| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

अधस्तात्सवितुर्योजनायुते स्वर्भानुर्नक्षत्रवच्चरतीत्येके योऽसावमरत्वं ग्रहत्वं चालभत भगवदनुकम्पया स्वयमसुरापसदः सैंहिकेयो ह्यतदर्हस्तस्य तात जन्म कर्माणि चोपरिष्टाद्वक्ष्यामः ॥ ०५.२४.००१ ॥
अधस्तात् सवितुः योजन-अयुते स्वर्भानुः नक्षत्र-वत् चरति इति एके यः असौ अमर-त्वम् ग्रह-त्वम् च अलभत भगवत्-अनुकम्पया स्वयम् असुर-अपसदः सैंहिकेयः हि अतदर्हः तस्य तात जन्म कर्माणि च उपरिष्टात् वक्ष्यामः ॥ ०५।२४।००१ ॥
adhastāt savituḥ yojana-ayute svarbhānuḥ nakṣatra-vat carati iti eke yaḥ asau amara-tvam graha-tvam ca alabhata bhagavat-anukampayā svayam asura-apasadaḥ saiṃhikeyaḥ hi atadarhaḥ tasya tāta janma karmāṇi ca upariṣṭāt vakṣyāmaḥ .. 05.24.001 ..
यददस्तरणेर्मण्डलं प्रतपतस्तद्विस्तरतो योजनायुतमाचक्षते द्वादशसहस्रं सोमस्य त्रयोदशसहस्रं राहोर्यः पर्वणि तद्व्यवधानकृद्वैरानुबन्धः सूर्याचन्द्रमसावभिधावति ॥ ०५.२४.००२ ॥
यत् अदः तरणेः मण्डलम् प्रतपतः तत् विस्तरतः योजन-अयुतम् आचक्षते द्वादश-सहस्रम् सोमस्य त्रयोदश-सहस्रम् राहोः यः पर्वणि तद्-व्यवधान-कृत् वैर-अनुबन्धः सूर्याचन्द्रमसौ अभिधावति ॥ ०५।२४।००२ ॥
yat adaḥ taraṇeḥ maṇḍalam pratapataḥ tat vistarataḥ yojana-ayutam ācakṣate dvādaśa-sahasram somasya trayodaśa-sahasram rāhoḥ yaḥ parvaṇi tad-vyavadhāna-kṛt vaira-anubandhaḥ sūryācandramasau abhidhāvati .. 05.24.002 ..
श्रीशुक उवाच
तन्निशम्योभयत्रापि भगवता रक्षणाय प्रयुक्तं सुदर्शनं नाम भागवतं दयितमस्त्रं तत्तेजसा दुर्विषहं मुहुः परिवर्तमानमभ्यवस्थितो मुहूर्तमुद्विजमानश्चकितहृदय आरादेव निवर्तते तदुपरागमिति वदन्ति लोकाः ॥ ०५.२४.००३ ॥
तत् निशम्य उभयत्र अपि भगवता रक्षणाय प्रयुक्तम् सुदर्शनम् नाम भागवतम् दयितम् अस्त्रम् तद्-तेजसा दुर्विषहम् मुहुर् परिवर्तमानम् अभ्यवस्थितः मुहूर्तम् उद्विजमानः चकित-हृदयः आरात् एव निवर्तते तद्-उपरागम् इति वदन्ति लोकाः ॥ ०५।२४।००३ ॥
tat niśamya ubhayatra api bhagavatā rakṣaṇāya prayuktam sudarśanam nāma bhāgavatam dayitam astram tad-tejasā durviṣaham muhur parivartamānam abhyavasthitaḥ muhūrtam udvijamānaḥ cakita-hṛdayaḥ ārāt eva nivartate tad-uparāgam iti vadanti lokāḥ .. 05.24.003 ..
ततोऽधस्तात्सिद्धचारणविद्याधराणां सदनानि तावन्मात्र एव ॥ ०५.२४.००४ ॥
ततस् अधस्तात् सिद्ध-चारण-विद्याधराणाम् सदनानि तावत्-मात्रे एव ॥ ०५।२४।००४ ॥
tatas adhastāt siddha-cāraṇa-vidyādharāṇām sadanāni tāvat-mātre eva .. 05.24.004 ..
ततोऽधस्ताद्यक्षरक्षःपिशाचप्रेतभूतगणानां विहाराजिरमन्तरिक्षं यावद्वायुः प्रवाति यावन्मेघा उपलभ्यन्ते ॥ ०५.२४.००५ ॥
ततस् अधस्तात् यक्ष-रक्षः-पिशाच-प्रेत-भूत-गणानाम् विहार-अजिरम् अन्तरिक्षम् यावत् वायुः प्रवाति यावत् मेघाः उपलभ्यन्ते ॥ ०५।२४।००५ ॥
tatas adhastāt yakṣa-rakṣaḥ-piśāca-preta-bhūta-gaṇānām vihāra-ajiram antarikṣam yāvat vāyuḥ pravāti yāvat meghāḥ upalabhyante .. 05.24.005 ..
