| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

यदेतद्भगवत आदित्यस्य मेरुं ध्रुवं च प्रदक्षिणेन परिक्रामतो राशीनामभिमुखं प्रचलितं चाप्रदक्षिणं भगवतोपवर्णितममुष्य वयं कथमनुमिमीमहीति ॥ १ ॥
यत् एतत् भगवतः आदित्यस्य मेरुम् ध्रुवम् च प्रदक्षिणेन परिक्रामतः राशीनाम् अभिमुखम् प्रचलितम् च अप्रदक्षिणम् भगवता उपवर्णितम् अमुष्य वयम् कथम् अनुमिमीमहि इति ॥ १ ॥
yat etat bhagavataḥ ādityasya merum dhruvam ca pradakṣiṇena parikrāmataḥ rāśīnām abhimukham pracalitam ca apradakṣiṇam bhagavatā upavarṇitam amuṣya vayam katham anumimīmahi iti .. 1 ..
स होवाच यथा कुलालचक्रेण भ्रमता सह भ्रमतां तदाश्रयाणां पिपीलिकादीनां गतिरन्यैव प्रदेशान्तरे- ष्वप्युपलभ्यमानत्वादेवं नक्षत्रराशिभिरुपलक्षितेन कालचक्रेण ध्रुवं मेरुं च प्रदक्षिणेन परिधावता सह परिधावमानानां तदाश्रयाणां सूर्यादीनां गृहाणां गतिरन्यैव नक्षत्रान्तरे राश्यन्तरे चोपलभ्यमानत्वात् ॥ २ ॥
स ह उवाच यथा कुलाल-चक्रेण भ्रमता सह भ्रमताम् तद्-आश्रयाणाम् पिपीलिक-आदीनाम् गतिः अन्या एव प्रदेश-अन्तरेषु अपि उपलभ्यमान-त्वात् एवम् नक्षत्र-राशिभिः उपलक्षितेन कालचक्रेण ध्रुवम् मेरुम् च प्रदक्षिणेन परिधावता सह परिधावमानानाम् तद्-आश्रयाणाम् सूर्य-आदीनाम् गृहाणाम् गतिः अन्या एव नक्षत्र-अन्तरे राशि-अन्तरे च उपलभ्यमान-त्वात् ॥ २ ॥
sa ha uvāca yathā kulāla-cakreṇa bhramatā saha bhramatām tad-āśrayāṇām pipīlika-ādīnām gatiḥ anyā eva pradeśa-antareṣu api upalabhyamāna-tvāt evam nakṣatra-rāśibhiḥ upalakṣitena kālacakreṇa dhruvam merum ca pradakṣiṇena paridhāvatā saha paridhāvamānānām tad-āśrayāṇām sūrya-ādīnām gṛhāṇām gatiḥ anyā eva nakṣatra-antare rāśi-antare ca upalabhyamāna-tvāt .. 2 ..
स एष भगवानादिपुरुष एव साक्षान्नारायणो लोकानां स्वस्तयआत्मानं त्रयीमयं कर्मविशुद्धिनिमित्तं कविभिरपि च वेदेन विजिज्ञास्यमानो द्वादशधा विभज्य षट्सु वसन्तादिष्वृतुषु थोपजोषमृतुगुणान् विदधाति ॥ ३ ॥
सः एष भगवान् आदिपुरुषः एव साक्षात् नारायणः लोकानाम् स्वस्तया आत्मानम् त्रयी-मयम् कर्म-विशुद्धि-निमित्तम् कविभिः अपि च वेदेन विजिज्ञास्यमानः द्वादशधा विभज्य षट्सु वसन्त-आदिषु ऋतुषु विदधाति ॥ ३ ॥
saḥ eṣa bhagavān ādipuruṣaḥ eva sākṣāt nārāyaṇaḥ lokānām svastayā ātmānam trayī-mayam karma-viśuddhi-nimittam kavibhiḥ api ca vedena vijijñāsyamānaḥ dvādaśadhā vibhajya ṣaṭsu vasanta-ādiṣu ṛtuṣu vidadhāti .. 3 ..
