| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

तस्य मूलदेशे त्रिंशद्योजनसहस्रान्तरआस्ते या । वै कला भगवतस्तामसी समाख्याताऽनन्त इति । सात्वतीया द्रष्ट्टदृश्ययोःसङ्कर्षणमहमित्यभिमान- । लक्षणं यं सङ्कर्षणमित्याचक्षते ॥ १ ॥
तस्य मूल-देशे या । वै कला भगवतः तामसी समाख्याता अनन्तः इति । सात्वतीयाः द्रष्टृ-दृश्ययोः सङ्कर्षणम् अहम् इति अभिमान- । लक्षणम् यम् सङ्कर्षणम् इति आचक्षते ॥ १ ॥
tasya mūla-deśe yā . vai kalā bhagavataḥ tāmasī samākhyātā anantaḥ iti . sātvatīyāḥ draṣṭṛ-dṛśyayoḥ saṅkarṣaṇam aham iti abhimāna- . lakṣaṇam yam saṅkarṣaṇam iti ācakṣate .. 1 ..
यस्येदं क्षितिमण्डले भगवतोऽनन्तमूर्तेः । सहस्रशिरस एकस्मिन्नेव शीर्षणि ध्रियमाणं । सिद्धार्थ इव लक्ष्यते ॥ २ ॥
यस्य इदम् क्षिति-मण्डले भगवतः अनन्त-मूर्तेः । सहस्र-शिरसः एकस्मिन् एव शीर्षणि ध्रियमाणम् । सिद्धार्थः इव लक्ष्यते ॥ २ ॥
yasya idam kṣiti-maṇḍale bhagavataḥ ananta-mūrteḥ . sahasra-śirasaḥ ekasmin eva śīrṣaṇi dhriyamāṇam . siddhārthaḥ iva lakṣyate .. 2 ..
यस्य ह वा इदं कालेनोपसंजिहीर्षतोऽमर्ष- । विरचितरुचिरभ्रमद्भुवोरन्तरेण साङ्कर्षणो नाम रुद्र । एकादशव्यूहस्त्र्यक्षस्त्रिशिखं शूलमुत्तम्भयन्नुदतिष्ठत् ॥ ३ ॥
यस्य ह वै इदम् कालेन उपसंजिहीर्षतः अमर्ष- । विरचित-रुचिर-भ्रमत्-भुवोः अन्तरेण साङ्कर्षणः नाम रुद्र । एकादश-व्यूहः त्र्यक्षः त्रि-शिखम् शूलम् उत्तम्भयन् उदतिष्ठत् ॥ ३ ॥
yasya ha vai idam kālena upasaṃjihīrṣataḥ amarṣa- . viracita-rucira-bhramat-bhuvoḥ antareṇa sāṅkarṣaṇaḥ nāma rudra . ekādaśa-vyūhaḥ tryakṣaḥ tri-śikham śūlam uttambhayan udatiṣṭhat .. 3 ..
यस्याङ्घ्रिकमलयुगलारुणविशदनखमणि- । षण्डमण्डलेष्वहिपतयः सह सात्वतर्षभैरेकान्त- । भक्तियोगेनावनमन्तः स्ववदनानि परिस्फुरत्- । कुण्डलप्रभामण्डितगण्डस्थलान्यतिमनोहराणि । प्रमुदितमनसः खलु विलोकयन्ति ॥ ४ ॥
यस्य अङ्घ्रि-कमल-युगल-अरुण-विशद-नख-मणि- । षण्ड-मण्डलेषु अहि-पतयः सह सात्वत-ऋषभैः एकान्त- । भक्ति-योगेन अवनमन्तः स्व-वदनानि । कुण्डल-प्रभा-मण्डित-गण्ड-स्थलानि अति मनोहराणि । प्रमुदित-मनसः खलु विलोकयन्ति ॥ ४ ॥
yasya aṅghri-kamala-yugala-aruṇa-viśada-nakha-maṇi- . ṣaṇḍa-maṇḍaleṣu ahi-patayaḥ saha sātvata-ṛṣabhaiḥ ekānta- . bhakti-yogena avanamantaḥ sva-vadanāni . kuṇḍala-prabhā-maṇḍita-gaṇḍa-sthalāni ati manoharāṇi . pramudita-manasaḥ khalu vilokayanti .. 4 ..