ततोऽधस्ताच्छतयोजनान्तर इयं पृथिवी यावद्धंसभासश्येनसुपर्णादयः पतत्त्रिप्रवरा उत्पतन्तीति ॥ ०५.२४.००६ ॥
ततस् अधस्तात् शत-योजन-अन्तरे इयम् पृथिवी यावत् हंस-भास-श्येन-सुपर्ण-आदयः पतत्त्रि-प्रवराः उत्पतन्ति इति ॥ ०५।२४।००६ ॥
tatas adhastāt śata-yojana-antare iyam pṛthivī yāvat haṃsa-bhāsa-śyena-suparṇa-ādayaḥ patattri-pravarāḥ utpatanti iti .. 05.24.006 ..
उपवर्णितं भूमेर्यथासन्निवेशावस्थानमवनेरप्यधस्तात्सप्त भूविवरा एकैकशो योजनायुतान्तरेणायामविस्तारेणोपकॢप्ता अतलं वितलं सुतलं तलातलं महातलं रसातलं पातालमिति ॥ ०५.२४.००७ ॥
उपवर्णितम् भूमेः यथा सत्-निवेश-अवस्थानम् अवनेः अपि अधस्तात् सप्त भू-विवराः एकैकशस् योजन-अयुत-अन्तरेण आयाम-विस्तारेण उपक्ṷप्ताः अतलम् वितलम् सुतलम् तलातलम् महातलम् रसातलम् पातालम् इति ॥ ०५।२४।००७ ॥
upavarṇitam bhūmeḥ yathā sat-niveśa-avasthānam avaneḥ api adhastāt sapta bhū-vivarāḥ ekaikaśas yojana-ayuta-antareṇa āyāma-vistāreṇa upakṷptāḥ atalam vitalam sutalam talātalam mahātalam rasātalam pātālam iti .. 05.24.007 ..
एतेषु हि बिलस्वर्गेषु स्वर्गादप्यधिककामभोगैश्वर्यानन्दभूतिविभूतिभिः सुसमृद्धभवनोद्यानाक्रीडविहारेषु दैत्यदानवकाद्रवेया नित्यप्रमुदितानुरक्तकलत्रापत्यबन्धुसुहृदनुचरा गृहपतय ईश्वरादप्यप्रतिहतकामा मायाविनोदा निवसन्ति ॥ ०५.२४.००८ ॥
एतेषु हि बिल-स्वर्गेषु स्वर्गात् अपि अधिक-काम-भोग-ऐश्वर्य-आनन्द-भूति-विभूतिभिः सु समृद्ध-भवन-उद्यान-आक्रीड-विहारेषु दैत्य-दानव-काद्रवेयाः नित्य-प्रमुदित-अनुरक्त-कलत्र-अपत्य-बन्धु-सुहृद्-अनुचराः गृहपतयः ईश्वरात् अपि अप्रतिहत-कामाः माया-विनोदाः निवसन्ति ॥ ०५।२४।००८ ॥
eteṣu hi bila-svargeṣu svargāt api adhika-kāma-bhoga-aiśvarya-ānanda-bhūti-vibhūtibhiḥ su samṛddha-bhavana-udyāna-ākrīḍa-vihāreṣu daitya-dānava-kādraveyāḥ nitya-pramudita-anurakta-kalatra-apatya-bandhu-suhṛd-anucarāḥ gṛhapatayaḥ īśvarāt api apratihata-kāmāḥ māyā-vinodāḥ nivasanti .. 05.24.008 ..
येषु महाराज मयेन मायाविना विनिर्मिताः पुरो नानामणिप्रवरप्रवेकविरचितविचित्रभवनप्राकारगोपुरसभाचैत्यचत्वरायतनादिभिर्नागासुरमिथुनपारावतशुकसारिकाकीर्णकृत्रिमभूमिभिर्विवरेश्वरगृहोत्तमैः समलङ्कृताश्चकासति ॥ ०५.२४.००९ ॥
येषु महा-राज मयेन मायाविना विनिर्मिताः पुरो नाना मणि-प्रवर-प्रवेक-विरचित-विचित्र-भवन-प्राकार-गोपुर-सभा-चैत्य-चत्वर-आयतन-आदिभिः नाग-असुर-मिथुन-पारावत-शुक-सारिका-आकीर्ण-कृत्रिम-भूमिभिः विवर-ईश्वर-गृह- समलङ्कृताः चकासति ॥ ०५।२४।००९ ॥
yeṣu mahā-rāja mayena māyāvinā vinirmitāḥ puro nānā maṇi-pravara-praveka-viracita-vicitra-bhavana-prākāra-gopura-sabhā-caitya-catvara-āyatana-ādibhiḥ nāga-asura-mithuna-pārāvata-śuka-sārikā-ākīrṇa-kṛtrima-bhūmibhiḥ vivara-īśvara-gṛha- samalaṅkṛtāḥ cakāsati .. 05.24.009 ..
