पूर्वस्मात् मेरोः देवधानीम् नाम दक्षिणतस् याम्याम् संयमनीम् नाम पश्चात् वारुणीम् निम्लोचनीम् नाम उत्तरतस् सौम्याम् विभावरीम् नाम तासु उदय-मध्याह्न-अस्तमय-निशीथानि इति भूतानाम् प्रवृत्ति-निवृत्ति-निमित्तानि समय-विशेषेण मेरोः चतुर्दिशम्
evam nava koṭayaḥ ekapañcāśat-lakṣāṇi yojanānām mānasottaragiri-parivartanasya upadiśanti tasmin aindrīm purīm pūrvasmāt meroḥ devadhānīm nāma dakṣiṇatas yāmyām saṃyamanīm nāma paścāt vāruṇīm nimlocanīm nāma uttaratas saumyām vibhāvarīm nāma tāsu udaya-madhyāhna-astamaya-niśīthāni iti bhūtānām pravṛtti-nivṛtti-nimittāni samaya-viśeṣeṇa meroḥ caturdiśam
तत्रत्यानां दिवसमध्यङ्गत एव सदादित्यस्तपति सव्येनाचलं दक्षिणेन करोति ८
तत्रत्यानाम् दिवस-मध्यङ्गतः एव सदा आदित्यः तपति सव्येन अचलम् दक्षिणेन करोति
tatratyānām divasa-madhyaṅgataḥ eva sadā ādityaḥ tapati savyena acalam dakṣiṇena karoti
यत्रोदेति तस्य ह समानसूत्रनिपाते निम्लोचति यत्र क्वचन स्यन्देनाभितपति तस्य हैष समानसूत्रनिपाते प्रस्वापयति तत्र गतं न पश्यन्ति ये तं समनुपश्येरन् ९
यत्र उदेति तस्य ह समान-सूत्र-निपाते निम्लोचति यत्र क्वचन स्यन्देन अभितपति तस्य ह एष समान-सूत्र-निपाते प्रस्वापयति तत्र गतम् न पश्यन्ति ये तम् समनुपश्येरन्
yatra udeti tasya ha samāna-sūtra-nipāte nimlocati yatra kvacana syandena abhitapati tasya ha eṣa samāna-sūtra-nipāte prasvāpayati tatra gatam na paśyanti ye tam samanupaśyeran
यदा चैन्द्र्याः पुर्याः प्रचलते पञ्चदशघटिकाभिर्याम्यां सपादकोटिद्वयं योजनानां सार्धद्वादशलक्षाणि साधिकानि चोपयाति १०
यदा च ऐन्द्र्याः पुर्याः प्रचलते पञ्चदश-घटिकाभिः याम्याम् स पाद-कोटि-द्वयम् योजनानाम् सार्ध-द्वादश-लक्षाणि साधिकानि च उपयाति
yadā ca aindryāḥ puryāḥ pracalate pañcadaśa-ghaṭikābhiḥ yāmyām sa pāda-koṭi-dvayam yojanānām sārdha-dvādaśa-lakṣāṇi sādhikāni ca upayāti
एवं ततो वारुणीं सौम्यामैन्द्रीं च पुनस्तथान्ये च ग्रहाः सोमादयो नक्षत्रैः सह ज्योतिश्चक्रे समभ्युद्यन्ति सह वा निम्लोचन्ति ११
एवम् ततस् वारुणीम् सौम्याम् ऐन्द्रीम् च पुनर् तथा अन्ये च ग्रहाः सोम-आदयः नक्षत्रैः सह ज्योतिश्चक्रे समभ्युद्यन्ति सह वा निम्लोचन्ति
evam tatas vāruṇīm saumyām aindrīm ca punar tathā anye ca grahāḥ soma-ādayaḥ nakṣatraiḥ saha jyotiścakre samabhyudyanti saha vā nimlocanti
एवं मुहूर्तेन चतुस्त्रिंशल्लक्षयोजनान्यष्टशताधिकानि सौरो रथस्त्रयीमयोऽसौ चतसृषु परिवर्तते पुरीषु १२