यस्यैव हि नागराजकुमार्य आशिष । आशासानाश्चार्वङ्गवलयविलसितविशदविपुल- । धवलसुभगरुचिरभुजरजतस्तम्भेष्वगुरुचन्दन- । कुङ्कुमपङ्कानुलेपेनावलिम्पमानास्तदभिमर्शनो- । न्मथितहृदयमकरध्वजावेशरुचिरललितस्मिता- । स्तदनुरागमदमुदितमदविघूर्णितारुणकरुणावलोक- । नयनवदनारविन्दं सव्रीडं किलविलोकयन्ति ॥ ५ ॥
यस्य एव हि नाग-राज-कुमार्यः आशिषः । आशासानाः चारु-अङ्ग-वलय-विलसित-विशद-विपुल- । धवल-सुभग-रुचिर-भुज-रजत-स्तम्भेषु अगुरु-चन्दन- । कुङ्कुम-पङ्क-अनुलेपेन अवलिम्पमानाः तद्-अभिमर्शन-उदक-अभिमर्शन-उदक-उदक-उदक-उदक-उदक-उदक-उदक-उदक-उदक-उदक-उदक-उदक-उदक-उदक-उदक-उदक-उदक-उदक-उदक-उदक-उदक- । न्मथित-हृदय-मकरध्वज-आवेश-रुचिर-ललित-स्मिता । तद्-अनुराग-मद-मुदित-मद-विघूर्णित-अरुण-करुणा-अवलोक- । नयन-वदन-अरविन्दम् स व्रीडम् किल विलोकयन्ति ॥ ५ ॥
yasya eva hi nāga-rāja-kumāryaḥ āśiṣaḥ . āśāsānāḥ cāru-aṅga-valaya-vilasita-viśada-vipula- . dhavala-subhaga-rucira-bhuja-rajata-stambheṣu aguru-candana- . kuṅkuma-paṅka-anulepena avalimpamānāḥ tad-abhimarśana-udaka-abhimarśana-udaka-udaka-udaka-udaka-udaka-udaka-udaka-udaka-udaka-udaka-udaka-udaka-udaka-udaka-udaka-udaka-udaka-udaka-udaka-udaka-udaka- . nmathita-hṛdaya-makaradhvaja-āveśa-rucira-lalita-smitā . tad-anurāga-mada-mudita-mada-vighūrṇita-aruṇa-karuṇā-avaloka- . nayana-vadana-aravindam sa vrīḍam kila vilokayanti .. 5 ..
स एव भगवाननन्तोऽनन्तगुणार्णव आदिदेव । उपसंहृतामर्षरोषवेगो लोकानां स्वस्तय आस्ते ॥ ६ ॥
सः एव भगवान् अनन्तः अनन्त-गुण-अर्णवः आदिदेव । उपसंहृत-अमर्ष-रोष-वेगः लोकानाम् स्वस्तये आस्ते ॥ ६ ॥
saḥ eva bhagavān anantaḥ ananta-guṇa-arṇavaḥ ādideva . upasaṃhṛta-amarṣa-roṣa-vegaḥ lokānām svastaye āste .. 6 ..
ध्यायमानः सुरासुरोरगसिद्धगन्धर्वविद्याधर- । मुनिगणैरनवरतमदमुदितविकृतविह्वललोचनः । सुललितमुखरिकामृतेनाप्यायमानः स्वपार्षदविबुध- । यूथपतीनपरिम्लानरागनवतुलसिकामोदमध्वासवेन । माद्यन्मधुकरत्रातमधुरगीतश्रियं वैजयन्तीं स्वां । वनमालां नीलवासा एककुण्डलो हलककुदि । कृतसुभगसुन्दरभुजो भगवान्माहेन्द्रो वारणेन्द्र इव । काञ्चनीं कक्षामुदारलीलो बिभर्ति ॥ ७ ॥
ध्यायमानः सुर-असुर-उरग-सिद्ध-गन्धर्व-विद्याधर- । मुनि-गणैः अनवरत-मद-मुदित-विकृत-विह्वल-लोचनः । सु ललित-मुखरिका-अमृतेन आप्यायमानः । यूथ-पतीन-परिम्लान-राग-नव-तुलसिका-आमोद-मधु-आसवेन । माद्यत्-मधुकर-त्रात-मधुर-गीत-श्रियम् वैजयन्तीम् स्वाम् । वनमालाम् नील-वासाः एक-कुण्डलः हलककुदि । कृत-सुभग-सुन्दर-भुजः भगवान् माहेन्द्रः वारण-इन्द्रः इव । काञ्चनीम् कक्षाम् उदार-लीलः बिभर्ति ॥ ७ ॥
dhyāyamānaḥ sura-asura-uraga-siddha-gandharva-vidyādhara- . muni-gaṇaiḥ anavarata-mada-mudita-vikṛta-vihvala-locanaḥ . su lalita-mukharikā-amṛtena āpyāyamānaḥ . yūtha-patīna-parimlāna-rāga-nava-tulasikā-āmoda-madhu-āsavena . mādyat-madhukara-trāta-madhura-gīta-śriyam vaijayantīm svām . vanamālām nīla-vāsāḥ eka-kuṇḍalaḥ halakakudi . kṛta-subhaga-sundara-bhujaḥ bhagavān māhendraḥ vāraṇa-indraḥ iva . kāñcanīm kakṣām udāra-līlaḥ bibharti .. 7 ..
