| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

न नूनं भगव आत्मारामाणां योगसमीरितज्ञानावभर्जितकर्मबीजानामैश्वर्याणि पुनः। क्लेशदानि भवितुमर्हन्ति यदृच्छयोपगतानि १।
न नूनम् भगवः आत्म-आरामाणाम् योग-समीरित-ज्ञान-अवभर्जित-कर्म-बीजानाम् ऐश्वर्याणि पुनर्। क्लेश-दानि भवितुम् अर्हन्ति यदृच्छया उपगतानि।
na nūnam bhagavaḥ ātma-ārāmāṇām yoga-samīrita-jñāna-avabharjita-karma-bījānām aiśvaryāṇi punar. kleśa-dāni bhavitum arhanti yadṛcchayā upagatāni.
सत्यमुक्तं किन्त्विह वा एके न मनसोऽद्धा विश्रम्भमनवस्थानस्य शठकिरात इव सङ्गच्छन्ते २।
सत्यम् उक्तम् किन्तु इह वा एके न मनसः अद्धा विश्रम्भम् अनवस्थानस्य शठ-किरातः इव सङ्गच्छन्ते।
satyam uktam kintu iha vā eke na manasaḥ addhā viśrambham anavasthānasya śaṭha-kirātaḥ iva saṅgacchante.
अथ षष्ठोऽध्यायः - राजोवाच
तथा चोक्तम्। न कुर्यात्कर्हिचित्सख्यं मनसि ह्यनवस्थिते। यद्विश्रम्भाच्चिराच्चीर्णं चस्कन्द तप ऐश्वरम् ३।
तथा च उक्तम्। न कुर्यात् कर्हिचित् सख्यम् मनसि हि अनवस्थिते। यद्-विश्रम्भात् चिरात् चीर्णम् चस्कन्द तपः ऐश्वरम्।
tathā ca uktam. na kuryāt karhicit sakhyam manasi hi anavasthite. yad-viśrambhāt cirāt cīrṇam caskanda tapaḥ aiśvaram.
ऋषिरुवाच।
नित्यं ददाति कामस्य च्छिद्रं तमनु येऽरयः। योगिनः कृतमैत्रस्य पत्युर्जायेव पुंश्चली ४।
नित्यम् ददाति कामस्य छिद्रम् तम् अनु ये अरयः। योगिनः कृत-मैत्रस्य पत्युः जाया इव पुंश्चली।
nityam dadāti kāmasya chidram tam anu ye arayaḥ. yoginaḥ kṛta-maitrasya patyuḥ jāyā iva puṃścalī.
कामो मन्युर्मदो लोभः शोकमोहभयादयः। कर्मबन्धश्च यन्मूलः स्वीकुर्यात्को नु तद्बुधः ५।
कामः मन्युः मदः लोभः शोक-मोह-भय-आदयः। कर्म-बन्धः च यद्-मूलः स्वीकुर्यात् कः नु तत् बुधः।
kāmaḥ manyuḥ madaḥ lobhaḥ śoka-moha-bhaya-ādayaḥ. karma-bandhaḥ ca yad-mūlaḥ svīkuryāt kaḥ nu tat budhaḥ.
अथैवमखिललोकपालललामोऽपि विलक्षणैर्जडवदवधूतवेषभाषा-चरितैरविलक्षित भगवत्प्रभावो योगिनां साम्परायविधिमनुशिक्षयन्स्वकलेवरं जिहासुरात्मन्यात्मानमसंव्यवहितमनर्थान्तरभावेनान्वीक्षमाण उपरतानुवृत्तिरुपरराम ६।
अथा एवम् अखिल-लोकपाल-ललामः अपि विलक्षणैः जड-वत् अवधूत-वेष-भाषा-चरितैः अविलक्षित भगवत्-प्रभावः योगिनाम् साम्पराय-विधिम् अनुशिक्षयन् स्व-कलेवरम् जिहासुः आत्मनि आत्मानम् असंव्यवहितम् अनर्थ-अन्तर-भावेन अन्वीक्षमाणः उपरत-अनुवृत्तिः उपरराम।
athā evam akhila-lokapāla-lalāmaḥ api vilakṣaṇaiḥ jaḍa-vat avadhūta-veṣa-bhāṣā-caritaiḥ avilakṣita bhagavat-prabhāvaḥ yoginām sāmparāya-vidhim anuśikṣayan sva-kalevaram jihāsuḥ ātmani ātmānam asaṃvyavahitam anartha-antara-bhāvena anvīkṣamāṇaḥ uparata-anuvṛttiḥ upararāma.
