| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच।
अथ ह तमुत्पत्त्यैवाभिव्यज्यमानभगवल्लक्षणं साम्योपशमवैराग्यैश्वर्यमहा विभूतिभिरनुदिनमेधमानानुभावं प्रकृतयः प्रजा ब्राह्मणा देवताश्चावनितलसमवनायातितरां जगृधुः १।
अथ ह तम् उत्पत्त्या एव अभिव्यज्यमान-भगवत्-लक्षणम् साम्य-उपशम-वैराग्य-ऐश्वर्य-महा विभूतिभिः अनुदिनम् एधमान-अनुभावम् प्रकृतयः प्रजाः ब्राह्मणाः देवताः च अवनि-तल-समवनाय अतितराम् जगृधुः।
atha ha tam utpattyā eva abhivyajyamāna-bhagavat-lakṣaṇam sāmya-upaśama-vairāgya-aiśvarya-mahā vibhūtibhiḥ anudinam edhamāna-anubhāvam prakṛtayaḥ prajāḥ brāhmaṇāḥ devatāḥ ca avani-tala-samavanāya atitarām jagṛdhuḥ.
तस्य ह वा इत्थं वर्ष्मणा वरीयसा बृहच्छ्लोकेन चौजसा बलेन श्रिया यशसा वीर्यशौर्याभ्यां च पिता ऋषभ इतीदं नाम चकार २।
तस्य ह वै इत्थम् वर्ष्मणा वरीयसा बृहच्छ्लोकेन च ओजसा बलेन श्रिया यशसा वीर्य-शौर्याभ्याम् च पिता ऋषभः इति इदम् नाम चकार।
tasya ha vai ittham varṣmaṇā varīyasā bṛhacchlokena ca ojasā balena śriyā yaśasā vīrya-śauryābhyām ca pitā ṛṣabhaḥ iti idam nāma cakāra.
श्रीशुक उवाच
यस्य हीन्द्रः स्पर्धमानो भगवान्वर्षे न ववर्ष तदवधार्य भगवानृषभदेवो योगेश्वरः प्रहस्यात्मयोगमायया स्ववर्षमजनाभं नामाभ्यवर्षत् ३।
यस्य हि इन्द्रः स्पर्धमानः भगवान् वर्षे न ववर्ष तत् अवधार्य भगवान् ऋषभदेवः योगेश्वरः प्रहस्य आत्म-योग-मायया स्व-वर्षम् अजनाभम् नाम अभ्यवर्षत्।
yasya hi indraḥ spardhamānaḥ bhagavān varṣe na vavarṣa tat avadhārya bhagavān ṛṣabhadevaḥ yogeśvaraḥ prahasya ātma-yoga-māyayā sva-varṣam ajanābham nāma abhyavarṣat.
नाभिस्तु यथाभिलषितं सुप्रजस्त्वमवरुध्यातिप्रमोदभरविह्वलो गद्गदाक्षरया गिरा स्वैरं गृहीतनरलोकसधर्मं भगवन्तं पुराणपुरुषं मायाविलसितमतिर्वत्स तातेति सानुरागमुपलालयन्परां निर्वृतिमुपगतः ४।
नाभिः तु यथा अभिलषितम् सुप्रजस्-त्वम् अवरुध्य अति प्रमोद-भर-विह्वलः गद्गद-अक्षरया गिरा स्वैरम् गृहीत-नर-लोक-सधर्मम् भगवन्तम् पुराणपुरुषम् माया-विलसित-मतिः वत्स तात इति स अनुरागम् उपलालयन् पराम् निर्वृतिम् उपगतः।
nābhiḥ tu yathā abhilaṣitam suprajas-tvam avarudhya ati pramoda-bhara-vihvalaḥ gadgada-akṣarayā girā svairam gṛhīta-nara-loka-sadharmam bhagavantam purāṇapuruṣam māyā-vilasita-matiḥ vatsa tāta iti sa anurāgam upalālayan parām nirvṛtim upagataḥ.
