| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

नायं देहो देहभाजां नृलोके कष्टान्कामानर्हते विड्भुजां ये। तपो दिव्यं पुत्रका येन सत्त्वं शुद्ध्येद्यस्माद्ब्रह्मसौख्यं त्वनन्तम् १।
न अयम् देहः देहभाजाम् नृ-लोके कष्टान् कामान् अर्हते विड्भुजाम् ये। तपः दिव्यम् पुत्रकाः येन सत्त्वम् शुद्ध्येत् इद् यस्मात् ब्रह्म-सौख्यम् तु अनन्तम्।
na ayam dehaḥ dehabhājām nṛ-loke kaṣṭān kāmān arhate viḍbhujām ye. tapaḥ divyam putrakāḥ yena sattvam śuddhyet id yasmāt brahma-saukhyam tu anantam.
महत्सेवां द्वारमाहुर्विमुक्तेस्तमोद्वारं योषितां सङ्गिसङ्गम्। महान्तस्ते समचित्ताः प्रशान्ता विमन्यवः सुहृदः साधवो ये २।
महत्-सेवाम् द्वारम् आहुः विमुक्तेः तमः-द्वारम् योषिताम् सङ्गि-सङ्गम्। महान्तः ते सम-चित्ताः प्रशान्ताः विमन्यवः सुहृदः साधवः ये।
mahat-sevām dvāram āhuḥ vimukteḥ tamaḥ-dvāram yoṣitām saṅgi-saṅgam. mahāntaḥ te sama-cittāḥ praśāntāḥ vimanyavaḥ suhṛdaḥ sādhavaḥ ye.
ऋषभ उवाच
ये वा मयीशे कृतसौहृदार्था जनेषु देहम्भरवार्तिकेषु। गृहेषु जायात्मजरातिमत्सु न प्रीतियुक्ता यावदर्थाश्च लोके ३।
ये वा मयि ईशे कृत-सौहृद-अर्थाः जनेषु देहम्भर-वार्तिकेषु। गृहेषु जाया-आत्मज-रातिमत्सु न प्रीति-युक्ताः यावदर्थाः च लोके।
ye vā mayi īśe kṛta-sauhṛda-arthāḥ janeṣu dehambhara-vārtikeṣu. gṛheṣu jāyā-ātmaja-rātimatsu na prīti-yuktāḥ yāvadarthāḥ ca loke.
नूनं प्रमत्तः कुरुते विकर्म यदिन्द्रि यप्रीतय आपृणोति। न साधु मन्ये यत आत्मनोऽयमसन्नपि क्लेशद आस देहः ४।
नूनम् प्रमत्तः कुरुते विकर्म यत् इन्द्रि य-प्रीतये आपृणोति। न साधु मन्ये यतस् आत्मनः अयम् असान् अपि क्लेश-दः आस देहः।
nūnam pramattaḥ kurute vikarma yat indri ya-prītaye āpṛṇoti. na sādhu manye yatas ātmanaḥ ayam asān api kleśa-daḥ āsa dehaḥ.
पराभवस्तावदबोधजातो यावन्न जिज्ञासत आत्मतत्त्वम्। यावत्क्रियास्तावदिदं मनो वै कर्मात्मकं येन शरीरबन्धः ५।
पराभवः तावत् अबोध-जातः यावत् न जिज्ञासते आत्म-तत्त्वम्। यावत् क्रियाः तावत् इदम् मनः वै कर्म-आत्मकम् येन शरीर-बन्धः।
parābhavaḥ tāvat abodha-jātaḥ yāvat na jijñāsate ātma-tattvam. yāvat kriyāḥ tāvat idam manaḥ vai karma-ātmakam yena śarīra-bandhaḥ.