तमेतमिह पुरुषास्त्रय्या विद्यया वर्णाश्रमाचारानुपथा उक्षावचैः कर्मभिराम्नातैर्योगवितानैश्च श्रद्धया यजन्तोऽञ्जसाश्रेयः समधिगच्छन्ति ॥ ४ ॥
तम् एतम् इह पुरुषाः त्रय्या विद्यया वर्ण-आश्रम-आचार-अनुपथा उक्षावचैः कर्मभिः आम्नातैः योग-वितानैः च श्रद्धया यजन्तः अञ्जसा अश्रेयः समधिगच्छन्ति ॥ ४ ॥
tam etam iha puruṣāḥ trayyā vidyayā varṇa-āśrama-ācāra-anupathā ukṣāvacaiḥ karmabhiḥ āmnātaiḥ yoga-vitānaiḥ ca śraddhayā yajantaḥ añjasā aśreyaḥ samadhigacchanti .. 4 ..
अथ स एष आत्मा लोकानां द्यावापृथिव्योरन्तरेण नभोवलयस्य कालचक्रगतो द्वादशमासान् भुङ्क्ते राशिसंज्ञान् संवत्सरावयवान्मासः पक्षद्वयं दिवा नक्तं चेति सपादर्क्षद्वयमुपदिशन्ति यावता षष्ठमंशं भुञ्जीत स वै ऋतुरित्युपदिश्यते संवत्सरावयवः ॥ ५ ॥
अथ सः एषः आत्मा लोकानाम् द्यावापृथिव्योः अन्तरेण नभः-वलयस्य कालचक्र-गतः द्वादश-मासान् भुङ्क्ते राशि-संज्ञान् संवत्सर-अवयवान् मासः पक्ष-द्वयम् दिवा नक्तम् च इति सपाद-ऋक्ष-द्वयम् उपदिशन्ति यावता षष्ठम् अंशम् भुञ्जीत स वै ऋतुः इति उपदिश्यते संवत्सर-अवयवः ॥ ५ ॥
atha saḥ eṣaḥ ātmā lokānām dyāvāpṛthivyoḥ antareṇa nabhaḥ-valayasya kālacakra-gataḥ dvādaśa-māsān bhuṅkte rāśi-saṃjñān saṃvatsara-avayavān māsaḥ pakṣa-dvayam divā naktam ca iti sapāda-ṛkṣa-dvayam upadiśanti yāvatā ṣaṣṭham aṃśam bhuñjīta sa vai ṛtuḥ iti upadiśyate saṃvatsara-avayavaḥ .. 5 ..
अथ च यावतार्धेन नभोवीथ्यां प्रचरति तं कालमयनमाचक्षते ॥ ६ ॥
अथ च यावता अर्धेन नभः-वीथ्याम् प्रचरति तम् कालम् अयनम् आचक्षते ॥ ६ ॥
atha ca yāvatā ardhena nabhaḥ-vīthyām pracarati tam kālam ayanam ācakṣate .. 6 ..
अथ च यावन्नभोमण्डलं स ह द्यावापृथिव्यो- र्मण्डलाभ्यां कार्त्स्न्येन सह भुञ्जीत तं कालं संवत्सरं परिवत्सरमिडावत्सरमनुवत्सरं वत्सरमिति भानोर्मान्द्यशैघ्र्यसमगतिभिः समामनन्ति ॥ ७ ॥
अथ च यावत् नभः-मण्डलम् स ह द्यावापृथिव्योः मण्डलाभ्याम् कार्त्स्न्येन सह भुञ्जीत तम् कालम् संवत्सरम् परिवत्सरम् इडावत्सरम् अनुवत्सरम् वत्सरम् इति भानोः मान्द्य-शैघ्र्य-समगतिभिः समामनन्ति ॥ ७ ॥
atha ca yāvat nabhaḥ-maṇḍalam sa ha dyāvāpṛthivyoḥ maṇḍalābhyām kārtsnyena saha bhuñjīta tam kālam saṃvatsaram parivatsaram iḍāvatsaram anuvatsaram vatsaram iti bhānoḥ māndya-śaighrya-samagatibhiḥ samāmananti .. 7 ..