विदितानुरागमापौरप्रकृति जनपदो राजा नाभिरात्मजं समयसेतुरक्षायामभिषिच्य ब्राह्मणेषूपनिधाय सह मेरुदेव्या विशालायां प्रसन्ननिपुणेन तपसा समाधियोगेन नरनारायणाख्यं भगवन्तं वासुदेवमुपासीनः कालेन तन्महिमानमवाप ५।
विदित-अनुरागम् आ पौर-प्रकृति जनपदः राजा नाभिः आत्मजम् समयसेतु-रक्षायाम् अभिषिच्य ब्राह्मणेषु उपनिधाय सह मेरुदेव्या विशालायाम् प्रसन्न-निपुणेन तपसा समाधि-योगेन नर-नारायण-आख्यम् भगवन्तम् वासुदेवम् उपासीनः कालेन तद्-महिमानम् अवाप।
vidita-anurāgam ā paura-prakṛti janapadaḥ rājā nābhiḥ ātmajam samayasetu-rakṣāyām abhiṣicya brāhmaṇeṣu upanidhāya saha merudevyā viśālāyām prasanna-nipuṇena tapasā samādhi-yogena nara-nārāyaṇa-ākhyam bhagavantam vāsudevam upāsīnaḥ kālena tad-mahimānam avāpa.
यस्य ह पाण्डवेय श्लोकावुदाहरन्ति। को नु तत्कर्म राजर्षेर्नाभेरन्वाचरेत्पुमान्। अपत्यतामगाद्यस्य हरिः शुद्धेन कर्मणा ६।
यस्य ह पाण्डवेय श्लोकौ उदाहरन्ति। कः नु तत् कर्म राजर्षेः नाभेः अन्वाचरेत् पुमान्। अपत्य-ताम् अगात् यस्य हरिः शुद्धेन कर्मणा।
yasya ha pāṇḍaveya ślokau udāharanti. kaḥ nu tat karma rājarṣeḥ nābheḥ anvācaret pumān. apatya-tām agāt yasya hariḥ śuddhena karmaṇā.
ब्रह्मण्योऽन्यः कुतो नाभेर्विप्रा मङ्गलपूजिताः। यस्य बर्हिषि यज्ञेशं दर्शयामासुरोजसा ७।
ब्रह्मण्यः अन्यः कुतस् नाभेः विप्राः मङ्गल-पूजिताः। यस्य बर्हिषि यज्ञेशम् दर्शयामासुः ओजसा।
brahmaṇyaḥ anyaḥ kutas nābheḥ viprāḥ maṅgala-pūjitāḥ. yasya barhiṣi yajñeśam darśayāmāsuḥ ojasā.
अथ ह भगवानृषभदेवः स्ववर्षं कर्मक्षेत्रमनुमन्यमानः प्रदर्शितगुरुकुलवासो लब्धवरैर्गुरुभिरनुज्ञातो गृहमेधिनां धर्माननुशिक्षमाणो जयन्त्यामिन्द्रदत्तायामुभयलक्षणं कर्म समाम्नायाम्नातमभियुञ्जन्नात्मजानामात्मसमानानां शतं जनयामास ८।
अथ ह भगवान् ऋषभदेवः स्व-वर्षम् कर्म-क्षेत्रम् अनुमन्यमानः प्रदर्शित-गुरु-कुल-वासः लब्ध-वरैः गुरुभिः अनुज्ञातः गृहमेधिनाम् धर्मान् अनुशिक्षमाणः जयन्त्याम् इन्द्रदत्तायाम् उभय-लक्षणम् कर्म समाम्नाय आम्नातम् अभियुञ्जन् आत्मजानाम् आत्म-समानानाम् शतम् जनयामास।
atha ha bhagavān ṛṣabhadevaḥ sva-varṣam karma-kṣetram anumanyamānaḥ pradarśita-guru-kula-vāsaḥ labdha-varaiḥ gurubhiḥ anujñātaḥ gṛhamedhinām dharmān anuśikṣamāṇaḥ jayantyām indradattāyām ubhaya-lakṣaṇam karma samāmnāya āmnātam abhiyuñjan ātmajānām ātma-samānānām śatam janayāmāsa.
येषां खलु महायोगी भरतो ज्येष्ठः श्रेष्ठगुण आसीद्येनेदं वर्षंभारतमिति व्यपदिशन्ति ९।
येषाम् खलु महा-योगी भरतः ज्येष्ठः श्रेष्ठ-गुणः आसीत् येन इदम् वर्षम् भारतम् इति व्यपदिशन्ति।
yeṣām khalu mahā-yogī bharataḥ jyeṣṭhaḥ śreṣṭha-guṇaḥ āsīt yena idam varṣam bhāratam iti vyapadiśanti.