एवं मनः कर्मवशं प्रयुङ्क्ते अविद्ययात्मन्युपधीयमाने। प्रीतिर्न यावन्मयि वासुदेवे न मुच्यते देहयोगेन तावत् ६।
एवम् मनः कर्म-वशम् प्रयुङ्क्ते अविद्यया आत्मनि उपधीयमाने। प्रीतिः न यावत् मयि वासुदेवे न मुच्यते देह-योगेन तावत्।
evam manaḥ karma-vaśam prayuṅkte avidyayā ātmani upadhīyamāne. prītiḥ na yāvat mayi vāsudeve na mucyate deha-yogena tāvat.
यदा न पश्यत्ययथा गुणेहां स्वार्थे प्रमत्तः सहसा विपश्चित्। गतस्मृतिर्विन्दति तत्र तापानासाद्य मैथुन्यमगारमज्ञः ७।
यदा न पश्यति अयथा गुण-ईहाम् स्व-अर्थे प्रमत्तः सहसा विपश्चित्। गत-स्मृतिः विन्दति तत्र तापान् आसाद्य मैथुन्यम् अगारम् अज्ञः।
yadā na paśyati ayathā guṇa-īhām sva-arthe pramattaḥ sahasā vipaścit. gata-smṛtiḥ vindati tatra tāpān āsādya maithunyam agāram ajñaḥ.
पुंसः स्त्रिया मिथुनीभावमेतं तयोर्मिथो हृदयग्रन्थिमाहुः। अतो गृहक्षेत्रसुताप्तवित्तैर्जनस्य मोहोऽयमहं ममेति ८।
पुंसः स्त्रियाः मिथुनीभावम् एतम् तयोः मिथस् हृदय-ग्रन्थिम् आहुः। अतस् गृह-क्षेत्र-सुत-आप्त-वित्तैः जनस्य मोहः अयम् अहम् मम इति।
puṃsaḥ striyāḥ mithunībhāvam etam tayoḥ mithas hṛdaya-granthim āhuḥ. atas gṛha-kṣetra-suta-āpta-vittaiḥ janasya mohaḥ ayam aham mama iti.
यदा मनोहृदयग्रन्थिरस्य कर्मानुबद्धो दृढ आश्लथेत। तदा जनः सम्परिवर्ततेऽस्माद्मुक्तः परं यात्यतिहाय हेतुम् ९।
यदा मनः-हृदय-ग्रन्थिः अस्य कर्म-अनुबद्धः दृढः आश्लथेत। तदा जनः सम्परिवर्तते अस्मात् मुक्तः परम् याति अतिहाय हेतुम्।
yadā manaḥ-hṛdaya-granthiḥ asya karma-anubaddhaḥ dṛḍhaḥ āślatheta. tadā janaḥ samparivartate asmāt muktaḥ param yāti atihāya hetum.
हंसे गुरौ मयि भक्त्यानुवृत्या वितृष्णया द्वन्द्वतितिक्षया च। सर्वत्र जन्तोर्व्यसनावगत्या जिज्ञासया तपसेहानिवृत्त्या १०।
हंसे गुरौ मयि भक्त्या अनुवृत्या वितृष्णया द्वन्द्व-तितिक्षया च। सर्वत्र जन्तोः व्यसन-अवगत्या जिज्ञासया तपसा इह अनिवृत्त्या।
haṃse gurau mayi bhaktyā anuvṛtyā vitṛṣṇayā dvandva-titikṣayā ca. sarvatra jantoḥ vyasana-avagatyā jijñāsayā tapasā iha anivṛttyā.
मत्कर्मभिर्मत्कथया च नित्यं मद्देवसङ्गाद्गुणकीर्तनान्मे। निर्वैरसाम्योपशमेन पुत्रा जिहासया देहगेहात्मबुद्धेः ११।
मद्-कर्मभिः मद्-कथया च नित्यम् मद्-देव-सङ्गात् गुण-कीर्तनात् मे। निर्वैर-साम्य-उपशमेन पुत्राः जिहासया देह-गेह-आत्म-बुद्धेः।
mad-karmabhiḥ mad-kathayā ca nityam mad-deva-saṅgāt guṇa-kīrtanāt me. nirvaira-sāmya-upaśamena putrāḥ jihāsayā deha-geha-ātma-buddheḥ.