य एष एवमनुश्रुतो ध्यायमानो मुमुक्षूणामनादि- । कालकर्मवासनाग्रथितमविद्यामयं हृदयग्नन्थिं । सत्त्वरजस्तमोमयमन्तर्हृदयं गत आशु निर्भिनत्ति । तस्यानुभावान् भगवान् स्वायम्भुवो नारदः सह । तुम्बुरुणा सभायां ब्रह्मणः संश्लोकयामास ॥ ८ ॥
यः एषः एवम् अनुश्रुतः ध्यायमानः मुमुक्षूणाम् अनादि- । काल-कर्म-वासना-ग्रथितम् अविद्या-मयम् हृदय-ग्नन्थिम् । सत्त्व-रजः-तमः-मयम् अन्तर् हृदयम् गतः आशु निर्भिनत्ति । तस्य अनुभावान् भगवान् स्वायम्भुवः नारदः सह । तुम्बुरुणा सभायाम् ब्रह्मणः संश्लोकयामास ॥ ८ ॥
yaḥ eṣaḥ evam anuśrutaḥ dhyāyamānaḥ mumukṣūṇām anādi- . kāla-karma-vāsanā-grathitam avidyā-mayam hṛdaya-gnanthim . sattva-rajaḥ-tamaḥ-mayam antar hṛdayam gataḥ āśu nirbhinatti . tasya anubhāvān bhagavān svāyambhuvaḥ nāradaḥ saha . tumburuṇā sabhāyām brahmaṇaḥ saṃślokayāmāsa .. 8 ..
उत्पत्तिस्थितिलयहेतवोऽस्य कल्पाः । सत्त्वाद्याः प्रकृतिगुणायदीक्षयाऽऽसन् । । यद्रूपं ध्रुवमकृतं यदेकमात्मन् । नानाधात्कथमु ह वेद तस्य वर्त्म ॥ ९ ॥
उत्पत्ति-स्थिति-लय-हेतवः अस्य कल्पाः । सत्त्व-आद्याः प्रकृति-गुणाय दीक्षया आसन् । । यत् रूपम् ध्रुवम् अकृतम् यत् एकम् आत्मन् । न अनाधात् कथम् उ ह वेद तस्य वर्त्म ॥ ९ ॥
utpatti-sthiti-laya-hetavaḥ asya kalpāḥ . sattva-ādyāḥ prakṛti-guṇāya dīkṣayā āsan . . yat rūpam dhruvam akṛtam yat ekam ātman . na anādhāt katham u ha veda tasya vartma .. 9 ..
मूर्तिं नः पुरुकृपया बभार सत्त्वं । संशुद्धं सदसदिदं विभाति यत्र । । यल्लीलां मृगपतिराददेऽनवद्या - । मादातुं स्वजनमनांस्युदारवीर्यः ॥ १० ॥
मूर्तिम् नः पुरु-कृपया बभार सत्त्वम् । संशुद्धम् सत्-असत् इदम् विभाति यत्र । । यत् लीलाम् मृगपतिः आददे अनवद्या । मा आदातुम् स्व-जन-मनांसि उदार-वीर्यः ॥ १० ॥
mūrtim naḥ puru-kṛpayā babhāra sattvam . saṃśuddham sat-asat idam vibhāti yatra . . yat līlām mṛgapatiḥ ādade anavadyā . mā ādātum sva-jana-manāṃsi udāra-vīryaḥ .. 10 ..
