| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच
श्री-शुकः उवाच
śrī-śukaḥ uvāca
अथ तस्मात्परतस्त्रयोदशलक्षयोजनान्तरतो यत्तद्विष्णोः परमं पदमभिवदन्ति यत्र ह महाभागवतो धुव औत्तानपादिरग्निनेन्द्रेण प्रजापतिना कश्यपेन धर्मेण च समकालयुग्भिः सबहुमानं दक्षिणतः क्रियमाण इदानीमपि कल्पजीविनामाजीव्य उपास्ते तस्येहानुभाव उपवर्णितः ॥ १ ॥
अथ तस्मात् परतस् त्रयोदश-लक्ष-योजन-अन्तरतः यत् तत् विष्णोः परमम् पदम् अभिवदन्ति यत्र ह औत्तानपादिः अग्निना इन्द्रेण प्रजापतिना कश्यपेन धर्मेण च सम-काल-युग्भिः स बहु-मानम् दक्षिणतस् क्रियमाणः इदानीम् अपि कल्प-जीविनाम् आजीव्य उपास्ते तस्य इह अनुभावः उपवर्णितः ॥ १ ॥
atha tasmāt paratas trayodaśa-lakṣa-yojana-antarataḥ yat tat viṣṇoḥ paramam padam abhivadanti yatra ha auttānapādiḥ agninā indreṇa prajāpatinā kaśyapena dharmeṇa ca sama-kāla-yugbhiḥ sa bahu-mānam dakṣiṇatas kriyamāṇaḥ idānīm api kalpa-jīvinām ājīvya upāste tasya iha anubhāvaḥ upavarṇitaḥ .. 1 ..
स हि सर्वेषां ज्योतिर्गणानां ग्रहनक्षत्रादीना- मनिमिषेणाव्यक्तरंहसा भगवता कालेन भ्राम्यमाणानां स्थाणुरिवावष्टम्भ ईश्वरेण विहितः शश्वदवभासते ॥ २ ॥
स हि सर्वेषाम् ज्योतिः-गणानाम् ग्रह-नक्षत्र-आदीनाम् अनिमिषेण अव्यक्त-रंहसा भगवता कालेन भ्राम्यमाणानाम् स्थाणुः इव अवष्टम्भे ईश्वरेण विहितः शश्वत् अवभासते ॥ २ ॥
sa hi sarveṣām jyotiḥ-gaṇānām graha-nakṣatra-ādīnām animiṣeṇa avyakta-raṃhasā bhagavatā kālena bhrāmyamāṇānām sthāṇuḥ iva avaṣṭambhe īśvareṇa vihitaḥ śaśvat avabhāsate .. 2 ..
यथा मेढीस्तम्भ आक्रमणपशवः संयोजिता- स्त्रिभिस्त्रिभिः सवनैर्यथास्थानं मण्डलानि चरन्त्येवं भगणा ग्रहादय एतस्मिन्नन्तर्बहिर्योगेन कालचक्र आयोजिता ध्रुवमेवावलम्ब्य वायुनोदीर्यमाणा आकल्पान्तं परिचङ्क्रमन्ति नभसि यथा मेघाः श्येनादयो वायुवशाः कर्मसारथयः परिवर्तन्ते एवं ज्योतिर्गणाः प्रकृतिपुरुषसंयोगानुगृहीताः कर्मनिर्मितगतयो भुवि न पतन्ति ॥ ३ ॥
यथा मेढी-स्तम्भे आक्रमण-पशवः संयोजिताः त्रिभिः त्रिभिः सवनैः यथास्थानम् मण्डलानि चरन्ति एवम् भगणाः ग्रह-आदयः एतस्मिन् अन्तर् बहिस् योगेन कालचक्र आयोजिताः ध्रुवम् एव अवलम्ब्य वायुना उदीर्यमाणा आ कल्प-अन्तम् परिचङ्क्रमन्ति नभसि यथा मेघाः श्येन-आदयः वायु-वशाः कर्म-सारथयः परिवर्तन्ते एवम् ज्योतिः-गणाः प्रकृति-पुरुष-संयोग-अनुगृहीताः कर्म-निर्मित-गतयः भुवि न पतन्ति ॥ ३ ॥
yathā meḍhī-stambhe ākramaṇa-paśavaḥ saṃyojitāḥ tribhiḥ tribhiḥ savanaiḥ yathāsthānam maṇḍalāni caranti evam bhagaṇāḥ graha-ādayaḥ etasmin antar bahis yogena kālacakra āyojitāḥ dhruvam eva avalambya vāyunā udīryamāṇā ā kalpa-antam paricaṅkramanti nabhasi yathā meghāḥ śyena-ādayaḥ vāyu-vaśāḥ karma-sārathayaḥ parivartante evam jyotiḥ-gaṇāḥ prakṛti-puruṣa-saṃyoga-anugṛhītāḥ karma-nirmita-gatayaḥ bhuvi na patanti .. 3 ..