उद्यानानि चातितरां मनैन्द्रियानन्दिभिः कुसुमफलस्तबकसुभगकिसलयावनतरुचिरविटपविटपिनां लताङ्गालिङ्गितानां श्रीभिः समिथुनविविधविहङ्गमजलाशयानाममलजलपूर्णानां झषकुलोल्लङ्घनक्षुभितनीरनीरजकुमुदकुवलयकह्लारनीलोत्पललोहितशतपत्रादिवनेषु कृतनिकेतनानामेकविहाराकुलमधुरविविधस्वनादिभिरिन्द्रियोत्सवैरमरलोकश्रियमतिशयितानि ॥ ०५.२४.०१० ॥
उद्यानानि च अतितराम् मना-इन्द्रिय-आनन्दिभिः कुसुम-फल-स्तबक-सुभग-किसलय-अवनत-रुचिर-विटप-विटपिनाम् लता-अङ्ग-आलिङ्गितानाम् श्रीभिः स मिथुन-विविध-विहङ्गम-जलाशयानाम् अमल-जल- झष-कुल-उल्लङ्घन-क्षुभित-नीर-नीरज-कुमुद-कुवलय-कह्लार-नीलोत्पल-लोहित-शतपत्त्र-आदि-वनेषु कृत-निकेतनानाम् एक-विहार-आकुल-मधुर-विविध-स्वन-आदिभिः इन्द्रिय-उत्सवैः अमर-लोक- ॥ ०५।२४।०१० ॥
udyānāni ca atitarām manā-indriya-ānandibhiḥ kusuma-phala-stabaka-subhaga-kisalaya-avanata-rucira-viṭapa-viṭapinām latā-aṅga-āliṅgitānām śrībhiḥ sa mithuna-vividha-vihaṅgama-jalāśayānām amala-jala- jhaṣa-kula-ullaṅghana-kṣubhita-nīra-nīraja-kumuda-kuvalaya-kahlāra-nīlotpala-lohita-śatapattra-ādi-vaneṣu kṛta-niketanānām eka-vihāra-ākula-madhura-vividha-svana-ādibhiḥ indriya-utsavaiḥ amara-loka- .. 05.24.010 ..
यत्र ह वाव न भयमहोरात्रादिभिः कालविभागैरुपलक्ष्यते ॥ ०५.२४.०११ ॥
यत्र ह वाव न भयम् अहर्-रात्र-आदिभिः काल-विभागैः उपलक्ष्यते ॥ ०५।२४।०११ ॥
yatra ha vāva na bhayam ahar-rātra-ādibhiḥ kāla-vibhāgaiḥ upalakṣyate .. 05.24.011 ..
यत्र हि महाहिप्रवरशिरोमणयः सर्वं तमः प्रबाधन्ते ॥ ०५.२४.०१२ ॥
यत्र हि महा-अहि-प्रवर-शिरोमणयः सर्वम् तमः प्रबाधन्ते ॥ ०५।२४।०१२ ॥
yatra hi mahā-ahi-pravara-śiromaṇayaḥ sarvam tamaḥ prabādhante .. 05.24.012 ..
न वा एतेषु वसतां दिव्यौषधिरसरसायनान्नपानस्नानादिभिराधयो व्याधयो वलीपलितजरादयश्च देहवैवर्ण्यदौर्गन्ध्यस्वेदक्लमग्लानिरिति वयोऽवस्थाश्च भवन्ति ॥ ०५.२४.०१३ ॥
न वै एतेषु वसताम् दिव्य-ओषधि-रस-रसायन-अन्न-पान-स्नान-आदिभिः आधयः व्याधयः वली-पलित-जरा-आदयः च देह-वैवर्ण्य-दौर्गन्ध्य-स्वेद-क्लम-ग्लानिः इति वयः-अवस्थाः च भवन्ति ॥ ०५।२४।०१३ ॥
na vai eteṣu vasatām divya-oṣadhi-rasa-rasāyana-anna-pāna-snāna-ādibhiḥ ādhayaḥ vyādhayaḥ valī-palita-jarā-ādayaḥ ca deha-vaivarṇya-daurgandhya-sveda-klama-glāniḥ iti vayaḥ-avasthāḥ ca bhavanti .. 05.24.013 ..
