| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

महर्ष एतद्वैचित्र्यं लोकस्य कथमिति ॥ १ ॥
महा-ऋषे एतत् वैचित्र्यम् लोकस्य कथम् इति ॥ १ ॥
mahā-ṛṣe etat vaicitryam lokasya katham iti .. 1 ..
त्रिगुणत्वात्कर्तुः श्रद्धया कर्मगतयः पृथग्विधाः । सर्वा एव सर्वस्य तारतम्येन भवन्ति ॥ २ ॥
त्रिगुण-त्वात् कर्तुः श्रद्धया कर्म-गतयः पृथग्विधाः । सर्वाः एव सर्वस्य तारतम्येन भवन्ति ॥ २ ॥
triguṇa-tvāt kartuḥ śraddhayā karma-gatayaḥ pṛthagvidhāḥ . sarvāḥ eva sarvasya tāratamyena bhavanti .. 2 ..
राजोवाच
अथेदानीं प्रतिषिद्धलक्षणस्याधर्मस्य तथैव । कर्तुः श्रद्धाया वैसादृश्यात्कर्मफलं विसदृशं भवति । या ह्यनाद्यविद्यया कृतकामानां तत्परिणामलक्षणाः । सृतयः सहस्रशः प्रवृत्तास्तासां । प्राचुर्येणानुवर्णयिष्यामः ॥ ३ ॥
अथ इदानीम् प्रतिषिद्ध-लक्षणस्य अधर्मस्य तथा एव । कर्तुः श्रद्धायाः वैसादृश्यात् कर्म-फलम् विसदृशम् भवति । याः हि अनाद्य-विद्यया कृत-कामानाम् तद्-परिणाम-लक्षणाः । सृतयः सहस्रशस् प्रवृत्ताः तासाम् । प्राचुर्येण अनुवर्णयिष्यामः ॥ ३ ॥
atha idānīm pratiṣiddha-lakṣaṇasya adharmasya tathā eva . kartuḥ śraddhāyāḥ vaisādṛśyāt karma-phalam visadṛśam bhavati . yāḥ hi anādya-vidyayā kṛta-kāmānām tad-pariṇāma-lakṣaṇāḥ . sṛtayaḥ sahasraśas pravṛttāḥ tāsām . prācuryeṇa anuvarṇayiṣyāmaḥ .. 3 ..
ऋषिरुवाच
नरका नाम भगवन् किं देशविशेषा अथवा । बहिस्त्रिलोक्या आहोस्विदन्तरालइति ॥ ४ ॥
नरकाः नाम भगवन् किम् देश-विशेषाः अथवा । बहिस् त्रिलोक्याः आहोस्वित् अन्तराला एति ॥ ४ ॥
narakāḥ nāma bhagavan kim deśa-viśeṣāḥ athavā . bahis trilokyāḥ āhosvit antarālā eti .. 4 ..
अन्तराल एव त्रिजगत्यास्तु दिशि । दक्षिणस्यामधस्ताद्धमेरुपरिष्टाच्च जलाद्यस्याम् । अग्निष्वात्तादयः पितृगणा दिशि स्वानां गोत्राणां । परमेण समाधिना सत्या एवाशिष आशासाना । निवसन्ति ॥ ५ ॥
अन्तराले एव त्रिजगत्याः तु दिशि । दक्षिणस्याम् अधस्तात् धमेः उपरिष्टात् च जलात् यस्याम् । अग्निष्वात्त-आदयः पितृ-गणाः दिशि स्वानाम् गोत्राणाम् । परमेण समाधिना सत्याः एव आशिषः आशासाना । निवसन्ति ॥ ५ ॥
antarāle eva trijagatyāḥ tu diśi . dakṣiṇasyām adhastāt dhameḥ upariṣṭāt ca jalāt yasyām . agniṣvātta-ādayaḥ pitṛ-gaṇāḥ diśi svānām gotrāṇām . parameṇa samādhinā satyāḥ eva āśiṣaḥ āśāsānā . nivasanti .. 5 ..
राजोवाच
यत्र ह वाव भगवान् पितृराजो वैवस्वतः । स्वविषयं प्रापितेषु स्वपुरुषैर्जन्तुषु सम्परेतेषु । यथाकर्मावद्यं दोषमेवानुल्लङ्घितभगवच्छासनः । सगणो दमं धारयति ॥ ६ ॥
यत्र ह वाव भगवान् पितृराजः वैवस्वतः । स्व-विषयम् प्रापितेषु स्व-पुरुषैः जन्तुषु सम्परेतेषु । यथाकर्म अवद्यम् दोषम् एव अन् उल्लङ्घित-भगवत्-शासनः । स गणः दमम् धारयति ॥ ६ ॥
yatra ha vāva bhagavān pitṛrājaḥ vaivasvataḥ . sva-viṣayam prāpiteṣu sva-puruṣaiḥ jantuṣu sampareteṣu . yathākarma avadyam doṣam eva an ullaṅghita-bhagavat-śāsanaḥ . sa gaṇaḥ damam dhārayati .. 6 ..