केचनैतज्योतिरनीकं शिशुमारसंस्थानेन भगवतो वासुदेवस्य योगधारणायामनुवर्णयन्ति ॥ ४ ॥
केचन एतद्-ज्योतिः-अनीकम् शिशुमार-संस्थानेन भगवतः वासुदेवस्य योग-धारणायाम् अनुवर्णयन्ति ॥ ४ ॥
kecana etad-jyotiḥ-anīkam śiśumāra-saṃsthānena bhagavataḥ vāsudevasya yoga-dhāraṇāyām anuvarṇayanti .. 4 ..
यस्य पुच्छाग्रेऽवाक्शिरसः कुण्डलीभूतदेहस्य ध्रुव उपकल्पितस्तस्य लाङ्गूले प्रजापतिरग्निरिन्द्रो धर्म इति पुच्छमूले धाता विधाता च कट्यां सप्तर्षयः । तस्य दक्षिणावर्तकुण्डलीभूतशरीरस्य यान्युदगयनानि दक्षिणपार्श्वे तु नक्षत्राण्युपकल्पयन्ति दक्षिणायनानि तु सव्ये । यथा शिशुमारस्य कुण्डलाभोगसन्निवेशस्य पार्श्वयोरुभयोरप्यवयवाः समसंख्या भवन्ति । पृष्ठे त्वजवीथी आकाशगङ्गा चोदरतः ॥ ५ ॥
यस्य पुच्छ-अग्रे अवाक्शिरसः कुण्डलीभूत-देहस्य ध्रुवः उपकल्पितः तस्य लाङ्गूले प्रजापतिः अग्निः इन्द्रः धर्मः इति पुच्छमूले धाता विधाता च कट्याम् सप्तर्षयः । तस्य दक्षिण-आवर्त-कुण्डलीभूत-शरीरस्य यानि उदगयनानि दक्षिण-पार्श्वे तु नक्षत्राणि उपकल्पयन्ति दक्षिणायनानि तु सव्ये । यथा शिशुमारस्य कुण्डल-आभोग-सन्निवेशस्य पार्श्वयोः उभयोः अपि अवयवाः भवन्ति । पृष्ठे तु अजवीथी आकाशगङ्गा च उदरतः ॥ ५ ॥
yasya puccha-agre avākśirasaḥ kuṇḍalībhūta-dehasya dhruvaḥ upakalpitaḥ tasya lāṅgūle prajāpatiḥ agniḥ indraḥ dharmaḥ iti pucchamūle dhātā vidhātā ca kaṭyām saptarṣayaḥ . tasya dakṣiṇa-āvarta-kuṇḍalībhūta-śarīrasya yāni udagayanāni dakṣiṇa-pārśve tu nakṣatrāṇi upakalpayanti dakṣiṇāyanāni tu savye . yathā śiśumārasya kuṇḍala-ābhoga-sanniveśasya pārśvayoḥ ubhayoḥ api avayavāḥ bhavanti . pṛṣṭhe tu ajavīthī ākāśagaṅgā ca udarataḥ .. 5 ..
पुनर्वसुपुष्यौ दक्षिणवामयोः श्रोण्योरार्द्राश्लेषे । च दक्षिणवामयोः पश्चिमयोः पादयोरभिजि- । दुत्तराषाढे दक्षिणवामयोर्नासिकयोर्यथासंख्यं । श्रवणपूर्वाषाढे दक्षिणवामयोर्लोचनयोर्धनिष्ठा मूलं । च दक्षिणवामयोः कर्णयोर्मघादीन्यष्ट नक्षत्राणि । दक्षिणायनानि वामपार्श्ववङ्क्रिषु युञ्जीत तथैव । मृगशीर्षादीन्युदगयनानि दक्षिणपार्श्ववङ्क्रिषु । प्रातिलोम्येन प्रयुञ्जीत शतभिषाज्येष्ठे स्कन्धयो- । र्दक्षिणवामयोर्न्यसेत् ॥ ६ ॥
पुनर्वसु-पुष्यौ दक्षिण-वामयोः श्रोण्योः आर्द्र-आश्लेषे । च दक्षिण-वामयोः पश्चिमयोः पादयोः अभिजि । दुत्तराषाढे दक्षिण-वामयोः नासिकयोः यथासंख्यम् । श्रवण-पूर्वाषाढे दक्षिण-वामयोः लोचनयोः धनिष्ठा मूलम् । च दक्षिण-वामयोः कर्णयोः मघा-आदीनि अष्ट नक्षत्राणि । दक्षिणायनानि वाम-पार्श्व-वङ्क्रिषु युञ्जीत तथा एव । मृगशीर्ष-आदीनि उदगयनानि दक्षिण-पार्श्व-वङ्क्रिषु । प्रातिलोम्येन प्रयुञ्जीत शतभिषा-ज्येष्ठे स्कन्धयोः । र् दक्षिण-वामयोः न्यसेत् ॥ ६ ॥
punarvasu-puṣyau dakṣiṇa-vāmayoḥ śroṇyoḥ ārdra-āśleṣe . ca dakṣiṇa-vāmayoḥ paścimayoḥ pādayoḥ abhiji . duttarāṣāḍhe dakṣiṇa-vāmayoḥ nāsikayoḥ yathāsaṃkhyam . śravaṇa-pūrvāṣāḍhe dakṣiṇa-vāmayoḥ locanayoḥ dhaniṣṭhā mūlam . ca dakṣiṇa-vāmayoḥ karṇayoḥ maghā-ādīni aṣṭa nakṣatrāṇi . dakṣiṇāyanāni vāma-pārśva-vaṅkriṣu yuñjīta tathā eva . mṛgaśīrṣa-ādīni udagayanāni dakṣiṇa-pārśva-vaṅkriṣu . prātilomyena prayuñjīta śatabhiṣā-jyeṣṭhe skandhayoḥ . r dakṣiṇa-vāmayoḥ nyaset .. 6 ..