न हि तेषां कल्याणानां प्रभवति कुतश्चन मृत्युर्विना भगवत्तेजसश्चक्रापदेशात् ॥ ०५.२४.०१४ ॥
न हि तेषाम् कल्याणानाम् प्रभवति कुतश्चन मृत्युः विना भगवत्-तेजसः चक्र-अपदेशात् ॥ ०५।२४।०१४ ॥
na hi teṣām kalyāṇānām prabhavati kutaścana mṛtyuḥ vinā bhagavat-tejasaḥ cakra-apadeśāt .. 05.24.014 ..
यस्मिन् प्रविष्टेऽसुरवधूनां प्रायः पुंसवनानि भयादेव स्रवन्ति पतन्ति च ॥ ०५.२४.०१५ ॥
यस्मिन् प्रविष्टे असुर-वधूनाम् प्रायस् पुंसवनानि भयात् एव स्रवन्ति पतन्ति च ॥ ०५।२४।०१५ ॥
yasmin praviṣṭe asura-vadhūnām prāyas puṃsavanāni bhayāt eva sravanti patanti ca .. 05.24.015 ..
अथातले मयपुत्रोऽसुरो बलो निवसति येन ह वा इह सृष्टाः षण्णवतिर्मायाः काश्चनाद्यापि मायाविनो धारयन्ति यस्य च जृम्भमाणस्य मुखतस्त्रयः स्त्रीगणा उदपद्यन्त स्वैरिण्यः कामिन्यः पुंश्चल्य इति या वै बिलायनं प्रविष्टं पुरुषं रसेन हाटकाख्येन साधयित्वा स्वविलासावलोकनानुरागस्मितसंलापोपगूहनादिभिः स्वैरं किल रमयन्ति यस्मिन्नुपयुक्ते पुरुष ईश्वरोऽहं सिद्धोऽहमित्ययुतमहागजबलमात्मानमभिमन्यमानः कत्थते मदान्ध इव ॥ ०५.२४.०१६ ॥
अथ अतले मय-पुत्रः असुरः बलः निवसति येन ह वै इह सृष्टाः षण्णवतिः मायाः काश्चन अद्य अपि मायाविनः धारयन्ति यस्य च जृम्भमाणस्य मुखतः त्रयः स्त्री-गणाः उदपद्यन्त स्वैरिण्यः कामिन्यः पुंश्चल्यः इति याः वै बिलायनम् प्रविष्टम् पुरुषम् रसेन हाटक-आख्येन साधयित्वा स्व-विलास-अवलोकन-अनुराग-स्मित-संलाप-उपगूहन-आदिभिः स्वैरम् किल रमयन्ति यस्मिन् उपयुक्ते पुरुषः ईश्वरः अहम् सिद्धः अहम् इति अयुत-महा-गज-बलम् आत्मानम् अभिमन्यमानः कत्थते मद-अन्धः इव ॥ ०५।२४।०१६ ॥
atha atale maya-putraḥ asuraḥ balaḥ nivasati yena ha vai iha sṛṣṭāḥ ṣaṇṇavatiḥ māyāḥ kāścana adya api māyāvinaḥ dhārayanti yasya ca jṛmbhamāṇasya mukhataḥ trayaḥ strī-gaṇāḥ udapadyanta svairiṇyaḥ kāminyaḥ puṃścalyaḥ iti yāḥ vai bilāyanam praviṣṭam puruṣam rasena hāṭaka-ākhyena sādhayitvā sva-vilāsa-avalokana-anurāga-smita-saṃlāpa-upagūhana-ādibhiḥ svairam kila ramayanti yasmin upayukte puruṣaḥ īśvaraḥ aham siddhaḥ aham iti ayuta-mahā-gaja-balam ātmānam abhimanyamānaḥ katthate mada-andhaḥ iva .. 05.24.016 ..