ऋषिरुवाच
तत्र हैके नरकानेकविंशतिं गणयन्ति अथ । तांस्ते राजन्नामरूपलक्षणतोऽनुक्रमिष्याम- । स्तामिस्रोऽन्धतामिस्रो रौरवो महारौरवः कुम्भीपाकः । कालसूत्रमसिपत्रवनं सूकरमुखयधकूपः कृमि- । भोजनः सन्दंशस्तप्तसूर्मिर्वज्रकण्टकशाल्मली । वैतरणी पूयोदः प्राणरोधो विशसनं लालाभक्षः । सारमेयादनमवीचिरयःपानमिति । किञ्च क्षारकर्दमो । रक्षोगणभोजनः शूलप्रोतो दन्दशूकोऽवटनिरोधनः । पर्यावर्तनः सूचीमुखमित्यष्टाविंशतिर्नरका । विविधयातनाभूमयः ॥ ७ ॥
तत्र ह एके नरकान् एकविंशतिम् गणयन्ति अथ । तान् ते राजन् नाम-रूप-लक्षणतः अनुक्रमिष्याम । स्तामिस्रः अन्धतामिस्रः रौरवः महारौरवः कुम्भीपाकः । कालसूत्रम् असिपत्त्रवनम् सूकर-मुख-यध-कूपः कृमि- । । वैतरणी पूय-उदः प्राण-रोधः विशसनम् लालाभक्षः । सारमेय-अदनम् अवीचिः-रयः-पानम् इति । किञ्च क्षारकर्दमो । । पर्यावर्तनः सूचीमुखम् इति अष्टाविंशतिः नरका । विविध-यातना-भूमयः ॥ ७ ॥
tatra ha eke narakān ekaviṃśatim gaṇayanti atha . tān te rājan nāma-rūpa-lakṣaṇataḥ anukramiṣyāma . stāmisraḥ andhatāmisraḥ rauravaḥ mahārauravaḥ kumbhīpākaḥ . kālasūtram asipattravanam sūkara-mukha-yadha-kūpaḥ kṛmi- . . vaitaraṇī pūya-udaḥ prāṇa-rodhaḥ viśasanam lālābhakṣaḥ . sārameya-adanam avīciḥ-rayaḥ-pānam iti . kiñca kṣārakardamo . . paryāvartanaḥ sūcīmukham iti aṣṭāviṃśatiḥ narakā . vividha-yātanā-bhūmayaḥ .. 7 ..
तत्र यस्तु परवित्तापत्यकलत्राण्यपहरति स हि । कालपाशबद्धो यमपुरुषैरतिभयानकैस्तामिस्रे नरके । बलान्निपात्यते अनशनानुदपानदण्डताडन- । संतर्जनादिभिर्यातनाभिर्यात्यमानो जन्तुर्यत्र । कश्मलमासादित एकदैव मूर्च्छामुपयाति । तामिस्रप्राये ॥ ८ ॥
तत्र यः तु पर-वित्त-अपत्य-कलत्राणि अपहरति स हि । काल-पाश-बद्धः यम-पुरुषैः अति भयानकैः तामिस्रे नरके । बलात् निपात्यते अनशन-अन् उदपान-दण्ड-ताडन- । संतर्जन-आदिभिः यातनाभिः यात्यमानः जन्तुः यत्र । कश्मलम् आसादितः एकदा एव मूर्च्छाम् उपयाति । तामिस्र-प्राये ॥ ८ ॥
tatra yaḥ tu para-vitta-apatya-kalatrāṇi apaharati sa hi . kāla-pāśa-baddhaḥ yama-puruṣaiḥ ati bhayānakaiḥ tāmisre narake . balāt nipātyate anaśana-an udapāna-daṇḍa-tāḍana- . saṃtarjana-ādibhiḥ yātanābhiḥ yātyamānaḥ jantuḥ yatra . kaśmalam āsāditaḥ ekadā eva mūrcchām upayāti . tāmisra-prāye .. 8 ..
एवमेवमन्धतामिस्रे यस्तु वञ्चयित्वा पुरुषं । दारादीनुपयुङ्क्ते यत्र शरीरी निपात्यमानो । यातनास्थो वेदनया नष्टमतिर्नष्टदृष्टिश्च भवति । यथा वनस्पतिर्वृश्च्यमानमूलस्तस्मादन्धतामिस्रं । तमुपदिशन्ति ॥ ९ ॥
एवम् एवम् अन्धतामिस्रे यः तु वञ्चयित्वा पुरुषम् । दार-आदीन् उपयुङ्क्ते यत्र शरीरी निपात्यमानः । यातना-स्थः वेदनया नष्ट-मतिः नष्ट-दृष्टिः च भवति । यथा वनस्पतिः वृश्च्यमान-मूलः तस्मात् अन्धतामिस्रम् । तम् उपदिशन्ति ॥ ९ ॥
evam evam andhatāmisre yaḥ tu vañcayitvā puruṣam . dāra-ādīn upayuṅkte yatra śarīrī nipātyamānaḥ . yātanā-sthaḥ vedanayā naṣṭa-matiḥ naṣṭa-dṛṣṭiḥ ca bhavati . yathā vanaspatiḥ vṛścyamāna-mūlaḥ tasmāt andhatāmisram . tam upadiśanti .. 9 ..
यस्त्विह वा एतदहमिति ममेदमिति भूतद्रोहेण । केवलं स्वकुटुम्बमेवानुदिनं प्रपुष्णाति स तदिह । विहाय स्वयमेव तदशुभेन रौरवे निपतति ॥ १० ॥
यः तु इह वै एतत् अहम् इति मम इदम् इति भूत-द्रोहेण । केवलम् स्व-कुटुम्बम् एव अनुदिनम् प्रपुष्णाति स तत् इह । विहाय स्वयम् एव तत् अशुभेन रौरवे निपतति ॥ १० ॥
yaḥ tu iha vai etat aham iti mama idam iti bhūta-droheṇa . kevalam sva-kuṭumbam eva anudinam prapuṣṇāti sa tat iha . vihāya svayam eva tat aśubhena raurave nipatati .. 10 ..
ये त्विह यथैवामुना विहिंसिता जन्तवः परत्र । यमयातनामुपगतं त एव रुरवो भूत्वा तथा तमेव । विहिंसन्ति तस्माद्रौरवमित्याहू रुरुरिति । सर्पादतिक्रूरसत्त्वस्यापदेशः ॥ ११ ॥
ये तु इह यथा एव अमुना विहिंसिताः जन्तवः परत्र । यम-यातनाम् उपगतम् ते एव रुरवः भूत्वा तथा तम् एव । विहिंसन्ति तस्मात् रौरवम् इति आहुः रुरुः इति । सर्पात् अति क्रूर-सत्त्वस्य अपदेशः ॥ ११ ॥
ye tu iha yathā eva amunā vihiṃsitāḥ jantavaḥ paratra . yama-yātanām upagatam te eva ruravaḥ bhūtvā tathā tam eva . vihiṃsanti tasmāt rauravam iti āhuḥ ruruḥ iti . sarpāt ati krūra-sattvasya apadeśaḥ .. 11 ..