एवम् मुहूर्तेन चतुस्त्रिंशत्-लक्ष-योजनानि अष्ट-शत-अधिकानि सौरः रथः त्रयी-मयः असौ चतसृषु परिवर्तते पुरीषु
evam muhūrtena catustriṃśat-lakṣa-yojanāni aṣṭa-śata-adhikāni sauraḥ rathaḥ trayī-mayaḥ asau catasṛṣu parivartate purīṣu
यस्यैकं चक्रं द्वादशारं षण्नेमि त्रिणाभि संवत्सरात्मकं समामनन्ति तस्याक्षो मेरोर्मूर्धनि कृतो मानसोत्तरे कृतेतरभागो यत्र प्रोतं रविरथचक्रं तैलयन्त्रचक्रवद्भ्रमन्मानसोत्तरगिरौ परिभ्रमति १३
यस्य एकम् चक्रम् द्वादश-अरम् षष्-नेमि त्रिणाभि संवत्सर-आत्मकम् समामनन्ति तस्य अक्षः मेरोः मूर्धनि कृतः मानसोत्तरे कृत-इतर-भागः यत्र प्रोतम् रवि-रथ-चक्रम् तैल-यन्त्र-चक्र-वत् भ्रमत् मानसोत्तर-गिरौ परिभ्रमति
yasya ekam cakram dvādaśa-aram ṣaṣ-nemi triṇābhi saṃvatsara-ātmakam samāmananti tasya akṣaḥ meroḥ mūrdhani kṛtaḥ mānasottare kṛta-itara-bhāgaḥ yatra protam ravi-ratha-cakram taila-yantra-cakra-vat bhramat mānasottara-girau paribhramati
तस्मिन्नक्षे कृतमूलो द्वितीयोऽक्षस्तुर्यमानेन सम्मितस्तैलयन्त्राक्षवद्ध्रुवे कृतोपरिभागः १४
तस्मिन् अक्षे कृत-मूलः द्वितीयः अक्षः तुर्य-मानेन सम्मितः तैल-यन्त्र-अक्ष-वत् ध्रुवे कृत-उपरि भागः
tasmin akṣe kṛta-mūlaḥ dvitīyaḥ akṣaḥ turya-mānena sammitaḥ taila-yantra-akṣa-vat dhruve kṛta-upari bhāgaḥ
रथनीडस्तु षट्त्रिंशल्लक्षयोजनायतस्तत्तुरीयभागविशालस्तावान्रविरथयुगो यत्र हयाश्छन्दोनामानः सप्तारुणयोजिता वहन्ति देवमादित्यम् १५
रथनीडः तु षट्त्रिंशत्-लक्ष-योजन-आयतः तद्-तुरीय-भाग-विशालः तावान् रवि-रथ-युगः यत्र हयाः छन्दः-नामानः सप्त-अरुण-योजिताः वहन्ति देवम् आदित्यम्
rathanīḍaḥ tu ṣaṭtriṃśat-lakṣa-yojana-āyataḥ tad-turīya-bhāga-viśālaḥ tāvān ravi-ratha-yugaḥ yatra hayāḥ chandaḥ-nāmānaḥ sapta-aruṇa-yojitāḥ vahanti devam ādityam
पुरस्तात्सवितुररुणः पश्चाच्च नियुक्तः सौत्ये कर्मणि किलास्ते १६
पुरस्तात् सवितुः अरुणः पश्चात् च नियुक्तः सौत्ये कर्मणि किल आस्ते
purastāt savituḥ aruṇaḥ paścāt ca niyuktaḥ sautye karmaṇi kila āste
तथा वालखिल्या ऋषयोऽङ्गुष्ठपर्वमात्राः षष्टिसहस्राणि पुरतः सूर्यं सूक्तवाकाय नियुक्ताः संस्तुवन्ति १७
तथा वालखिल्याः ऋषयः अङ्गुष्ठ-पर्व-मात्राः षष्टि-सहस्राणि पुरतस् सूर्यम् सूक्तवाकाय नियुक्ताः संस्तुवन्ति
tathā vālakhilyāḥ ṛṣayaḥ aṅguṣṭha-parva-mātrāḥ ṣaṣṭi-sahasrāṇi puratas sūryam sūktavākāya niyuktāḥ saṃstuvanti