अध्यात्मयोगेन विविक्तसेवया प्राणेन्द्रि यात्माभिजयेन सध्र्यक्। सच्छ्रद्धया ब्रह्मचर्येण शश्वदसम्प्रमादेन यमेन वाचाम् १२।
अध्यात्म-योगेन विविक्त-सेवया प्राण-इन्द्रि-आत्म-अभिजयेन। सत्-श्रद्धया ब्रह्मचर्येण शश्वत् असम्प्रमादेन यमेन वाचाम्।
adhyātma-yogena vivikta-sevayā prāṇa-indri-ātma-abhijayena. sat-śraddhayā brahmacaryeṇa śaśvat asampramādena yamena vācām.
सर्वत्र मद्भावविचक्षणेन ज्ञानेन विज्ञानविराजितेन। योगेन धृत्युद्यमसत्त्वयुक्तो लिङ्गं व्यपोहेत्कुशलोऽहमाख्यम् १३।
सर्वत्र मद्-भाव-विचक्षणेन ज्ञानेन विज्ञान-विराजितेन। योगेन धृति-उद्यम-सत्त्व-युक्तः लिङ्गम् व्यपोहेत् कुशलः अहम् आख्यम्।
sarvatra mad-bhāva-vicakṣaṇena jñānena vijñāna-virājitena. yogena dhṛti-udyama-sattva-yuktaḥ liṅgam vyapohet kuśalaḥ aham ākhyam.
कर्माशयं हृदयग्रन्थिबन्धमविद्ययासादितमप्रमत्तः। अनेन योगेन यथोपदेशं सम्यग्व्यपोह्योपरमेत योगात् १४।
कर्म-आशयम् हृदय-ग्रन्थि-बन्धम् अविद्यया आसादितम् अप्रमत्तः। अनेन योगेन यथोपदेशम् सम्यक् व्यपोह्य उपरमेत योगात्।
karma-āśayam hṛdaya-granthi-bandham avidyayā āsāditam apramattaḥ. anena yogena yathopadeśam samyak vyapohya uparameta yogāt.
पुत्रांश्च शिष्यांश्च नृपो गुरुर्वा मल्लोककामो मदनुग्रहार्थः। इत्थं विमन्युरनुशिष्यादतज्ज्ञान्न योजयेत्कर्मसु कर्ममूढान्। कं योजयन्मनुजोऽर्थं लभेत निपातयन्नष्टदृशं हि गर्ते १५।
पुत्रान् च शिष्यान् च नृपः गुरुः वा मद्-लोक-कामः मद्-अनुग्रह-अर्थः। इत्थम् विमन्युः अनुशिष्यात् अतज्ज्ञान् न योजयेत् कर्मसु कर्म-मूढान्। कम् योजयन् मनुजः अर्थम् लभेत निपातयन् नष्ट-दृशम् हि गर्ते।
putrān ca śiṣyān ca nṛpaḥ guruḥ vā mad-loka-kāmaḥ mad-anugraha-arthaḥ. ittham vimanyuḥ anuśiṣyāt atajjñān na yojayet karmasu karma-mūḍhān. kam yojayan manujaḥ artham labheta nipātayan naṣṭa-dṛśam hi garte.
लोकः स्वयं श्रेयसि नष्टदृष्टिर्योऽर्थान्समीहेत निकामकामः। अन्योन्यवैरः सुखलेशहेतोरनन्तदुःखं च न वेद मूढः १६।
लोकः स्वयम् श्रेयसि नष्ट-दृष्टिः यः अर्थान् समीहेत निकाम-कामः। अन्योन्य-वैरः सुख-लेश-हेतोः अनन्त-दुःखम् च न वेद मूढः।
lokaḥ svayam śreyasi naṣṭa-dṛṣṭiḥ yaḥ arthān samīheta nikāma-kāmaḥ. anyonya-vairaḥ sukha-leśa-hetoḥ ananta-duḥkham ca na veda mūḍhaḥ.