एवमेव महारौरवो यत्र निपतितं पुरुषं क्रव्यादा नाम । रुरवस्तं क्रव्येण घातयन्ति यः केवलं देहम्भरः ॥ १२ ॥
एवम् एव महारौरवः यत्र निपतितम् पुरुषम् क्रव्यादाः नाम । रुरवः तम् क्रव्येण घातयन्ति यः केवलम् देहम्भरः ॥ १२ ॥
evam eva mahārauravaḥ yatra nipatitam puruṣam kravyādāḥ nāma . ruravaḥ tam kravyeṇa ghātayanti yaḥ kevalam dehambharaḥ .. 12 ..
यस्त्विह वा उग्रः पशून् पक्षिणो वा प्राणत । उपरन्धयति तमपकरुणं पुरुषादैरपि विगर्हितममुत्र । यमानुचराः कुम्भीपाकेतप्ततैले उपरन्धयन्ति ॥ १३ ॥
यः तु इह वै उग्रः पशून् पक्षिणः वा प्राणत । उपरन्धयति तम् अपकरुणम् पुरुषादैः अपि विगर्हितम् अमुत्र । यम-अनुचराः कुम्भीपाके तप्त-तैले उपरन्धयन्ति ॥ १३ ॥
yaḥ tu iha vai ugraḥ paśūn pakṣiṇaḥ vā prāṇata . uparandhayati tam apakaruṇam puruṣādaiḥ api vigarhitam amutra . yama-anucarāḥ kumbhīpāke tapta-taile uparandhayanti .. 13 ..
यस्त्विह पितृविप्रब्रह्मध्रुक् स कालसूत्रसंज्ञके । नरके अयुतयोजनपरिमण्डले ताम्रमये तप्तखले । उपर्यधस्तादग्न्यर्काभ्यामतितप्यमानेऽभिनिवेशितः । क्षुत्पिपासाभ्यां च दह्यमानान्तर्बहिः शरीर आस्ते । शेते चेष्टते ऽवतिष्ठति परि धावति च यावन्ति । पशुरोमाणि तावद्वर्षसहस्राणि ॥ १४ ॥
यः तु इह स कालसूत्र-संज्ञके । नरके अयुत-योजन-परिमण्डले ताम्र-मये तप्त-खले । उपरि अधस्तात् अग्नि-अर्काभ्याम् अतितप्यमाने अभिनिवेशितः । क्षुध्-पिपासाभ्याम् च दह्यमाना अन्तर् बहिस् शरीरे आस्ते । शेते चेष्टते अवतिष्ठति परि धावति च यावन्ति । पशु-रोमाणि तावत्-वर्ष-सहस्राणि ॥ १४ ॥
yaḥ tu iha sa kālasūtra-saṃjñake . narake ayuta-yojana-parimaṇḍale tāmra-maye tapta-khale . upari adhastāt agni-arkābhyām atitapyamāne abhiniveśitaḥ . kṣudh-pipāsābhyām ca dahyamānā antar bahis śarīre āste . śete ceṣṭate avatiṣṭhati pari dhāvati ca yāvanti . paśu-romāṇi tāvat-varṣa-sahasrāṇi .. 14 ..
यस्त्विह वै निजवेदपथादनापद्यपगतः । पाखण्डं चोपगतस्तमसिपत्रवनं प्रवेश्य कशया । प्रहरन्ति तत्र हासावितस्ततो धावमान उभयतोधारै- । स्तालवनासिपत्रैश्छिद्यमानसर्वाङ्गो हा हतोऽस्मीति । परमया वेदनया मूर्च्छितः पदे पदे निपतति स्वधर्महा । पाखण्डानुगतं फलं भुङ्क्ते ॥ १५ ॥
यः तु इह वै निज-वेद-पथात् अनापदि अपगतः । पाखण्डम् च उपगतः तम् असिपत्रवनम् प्रवेश्य कशया । प्रहरन्ति तत्र ह असौ इतस् ततस् धावमानः उभयतस् धारैः । स्ताल-वन-असि-पत्रैः छिद्यमान-सर्व-अङ्गः हा हतः अस्मि इति । परमया वेदनया मूर्च्छितः पदे पदे निपतति स्वधर्म-हा । पाखण्ड-अनुगतम् फलम् भुङ्क्ते ॥ १५ ॥
yaḥ tu iha vai nija-veda-pathāt anāpadi apagataḥ . pākhaṇḍam ca upagataḥ tam asipatravanam praveśya kaśayā . praharanti tatra ha asau itas tatas dhāvamānaḥ ubhayatas dhāraiḥ . stāla-vana-asi-patraiḥ chidyamāna-sarva-aṅgaḥ hā hataḥ asmi iti . paramayā vedanayā mūrcchitaḥ pade pade nipatati svadharma-hā . pākhaṇḍa-anugatam phalam bhuṅkte .. 15 ..
यस्त्विह वै राजा राजपुरुषोवा अदण्ड्ये दण्डं । प्रणयति ब्राह्मणे वाशरीरदण्डं स पापीयान्नरकेऽमुत्र । सूकरमुखे निपतति तत्रातिबलैर्विनिष्पिष्यमाणा - । वयवो यथै वे हे क्षुखण्ड आर्तस्वरेण स्वनयन् । क्वचिन्मूर्च्छितः कश्मलमुपगतो यथैवेहादृष्टदोषा । उपरुद्धाः ॥ १६ ॥
यः तु इह वै राजा अ दण्ड्ये दण्डम् । प्रणयति ब्राह्मणे वा अशरीर-दण्डम् स पापीयान् नरके अमुत्र । सूकर-मुखे निपतति तत्र अति बलैः विनिष्पिष्यमाणा । वयवः यथा वे हे क्षुखण्डः आर्त-स्वरेण स्वनयन् । क्वचिद् मूर्च्छितः कश्मलम् उपगतः यथा एव इह अदृष्ट-दोषा । उपरुद्धाः ॥ १६ ॥
yaḥ tu iha vai rājā a daṇḍye daṇḍam . praṇayati brāhmaṇe vā aśarīra-daṇḍam sa pāpīyān narake amutra . sūkara-mukhe nipatati tatra ati balaiḥ viniṣpiṣyamāṇā . vayavaḥ yathā ve he kṣukhaṇḍaḥ ārta-svareṇa svanayan . kvacid mūrcchitaḥ kaśmalam upagataḥ yathā eva iha adṛṣṭa-doṣā . uparuddhāḥ .. 16 ..