तथान्ये च ऋषयो गन्धर्वाप्सरसो नागा ग्रामण्यो यातुधाना देवा इत्येकैकशो गणाः सप्त चतुर्दश मासि मासि भगवन्तं सूर्यमात्मानं नानानामानं पृथङ्नानानामानः पृथक्कर्मभिर्द्वन्द्वश उपासते १८
तथा अन्ये च ऋषयः गन्धर्व-अप्सरसः नागाः ग्रामण्यः यातुधानाः देवाः इति एकैकशस् गणाः सप्त चतुर्दश मासि मासि भगवन्तम् सूर्यम् आत्मानम् नाना नामानम् पृथक् नाना नामानः पृथक् कर्मभिः द्वन्द्वशस् उपासते
tathā anye ca ṛṣayaḥ gandharva-apsarasaḥ nāgāḥ grāmaṇyaḥ yātudhānāḥ devāḥ iti ekaikaśas gaṇāḥ sapta caturdaśa māsi māsi bhagavantam sūryam ātmānam nānā nāmānam pṛthak nānā nāmānaḥ pṛthak karmabhiḥ dvandvaśas upāsate
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे ज्योतिश्चक्रसूर्यरथमण्डलवर्णनं नामैकविंशोऽध्यायः
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् पञ्चम-स्कन्धे ज्योतिश्चक्रसूर्यरथमण्डलवर्णनम् नाम एकविंशः अध्यायः
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām pañcama-skandhe jyotiścakrasūryarathamaṇḍalavarṇanam nāma ekaviṃśaḥ adhyāyaḥ
अथ तस्मात्परतस्त्रयोदशलक्षयोजनान्तरतो यत्तद्विष्णोः परमं पदमभिवदन्ति यत्र ह महाभागवतो धुव औत्तानपादिरग्निनेन्द्रेण प्रजापतिना कश्यपेन धर्मेण च समकालयुग्भिः सबहुमानं दक्षिणतः क्रियमाण इदानीमपि कल्पजीविनामाजीव्य उपास्ते तस्येहानुभाव उपवर्णितः ॥ १ ॥
अथ तस्मात् परतस् त्रयोदश-लक्ष-योजन-अन्तरतः यत् तत् विष्णोः परमम् पदम् अभिवदन्ति यत्र ह औत्तानपादिः अग्निना इन्द्रेण प्रजापतिना कश्यपेन धर्मेण च सम-काल-युग्भिः स बहु-मानम् दक्षिणतस् क्रियमाणः इदानीम् अपि कल्प-जीविनाम् आजीव्य उपास्ते तस्य इह अनुभावः उपवर्णितः ॥ १ ॥
atha tasmāt paratas trayodaśa-lakṣa-yojana-antarataḥ yat tat viṣṇoḥ paramam padam abhivadanti yatra ha auttānapādiḥ agninā indreṇa prajāpatinā kaśyapena dharmeṇa ca sama-kāla-yugbhiḥ sa bahu-mānam dakṣiṇatas kriyamāṇaḥ idānīm api kalpa-jīvinām ājīvya upāste tasya iha anubhāvaḥ upavarṇitaḥ .. 1 ..
स हि सर्वेषां ज्योतिर्गणानां ग्रहनक्षत्रादीना- मनिमिषेणाव्यक्तरंहसा भगवता कालेन भ्राम्यमाणानां स्थाणुरिवावष्टम्भ ईश्वरेण विहितः शश्वदवभासते ॥ २ ॥
स हि सर्वेषाम् ज्योतिः-गणानाम् ग्रह-नक्षत्र-आदीनाम् अनिमिषेण अव्यक्त-रंहसा भगवता कालेन भ्राम्यमाणानाम् स्थाणुः इव अवष्टम्भे ईश्वरेण विहितः शश्वत् अवभासते ॥ २ ॥
sa hi sarveṣām jyotiḥ-gaṇānām graha-nakṣatra-ādīnām animiṣeṇa avyakta-raṃhasā bhagavatā kālena bhrāmyamāṇānām sthāṇuḥ iva avaṣṭambhe īśvareṇa vihitaḥ śaśvat avabhāsate .. 2 ..