ततोऽधस्ताद्वितले हरो भगवान् हाटकेश्वरः स्वपार्षदभूतगणावृतः प्रजापतिसर्गोपबृंहणाय भवो भवान्या सह मिथुनीभूत आस्ते यतः प्रवृत्ता सरित्प्रवरा हाटकी नाम भवयोर्वीर्येण यत्र चित्रभानुर्मातरिश्वना समिध्यमान ओजसा पिबति तन्निष्ठ्यूतं हाटकाख्यं सुवर्णं भूषणेनासुरेन्द्रावरोधेषु पुरुषाः सह पुरुषीभिर्धारयन्ति ॥ ०५.२४.०१७ ॥
ततस् अधस्तात् वितले हरः भगवान् हाटकेश्वरः स्व-पार्षद-भूत-गण-आवृतः प्रजापति-सर्ग-उपबृंहणाय भवः भवान्या सह मिथुनीभूतः आस्ते यतस् प्रवृत्ता सरित् प्रवरा भवयोः वीर्येण यत्र चित्रभानुः मातरिश्वना समिध्यमानः ओजसा पिबति तत् निष्ठ्यूतम् हाटक-आख्यम् सुवर्णम् भूषणेन असुर-इन्द्र-अवरोधेषु पुरुषाः सह पुरुषीभिः धारयन्ति ॥ ०५।२४।०१७ ॥
tatas adhastāt vitale haraḥ bhagavān hāṭakeśvaraḥ sva-pārṣada-bhūta-gaṇa-āvṛtaḥ prajāpati-sarga-upabṛṃhaṇāya bhavaḥ bhavānyā saha mithunībhūtaḥ āste yatas pravṛttā sarit pravarā bhavayoḥ vīryeṇa yatra citrabhānuḥ mātariśvanā samidhyamānaḥ ojasā pibati tat niṣṭhyūtam hāṭaka-ākhyam suvarṇam bhūṣaṇena asura-indra-avarodheṣu puruṣāḥ saha puruṣībhiḥ dhārayanti .. 05.24.017 ..
ततोऽधस्तात्सुतले उदारश्रवाः पुण्यश्लोको विरोचनात्मजो बलिर्भगवता महेन्द्रस्य प्रियं चिकीर्षमाणेनादितेर्लब्धकायो भूत्वा वटुवामनरूपेण पराक्षिप्तलोकत्रयो भगवदनुकम्पयैव पुनः प्रवेशित इन्द्रादिष्वविद्यमानया सुसमृद्धया श्रियाभिजुष्टः स्वधर्मेणाराधयंस्तमेव भगवन्तमाराधनीयमपगतसाध्वस आस्तेऽधुनापि ॥ ०५.२४.०१८ ॥
ततस् अधस्तात् सु तले उदार-श्रवाः पुण्यश्लोकः विरोचन-आत्मजः बलिः भगवता महेन्द्रस्य प्रियम् चिकीर्षमाणेन अदितेः लब्ध-कायः भूत्वा वटु-वामन-रूपेण पराक्षिप्त-लोक-त्रयः भगवत्-अनुकम्पया एव पुनर् प्रवेशितः इन्द्र-आदिषु अविद्यमानया सु समृद्धया श्रिया अभिजुष्टः स्वधर्मेण आराधयन् तम् एव भगवन्तम् आराधनीयम् अपगत-साध्वसः आस्ते अधुना अपि ॥ ०५।२४।०१८ ॥
tatas adhastāt su tale udāra-śravāḥ puṇyaślokaḥ virocana-ātmajaḥ baliḥ bhagavatā mahendrasya priyam cikīrṣamāṇena aditeḥ labdha-kāyaḥ bhūtvā vaṭu-vāmana-rūpeṇa parākṣipta-loka-trayaḥ bhagavat-anukampayā eva punar praveśitaḥ indra-ādiṣu avidyamānayā su samṛddhayā śriyā abhijuṣṭaḥ svadharmeṇa ārādhayan tam eva bhagavantam ārādhanīyam apagata-sādhvasaḥ āste adhunā api .. 05.24.018 ..
नो एवैतत्साक्षात्कारो भूमिदानस्य यत्तद्भगवत्यशेषजीवनिकायानां जीवभूतात्मभूते परमात्मनि वासुदेवे तीर्थतमे पात्र उपपन्ने परया श्रद्धया परमादरसमाहितमनसा सम्प्रतिपादितस्य साक्षादपवर्गद्वारस्य यद्बिलनिलयैश्वर्यम् ॥ ०५.२४.०१९ ॥
नो एव एतत् साक्षात्कारः भूमि-दानस्य यत् तत् भगवति अशेष-जीवनिकायानाम् जीव-भूत-आत्म-भूते परमात्मनि वासुदेवे तीर्थतमे पात्रे उपपन्ने परया श्रद्धया परम-आदर-समाहित-मनसा सम्प्रतिपादितस्य साक्षात् अपवर्ग-द्वारस्य यत् बिल-निलय-ऐश्वर्यम् ॥ ०५।२४।०१९ ॥
no eva etat sākṣātkāraḥ bhūmi-dānasya yat tat bhagavati aśeṣa-jīvanikāyānām jīva-bhūta-ātma-bhūte paramātmani vāsudeve tīrthatame pātre upapanne parayā śraddhayā parama-ādara-samāhita-manasā sampratipāditasya sākṣāt apavarga-dvārasya yat bila-nilaya-aiśvaryam .. 05.24.019 ..