यस्त्विह वै भूतानामीश्वरोपकल्पितवृत्तीना - । मविविक्तपरव्यथानां स्वयं पुरुषोपकल्पितवृत्ति- । र्विविक्तपरव्यथो व्यथामाचरति स परत्रान्धकूपे । तदभिद्रोहेणनिपतति हासौ तैर्जन्तुभिःपशुमृग- । पक्षिसरीसृपैर्मशकयूकामत्कुणमक्षिकादिभिर्ये के । चाभिद्रुग्धास्तैः सर्वतोऽभिद्रुह्यमाणस्तमसि । विहतनिद्रानिर्वृतिरब्धावस्थानः परिक्रामति । यथा कुशरीरे जीवः ॥ १७ ॥
यः तु इह वै भूतानाम् ईश्वर-उपकल्पित-वृत्तीनाम् । स्वयम् पुरुष-उपकल्पित-वृत्ति- । र्विविक्त-पर-व्यथः व्यथाम् आचरति स परत्र अन्धकूपे । तद्-अभिद्रोहेण निपतति ह असौ तैः जन्तुभिः पशु-मृग- । पक्षि-सरीसृपैः मशक-यूक-मत्कुण-मक्षिका-आदिभिः ये के । च अभिद्रुग्धाः तैः सर्वतस् अभिद्रुह्यमाणः तमसि । विहत-निद्रा-निर्वृतिः अब्ध-अवस्थानः परिक्रामति । यथा कु शरीरे जीवः ॥ १७ ॥
yaḥ tu iha vai bhūtānām īśvara-upakalpita-vṛttīnām . svayam puruṣa-upakalpita-vṛtti- . rvivikta-para-vyathaḥ vyathām ācarati sa paratra andhakūpe . tad-abhidroheṇa nipatati ha asau taiḥ jantubhiḥ paśu-mṛga- . pakṣi-sarīsṛpaiḥ maśaka-yūka-matkuṇa-makṣikā-ādibhiḥ ye ke . ca abhidrugdhāḥ taiḥ sarvatas abhidruhyamāṇaḥ tamasi . vihata-nidrā-nirvṛtiḥ abdha-avasthānaḥ parikrāmati . yathā ku śarīre jīvaḥ .. 17 ..
यस्त्विह वा असंविभज्याश्नाति यत्किञ्चनो- । पनतमनिर्मितपश्चयज्ञो वायससंस्तुतः स परत्र । कृमिभोजने नरकाधमे निपतति तत्र शतसहस्रयोजने । कृमिकुण्डे कृमिभूतः स्वयं कृमिभिरेव भक्ष्यमाणः । कृमिभोजनो यावत्तदप्रत्ताप्रहुतादोऽनिर्वेशमात्मानं । यातयते ॥ १८ ॥
यः तु इह वै अ संविभज्य अश्नाति यत् किञ्चन । पनतम-निर्मित-पश्चयज्ञः वायस-संस्तुतः स परत्र । कृमिभोजने नरक-अधमे निपतति तत्र शत-सहस्र-योजने । कृमिकुण्डे कृमि-भूतः स्वयम् कृमिभिः एव भक्ष्यमाणः । कृमि-भोजनः यावत् तद्-अप्रत्त-अप्रहुत-अदः अनिर्वेशम् आत्मानम् । यातयते ॥ १८ ॥
yaḥ tu iha vai a saṃvibhajya aśnāti yat kiñcana . panatama-nirmita-paścayajñaḥ vāyasa-saṃstutaḥ sa paratra . kṛmibhojane naraka-adhame nipatati tatra śata-sahasra-yojane . kṛmikuṇḍe kṛmi-bhūtaḥ svayam kṛmibhiḥ eva bhakṣyamāṇaḥ . kṛmi-bhojanaḥ yāvat tad-apratta-aprahuta-adaḥ anirveśam ātmānam . yātayate .. 18 ..
यस्त्विह वै स्तेयेन बलाद्वा हिरण्यरत्नादीनि । ब्राह्मणस्य वापहरत्यन्यस्य वानापदि पुरुषस्तममुत्र । राजन् यमपुरुषा अयस्मयैरग्निपिण्डैः सन्दंशैस्त्वचि । निष्कृषन्ति ॥ १९ ॥
यः तु इह वै स्तेयेन बलात् वा हिरण्य-रत्न-आदीनि । ब्राह्मणस्य वा अपहरति अन्यस्य वा अनापदि पुरुषः तम् अमुत्र । राजन् यम-पुरुषाः अयस्मयैः अग्नि-पिण्डैः सन्दंशैः त्वचि । निष्कृषन्ति ॥ १९ ॥
yaḥ tu iha vai steyena balāt vā hiraṇya-ratna-ādīni . brāhmaṇasya vā apaharati anyasya vā anāpadi puruṣaḥ tam amutra . rājan yama-puruṣāḥ ayasmayaiḥ agni-piṇḍaiḥ sandaṃśaiḥ tvaci . niṣkṛṣanti .. 19 ..
यस्त्विह वा अगम्यां स्त्रियमगम्यं वा पुरुषं । योषिदभिगच्छति तावमुत्र कशया ताडयन्त- । स्तिग्मया सूर्म्या लोहमय्या पुरुषमालिङ्गयन्ति स्त्रियं । च पुरुषरूपया सूर्म्या ॥ २० ॥
यः तु इह वै अगम्याम् स्त्रियम् अगम्यम् वा पुरुषम् । योषित् अभिगच्छति तौ अमुत्र कशया । स्तिग्मया सूर्म्या लोह-मय्या पुरुषम् आलिङ्गयन्ति स्त्रियम् । च पुरुष-रूपया सूर्म्या ॥ २० ॥
yaḥ tu iha vai agamyām striyam agamyam vā puruṣam . yoṣit abhigacchati tau amutra kaśayā . stigmayā sūrmyā loha-mayyā puruṣam āliṅgayanti striyam . ca puruṣa-rūpayā sūrmyā .. 20 ..