शिशुमारसंस्थावर्णनम् - श्रीशुक उवाच
यथा मेढीस्तम्भ आक्रमणपशवः संयोजिता- स्त्रिभिस्त्रिभिः सवनैर्यथास्थानं मण्डलानि चरन्त्येवं भगणा ग्रहादय एतस्मिन्नन्तर्बहिर्योगेन कालचक्र आयोजिता ध्रुवमेवावलम्ब्य वायुनोदीर्यमाणा आकल्पान्तं परिचङ्क्रमन्ति नभसि यथा मेघाः श्येनादयो वायुवशाः कर्मसारथयः परिवर्तन्ते एवं ज्योतिर्गणाः प्रकृतिपुरुषसंयोगानुगृहीताः कर्मनिर्मितगतयो भुवि न पतन्ति ॥ ३ ॥
यथा मेढी-स्तम्भे आक्रमण-पशवः संयोजिताः त्रिभिः त्रिभिः सवनैः यथास्थानम् मण्डलानि चरन्ति एवम् भगणाः ग्रह-आदयः एतस्मिन् अन्तर् बहिस् योगेन कालचक्र आयोजिताः ध्रुवम् एव अवलम्ब्य वायुना उदीर्यमाणा आ कल्प-अन्तम् परिचङ्क्रमन्ति नभसि यथा मेघाः श्येन-आदयः वायु-वशाः कर्म-सारथयः परिवर्तन्ते एवम् ज्योतिः-गणाः प्रकृति-पुरुष-संयोग-अनुगृहीताः कर्म-निर्मित-गतयः भुवि न पतन्ति ॥ ३ ॥
yathā meḍhī-stambhe ākramaṇa-paśavaḥ saṃyojitāḥ tribhiḥ tribhiḥ savanaiḥ yathāsthānam maṇḍalāni caranti evam bhagaṇāḥ graha-ādayaḥ etasmin antar bahis yogena kālacakra āyojitāḥ dhruvam eva avalambya vāyunā udīryamāṇā ā kalpa-antam paricaṅkramanti nabhasi yathā meghāḥ śyena-ādayaḥ vāyu-vaśāḥ karma-sārathayaḥ parivartante evam jyotiḥ-gaṇāḥ prakṛti-puruṣa-saṃyoga-anugṛhītāḥ karma-nirmita-gatayaḥ bhuvi na patanti .. 3 ..
केचनैतज्योतिरनीकं शिशुमारसंस्थानेन भगवतो वासुदेवस्य योगधारणायामनुवर्णयन्ति ॥ ४ ॥
केचन एतद्-ज्योतिः-अनीकम् शिशुमार-संस्थानेन भगवतः वासुदेवस्य योग-धारणायाम् अनुवर्णयन्ति ॥ ४ ॥
kecana etad-jyotiḥ-anīkam śiśumāra-saṃsthānena bhagavataḥ vāsudevasya yoga-dhāraṇāyām anuvarṇayanti .. 4 ..