उत्तराहनावगस्तिरधराहनौ यमो मुखेषु चाङ्गारकः शनैश्चर उपस्थे बृहस्पतिः ककुदि वक्षस्यादित्यो हृदये नारायणो मनसि चन्द्रो नाभ्यामुशना स्तनयोरश्विनौ बुधः प्राणापानयो राहुर्गले केतवः सर्वाङ्गेषु रोमसु सर्वे तारागणाः ॥ ७ ॥
उत्तराहनौ अगस्तिः अधराहनौ यमः मुखेषु च अङ्गारकः शनैश्चरः उपस्थे बृहस्पतिः ककुदि वक्षसि आदित्यः हृदये नारायणः मनसि चन्द्रः नाभ्याम् उशनाः स्तनयोः अश्विनौ बुधः प्राण-अपानयोः राहुः गले केतवः सर्व-अङ्गेषु रोमसु सर्वे तारा-गणाः ॥ ७ ॥
uttarāhanau agastiḥ adharāhanau yamaḥ mukheṣu ca aṅgārakaḥ śanaiścaraḥ upasthe bṛhaspatiḥ kakudi vakṣasi ādityaḥ hṛdaye nārāyaṇaḥ manasi candraḥ nābhyām uśanāḥ stanayoḥ aśvinau budhaḥ prāṇa-apānayoḥ rāhuḥ gale ketavaḥ sarva-aṅgeṣu romasu sarve tārā-gaṇāḥ .. 7 ..
एतदु हैव भगवतो विष्णोः सर्वदेवतामयं रूपमहरहः सन्ध्यायां प्रयतो वाग्यतो निरीक्षमाण । उपतिष्ठेत नमो ज्योतिर्लोकाय कालायनाया - निमिषां पतये महापुरुषायाभिधीमहीति ॥ ८ ॥
एतत् उ ह एव भगवतः विष्णोः सर्व-देवता-मयम् रूपम् अहरहर् सन्ध्यायाम् प्रयतः वाग्यतः निरीक्षमाण । उपतिष्ठेत नमः ज्योतिः-लोकाय निमिषाम् पतये महापुरुषाय अभिधीमहि इति ॥ ८ ॥
etat u ha eva bhagavataḥ viṣṇoḥ sarva-devatā-mayam rūpam aharahar sandhyāyām prayataḥ vāgyataḥ nirīkṣamāṇa . upatiṣṭheta namaḥ jyotiḥ-lokāya nimiṣām pataye mahāpuruṣāya abhidhīmahi iti .. 8 ..
ग्रहर्क्षतारामयमाधिदैविकं पापापहं मन्त्रकृतां त्रिकालम् । । नमस्यतः स्मरतो वा त्रिकालं नश्येत तत्कालजमाशु पापम् ॥ ९ ॥
ग्रह-ऋक्ष-तारा-मयम् आधिदैविकम् पाप-अपहम् मन्त्र-कृताम् त्रि-कालम् । । नमस्यतः स्मरतः वा त्रिकालम् नश्येत तद्-काल-जम् आशु पापम् ॥ ९ ॥
graha-ṛkṣa-tārā-mayam ādhidaivikam pāpa-apaham mantra-kṛtām tri-kālam . . namasyataḥ smarataḥ vā trikālam naśyeta tad-kāla-jam āśu pāpam .. 9 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे शिशुमारसंस्थावर्णनं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् पञ्चम-स्कन्धे शिशुमारसंस्थावर्णनम् नाम त्रयोविंशः अध्यायः ॥ २३ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām pañcama-skandhe śiśumārasaṃsthāvarṇanam nāma trayoviṃśaḥ adhyāyaḥ .. 23 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In