यस्त्विह वै सर्वाभिगमस्तममुत्र निरये वर्तमानं । वज्रकण्टकशाल्मलीमारोप्य निष्कर्षन्ति ॥ २१ ॥
यः तु इह वै सर्व-अभिगमः तम् अमुत्र निरये वर्तमानम् । वज्रकण्टक-शाल्मलीम् आरोप्य निष्कर्षन्ति ॥ २१ ॥
yaḥ tu iha vai sarva-abhigamaḥ tam amutra niraye vartamānam . vajrakaṇṭaka-śālmalīm āropya niṣkarṣanti .. 21 ..
ये त्विह वै राजन्या राजपुरुषा वा अपाखण्डा । धर्मसेतून् भिन्दन्ति ते सम्परेत्य वैतरण्यां निपतन्ति । भिन्नमर्यादास्तस्यां निरयपरिखाभूतायां नद्यां । यादोगणैरितस्ततो भक्ष्यमाणा आत्मना न । वियुज्यमानाश्चासुभिरुह्यमानाः स्वाघेन । कर्मपाकमनुस्मरन्तो विण्मूत्रपूयशोणितकेश- । नखास्थिमेदोमांसवसावाहिन्यामुपतप्यन्ते ॥ २२ ॥
ये तु इह वै राजन्याः राज-पुरुषाः वै अपाखण्डा । धर्म-सेतून् भिन्दन्ति ते सम्परेत्य वैतरण्याम् निपतन्ति । भिन्न-मर्यादाः तस्याम् निरय-परिखा-भूतायाम् नद्याम् । यादः-गणैः इतस् ततस् भक्ष्यमाणाः आत्मना न । वियुज्यमानाः च असुभिः उह्यमानाः स्वाघेन । कर्म-पाकम् अनुस्मरन्तः विष्-मूत्र-पूय-शोणित-केश- । नख-अस्थि-मेदः-मांस-वसा-वाहिन्याम् उपतप्यन्ते ॥ २२ ॥
ye tu iha vai rājanyāḥ rāja-puruṣāḥ vai apākhaṇḍā . dharma-setūn bhindanti te samparetya vaitaraṇyām nipatanti . bhinna-maryādāḥ tasyām niraya-parikhā-bhūtāyām nadyām . yādaḥ-gaṇaiḥ itas tatas bhakṣyamāṇāḥ ātmanā na . viyujyamānāḥ ca asubhiḥ uhyamānāḥ svāghena . karma-pākam anusmarantaḥ viṣ-mūtra-pūya-śoṇita-keśa- . nakha-asthi-medaḥ-māṃsa-vasā-vāhinyām upatapyante .. 22 ..
ये त्विह वै वृषलीपतयो नष्टशौचाचारनियमा- । स्त्यक्तलज्जाः पशुचर्यां चरन्ति ते चापि प्रेत्य । पूयविण्मूत्रश्लेष्ममलापूर्णार्णवे निपतन्तित देवाति- । बीभत्सितमश्नन्ति ॥ २३ ॥
ये तु इह वै वृषली-पतयः नष्ट-शौच-आचार-नियमाः । स्त्यक्त-लज्जाः पशु-चर्याम् चरन्ति ते च अपि प्रेत्य । पूय-विष्-मूत्र-श्लेष्म-मल-आपूर्ण-अर्णवे देव अति । बीभत्सितम् अश्नन्ति ॥ २३ ॥
ye tu iha vai vṛṣalī-patayaḥ naṣṭa-śauca-ācāra-niyamāḥ . styakta-lajjāḥ paśu-caryām caranti te ca api pretya . pūya-viṣ-mūtra-śleṣma-mala-āpūrṇa-arṇave deva ati . bībhatsitam aśnanti .. 23 ..
ये त्विह वै श्वगर्दभपतयो ब्राह्मणादयो मृगया- । विहारा अतीर्थे च मृगान्निघ्नन्ति तानपि सम्परेताँ- । ल्लक्ष्यभूतान् यमपुरुषा इषुभिर्विध्यन्ति ॥ २४ ॥
ये तु इह वै श्व-गर्दभ-पतयः ब्राह्मण-आदयः मृगया-आदयः । विहाराः अतीर्थे च मृगान् निघ्नन्ति तान् अपि सम्परेतान् । न् लक्ष्य-भूतान् यम-पुरुषाः इषुभिः विध्यन्ति ॥ २४ ॥
ye tu iha vai śva-gardabha-patayaḥ brāhmaṇa-ādayaḥ mṛgayā-ādayaḥ . vihārāḥ atīrthe ca mṛgān nighnanti tān api samparetān . n lakṣya-bhūtān yama-puruṣāḥ iṣubhiḥ vidhyanti .. 24 ..
ये त्विह वै दाम्भिका दम्भयज्ञेषु पशून् । विशसन्ति तानमुष्मिँल्लोके वैशसे नरके । पतितान्निरयपतयो यातयित्वा विशसन्ति ॥ २५ ॥
ये तु इह वै दाम्भिकाः दम्भ-यज्ञेषु पशून् । विशसन्ति तान् अमुष्मिन् लोके वैशसे नरके । पतितान् निरय-पतयः यातयित्वा विशसन्ति ॥ २५ ॥
ye tu iha vai dāmbhikāḥ dambha-yajñeṣu paśūn . viśasanti tān amuṣmin loke vaiśase narake . patitān niraya-patayaḥ yātayitvā viśasanti .. 25 ..
य स्त्विह वै सवर्णां भार्यां द्विजो रेतः पाययति । काममोहितस्तं पापकृतममुत्र रेतःकुल्यायां । पातयित्वा रेतः सम्पाययन्ति ॥ २६ ॥
यः स्तु इह वै सवर्णाम् भार्याम् द्विजः रेतः पाययति । काम-मोहितः तम् पाप-कृतम् अमुत्र रेतःकुल्यायाम् । पातयित्वा रेतः सम्पाययन्ति ॥ २६ ॥
yaḥ stu iha vai savarṇām bhāryām dvijaḥ retaḥ pāyayati . kāma-mohitaḥ tam pāpa-kṛtam amutra retaḥkulyāyām . pātayitvā retaḥ sampāyayanti .. 26 ..