यस्य पुच्छाग्रेऽवाक्शिरसः कुण्डलीभूतदेहस्य ध्रुव उपकल्पितस्तस्य लाङ्गूले प्रजापतिरग्निरिन्द्रो धर्म इति पुच्छमूले धाता विधाता च कट्यां सप्तर्षयः । तस्य दक्षिणावर्तकुण्डलीभूतशरीरस्य यान्युदगयनानि दक्षिणपार्श्वे तु नक्षत्राण्युपकल्पयन्ति दक्षिणायनानि तु सव्ये । यथा शिशुमारस्य कुण्डलाभोगसन्निवेशस्य पार्श्वयोरुभयोरप्यवयवाः समसंख्या भवन्ति । पृष्ठे त्वजवीथी आकाशगङ्गा चोदरतः ॥ ५ ॥
यस्य पुच्छ-अग्रे अवाक्शिरसः कुण्डलीभूत-देहस्य ध्रुवः उपकल्पितः तस्य लाङ्गूले प्रजापतिः अग्निः इन्द्रः धर्मः इति पुच्छमूले धाता विधाता च कट्याम् सप्तर्षयः । तस्य दक्षिण-आवर्त-कुण्डलीभूत-शरीरस्य यानि उदगयनानि दक्षिण-पार्श्वे तु नक्षत्राणि उपकल्पयन्ति दक्षिणायनानि तु सव्ये । यथा शिशुमारस्य कुण्डल-आभोग-सन्निवेशस्य पार्श्वयोः उभयोः अपि अवयवाः भवन्ति । पृष्ठे तु अजवीथी आकाशगङ्गा च उदरतः ॥ ५ ॥
yasya puccha-agre avākśirasaḥ kuṇḍalībhūta-dehasya dhruvaḥ upakalpitaḥ tasya lāṅgūle prajāpatiḥ agniḥ indraḥ dharmaḥ iti pucchamūle dhātā vidhātā ca kaṭyām saptarṣayaḥ . tasya dakṣiṇa-āvarta-kuṇḍalībhūta-śarīrasya yāni udagayanāni dakṣiṇa-pārśve tu nakṣatrāṇi upakalpayanti dakṣiṇāyanāni tu savye . yathā śiśumārasya kuṇḍala-ābhoga-sanniveśasya pārśvayoḥ ubhayoḥ api avayavāḥ bhavanti . pṛṣṭhe tu ajavīthī ākāśagaṅgā ca udarataḥ .. 5 ..
पुनर्वसुपुष्यौ दक्षिणवामयोः श्रोण्योरार्द्राश्लेषे । च दक्षिणवामयोः पश्चिमयोः पादयोरभिजि- । दुत्तराषाढे दक्षिणवामयोर्नासिकयोर्यथासंख्यं । श्रवणपूर्वाषाढे दक्षिणवामयोर्लोचनयोर्धनिष्ठा मूलं । च दक्षिणवामयोः कर्णयोर्मघादीन्यष्ट नक्षत्राणि । दक्षिणायनानि वामपार्श्ववङ्क्रिषु युञ्जीत तथैव । मृगशीर्षादीन्युदगयनानि दक्षिणपार्श्ववङ्क्रिषु । प्रातिलोम्येन प्रयुञ्जीत शतभिषाज्येष्ठे स्कन्धयो- । र्दक्षिणवामयोर्न्यसेत् ॥ ६ ॥
पुनर्वसु-पुष्यौ दक्षिण-वामयोः श्रोण्योः आर्द्र-आश्लेषे । च दक्षिण-वामयोः पश्चिमयोः पादयोः अभिजि । दुत्तराषाढे दक्षिण-वामयोः नासिकयोः यथासंख्यम् । श्रवण-पूर्वाषाढे दक्षिण-वामयोः लोचनयोः धनिष्ठा मूलम् । च दक्षिण-वामयोः कर्णयोः मघा-आदीनि अष्ट नक्षत्राणि । दक्षिणायनानि वाम-पार्श्व-वङ्क्रिषु युञ्जीत तथा एव । मृगशीर्ष-आदीनि उदगयनानि दक्षिण-पार्श्व-वङ्क्रिषु । प्रातिलोम्येन प्रयुञ्जीत शतभिषा-ज्येष्ठे स्कन्धयोः । र् दक्षिण-वामयोः न्यसेत् ॥ ६ ॥
punarvasu-puṣyau dakṣiṇa-vāmayoḥ śroṇyoḥ ārdra-āśleṣe . ca dakṣiṇa-vāmayoḥ paścimayoḥ pādayoḥ abhiji . duttarāṣāḍhe dakṣiṇa-vāmayoḥ nāsikayoḥ yathāsaṃkhyam . śravaṇa-pūrvāṣāḍhe dakṣiṇa-vāmayoḥ locanayoḥ dhaniṣṭhā mūlam . ca dakṣiṇa-vāmayoḥ karṇayoḥ maghā-ādīni aṣṭa nakṣatrāṇi . dakṣiṇāyanāni vāma-pārśva-vaṅkriṣu yuñjīta tathā eva . mṛgaśīrṣa-ādīni udagayanāni dakṣiṇa-pārśva-vaṅkriṣu . prātilomyena prayuñjīta śatabhiṣā-jyeṣṭhe skandhayoḥ . r dakṣiṇa-vāmayoḥ nyaset .. 6 ..