कस्तं स्वयं तदभिज्ञो विपश्चिदविद्यायामन्तरे वर्तमानम्। दृष्ट्वा पुनस्तं सघृणः कुबुद्धिं प्रयोजयेदुत्पथगं यथान्धम् १७।
कः तम् स्वयम् तद्-अभिज्ञः विपश्चित् अविद्यायाम् अन्तरे वर्तमानम्। दृष्ट्वा पुनर् तम् स घृणः कु बुद्धिम् प्रयोजयेत् उत्पथ-गम् यथा अन्धम्।
kaḥ tam svayam tad-abhijñaḥ vipaścit avidyāyām antare vartamānam. dṛṣṭvā punar tam sa ghṛṇaḥ ku buddhim prayojayet utpatha-gam yathā andham.
गुरुर्न स स्यात्स्वजनो न स स्यात्पिता न स स्याज्जननी न सा स्यात्। दैवं न तत्स्यान्न पतिश्च स स्यान्न मोचयेद्यः समुपेतमृत्युम् १८।
गुरुः न स स्यात् स्व-जनः न स स्यात् पिता न स स्यात् जननी न सा स्यात्। दैवम् न तत् स्यात् न पतिः च स स्यात् न मोचयेत् यः समुपेत-मृत्युम्।
guruḥ na sa syāt sva-janaḥ na sa syāt pitā na sa syāt jananī na sā syāt. daivam na tat syāt na patiḥ ca sa syāt na mocayet yaḥ samupeta-mṛtyum.
इदं शरीरं मम दुर्विभाव्यं सत्त्वं हि मे हृदयं यत्र धर्मः। पृष्ठे कृतो मे यदधर्म आरादतो हि मामृषभं प्राहुरार्याः १९।
इदम् शरीरम् मम दुर्विभाव्यम् सत्त्वम् हि मे हृदयम् यत्र धर्मः। पृष्ठे कृतः मे यत् अधर्मः आरात् अतस् हि माम् ऋषभम् प्राहुः आर्याः।
idam śarīram mama durvibhāvyam sattvam hi me hṛdayam yatra dharmaḥ. pṛṣṭhe kṛtaḥ me yat adharmaḥ ārāt atas hi mām ṛṣabham prāhuḥ āryāḥ.
तस्माद्भवन्तो हृदयेन जाताः सर्वे महीयांसममुं सनाभम्। अक्लिष्टबुद्ध्या भरतं भजध्वं शुश्रूषणं तद्भरणं प्रजानाम् २०।
तस्मात् भवन्तः हृदयेन जाताः सर्वे महीयांसम् अमुम् सनाभम्। अक्लिष्ट-बुद्ध्याः भरतम् भजध्वम् शुश्रूषणम् तद्-भरणम् प्रजानाम्।
tasmāt bhavantaḥ hṛdayena jātāḥ sarve mahīyāṃsam amum sanābham. akliṣṭa-buddhyāḥ bharatam bhajadhvam śuśrūṣaṇam tad-bharaṇam prajānām.
भूतेषु वीरुद्भ्य उदुत्तमा ये सरीसृपास्तेषु सबोधनिष्ठाः। ततो मनुष्याः प्रमथास्ततोऽपि गन्धर्वसिद्धा विबुधानुगा ये २१।
भूतेषु वीरुद्भ्यः उद् उत्तमाः ये सरीसृपाः तेषु सबोध-निष्ठाः। ततस् मनुष्याः प्रमथाः ततस् अपि गन्धर्व-सिद्धाः विबुध-अनुगाः ये।
bhūteṣu vīrudbhyaḥ ud uttamāḥ ye sarīsṛpāḥ teṣu sabodha-niṣṭhāḥ. tatas manuṣyāḥ pramathāḥ tatas api gandharva-siddhāḥ vibudha-anugāḥ ye.