ये त्विह वै दस्यवोऽग्निदा गरदा ग्रामान् सार्थान् । वा विलुम्पन्ति राजानो राजभटा वा तांश्चापि हि । परेत्य यमदूता वज्रदंष्ट्राः श्वानः सप्तशतानि । विंशतिश्च सरभसं खादन्ति ॥ २७ ॥
ये तु इह वै दस्यवः अग्नि-दाः गर-दाः ग्रामान् सार्थान् । वा विलुम्पन्ति राजानः राज-भटाः वा तान् च अपि हि । परेत्य यमदूताः वज्र-दंष्ट्राः श्वानः सप्तशतानि । विंशतिः च सरभसम् खादन्ति ॥ २७ ॥
ye tu iha vai dasyavaḥ agni-dāḥ gara-dāḥ grāmān sārthān . vā vilumpanti rājānaḥ rāja-bhaṭāḥ vā tān ca api hi . paretya yamadūtāḥ vajra-daṃṣṭrāḥ śvānaḥ saptaśatāni . viṃśatiḥ ca sarabhasam khādanti .. 27 ..
यस्त्विह वाअनृतं वदति साक्ष्ये द्रव्यविनिमये । दाने वा कथञ्चित्स वै प्रेत्य नरकेऽवीचिमत्यधःशिरा । निरवकाशे योजनशतोच्छ्रायाद् गिरिमूर्ध्रः । सम्पात्यते यत्र जलमिव स्थलमश्मपृष्ठमवभासते । तदवीचिमत्तिलशो विशीर्यमाणशरीरो न । म्रियमाणः पुनरारोपितो निपतति ॥ २८ ॥
यः तु इह वा अ अनृतम् वदति साक्ष्ये द्रव्य-विनिमये । दाने वा कथञ्चिद् स वै प्रेत्य नरके अवीचिमती अधःशिराः । निरवकाशे योजन-शत-उच्छ्रायात् गिरि-मूर्ध्रः । सम्पात्यते यत्र जलम् इव स्थलम् अश्म-पृष्ठम् अवभासते । तत् अवीचिमत् तिलशस् विशीर्यमाण-शरीरः न । म्रियमाणः पुनर् आरोपितः निपतति ॥ २८ ॥
yaḥ tu iha vā a anṛtam vadati sākṣye dravya-vinimaye . dāne vā kathañcid sa vai pretya narake avīcimatī adhaḥśirāḥ . niravakāśe yojana-śata-ucchrāyāt giri-mūrdhraḥ . sampātyate yatra jalam iva sthalam aśma-pṛṣṭham avabhāsate . tat avīcimat tilaśas viśīryamāṇa-śarīraḥ na . mriyamāṇaḥ punar āropitaḥ nipatati .. 28 ..
यस्त्विह वै विप्रो राजन्यो वैश्यो वा सोमपीथ- । स्तत्कलत्र वा सुरां व्रतस्थोऽपि वा पिबति प्रमाद- । तस्तेषां निरयं नीतानामुरसि पदाऽऽक्रम्यास्ये वह्निना । द्रवमाणं कार्ष्णायसं निषिश्चन्ति ॥ २९ ॥
यः तु इह वै विप्रः राजन्यः वैश्यः वा सोम-पीथ- । वा सुराम् व्रत-स्थः अपि वा पिबति । तः तेषाम् निरयम् नीतानाम् उरसि पदा आक्रम्य आस्ये वह्निना । द्रवमाणम् कार्ष्णायसम् निषिश्चन्ति ॥ २९ ॥
yaḥ tu iha vai vipraḥ rājanyaḥ vaiśyaḥ vā soma-pītha- . vā surām vrata-sthaḥ api vā pibati . taḥ teṣām nirayam nītānām urasi padā ākramya āsye vahninā . dravamāṇam kārṣṇāyasam niṣiścanti .. 29 ..
अथ च यस्त्विह वा आत्मसम्भावनेन । स्वयमधमो जन्मतपोविद्याचारवर्णाश्रमवतो । वरीयसो न बहु मन्येत स मृतक एव मृत्वा क्षारकर्दमे । निरयेऽवाक् शिरा निपातितो दुरन्ता यातना । ह्यश्रुते ॥ ३० ॥
अथ च यः तु इह वा आत्म-सम्भावनेन । स्वयम् अधमः जन्म-तपः-विद्या-आचार-वर्ण-आश्रमवतः । वरीयसः न बहु मन्येत स मृतकः एव मृत्वा क्षार-कर्दमे । निरये अवाक् सिराः निपातितः दुरन्ता यातना । हि अ श्रुते ॥ ३० ॥
atha ca yaḥ tu iha vā ātma-sambhāvanena . svayam adhamaḥ janma-tapaḥ-vidyā-ācāra-varṇa-āśramavataḥ . varīyasaḥ na bahu manyeta sa mṛtakaḥ eva mṛtvā kṣāra-kardame . niraye avāk sirāḥ nipātitaḥ durantā yātanā . hi a śrute .. 30 ..
ये त्विह वै पुरुषाः पुरुषमेधेन यजन्ते याश्च । स्त्रियो नृपशन् खादन्ति तांश्च ते पशव इव निहता । यमसदने यातयन्तो रक्षोगणाः सौनिका इव । स्वधितिनाऽवदायासृक् पिबन्ति नृत्यन्ति च । गायन्ति च हृष्यमाणा यथेह पुरुषादाः ॥ ३१ ॥
ये तु इह वै पुरुषाः पुरुषमेधेन यजन्ते याः च । स्त्रियः नृ-पशन् खादन्ति तान् च ते पशवः इव निहता । यम-सदने यातयन्तः रक्षः-गणाः सौनिकाः इव । स्वधितिना अवदाय असृज् पिबन्ति नृत्यन्ति च । गायन्ति च हृष्यमाणाः यथा इह पुरुषादाः ॥ ३१ ॥
ye tu iha vai puruṣāḥ puruṣamedhena yajante yāḥ ca . striyaḥ nṛ-paśan khādanti tān ca te paśavaḥ iva nihatā . yama-sadane yātayantaḥ rakṣaḥ-gaṇāḥ saunikāḥ iva . svadhitinā avadāya asṛj pibanti nṛtyanti ca . gāyanti ca hṛṣyamāṇāḥ yathā iha puruṣādāḥ .. 31 ..