यस्य ह वाव क्षुतपतनप्रस्खलनादिषु विवशः सकृन्नामाभिगृणन् पुरुषः कर्मबन्धनमञ्जसा विधुनोति यस्य हैव प्रतिबाधनं मुमुक्षवोऽन्यथैवोपलभन्ते ॥ ०५.२४.०२० ॥
यस्य ह वाव क्षुत-पतन-प्रस्खलन-आदिषु विवशः सकृत् नाम अभिगृणन् पुरुषः कर्म-बन्धनम् अञ्जसा विधुनोति यस्य ह एव प्रतिबाधनम् मुमुक्षवः अन्यथा एव उपलभन्ते ॥ ०५।२४।०२० ॥
yasya ha vāva kṣuta-patana-praskhalana-ādiṣu vivaśaḥ sakṛt nāma abhigṛṇan puruṣaḥ karma-bandhanam añjasā vidhunoti yasya ha eva pratibādhanam mumukṣavaḥ anyathā eva upalabhante .. 05.24.020 ..
तद्भक्तानामात्मवतां सर्वेषामात्मन्यात्मद आत्मतयैव ॥ ०५.२४.०२१ ॥
तद्-भक्तानाम् आत्मवताम् सर्वेषाम् आत्मनि आत्म-दः आत्मतया एव ॥ ०५।२४।०२१ ॥
tad-bhaktānām ātmavatām sarveṣām ātmani ātma-daḥ ātmatayā eva .. 05.24.021 ..
न वै भगवान्नूनममुष्यानुजग्राह यदुत पुनरात्मानुस्मृतिमोषणं मायामयभोगैश्वर्यमेवातनुतेति ॥ ०५.२४.०२२ ॥
न वै भगवान् नूनम् अमुष्य अनुजग्राह यत् उत पुनर् आत्म-अनुस्मृति-मोषणम् माया-मय-भोग-ऐश्वर्यम् एव अतनुत इति ॥ ०५।२४।०२२ ॥
na vai bhagavān nūnam amuṣya anujagrāha yat uta punar ātma-anusmṛti-moṣaṇam māyā-maya-bhoga-aiśvaryam eva atanuta iti .. 05.24.022 ..
यत्तद्भगवतानधिगतान्योपायेन याच्ञाच्छलेनापहृतस्वशरीरावशेषितलोकत्रयो वरुणपाशैश्च सम्प्रतिमुक्तो गिरिदर्यां चापविद्ध इति होवाच ॥ ०५.२४.०२३ ॥
यत् तत् भगवता अनधिगत-अन्य-उपायेन याच्ञा-छलेन अपहृत-स्व-शरीर-अवशेषित-लोकत्रयः वरुण-पाशैः च सम्प्रतिमुक्तः गिरि-दर्याम् च अपविद्धः इति ह उवाच ॥ ०५।२४।०२३ ॥
yat tat bhagavatā anadhigata-anya-upāyena yācñā-chalena apahṛta-sva-śarīra-avaśeṣita-lokatrayaḥ varuṇa-pāśaiḥ ca sampratimuktaḥ giri-daryām ca apaviddhaḥ iti ha uvāca .. 05.24.023 ..
नूनं बतायं भगवानर्थेषु न निष्णातो योऽसाविन्द्रो यस्य सचिवो मन्त्राय वृत एकान्ततो बृहस्पतिस्तमतिहाय स्वयमुपेन्द्रेणात्मानमयाचतात्मनश्चाशिषो नो एव तद्दास्यमतिगम्भीरवयसः कालस्य मन्वन्तरपरिवृत्तं कियल्लोकत्रयमिदम् ॥ ०५.२४.०२४ ॥
नूनम् बत अयम् भगवान् अर्थेषु न निष्णातः यः असौ इन्द्रः यस्य सचिवः मन्त्राय वृतः एकान्ततः बृहस्पतिः तम् अतिहाय स्वयम् उपेन्द्रेण आत्मानम् अयाचत आत्मनः च आशिषः नो एव तत् दास्यम् अति गम्भीर-वयसः कालस्य मन्वन्तर-परिवृत्तम् कियत् लोकत्रयम् इदम् ॥ ०५।२४।०२४ ॥
nūnam bata ayam bhagavān artheṣu na niṣṇātaḥ yaḥ asau indraḥ yasya sacivaḥ mantrāya vṛtaḥ ekāntataḥ bṛhaspatiḥ tam atihāya svayam upendreṇa ātmānam ayācata ātmanaḥ ca āśiṣaḥ no eva tat dāsyam ati gambhīra-vayasaḥ kālasya manvantara-parivṛttam kiyat lokatrayam idam .. 05.24.024 ..