एवं चन्द्रमा अर्कगभस्तिभ्य उपरिष्टा- ल्लक्षयोजनत उपलभ्यमानोऽर्कस्य संवत्सरभुक्तिं पक्षाभ्यां मासभुक्तिं सपादर्क्षाभ्यां दिनेनैव पक्षभुक्तिमग्रचारी द्रुततरगमनो भुङ्क्ते ॥ ८ ॥
एवम् चन्द्रमाः अर्क-गभस्तिभ्यः उपरिष्टात् लक्ष-योजनतः उपलभ्यमानः अर्कस्य संवत्सर-भुक्तिम् पक्षाभ्याम् मास-भुक्तिम् स पाद-ऋक्षाभ्याम् दिनेन एव पक्ष-भुक्तिम् अग्र-चारी द्रुततर-गमनः भुङ्क्ते ॥ ८ ॥
evam candramāḥ arka-gabhastibhyaḥ upariṣṭāt lakṣa-yojanataḥ upalabhyamānaḥ arkasya saṃvatsara-bhuktim pakṣābhyām māsa-bhuktim sa pāda-ṛkṣābhyām dinena eva pakṣa-bhuktim agra-cārī drutatara-gamanaḥ bhuṅkte .. 8 ..
अथ चापूर्यमाणाभिश्च कलाभिरमराणां क्षीयमाणाभिश्च कलाभिः पितॄणामहोरात्राणि पूर्वपक्षापरपक्षाभ्यां वितन्वानः सर्वजीवनिवहप्राणो जीवश्चैकमेकं नक्षत्रं त्रिंशता मुहूर्तैर्भुङ्क्ते ॥ ९ ॥
अथ च आपूर्यमाणाभिः च कलाभिः अमराणाम् क्षीयमाणाभिः च कलाभिः पितॄणाम् अहोरात्राणि पूर्वपक्ष-अपरपक्षाभ्याम् वितन्वानः सर्व-जीव-निवह-प्राणः जीवः च एकम् एकम् नक्षत्रम् त्रिंशता मुहूर्तैः भुङ्क्ते ॥ ९ ॥
atha ca āpūryamāṇābhiḥ ca kalābhiḥ amarāṇām kṣīyamāṇābhiḥ ca kalābhiḥ pitṝṇām ahorātrāṇi pūrvapakṣa-aparapakṣābhyām vitanvānaḥ sarva-jīva-nivaha-prāṇaḥ jīvaḥ ca ekam ekam nakṣatram triṃśatā muhūrtaiḥ bhuṅkte .. 9 ..
य एष षोडशकलः पुरुषो भगवान्मनोमयो- ऽन्नमयोऽमृतमयो देवपितृमनुष्यभूतपशुपक्षि- सरीसृपवीरुधां प्राणाप्यायनशीलत्वात्सर्वमय इतिवर्णयन्ति ॥ १० ॥
यः एष षोडश-कलः पुरुषः भगवान् मनः-मयः अन्न-मयः अमृत-मयः देव-पितृ-मनुष्य-भूत-पशु-पक्षि-सरीसृप-वीरुधाम् प्राण-आप्यायन-शील-त्वात् सर्व-मयः इति ॥ १० ॥
yaḥ eṣa ṣoḍaśa-kalaḥ puruṣaḥ bhagavān manaḥ-mayaḥ anna-mayaḥ amṛta-mayaḥ deva-pitṛ-manuṣya-bhūta-paśu-pakṣi-sarīsṛpa-vīrudhām prāṇa-āpyāyana-śīla-tvāt sarva-mayaḥ iti .. 10 ..