ये त्विह वा अनागसोऽरण्ये ग्रामे वा । वैश्रम्भकैरुपसृतानुपविश्रम्भय्य जिजीविषून् । शूलसूत्रादिषूपप्रोतान् क्रीडनकतया यातयन्ति । तेऽपि च प्रेत्य यमयातनासु शूलादिषु प्रोतात्मानः । क्षुतृड्भ्यां चाभिहताः कङ्कवटादिभिश्चेतस्तत- । स्तिग्मतुण्डैराहन्यमाना आत्मशमलं स्मरन्ति ॥ ३२ ॥
ये तु इह वै अनागसः अरण्ये ग्रामे वा । वैश्रम्भकैः उपसृतान् उपविश्रम्भय्य जिजीविषून् । शूल-सूत्र-आदिषु उपप्रोतान् क्रीडनक-तया यातयन्ति । ते अपि च प्रेत्य यम-यातनासु शूल-आदिषु प्रोत-आत्मानः । क्षु-तृड्भ्याम् च अभिहताः कङ्क-वट-आदिभिः च इतस् तत- । स्तिग्म-तुण्डैः आहन्यमानाः आत्म-शमलम् स्मरन्ति ॥ ३२ ॥
ye tu iha vai anāgasaḥ araṇye grāme vā . vaiśrambhakaiḥ upasṛtān upaviśrambhayya jijīviṣūn . śūla-sūtra-ādiṣu upaprotān krīḍanaka-tayā yātayanti . te api ca pretya yama-yātanāsu śūla-ādiṣu prota-ātmānaḥ . kṣu-tṛḍbhyām ca abhihatāḥ kaṅka-vaṭa-ādibhiḥ ca itas tata- . stigma-tuṇḍaiḥ āhanyamānāḥ ātma-śamalam smaranti .. 32 ..
ये त्विह वै भूतान्युद्वेजयन्ति नरा उल्बणस्वभावा । यथा दन्दशूकास्तेऽपि प्रेत्य नरके दन्दशूकाख्ये । निपतन्ति यत्र नृप दन्दशूकाः पञ्चमुखाः । सप्तमुखा उपसृत्य ग्रसन्ति यथा बिलेशयान् ॥ ३३ ॥
ये तु इह वै भूतानि उद्वेजयन्ति नराः उल्बण-स्वभावा । यथा दन्दशूकाः ते अपि प्रेत्य नरके दन्दशूक-आख्ये । निपतन्ति यत्र नृप दन्दशूकाः पञ्च-मुखाः । सप्त-मुखाः उपसृत्य ग्रसन्ति यथा बिलेशयान् ॥ ३३ ॥
ye tu iha vai bhūtāni udvejayanti narāḥ ulbaṇa-svabhāvā . yathā dandaśūkāḥ te api pretya narake dandaśūka-ākhye . nipatanti yatra nṛpa dandaśūkāḥ pañca-mukhāḥ . sapta-mukhāḥ upasṛtya grasanti yathā bileśayān .. 33 ..
ये त्विह वा अन्धावटकुसूलगुहादिषु भूतानि । निरुन्धन्ति तथामुत्र तेष्वेवोपवेश्य सगरेण वह्निना । धूमेन निरुध्यधन्ति ॥ ३४ ॥
ये तु इह वै अन्ध-अवट-कुसूल-गुहा-आदिषु भूतानि । निरुन्धन्ति तथा अमुत्र तेषु एवा उपवेश्य सगरेण वह्निना । धूमेन ॥ ३४ ॥
ye tu iha vai andha-avaṭa-kusūla-guhā-ādiṣu bhūtāni . nirundhanti tathā amutra teṣu evā upaveśya sagareṇa vahninā . dhūmena .. 34 ..
यस्त्विह वा अतिथीनभ्यागतान् वा । गृहपतिरसकृदुपगतमन्युर्दिधक्षुरिव पापेन चक्षुषा । निरीक्षते तस्य चापि निरये पापदृष्टेरक्षिणी वज्रतुण्डा । गृध्राः कङ्ककाकवटादयः प्रसह्योरुबलादुत्पाटयन्ति ॥ ३५ ॥
यः तु इह वै अतिथीन् अभ्यागतान् वा । गृहपतिः असकृत् उपगत-मन्युः दिधक्षुः इव पापेन चक्षुषा । निरीक्षते तस्य च अपि निरये पाप-दृष्टि-रक्षिणी वज्रतुण्डा । गृध्राः कङ्क-काक-वट-आदयः प्रसह्य ऊरु-बलात् उत्पाटयन्ति ॥ ३५ ॥
yaḥ tu iha vai atithīn abhyāgatān vā . gṛhapatiḥ asakṛt upagata-manyuḥ didhakṣuḥ iva pāpena cakṣuṣā . nirīkṣate tasya ca api niraye pāpa-dṛṣṭi-rakṣiṇī vajratuṇḍā . gṛdhrāḥ kaṅka-kāka-vaṭa-ādayaḥ prasahya ūru-balāt utpāṭayanti .. 35 ..
यस्त्विह वा आढ्याभिमतिरहङ्कृतिस्तिर्यक्- । प्रेक्षणः सर्वतोऽभिविशङ्की अर्थव्ययनाशचिन्तया । परिशुष्यमाणहृदयवदनो निर्वृतिमनवगतो ग्रह । इवार्थमभिरक्षति स चापि प्रेत्य तदुत्पादनोत्कर्षण- । संरक्षणशमलग्रहः सूचीमुखे नरके निपतति यत्र ह । वित्तग्रहं पापपुरुषं धर्मराजपुरुषा वायका इव । सर्वतोऽङ्गेषु सूत्रैः परिवयन्ति ॥ ३६ ॥
यः तु इह वै आढ्य-अभिमतिः अहङ्कृतिः तिर्यक् । प्रेक्षणः सर्वतस् अभिविशङ्की अर्थ-व्यय-नाश-चिन्तया । परिशुष्यमाण-हृदय-वदनः निर्वृतिम् अन् अवगतः ग्रह । इव अर्थम् अभिरक्षति स च अपि प्रेत्य तद्-उत्पादन-उत्कर्षण- । संरक्षण-शमल-ग्रहः सूचीमुखे नरके निपतति यत्र ह । वित्त-ग्रहम् पाप-पुरुषम् धर्मराज-पुरुषाः वायकाः इव । सर्वतस् अङ्गेषु सूत्रैः परिवयन्ति ॥ ३६ ॥
yaḥ tu iha vai āḍhya-abhimatiḥ ahaṅkṛtiḥ tiryak . prekṣaṇaḥ sarvatas abhiviśaṅkī artha-vyaya-nāśa-cintayā . pariśuṣyamāṇa-hṛdaya-vadanaḥ nirvṛtim an avagataḥ graha . iva artham abhirakṣati sa ca api pretya tad-utpādana-utkarṣaṇa- . saṃrakṣaṇa-śamala-grahaḥ sūcīmukhe narake nipatati yatra ha . vitta-graham pāpa-puruṣam dharmarāja-puruṣāḥ vāyakāḥ iva . sarvatas aṅgeṣu sūtraiḥ parivayanti .. 36 ..