यस्यानुदास्यमेवास्मत्पितामहः किल वव्रे न तु स्वपित्र्यं यदुताकुतोभयं पदं दीयमानं भगवतः परमिति भगवतोपरते खलु स्वपितरि ॥ ०५.२४.०२५ ॥
यस्य अनुदास्यम् एव अस्मद्-पितामहः किल वव्रे न तु स्व-पित्र्यम् यत् उत अकुतोभयम् पदम् दीयमानम् भगवतः परम् इति भगवता उपरते खलु स्व-पितरि ॥ ०५।२४।०२५ ॥
yasya anudāsyam eva asmad-pitāmahaḥ kila vavre na tu sva-pitryam yat uta akutobhayam padam dīyamānam bhagavataḥ param iti bhagavatā uparate khalu sva-pitari .. 05.24.025 ..
तस्य महानुभावस्यानुपथममृजितकषायः को वास्मद्विधः परिहीणभगवदनुग्रह उपजिगमिषतीति ॥ ०५.२४.०२६ ॥
तस्य महा-अनुभावस्य अनुपथम-मृजित-कषायः कः वा अस्मद्विधः परिहीण-भगवत्-अनुग्रहः उपजिगमिषति इति ॥ ०५।२४।०२६ ॥
tasya mahā-anubhāvasya anupathama-mṛjita-kaṣāyaḥ kaḥ vā asmadvidhaḥ parihīṇa-bhagavat-anugrahaḥ upajigamiṣati iti .. 05.24.026 ..
तस्यानुचरितमुपरिष्टाद्विस्तरिष्यते यस्य भगवान् स्वयमखिलजगद्गुरुर्नारायणो द्वारि गदापाणिरवतिष्ठते निजजनानुकम्पितहृदयो येनाङ्गुष्ठेन पदा दशकन्धरो योजनायुतायुतं दिग्विजय उच्चाटितः ॥ ०५.२४.०२७ ॥
तस्य अनुचरितम् उपरिष्टात् विस्तरिष्यते यस्य भगवान् स्वयम् अखिल-जगद्गुरुः नारायणः द्वारि गदा-पाणिः अवतिष्ठते निज-जन-अनुकम्पित-हृदयः येन अङ्गुष्ठेन पदा दश-कन्धरः योजन-अयुत-अयुतम् दिग्विजयः उच्चाटितः ॥ ०५।२४।०२७ ॥
tasya anucaritam upariṣṭāt vistariṣyate yasya bhagavān svayam akhila-jagadguruḥ nārāyaṇaḥ dvāri gadā-pāṇiḥ avatiṣṭhate nija-jana-anukampita-hṛdayaḥ yena aṅguṣṭhena padā daśa-kandharaḥ yojana-ayuta-ayutam digvijayaḥ uccāṭitaḥ .. 05.24.027 ..
ततोऽधस्तात्तलातले मयो नाम दानवेन्द्रस्त्रिपुराधिपतिर्भगवता पुरारिणा त्रिलोकीशं चिकीर्षुणा निर्दग्धस्वपुरत्रयस्तत्प्रसादाल्लब्धपदो मायाविनामाचार्यो महादेवेन परिरक्षितो विगतसुदर्शनभयो महीयते ॥ ०५.२४.०२८ ॥
ततस् अधस्तात् तलातले मयः नाम दानव-इन्द्रः त्रिपुर-अधिपतिः भगवता पुरारिणा त्रिलोकी-ईशम् चिकीर्षुणा निर्दग्ध-स्व-पुर-त्रयः तद्-प्रसादात् लब्ध-पदः मायाविनाम् आचार्यः महादेवेन परिरक्षितः विगत-सुदर्शन-भयः महीयते ॥ ०५।२४।०२८ ॥
tatas adhastāt talātale mayaḥ nāma dānava-indraḥ tripura-adhipatiḥ bhagavatā purāriṇā trilokī-īśam cikīrṣuṇā nirdagdha-sva-pura-trayaḥ tad-prasādāt labdha-padaḥ māyāvinām ācāryaḥ mahādevena parirakṣitaḥ vigata-sudarśana-bhayaḥ mahīyate .. 05.24.028 ..
ततोऽधस्तान्महातले काद्रवेयाणां सर्पाणां नैकशिरसां क्रोधवशो नाम गणः कुहकतक्षककालियसुषेणादिप्रधाना महाभोगवन्तः पतत्त्रिराजाधिपतेः पुरुषवाहादनवरतमुद्विजमानाः स्वकलत्रापत्यसुहृत्कुटुम्बसङ्गेन क्वचित्प्रमत्ता विहरन्ति ॥ ०५.२४.०२९ ॥
ततस् अधस्तात् महा-तले काद्रवेयाणाम् सर्पाणाम् न एक-शिरसाम् क्रोधवशः नाम गणः कुहक-तक्षक-कालिय-सुषेण-आदि-प्रधानाः महा-भोगवन्तः पतत्त्रि-राज-अधिपतेः पुरुष-वाहात् अनवरतम् उद्विजमानाः स्व-कलत्र-अपत्य-सुहृद्-कुटुम्ब-सङ्गेन क्वचिद् प्रमत्ताः विहरन्ति ॥ ०५।२४।०२९ ॥
tatas adhastāt mahā-tale kādraveyāṇām sarpāṇām na eka-śirasām krodhavaśaḥ nāma gaṇaḥ kuhaka-takṣaka-kāliya-suṣeṇa-ādi-pradhānāḥ mahā-bhogavantaḥ patattri-rāja-adhipateḥ puruṣa-vāhāt anavaratam udvijamānāḥ sva-kalatra-apatya-suhṛd-kuṭumba-saṅgena kvacid pramattāḥ viharanti .. 05.24.029 ..