तमनु कुशावर्त इलावर्तो ब्रह्मावर्तो मलयः केतुर्भद्रसेन इन्द्रस्पृग्विदर्भः कीकट इति नव नवति प्रधानाः १०।
तम् अनु कुशावर्तः इलावर्तः ब्रह्मावर्तः मलयः केतुः भद्रसेनः इन्द्रस्पृश् विदर्भः कीकटः इति नव नवति प्रधानाः।
tam anu kuśāvartaḥ ilāvartaḥ brahmāvartaḥ malayaḥ ketuḥ bhadrasenaḥ indraspṛś vidarbhaḥ kīkaṭaḥ iti nava navati pradhānāḥ.
कविर्हविरन्तरिक्षः प्रबुद्धः पिप्पलायनः। आविर्होत्रोऽथ द्रुमिलश्चमसः करभाजनः ११।
कविः हविः-अन्तरिक्षः प्रबुद्धः पिप्पलायनः। आविर्होत्रः अथ द्रुमिलः चमसः करभाजनः।
kaviḥ haviḥ-antarikṣaḥ prabuddhaḥ pippalāyanaḥ. āvirhotraḥ atha drumilaḥ camasaḥ karabhājanaḥ.
इति भागवतधर्मदर्शना नव महाभागवतास्तेषां सुचरितं भगवन्महिमोपबृंहितं वसुदेवनारदसंवादमुपशमायनमुपरिष्टाद्वर्णयिष्यामः१२।
इति भागवत-धर्म-दर्शनाः नव महाभागवताः तेषाम् सु चरितम् भगवत्-महिम-उपबृंहितम् वसुदेव-नारद-संवादम् उपशम-अयनम् उपरिष्टात् वर्णयिष्यामः।
iti bhāgavata-dharma-darśanāḥ nava mahābhāgavatāḥ teṣām su caritam bhagavat-mahima-upabṛṃhitam vasudeva-nārada-saṃvādam upaśama-ayanam upariṣṭāt varṇayiṣyāmaḥ.
यवीयांस एकाशीतिर्जायन्तेयाः पितुरादेशकरा महाशालीना महाश्रोत्रिया यज्ञशीलाः कर्मविशुद्धा ब्राह्मणा बभूवुः १३।
यवीयांसः एकाशीतिः जायन्तेयाः पितुः आदेश-कराः महा-शालीनाः महा-श्रोत्रियाः यज्ञ-शीलाः कर्म-विशुद्धाः ब्राह्मणाः बभूवुः।
yavīyāṃsaḥ ekāśītiḥ jāyanteyāḥ pituḥ ādeśa-karāḥ mahā-śālīnāḥ mahā-śrotriyāḥ yajña-śīlāḥ karma-viśuddhāḥ brāhmaṇāḥ babhūvuḥ.
भगवानृषभसंज्ञ आत्मतन्त्रः स्वयं नित्यनिवृत्तानर्थपरम्परः केवलानन्दानुभव ईश्वर एव विपरीतवत्कर्माण्यारभमाणः कालेनानुगतं धर्ममाचरणेनोपशिक्षयन्नतद्विदां सम उपशान्तो मैत्रः कारुणिको धर्मार्थयशःप्रजानन्दामृतावरोधेन गृहेषु लोकं नियमयत् १४।
भगवान् ऋषभ-संज्ञः आत्मतन्त्रः स्वयम् नित्य-निवृत्त-अनर्थ-परम्परः केवल-आनन्द-अनुभवः ईश्वरः एव विपरीत-वत् कर्माणि आरभमाणः कालेन अनुगतम् धर्मम् आचरणेन उपशिक्षयन् अ तद्-विदाम् समः उपशान्तः मैत्रः कारुणिकः धर्म-अर्थ-यशः-प्रजा-आनन्द-अमृत-अवरोधेन गृहेषु लोकम् नियमयत्।
bhagavān ṛṣabha-saṃjñaḥ ātmatantraḥ svayam nitya-nivṛtta-anartha-paramparaḥ kevala-ānanda-anubhavaḥ īśvaraḥ eva viparīta-vat karmāṇi ārabhamāṇaḥ kālena anugatam dharmam ācaraṇena upaśikṣayan a tad-vidām samaḥ upaśāntaḥ maitraḥ kāruṇikaḥ dharma-artha-yaśaḥ-prajā-ānanda-amṛta-avarodhena gṛheṣu lokam niyamayat.