देवासुरेभ्यो मघवत्प्रधाना दक्षादयो ब्रह्मसुतास्तु तेषाम्। भवः परः सोऽथ विरिञ्चवीर्यः स मत्परोऽहं द्विजदेवदेवः २२।
देव-असुरेभ्यः मघवत्-प्रधानाः दक्ष-आदयः ब्रह्म-सुताः तु तेषाम्। भवः परः सः अथ विरिञ्चवीर्यः स मद्-परः अहम् द्विजदेवदेवः।
deva-asurebhyaḥ maghavat-pradhānāḥ dakṣa-ādayaḥ brahma-sutāḥ tu teṣām. bhavaḥ paraḥ saḥ atha viriñcavīryaḥ sa mad-paraḥ aham dvijadevadevaḥ.
न ब्राह्मणैस्तुलये भूतमन्यत्पश्यामि विप्राः किमतः परं तु। यस्मिन्नृभिः प्रहुतं श्रद्धयाहमश्नामि कामं न तथाग्निहोत्रे २३।
न ब्राह्मणैः तुलये भूतम् अन्यत् पश्यामि विप्राः किम् अतस् परम् तु। यस्मिन् नृभिः प्रहुतम् श्रद्धया अहम् अश्नामि कामम् न तथा अग्निहोत्रे।
na brāhmaṇaiḥ tulaye bhūtam anyat paśyāmi viprāḥ kim atas param tu. yasmin nṛbhiḥ prahutam śraddhayā aham aśnāmi kāmam na tathā agnihotre.
धृता तनूरुशती मे पुराणी येनेह सत्त्वं परमं पवित्रम्। शमो दमः सत्यमनुग्रहश्च तपस्तितिक्षानुभवश्च यत्र २४।
धृता तनूः उशती मे पुराणी येन इह सत्त्वम् परमम् पवित्रम्। शमः दमः सत्यम् अनुग्रहः च तपः तितिक्षा अनुभवः च यत्र।
dhṛtā tanūḥ uśatī me purāṇī yena iha sattvam paramam pavitram. śamaḥ damaḥ satyam anugrahaḥ ca tapaḥ titikṣā anubhavaḥ ca yatra.
मत्तोऽप्यनन्तात्परतः परस्मात्स्वर्गापवर्गाधिपतेर्न किञ्चित्। येषां किमु स्यादितरेण तेषामकिञ्चनानां मयि भक्तिभाजाम् २५।
मत्तः अपि अनन्तात् परतस् परस्मात् स्वर्ग-अपवर्ग-अधिपतेः न किञ्चिद्। येषाम् किमु स्यात् इतरेण तेषाम् अकिञ्चनानाम् मयि भक्ति-भाजाम्।
mattaḥ api anantāt paratas parasmāt svarga-apavarga-adhipateḥ na kiñcid. yeṣām kimu syāt itareṇa teṣām akiñcanānām mayi bhakti-bhājām.
सर्वाणि मद्धिष्ण्यतया भवद्भिश्चराणि भूतानि सुता ध्रुवाणि। सम्भावितव्यानि पदे पदे वो विविक्तदृग्भिस्तदु हार्हणं मे २६।
सर्वाणि मद्-धिष्ण्य-तया भवद्भिः चराणि भूतानि सुताः ध्रुवाणि। सम्भावितव्यानि पदे पदे वः विविक्त-दृग्भिः तत् उ ह अर्हणम् मे।
sarvāṇi mad-dhiṣṇya-tayā bhavadbhiḥ carāṇi bhūtāni sutāḥ dhruvāṇi. sambhāvitavyāni pade pade vaḥ vivikta-dṛgbhiḥ tat u ha arhaṇam me.
मनोवचोदृक्करणेहितस्य साक्षात्कृतं मे परिबर्हणं हि। विना पुमान्येन महाविमोहात्कृतान्तपाशान्न विमोक्तुमीशेत् २७।
मनः-वचः-दृक्करण-ईहितस्य साक्षात् कृतम् मे परिबर्हणम् हि। विना पुमान् येन महा-विमोहात् कृतान्त-पाशान् न विमोक्तुम् ईशेत्।
manaḥ-vacaḥ-dṛkkaraṇa-īhitasya sākṣāt kṛtam me paribarhaṇam hi. vinā pumān yena mahā-vimohāt kṛtānta-pāśān na vimoktum īśet.