एवंविधा नरका यमालये सन्ति शतशः । सहस्रशस्तेषु सर्वेषु च सर्व एवाधर्मवर्तिनो ये । केचिदिहोदिता अनुदिताश्चावनिपते पर्यायेण । विशन्ति तथैव धर्मानुवर्तिन इतरत्र इह तु पुनर्भवे । त उभयशेषाभ्यां निविशन्ति ॥ ३७ ॥
एवंविधाः नरकाः यम-आलये सन्ति शतशस् । सहस्रशस् तेषु सर्वेषु च सर्वे एव अधर्म-वर्तिनः ये । केचिद् इह उदिताः अन् उदिताः च अवनिपते पर्यायेण । विशन्ति तथा एव धर्म-अनुवर्तिनः इतरत्र इह तु पुनर्भवे । ते उभय-शेषाभ्याम् निविशन्ति ॥ ३७ ॥
evaṃvidhāḥ narakāḥ yama-ālaye santi śataśas . sahasraśas teṣu sarveṣu ca sarve eva adharma-vartinaḥ ye . kecid iha uditāḥ an uditāḥ ca avanipate paryāyeṇa . viśanti tathā eva dharma-anuvartinaḥ itaratra iha tu punarbhave . te ubhaya-śeṣābhyām niviśanti .. 37 ..
निवृत्तिलक्षणमार्ग आदावेव व्याख्यातः । । एतावानेवाण्डकोशो यश्चतुर्दशधा पुराणेषु । विकल्पित उपगीयते यत्तद्भगवतो नारायणस्य । साक्षान्महापुरुषस्य स्थविष्ठं रूपमात्ममाया- । गुणमयमनुवर्णितमादृतः पठति शृणोति श्रावयति । स उपगेयं भगवतः परमात्मनोऽग्राह्यमपि । श्रद्धाभक्तिविशुद्धबुद्धिर्वेद ॥ ३८ ॥
निवृत्ति-लक्षण-मार्गः आदौ एव व्याख्यातः । । एतावान् एव अण्डकोशः यः चतुर्दशधा पुराणेषु । विकल्पितः उपगीयते यत् तत् भगवतः नारायणस्य । साक्षात् महापुरुषस्य स्थविष्ठम् रूपम् आत्म-माया- । गुण-मयम् अनुवर्णितम् आदृतः पठति शृणोति श्रावयति । सः उपगेयम् भगवतः परमात्मनः अग्राह्यम् अपि । श्रद्धा-भक्ति-विशुद्ध-बुद्धिः वेद ॥ ३८ ॥
nivṛtti-lakṣaṇa-mārgaḥ ādau eva vyākhyātaḥ . . etāvān eva aṇḍakośaḥ yaḥ caturdaśadhā purāṇeṣu . vikalpitaḥ upagīyate yat tat bhagavataḥ nārāyaṇasya . sākṣāt mahāpuruṣasya sthaviṣṭham rūpam ātma-māyā- . guṇa-mayam anuvarṇitam ādṛtaḥ paṭhati śṛṇoti śrāvayati . saḥ upageyam bhagavataḥ paramātmanaḥ agrāhyam api . śraddhā-bhakti-viśuddha-buddhiḥ veda .. 38 ..
श्रुत्वा स्थूलं तथा सूक्ष्मं रूपं भगवतो यतिः । । स्थूले निर्जितमात्मानं शनैःसूक्ष्मं धिया नयेदिति ॥ ३९
श्रुत्वा स्थूलम् तथा सूक्ष्मम् रूपम् भगवतः यतिः । । स्थूले निर्जितम् आत्मानम् शनैस् सूक्ष्मम् धिया नयेत् इति ॥ ३९
śrutvā sthūlam tathā sūkṣmam rūpam bhagavataḥ yatiḥ . . sthūle nirjitam ātmānam śanais sūkṣmam dhiyā nayet iti .. 39
भूद्वीपवर्षसरिदद्रिनभःसमुद्र- । पातालदिङ्नरकभागणलोकसंस्था । । गीता मया तव नृपाद्भुतमीश्वरस्य । स्थूलं वपुः सकलजीवनिकायधाम ॥ ४० ॥
भू-द्वीप-वर्ष-सरित्-अद्रि-नभः-समुद्र- । पाताल-दिश्-नरक-भा-गण-लोक-संस्था । । गीताः मया तव नृप अद्भुतम् ईश्वरस्य । स्थूलम् वपुः सकल-जीवनिकाय-धाम ॥ ४० ॥
bhū-dvīpa-varṣa-sarit-adri-nabhaḥ-samudra- . pātāla-diś-naraka-bhā-gaṇa-loka-saṃsthā . . gītāḥ mayā tava nṛpa adbhutam īśvarasya . sthūlam vapuḥ sakala-jīvanikāya-dhāma .. 40 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां । पञ्चमस्कन्धे नरकानुवर्णनं नाम षड्विशोऽध्यायः ॥ २६ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् । पञ्चम-स्कन्धे नरकानुवर्णनम् नाम षड्विशः अध्यायः ॥ २६ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām . pañcama-skandhe narakānuvarṇanam nāma ṣaḍviśaḥ adhyāyaḥ .. 26 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In