yaḥ tu iha vai etat aham iti mama idam iti bhūta-droheṇa . kevalam sva-kuṭumbam eva anudinam prapuṣṇāti sa tat iha . vihāya svayam eva tat aśubhena raurave nipatati .. 10 ..
ये त्विह यथैवामुना विहिंसिता जन्तवः परत्र । यमयातनामुपगतं त एव रुरवो भूत्वा तथा तमेव । विहिंसन्ति तस्माद्रौरवमित्याहू रुरुरिति । सर्पादतिक्रूरसत्त्वस्यापदेशः ॥ ११ ॥
PADACHEDA
ये तु इह यथा एव अमुना विहिंसिताः जन्तवः परत्र । यम-यातनाम् उपगतम् ते एव रुरवः भूत्वा तथा तम् एव । विहिंसन्ति तस्मात् रौरवम् इति आहुः रुरुः इति । सर्पात् अति क्रूर-सत्त्वस्य अपदेशः ॥ ११ ॥
TRANSLITERATION
ye tu iha yathā eva amunā vihiṃsitāḥ jantavaḥ paratra . yama-yātanām upagatam te eva ruravaḥ bhūtvā tathā tam eva . vihiṃsanti tasmāt rauravam iti āhuḥ ruruḥ iti . sarpāt ati krūra-sattvasya apadeśaḥ .. 11 ..
ये त्विह वै वृषलीपतयो नष्टशौचाचारनियमा- । स्त्यक्तलज्जाः पशुचर्यां चरन्ति ते चापि प्रेत्य । पूयविण्मूत्रश्लेष्ममलापूर्णार्णवे निपतन्तित देवाति- । बीभत्सितमश्नन्ति ॥ २३ ॥
PADACHEDA
ये तु इह वै वृषली-पतयः नष्ट-शौच-आचार-नियमाः । स्त्यक्त-लज्जाः पशु-चर्याम् चरन्ति ते च अपि प्रेत्य । पूय-विष्-मूत्र-श्लेष्म-मल-आपूर्ण-अर्णवे देव अति । बीभत्सितम् अश्नन्ति ॥ २३ ॥
TRANSLITERATION
ye tu iha vai vṛṣalī-patayaḥ naṣṭa-śauca-ācāra-niyamāḥ . styakta-lajjāḥ paśu-caryām caranti te ca api pretya . pūya-viṣ-mūtra-śleṣma-mala-āpūrṇa-arṇave deva ati . bībhatsitam aśnanti .. 23 ..
ये त्विह वै श्वगर्दभपतयो ब्राह्मणादयो मृगया- । विहारा अतीर्थे च मृगान्निघ्नन्ति तानपि सम्परेताँ- । ल्लक्ष्यभूतान् यमपुरुषा इषुभिर्विध्यन्ति ॥ २४ ॥
PADACHEDA
ये तु इह वै श्व-गर्दभ-पतयः ब्राह्मण-आदयः मृगया-आदयः । विहाराः अतीर्थे च मृगान् निघ्नन्ति तान् अपि सम्परेतान् । न् लक्ष्य-भूतान् यम-पुरुषाः इषुभिः विध्यन्ति ॥ २४ ॥
TRANSLITERATION
ye tu iha vai śva-gardabha-patayaḥ brāhmaṇa-ādayaḥ mṛgayā-ādayaḥ . vihārāḥ atīrthe ca mṛgān nighnanti tān api samparetān . n lakṣya-bhūtān yama-puruṣāḥ iṣubhiḥ vidhyanti .. 24 ..
ये त्विह वै दस्यवोऽग्निदा गरदा ग्रामान् सार्थान् । वा विलुम्पन्ति राजानो राजभटा वा तांश्चापि हि । परेत्य यमदूता वज्रदंष्ट्राः श्वानः सप्तशतानि । विंशतिश्च सरभसं खादन्ति ॥ २७ ॥
PADACHEDA
ये तु इह वै दस्यवः अग्नि-दाः गर-दाः ग्रामान् सार्थान् । वा विलुम्पन्ति राजानः राज-भटाः वा तान् च अपि हि । परेत्य यमदूताः वज्र-दंष्ट्राः श्वानः सप्तशतानि । विंशतिः च सरभसम् खादन्ति ॥ २७ ॥
TRANSLITERATION
ye tu iha vai dasyavaḥ agni-dāḥ gara-dāḥ grāmān sārthān . vā vilumpanti rājānaḥ rāja-bhaṭāḥ vā tān ca api hi . paretya yamadūtāḥ vajra-daṃṣṭrāḥ śvānaḥ saptaśatāni . viṃśatiḥ ca sarabhasam khādanti .. 27 ..
अथ च यस्त्विह वा आत्मसम्भावनेन । स्वयमधमो जन्मतपोविद्याचारवर्णाश्रमवतो । वरीयसो न बहु मन्येत स मृतक एव मृत्वा क्षारकर्दमे । निरयेऽवाक् शिरा निपातितो दुरन्ता यातना । ह्यश्रुते ॥ ३० ॥
PADACHEDA
अथ च यः तु इह वा आत्म-सम्भावनेन । स्वयम् अधमः जन्म-तपः-विद्या-आचार-वर्ण-आश्रमवतः । वरीयसः न बहु मन्येत स मृतकः एव मृत्वा क्षार-कर्दमे । निरये अवाक् सिराः निपातितः दुरन्ता यातना । हि अ श्रुते ॥ ३० ॥
TRANSLITERATION
atha ca yaḥ tu iha vā ātma-sambhāvanena . svayam adhamaḥ janma-tapaḥ-vidyā-ācāra-varṇa-āśramavataḥ . varīyasaḥ na bahu manyeta sa mṛtakaḥ eva mṛtvā kṣāra-kardame . niraye avāk sirāḥ nipātitaḥ durantā yātanā . hi a śrute .. 30 ..
एवंविधा नरका यमालये सन्ति शतशः । सहस्रशस्तेषु सर्वेषु च सर्व एवाधर्मवर्तिनो ये । केचिदिहोदिता अनुदिताश्चावनिपते पर्यायेण । विशन्ति तथैव धर्मानुवर्तिन इतरत्र इह तु पुनर्भवे । त उभयशेषाभ्यां निविशन्ति ॥ ३७ ॥
PADACHEDA
एवंविधाः नरकाः यम-आलये सन्ति शतशस् । सहस्रशस् तेषु सर्वेषु च सर्वे एव अधर्म-वर्तिनः ये । केचिद् इह उदिताः अन् उदिताः च अवनिपते पर्यायेण । विशन्ति तथा एव धर्म-अनुवर्तिनः इतरत्र इह तु पुनर्भवे । ते उभय-शेषाभ्याम् निविशन्ति ॥ ३७ ॥
TRANSLITERATION
evaṃvidhāḥ narakāḥ yama-ālaye santi śataśas . sahasraśas teṣu sarveṣu ca sarve eva adharma-vartinaḥ ye . kecid iha uditāḥ an uditāḥ ca avanipate paryāyeṇa . viśanti tathā eva dharma-anuvartinaḥ itaratra iha tu punarbhave . te ubhaya-śeṣābhyām niviśanti .. 37 ..
Participate in traditional Shiva Pūjā performed with authentic mantras, their meanings, and prescribed rituals for matrimony harmony, stability and longevity.