उत्तराहनावगस्तिरधराहनौ यमो मुखेषु चाङ्गारकः शनैश्चर उपस्थे बृहस्पतिः ककुदि वक्षस्यादित्यो हृदये नारायणो मनसि चन्द्रो नाभ्यामुशना स्तनयोरश्विनौ बुधः प्राणापानयो राहुर्गले केतवः सर्वाङ्गेषु रोमसु सर्वे तारागणाः ॥ ७ ॥
उत्तराहनौ अगस्तिः अधराहनौ यमः मुखेषु च अङ्गारकः शनैश्चरः उपस्थे बृहस्पतिः ककुदि वक्षसि आदित्यः हृदये नारायणः मनसि चन्द्रः नाभ्याम् उशनाः स्तनयोः अश्विनौ बुधः प्राण-अपानयोः राहुः गले केतवः सर्व-अङ्गेषु रोमसु सर्वे तारा-गणाः ॥ ७ ॥
uttarāhanau agastiḥ adharāhanau yamaḥ mukheṣu ca aṅgārakaḥ śanaiścaraḥ upasthe bṛhaspatiḥ kakudi vakṣasi ādityaḥ hṛdaye nārāyaṇaḥ manasi candraḥ nābhyām uśanāḥ stanayoḥ aśvinau budhaḥ prāṇa-apānayoḥ rāhuḥ gale ketavaḥ sarva-aṅgeṣu romasu sarve tārā-gaṇāḥ .. 7 ..
एतदु हैव भगवतो विष्णोः सर्वदेवतामयं रूपमहरहः सन्ध्यायां प्रयतो वाग्यतो निरीक्षमाण । उपतिष्ठेत नमो ज्योतिर्लोकाय कालायनाया - निमिषां पतये महापुरुषायाभिधीमहीति ॥ ८ ॥
एतत् उ ह एव भगवतः विष्णोः सर्व-देवता-मयम् रूपम् अहरहर् सन्ध्यायाम् प्रयतः वाग्यतः निरीक्षमाण । उपतिष्ठेत नमः ज्योतिः-लोकाय निमिषाम् पतये महापुरुषाय अभिधीमहि इति ॥ ८ ॥
etat u ha eva bhagavataḥ viṣṇoḥ sarva-devatā-mayam rūpam aharahar sandhyāyām prayataḥ vāgyataḥ nirīkṣamāṇa . upatiṣṭheta namaḥ jyotiḥ-lokāya nimiṣām pataye mahāpuruṣāya abhidhīmahi iti .. 8 ..
ग्रहर्क्षतारामयमाधिदैविकं पापापहं मन्त्रकृतां त्रिकालम् । । नमस्यतः स्मरतो वा त्रिकालं नश्येत तत्कालजमाशु पापम् ॥ ९ ॥
ग्रह-ऋक्ष-तारा-मयम् आधिदैविकम् पाप-अपहम् मन्त्र-कृताम् त्रि-कालम् । । नमस्यतः स्मरतः वा त्रिकालम् नश्येत तद्-काल-जम् आशु पापम् ॥ ९ ॥
graha-ṛkṣa-tārā-mayam ādhidaivikam pāpa-apaham mantra-kṛtām tri-kālam . . namasyataḥ smarataḥ vā trikālam naśyeta tad-kāla-jam āśu pāpam .. 9 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे ज्योतिश्चक्रसूर्यरथमण्डलवर्णनं नामैकविंशोऽध्यायः
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् पञ्चम-स्कन्धे ज्योतिश्चक्रसूर्यरथमण्डलवर्णनम् नाम एकविंशः अध्यायः
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām pañcama-skandhe jyotiścakrasūryarathamaṇḍalavarṇanam nāma ekaviṃśaḥ adhyāyaḥ
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In