यन्नाम श्रुतमनुकीर्तयेदकस्मा - । दार्तो वा यदि पतितः प्रलम्भनाद्वा । । हन्त्यंहः सपदि नृणामशेषमन्यं । कं शेषाद्भगवत आश्रयेन्मुमुक्षुः ॥ ११ ॥
यत् नाम श्रुतम् अनुकीर्तयेत् अकस्मै । दार्तः वा यदि पतितः प्रलम्भनात् वा । । हन्ति अंहः सपदि नृणाम् अशेषम् अन्यम् । कम् शेषात् भगवतः आश्रयेत् मुमुक्षुः ॥ ११ ॥
yat nāma śrutam anukīrtayet akasmai . dārtaḥ vā yadi patitaḥ pralambhanāt vā . . hanti aṃhaḥ sapadi nṛṇām aśeṣam anyam . kam śeṣāt bhagavataḥ āśrayet mumukṣuḥ .. 11 ..
मूर्धन्यर्पितमणुवत्सहस्रमूर्धो । भूगोलं सगिरिसरित्समुद्रसत्त्वम् । । आनन्त्यादनिमितविक्रमस्य भूम्नः । को वीर्याण्यधिगणयेत्सहस्रजिह्वः ॥ १२ ॥
मूर्धनि अर्पितम् अणु-वत् सहस्र-मूर्धो । भू-गोलम् स गिरि-सरित्-समुद्र-सत्त्वम् । । आनन्त्यात् अनिमित-विक्रमस्य भूम्नः । कः वीर्याणि अधिगणयेत् सहस्रजिह्वः ॥ १२ ॥
mūrdhani arpitam aṇu-vat sahasra-mūrdho . bhū-golam sa giri-sarit-samudra-sattvam . . ānantyāt animita-vikramasya bhūmnaḥ . kaḥ vīryāṇi adhigaṇayet sahasrajihvaḥ .. 12 ..
एवम्प्रभावो भगवाननन्तो । दुरन्तवीर्योरुगुणानुभावः । । मूले रसायाः स्थित आत्मतन्त्रो । यो लीलया क्ष्मां स्थितये बिभर्ति ॥ १३ ॥
एवम्प्रभावः भगवान् अनन्तः । । । मूले रसायाः स्थितः । यः लीलया क्ष्माम् स्थितये बिभर्ति ॥ १३ ॥
evamprabhāvaḥ bhagavān anantaḥ . . . mūle rasāyāḥ sthitaḥ . yaḥ līlayā kṣmām sthitaye bibharti .. 13 ..
एता ह्येवेह नृभिरुपगन्तव्या गतयो । यथाकर्मविनिर्मिता यथोपदेशमनुवर्णिताः । कामान् कामयमानैः ॥ १४ ॥
एताः हि एव इह नृभिः उपगन्तव्याः गतयः । यथा कर्म-विनिर्मिताः यथोपदेशम् अनुवर्णिताः । कामान् कामयमानैः ॥ १४ ॥
etāḥ hi eva iha nṛbhiḥ upagantavyāḥ gatayaḥ . yathā karma-vinirmitāḥ yathopadeśam anuvarṇitāḥ . kāmān kāmayamānaiḥ .. 14 ..
एतावतीर्हि राजन् पुंसः प्रवृत्तिलक्षणस्य धर्मस्य । विपाकगतय उच्चावचा विसदृशा यथाप्रन्नं । व्याचख्ये किमन्यत्कथयाम इति ॥ १५ ॥
एतावतीः हि राजन् पुंसः प्रवृत्ति-लक्षणस्य धर्मस्य । विपाक-गतयः उच्चावचाः विसदृशाः यथाप्रन्नम् । व्याचख्ये किम् अन्यत् कथयामः इति ॥ १५ ॥
etāvatīḥ hi rājan puṃsaḥ pravṛtti-lakṣaṇasya dharmasya . vipāka-gatayaḥ uccāvacāḥ visadṛśāḥ yathāprannam . vyācakhye kim anyat kathayāmaḥ iti .. 15 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां । पञ्चमस्कन्धे भूविवरविध्युपवर्णनं नाम पञ्चविंशोऽध्यायः ॥ २५ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् । पञ्चम-स्कन्धे भूविवरविध्युपवर्णनम् नाम पञ्चविंशः अध्यायः ॥ २५ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām . pañcama-skandhe bhūvivaravidhyupavarṇanam nāma pañcaviṃśaḥ adhyāyaḥ .. 25 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In