तस्य ह वा एवं मुक्तलिङ्गस्य भगवत ऋषभस्य योगमायावासनया देह इमां जगतीमभिमानाभासेन सङ्क्रममाणः कोङ्कवेङ्ककुटकान्दक्षिणकर्णाटकान्देशान्यदृच्छयोपगतः कुटकाचलोपवन आस्य कृताश्मकवल उन्माद इव मुक्तमूर्धजोऽसंवीत एव विचचार ७।
तस्य ह वै एवम् मुक्त-लिङ्गस्य भगवतः ऋषभस्य योग-माया-वासनया देहः इमाम् जगतीम् अभिमान-आभासेन सङ्क्रममाणः कोङ्क-वेङ्क-कुटकान् दक्षिण-कर्णाटकान् देशान् यदृच्छया उपगतः कुटक-अचल-उपवने आस्य-कृत-अश्म-कवलः उन्मादः इव मुक्त-मूर्धजः अ संवीतः एव विचचार।
tasya ha vai evam mukta-liṅgasya bhagavataḥ ṛṣabhasya yoga-māyā-vāsanayā dehaḥ imām jagatīm abhimāna-ābhāsena saṅkramamāṇaḥ koṅka-veṅka-kuṭakān dakṣiṇa-karṇāṭakān deśān yadṛcchayā upagataḥ kuṭaka-acala-upavane āsya-kṛta-aśma-kavalaḥ unmādaḥ iva mukta-mūrdhajaḥ a saṃvītaḥ eva vicacāra.
अथ समीरवेगविधूतवेणुविकर्षणजातोग्रदावानलस्तद्वनमालेलिहानः सह तेन ददाह ८।
अथ समीर-वेग-विधूत-वेणु-विकर्षण-जात-उग्र-दाव-अनलः तत् वनम् आलेलिहानः सह तेन ददाह।
atha samīra-vega-vidhūta-veṇu-vikarṣaṇa-jāta-ugra-dāva-analaḥ tat vanam ālelihānaḥ saha tena dadāha.
यस्य किलानुचरितमुपाकर्ण्य कोङ्कवेङ्ककुटकानां राजार्हन्नामोपशिक्ष्य कलावधर्म उत्कृष्यमाणे भवितव्येन विमोहितः स्वधर्मपथमकुतोभयमपहाय कुपथपाखण्डमसमञ्जसं निजमनीषया मन्दः सम्प्रवर्तयिष्यते ९।
यस्य किल अनुचरितम् उपाकर्ण्य कोङ्क-वेङ्क-कुटकानाम् राजा अर्हत्-नाम उपशिक्ष्य कलौ अधर्मे उत्कृष्यमाणे भवितव्येन विमोहितः स्वधर्म-पथम् अकुतोभयम् अपहाय कुपथ-पाखण्डम् असमञ्जसम् निज-मनीषया मन्दः सम्प्रवर्तयिष्यते।
yasya kila anucaritam upākarṇya koṅka-veṅka-kuṭakānām rājā arhat-nāma upaśikṣya kalau adharme utkṛṣyamāṇe bhavitavyena vimohitaḥ svadharma-patham akutobhayam apahāya kupatha-pākhaṇḍam asamañjasam nija-manīṣayā mandaḥ sampravartayiṣyate.
येन ह वाव कलौ मनुजापसदा देवमायामोहिताः स्वविधिनियोगशौचचारित्रविहीना देवहेलनान्यपव्रतानि निजनिजेच्छया गृह्णाना अस्नानानाचमनाशौचकेशोल्लुञ्चनादीनि कलिनाधर्मबहुलेनोपहतधियो ब्रह्मब्राह्मणयज्ञपुरुषलोकविदूषकाः प्रायेण भविष्यन्ति १०।
येन ह वाव कलौ मनुज-अपसदाः देव-माया-मोहिताः स्व-विधि-नियोग-शौच-चारित्र-विहीनाः देव-हेलनानि अपव्रतानि निज-निज-इच्छया गृह्णाना अ स्नान-अन् आचमन-आशौच-केश-उल्लुञ्चन-आदीनि कलिना अधर्म-बहुलेन उपहत-धियः ब्रह्म-ब्राह्मण-यज्ञ-पुरुष-लोक-विदूषकाः प्रायेण भविष्यन्ति।
yena ha vāva kalau manuja-apasadāḥ deva-māyā-mohitāḥ sva-vidhi-niyoga-śauca-cāritra-vihīnāḥ deva-helanāni apavratāni nija-nija-icchayā gṛhṇānā a snāna-an ācamana-āśauca-keśa-ulluñcana-ādīni kalinā adharma-bahulena upahata-dhiyaḥ brahma-brāhmaṇa-yajña-puruṣa-loka-vidūṣakāḥ prāyeṇa bhaviṣyanti.