यद्यच्छीर्षण्याचरितं तत्तदनुवर्तते लोकः १५।
यत् यत् शीर्षणि आचरितम् तत् तत् अनुवर्तते लोकः।
yat yat śīrṣaṇi ācaritam tat tat anuvartate lokaḥ.
यद्यपि स्वविदितं सकलधर्मं ब्राह्मं गुह्यं ब्राह्मणैर्दर्शितमार्गेण। सामादिभिरुपायैर्जनतामनुशशास १६।
यदि अपि स्व-विदितम् सकल-धर्मम् ब्राह्मम् गुह्यम् ब्राह्मणैः दर्शित-मार्गेण। साम-आदिभिः उपायैः जनताम् अनुशशास।
yadi api sva-viditam sakala-dharmam brāhmam guhyam brāhmaṇaiḥ darśita-mārgeṇa. sāma-ādibhiḥ upāyaiḥ janatām anuśaśāsa.
द्रव्यदेशकालवयःश्रद्धर्त्विग्विविधोद्देशोपचितैः सर्वैरपि क्रतुभिर्यथोपदेशं शतकृत्व इयाज १७।
द्रव्य-देश-काल-वयः-श्रद्धा-ऋत्विज्-विविध-उद्देश-उपचितैः सर्वैः अपि क्रतुभिः यथोपदेशम् शत-कृत्वस् इयाज।
dravya-deśa-kāla-vayaḥ-śraddhā-ṛtvij-vividha-uddeśa-upacitaiḥ sarvaiḥ api kratubhiḥ yathopadeśam śata-kṛtvas iyāja.
भगवतर्षभेण परिरक्ष्यमाण एतस्मिन्वर्षे न कश्चन पुरुषो। वाञ्छत्यविद्यमानमिवात्मनोऽन्यस्मात्कथञ्चन किमपि कर्हिचिदवेक्षते भर्तर्यनुसवनं। विजृम्भितस्नेहातिशयमन्तरेण १८।
भगवता ऋषभेण परिरक्ष्यमाणे एतस्मिन् वर्षे न कश्चन। वाञ्छति अ विद्यमानम् इव आत्मनः अन्यस्मात् कथञ्चन किम् अपि कर्हिचित् अवेक्षते भर्तरि अनुसवनम्। विजृम्भित-स्नेह-अतिशयम् अन्तरेण।
bhagavatā ṛṣabheṇa parirakṣyamāṇe etasmin varṣe na kaścana. vāñchati a vidyamānam iva ātmanaḥ anyasmāt kathañcana kim api karhicit avekṣate bhartari anusavanam. vijṛmbhita-sneha-atiśayam antareṇa.
स कदाचिदटमानो भगवानृषभो ब्रह्मावर्तगतो ब्रह्मर्षिप्रवरसभायां प्रजानां निशामयन्तीनामात्मजानवहितात्मनः प्रश्रयप्रणयभरसुयन्त्रितानप्युपशिक्षयन्निति होवाच १९।
स कदाचिद् अटमानः भगवान् ऋषभः ब्रह्मावर्त-गतः ब्रह्मर्षि-प्रवर-सभायाम् प्रजानाम् निशामयन्तीनाम् आत्मजान् अवहित-आत्मनः प्रश्रय-प्रणय-भर-सु यन्त्रितान् अपि उपशिक्षयन् इति ह उवाच।
sa kadācid aṭamānaḥ bhagavān ṛṣabhaḥ brahmāvarta-gataḥ brahmarṣi-pravara-sabhāyām prajānām niśāmayantīnām ātmajān avahita-ātmanaḥ praśraya-praṇaya-bhara-su yantritān api upaśikṣayan iti ha uvāca.
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे चतुर्थोऽध्यायः।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् पञ्चम-स्कन्धे चतुर्थः अध्यायः।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām pañcama-skandhe caturthaḥ adhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In