तत उपरिष्टात्त्रिलक्षयोजनतो नक्षत्राणि मेरुं दक्षिणेनैव कालायन ईश्वरयोजितानि सहाभि- जिताष्टाविंशतिः ॥ ११ ॥
ततस् उपरिष्टात् त्रि-लक्ष-योजनतः नक्षत्राणि मेरुम् दक्षिणेन एव कालायने ईश्वर-योजितानि सह अभिजिता अष्टाविंशतिः ॥ ११ ॥
tatas upariṣṭāt tri-lakṣa-yojanataḥ nakṣatrāṇi merum dakṣiṇena eva kālāyane īśvara-yojitāni saha abhijitā aṣṭāviṃśatiḥ .. 11 ..
तत उपरिष्टादुशना द्विलक्षयोजनत उपलभ्यते पुरतः पश्चात्सहैव वार्कस्य शैघ्र्यमान्द्यसाम्याभि- र्गतिभिरर्कवच्चरति लोकानां नित्यदानुकूल एव प्रायेण वर्षयंश्चारेणानुमीयते स वृष्टिविष्टम्भ- ग्रहोपशमनः ॥ १२ ॥
ततस् उपरिष्टात् उशनाः द्वि-लक्ष-योजनतः उपलभ्यते पुरतस् पश्चात् सह एव वा अर्कस्य शैघ्र्य-मान्द्य-साम्य-अभि र्गतिभिः अर्क-वत् चरति लोकानाम् नित्यदा अनुकूलः एव प्रायेण वर्षयन् चारेण अनुमीयते स वृष्टि-विष्टम्भ-ग्रह-उपशमनः ॥ १२ ॥
tatas upariṣṭāt uśanāḥ dvi-lakṣa-yojanataḥ upalabhyate puratas paścāt saha eva vā arkasya śaighrya-māndya-sāmya-abhi rgatibhiḥ arka-vat carati lokānām nityadā anukūlaḥ eva prāyeṇa varṣayan cāreṇa anumīyate sa vṛṣṭi-viṣṭambha-graha-upaśamanaḥ .. 12 ..
उशनसा बुधो व्याख्यातस्तत उपरिष्टाद् द्विलक्षयोजनतो बुधः सोमसुत उपलभ्यमानः प्रायेण शुभकृद्यदार्काद् व्यतिरिच्येत तदा- तिवाताभ्रप्रायानावृष्ट्यादिभयमाशंसते ॥ १३ ॥
उशनसा बुधः व्याख्यातः ततस् उपरिष्टात् द्वि-लक्ष-योजनतः बुधः सोमसुतः उपलभ्यमानः प्रायेण शुभ-कृत् यदा अर्कात् व्यतिरिच्येत तदा ति वात-अभ्र-प्राय-अनावृष्टि-आदि-भयम् आशंसते ॥ १३ ॥
uśanasā budhaḥ vyākhyātaḥ tatas upariṣṭāt dvi-lakṣa-yojanataḥ budhaḥ somasutaḥ upalabhyamānaḥ prāyeṇa śubha-kṛt yadā arkāt vyatiricyeta tadā ti vāta-abhra-prāya-anāvṛṣṭi-ādi-bhayam āśaṃsate .. 13 ..