एवमनुशास्यात्मजान्स्वयमनुशिष्टानपि लोकानुशासनार्थं महा-नुभावः परमसुहृद्भगवानृषभापदेश उपशमशीलानामुपरतकर्मणां महामुनीनां भक्तिज्ञानवैराग्यलक्षणं पारमहंस्यधर्ममुपशिक्षमाणः स्वतनयशतज्येष्ठं परमभागवतं भगवज्जनपरायणं भरतं धरणि-पालनायाभिषिच्य स्वयं भवन एवोर्वरितशरीरमात्रपरिग्रह उन्मत्त। इव गगनपरिधानः प्रकीर्णकेश आत्मन्यारोपिताहवनीयो ब्रह्माव-र्तात्प्रवव्राज २८।
एवम् अनुशास्य आत्मजान् स्वयम् अनुशिष्टान् अपि लोक-अनुशासन-अर्थम् महा-अनुभावः परम-सुहृद् भगवान् ऋषभ-अपदेशः उपशम-शीलानाम् उपरत-कर्मणाम् महामुनीनाम् भक्ति-ज्ञान-वैराग्य- पारमहंस्य-धर्मम् उपशिक्षमाणः स्व-तनय-शत-ज्येष्ठम् परम-भागवतम् भगवत्-जन-परायणम् भरतम् धरणि पालनाय अभिषिच्य स्वयम् भवने एव उर्वरित-शरीर-मात्र-परिग्रहः। इव गगन-परिधानः प्रकीर्ण-केशः आत्मनि आरोपित-आहवनीयः ब्रह्मावर्तात् प्रवव्राज।
evam anuśāsya ātmajān svayam anuśiṣṭān api loka-anuśāsana-artham mahā-anubhāvaḥ parama-suhṛd bhagavān ṛṣabha-apadeśaḥ upaśama-śīlānām uparata-karmaṇām mahāmunīnām bhakti-jñāna-vairāgya- pāramahaṃsya-dharmam upaśikṣamāṇaḥ sva-tanaya-śata-jyeṣṭham parama-bhāgavatam bhagavat-jana-parāyaṇam bharatam dharaṇi pālanāya abhiṣicya svayam bhavane eva urvarita-śarīra-mātra-parigrahaḥ. iva gagana-paridhānaḥ prakīrṇa-keśaḥ ātmani āropita-āhavanīyaḥ brahmāvartāt pravavrāja.
जडान्धमूकबधिरपिशाचोन्मादकवदवधूतवेषोऽभिभाष्यमाणोऽपि जनानां गृहीतमौनव्रतस्तूष्णीं बभूव २९।
जड-अन्ध-मूक-बधिर-पिशाच-उन्मादक-वत् अवधूत-वेषः अभिभाष्यमाणः अपि जनानाम् गृहीत-मौन-व्रतः तूष्णीम् बभूव।
jaḍa-andha-mūka-badhira-piśāca-unmādaka-vat avadhūta-veṣaḥ abhibhāṣyamāṇaḥ api janānām gṛhīta-mauna-vrataḥ tūṣṇīm babhūva.