ततोऽधस्ताद्रसातले दैतेया दानवाः पणयो नाम निवातकवचाः कालेया हिरण्यपुरवासिन इति विबुधप्रत्यनीका उत्पत्त्या महौजसो महासाहसिनो भगवतः सकललोकानुभावस्य हरेरेव तेजसा प्रतिहतबलावलेपा बिलेशया इव वसन्ति ये वै सरमयेन्द्रदूत्या वाग्भिर्मन्त्रवर्णाभिरिन्द्राद्बिभ्यति ॥ ०५.२४.०३० ॥
ततस् अधस्तात् रसातले दैतेयाः दानवाः पणयः नाम निवात-कवचाः कालेयाः हिरण्यपुर-वासिनः इति विबुध-प्रत्यनीकाः उत्पत्त्या महा-ओजसः महा-साहसिनः भगवतः सकल-लोक-अनुभावस्य हरेः एव तेजसा प्रतिहत-बल-अवलेपाः बिलेशयाः इव वसन्ति ये वै सरमया इन्द्र-दूत्या वाग्भिः मन्त्रवर्णाभिः इन्द्रात् बिभ्यति ॥ ०५।२४।०३० ॥
tatas adhastāt rasātale daiteyāḥ dānavāḥ paṇayaḥ nāma nivāta-kavacāḥ kāleyāḥ hiraṇyapura-vāsinaḥ iti vibudha-pratyanīkāḥ utpattyā mahā-ojasaḥ mahā-sāhasinaḥ bhagavataḥ sakala-loka-anubhāvasya hareḥ eva tejasā pratihata-bala-avalepāḥ bileśayāḥ iva vasanti ye vai saramayā indra-dūtyā vāgbhiḥ mantravarṇābhiḥ indrāt bibhyati .. 05.24.030 ..
ततोऽधस्तात्पाताले नागलोकपतयो वासुकिप्रमुखाः शङ्खकुलिकमहाशङ्खश्वेतधनञ्जयधृतराष्ट्रशङ्खचूडकम्बलाश्वतरदेवदत्तादयो महाभोगिनो महामर्षा निवसन्ति येषामु ह वै पञ्चसप्तदशशतसहस्रशीर्षाणां फणासु विरचिता महामणयो रोचिष्णवः पातालविवरतिमिरनिकरं स्वरोचिषा विधमन्ति ॥ ०५.२४.०३१ ॥
ततस् अधस्तात् पाताले नाग-लोकपतयः वासुकि-प्रमुखाः शङ्ख-कुलिक-महाशङ्ख-श्वेत-धनञ्जय-धृतराष्ट्र-शङ्खचूड-कम्बल-अश्वतर-देवदत्त-आदयः महा-भोगिनः महा-मर्षाः निवसन्ति येषाम् उ ह वै पञ्च-सप्तदश-शत-सहस्र-शीर्षाणाम् फणासु विरचिताः महा-मणयः रोचिष्णवः पाताल-विवर-तिमिर-निकरम् स्व-रोचिषा विधमन्ति ॥ ०५।२४।०३१ ॥
tatas adhastāt pātāle nāga-lokapatayaḥ vāsuki-pramukhāḥ śaṅkha-kulika-mahāśaṅkha-śveta-dhanañjaya-dhṛtarāṣṭra-śaṅkhacūḍa-kambala-aśvatara-devadatta-ādayaḥ mahā-bhoginaḥ mahā-marṣāḥ nivasanti yeṣām u ha vai pañca-saptadaśa-śata-sahasra-śīrṣāṇām phaṇāsu viracitāḥ mahā-maṇayaḥ rociṣṇavaḥ pātāla-vivara-timira-nikaram sva-rociṣā vidhamanti .. 05.24.031 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे शिशुमारसंस्थावर्णनं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् पञ्चम-स्कन्धे शिशुमारसंस्थावर्णनम् नाम त्रयोविंशः अध्यायः ॥ २३ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām pañcama-skandhe śiśumārasaṃsthāvarṇanam nāma trayoviṃśaḥ adhyāyaḥ .. 23 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In