अत ऊर्ध्वमङ्गारकोऽपि योजनलक्षद्वितय उपलभ्यमानस्त्रिभिस्त्रिभिः पक्षैरेकैकशो राशी - न्द्वादशानुभुङ्क्ते यदि न वक्रेणाभिवर्तते प्रायेणा - शुभग्रहोऽघशंसः ॥ १४ ॥
अतस् ऊर्ध्वम् अङ्गारकः अपि योजन-लक्ष-द्वितये उपलभ्यमानः त्रिभिः त्रिभिः पक्षैः एकैकशस् राशीन् द्वादश अनुभुङ्क्ते यदि न वक्रेण अभिवर्तते प्रायेण अ शुभ-ग्रहः अघ-शंसः ॥ १४ ॥
atas ūrdhvam aṅgārakaḥ api yojana-lakṣa-dvitaye upalabhyamānaḥ tribhiḥ tribhiḥ pakṣaiḥ ekaikaśas rāśīn dvādaśa anubhuṅkte yadi na vakreṇa abhivartate prāyeṇa a śubha-grahaḥ agha-śaṃsaḥ .. 14 ..
तत उपरिष्टाद् द्विलक्षयोजनान्तरगतो भगवान् बृहस्पतिरेकैकस्मिन् राशौ परिवत्सरं परिवत्सरं चरति यदि न वक्रः स्यात्प्रायेणानुकूलो ब्राह्मण - कुलस्य ॥ १५ ॥
ततस् उपरिष्टात् द्वि-लक्ष-योजन-अन्तर-गतः भगवान् बृहस्पतिः एकैकस्मिन् राशौ परिवत्सरम् परिवत्सरम् चरति यदि न वक्रः स्यात् प्रायेण अनुकूलः ब्राह्मण-कुलस्य ॥ १५ ॥
tatas upariṣṭāt dvi-lakṣa-yojana-antara-gataḥ bhagavān bṛhaspatiḥ ekaikasmin rāśau parivatsaram parivatsaram carati yadi na vakraḥ syāt prāyeṇa anukūlaḥ brāhmaṇa-kulasya .. 15 ..
तत उपरिष्टाद्योजनलक्षद्वयात्प्रतीयमानः शनै श्चर एकैकस्मिन् राशौ त्रिंशन्मासान् विलम्बमानः सर्वानेवानुपर्येति तावद्भिरनुवत्सरैः प्रायेण हि सर्वेषामशान्तिकरः ॥ १६ ॥
ततस् उपरिष्टात् योजन-लक्ष-द्वयात् प्रतीयमानः शनैस् श्चरः एकैकस्मिन् राशौ त्रिंशत्-मासान् विलम्बमानः सर्वान् एव अनुपर्येति तावद्भिः अनुवत्सरैः प्रायेण हि सर्वेषाम् अशान्ति-करः ॥ १६ ॥
tatas upariṣṭāt yojana-lakṣa-dvayāt pratīyamānaḥ śanais ścaraḥ ekaikasmin rāśau triṃśat-māsān vilambamānaḥ sarvān eva anuparyeti tāvadbhiḥ anuvatsaraiḥ prāyeṇa hi sarveṣām aśānti-karaḥ .. 16 ..
तत उत्तरस्मादृषय एकादशलक्षयोजनान्तर उपलभ्यन्ते य एव लोकानां शमनुभावयन्तो भगवतो विष्णोर्यत्परमं पदं प्रदक्षिणं प्रक्रमन्ति ॥ १७ ॥
ततस् उत्तरस्मात् ऋषयः एकादश-लक्ष-योजन-अन्तरे उपलभ्यन्ते ये एव लोकानाम् शम् अनुभावयन्तः भगवतः विष्णोः यत् परमम् पदम् प्रदक्षिणम् प्रक्रमन्ति ॥ १७ ॥
tatas uttarasmāt ṛṣayaḥ ekādaśa-lakṣa-yojana-antare upalabhyante ye eva lokānām śam anubhāvayantaḥ bhagavataḥ viṣṇoḥ yat paramam padam pradakṣiṇam prakramanti .. 17 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे ज्योतिश्चक्रवर्णने द्वाविंशोऽध्यायः ॥ २२ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् पञ्चम-स्कन्धे ज्योतिश्चक्रवर्णने द्वाविंशः अध्यायः ॥ २२ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām pañcama-skandhe jyotiścakravarṇane dvāviṃśaḥ adhyāyaḥ .. 22 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In