श्रीशुक उवाच
तत्र तत्र पुरग्रामाकरखेटवाटखर्वटशिबिरव्रजघोषसार्थगिरि। वनाश्रमादिष्वनुपथमवनिचरापसदैः परिभूयमानो मक्षिकाभिरिव वनगजस्तर्जनताडनावमेहनष्ठीवनग्रावशकृद्र जःप्रक्षेपपूतिवातदुरु-क्तैस्तदविगणयन्नेवासत्संस्थान। एतस्मिन्देहोपलक्षणे सदपदेश उभयानुभवस्वरूपेण स्वमहिमाव-स्थानेनासमारोपिताहं ममाभिमानत्वादविखण्डितमनाः पृथिवी-मेकचरः परिबभ्राम ३०।
तत्र तत्र पुर-ग्राम-आकर-खेट-वाट-खर्वट-शिबिर-व्रज-घोष-सार्थ-गिरि। वन-आश्रम-आदिषु अनुपथम् अवनिचर-अपसदैः परिभूयमानः मक्षिकाभिः इव वन-गजः तर्जन-ताडन-अवमेहन-ष्ठीवन-ग्राव-शकृत्-र-जः-प्रक्षेप-पूति-वात-दुरुक्तैः तत् अ विगणयन्। एतस्मिन् देह-उपलक्षणे सत्-अपदेशः उभय-अनुभव-स्वरूपेण स्व-महिम-अवस्थानेन अ समारोपिता अहम् मम अभिमान-त्वात् अविखण्डित-मनाः पृथिवीम् एकचरः परिबभ्राम।
tatra tatra pura-grāma-ākara-kheṭa-vāṭa-kharvaṭa-śibira-vraja-ghoṣa-sārtha-giri. vana-āśrama-ādiṣu anupatham avanicara-apasadaiḥ paribhūyamānaḥ makṣikābhiḥ iva vana-gajaḥ tarjana-tāḍana-avamehana-ṣṭhīvana-grāva-śakṛt-ra-jaḥ-prakṣepa-pūti-vāta-duruktaiḥ tat a vigaṇayan. etasmin deha-upalakṣaṇe sat-apadeśaḥ ubhaya-anubhava-svarūpeṇa sva-mahima-avasthānena a samāropitā aham mama abhimāna-tvāt avikhaṇḍita-manāḥ pṛthivīm ekacaraḥ paribabhrāma.
अतिसुकुमारकरचरणोरःस्थलविपुलबाह्वंसगलवदनाद्यवयवविन्यासः प्रकृति सुन्दरस्वभावहाससुमुखो नवनलिनदलायमानशिशि-रतारारुणायतनयनरुचिरः सदृशसुभग कपोलकर्णकण्ठनासो विगू-ढस्मितवदनमहोत्सवेन पुरवनितानां मनसि कुसुमशरासनमुपद-धानः परागवलम्बमानकुटिलजटिलकपिशकेशभूरिभारोऽवधूतम-लिननिजशरीरेण ग्रहगृहीत इवादृश्यत ३१।
अति सु कुमार-कर-चरण-उरःस्थल-विपुल-बाहु-अंस-गल-वदन-आदि-अवयव-विन्यासः प्रकृति सुन्दर-स्वभाव-हास-सु मुखः नव-नलिन-दलायमान-शिशिर-तारा-अरुण-आयत-नयन-रुचिरः विगूढ-स्मित-वदन-महा-उत्सवेन पुर-वनितानाम् मनसि कुसुम-शरासनम् उपदधानः पराक् अवलम्बमान-कुटिल-जटिल-कपिश-केश-भूरि-भारः अवधूत-मलिन-निज-शरीरेण ग्रह-गृहीतः इव।
ati su kumāra-kara-caraṇa-uraḥsthala-vipula-bāhu-aṃsa-gala-vadana-ādi-avayava-vinyāsaḥ prakṛti sundara-svabhāva-hāsa-su mukhaḥ nava-nalina-dalāyamāna-śiśira-tārā-aruṇa-āyata-nayana-ruciraḥ vigūḍha-smita-vadana-mahā-utsavena pura-vanitānām manasi kusuma-śarāsanam upadadhānaḥ parāk avalambamāna-kuṭila-jaṭila-kapiśa-keśa-bhūri-bhāraḥ avadhūta-malina-nija-śarīreṇa graha-gṛhītaḥ iva.
यर्हि वाव स भगवान्लोकमिमं योगस्याद्धा प्रतीपमिवाचक्षाण-स्तत्प्रतिक्रियाकर्म बीभत्सितमिति व्रतमाजगरमास्थितः शयान एवाश्नाति पिबति खादत्यवमेहति हदति स्म चेष्टमान। उच्चरित आदिग्धोद्देशः ३२।
यर्हि वाव स भगवान् लोकम् इमम् योगस्य अद्धा प्रतीपम् इव आचक्षाणः तत् प्रतिक्रिया-कर्म बीभत्सितम् इति व्रतम् आजगरम् आस्थितः शयानः एव अश्नाति पिबति खादति अवमेहति हदति स्म चेष्टमान। उच्चरितः आदिग्ध-उद्देशः।
yarhi vāva sa bhagavān lokam imam yogasya addhā pratīpam iva ācakṣāṇaḥ tat pratikriyā-karma bībhatsitam iti vratam ājagaram āsthitaḥ śayānaḥ eva aśnāti pibati khādati avamehati hadati sma ceṣṭamāna. uccaritaḥ ādigdha-uddeśaḥ.
तस्य ह यः पुरीषसुरभिसौगन्ध्यवायुस्तं देशं दशयोजनं समन्तात्सुरभिं चकार ३३।
तस्य ह यः पुरीष-सुरभि-सौगन्ध्य-वायुः तम् देशम् दश-योजनम् समन्तात् सुरभिम् चकार।
tasya ha yaḥ purīṣa-surabhi-saugandhya-vāyuḥ tam deśam daśa-yojanam samantāt surabhim cakāra.
एवं गोमृगकाकचर्यया व्रजंस्तिष्ठन्नासीनः शयानः काकमृगगोचरितः पिबति खादत्यवमेहति स्म ३४।
एवम् गो-मृग-काक-चर्यया व्रजन् तिष्ठन् आसीनः शयानः काक-मृग-गोचरितः पिबति खादति अवमेहति स्म।
evam go-mṛga-kāka-caryayā vrajan tiṣṭhan āsīnaḥ śayānaḥ kāka-mṛga-gocaritaḥ pibati khādati avamehati sma.
इति नानायोगचर्याचरणो भगवान्कैवल्यपतिरृषभोऽविरतपरम-महानन्दानुभव आत्मनि। सर्वेषां भूतानामात्मभूते भगवति वासुदेव आत्मनोऽव्यवधानानन्त-रोदरभावेन सिद्धसमस्तार्थपरिपूर्णो योगैश्वर्याणि वैहायसमनोजवान्तर्धानपरकायप्रवेशदूरग्रहणादीनि यदृच्छयोपगतानि नाञ्जसा नृप हृदयेनाभ्यनन्दत् ३५।
इति नाना योग-चर्या-चरणः भगवान् कैवल्य-पतिः ऋषभः अविरत-परम-महा-आनन्द-अनुभवः आत्मनि। सर्वेषाम् भूतानाम् आत्म-भूते भगवति वासुदेवे आत्मनः अव्यवधान-अनन्तर-उदर-भावेन सिद्ध-समस्त-अर्थ-परिपूर्णः योग-ऐश्वर्याणि वैहायस-मनोजव-अन्तर्धान-परकाय-प्रवेश-दूर-ग्रहण-आदीनि यदृच्छया उपगतानि न अञ्जसा नृप हृदयेन अभ्यनन्दत्।
iti nānā yoga-caryā-caraṇaḥ bhagavān kaivalya-patiḥ ṛṣabhaḥ avirata-parama-mahā-ānanda-anubhavaḥ ātmani. sarveṣām bhūtānām ātma-bhūte bhagavati vāsudeve ātmanaḥ avyavadhāna-anantara-udara-bhāvena siddha-samasta-artha-paripūrṇaḥ yoga-aiśvaryāṇi vaihāyasa-manojava-antardhāna-parakāya-praveśa-dūra-grahaṇa-ādīni yadṛcchayā upagatāni na añjasā nṛpa hṛdayena abhyanandat.
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे ऋषभदेवानुचरिते पञ्चमोऽध्यायः।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् पञ्चम-स्कन्धे ऋषभदेवानुचरिते पञ्चमः अध्यायः।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām pañcama-skandhe ṛṣabhadevānucarite pañcamaḥ adhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In