ते च ह्यर्वाक्तनया निजलोकयात्रयान्धपरम्परयाश्वस्तास्तमस्यन्धे स्वयमेव प्रपतिष्यन्ति ११।
ते च हि अर्वाक् तनयाः निज-लोकयात्रया अन्ध-परम्परया आश्वस्ताः तमसि अन्धे स्वयम् एव प्रपतिष्यन्ति।
te ca hi arvāk tanayāḥ nija-lokayātrayā andha-paramparayā āśvastāḥ tamasi andhe svayam eva prapatiṣyanti.
अयमवतारो रजसोपप्लुतकैवल्योपशिक्षणार्थः १२।
अयम् अवतारः रजसा उपप्लुत-कैवल्य-उपशिक्षण-अर्थः।
ayam avatāraḥ rajasā upapluta-kaivalya-upaśikṣaṇa-arthaḥ.
तस्यानुगुणान्श्लोकान्गायन्ति। अहो भुवः सप्तसमुद्रवत्या द्वीपेषु वर्षेष्वधिपुण्यमेतत्। गायन्ति यत्रत्यजना मुरारेः कर्माणि भद्राण्यवतारवन्ति १३।
तस्य अनुगुणान् श्लोकान् गायन्ति। अहो भुवः सप्त-समुद्रवत्याः द्वीपेषु वर्षेषु अधिपुण्यम् एतत्। गायन्ति यत्रत्य-जनाः मुरारेः कर्माणि भद्राणि अवतारवन्ति।
tasya anuguṇān ślokān gāyanti. aho bhuvaḥ sapta-samudravatyāḥ dvīpeṣu varṣeṣu adhipuṇyam etat. gāyanti yatratya-janāḥ murāreḥ karmāṇi bhadrāṇi avatāravanti.
अहो नु वंशो यशसावदातः प्रैयव्रतो यत्र पुमान्पुराणः। कृतावतारः पुरुषः स आद्यश्चचार धर्मं यदकर्महेतुम् १४।
अहो नु वंशः यशसा अवदातः प्रैयव्रतः यत्र पुमान् पुराणः। कृत-अवतारः पुरुषः सः आद्यः चचार धर्मम् यत् अकर्म-हेतुम्।
aho nu vaṃśaḥ yaśasā avadātaḥ praiyavrataḥ yatra pumān purāṇaḥ. kṛta-avatāraḥ puruṣaḥ saḥ ādyaḥ cacāra dharmam yat akarma-hetum.
को न्वस्य काष्ठामपरोऽनुगच्छेन्मनोरथेनाप्यभवस्य योगी। यो योगमायाः स्पृहयत्युदस्ता ह्यसत्तया येन कृतप्रयत्नाः १५।
कः नु अस्य काष्ठाम् अपरः अनुगच्छेत् मनोरथेन अपि अभवस्य योगी। यः योग-मायाः स्पृहयति उदस्ताः हि असत्तया येन कृत-प्रयत्नाः।
kaḥ nu asya kāṣṭhām aparaḥ anugacchet manorathena api abhavasya yogī. yaḥ yoga-māyāḥ spṛhayati udastāḥ hi asattayā yena kṛta-prayatnāḥ.
यो योगमायाः स्पृहयत्युदस्ता ह्यसत्तया येन कृतप्रयत्नाः १५।
यः योग-मायाः स्पृहयति उदस्ताः हि असत्-तया येन कृत-प्रयत्नाः।
yaḥ yoga-māyāḥ spṛhayati udastāḥ hi asat-tayā yena kṛta-prayatnāḥ.
इति ह स्म सकलवेदलोकदेवब्राह्मणगवां परमगुरोर्भगवत ऋषभाख्यस्य विशुद्धाचरितमीरितं पुंसां समस्तदुश्चरिताभिहरणं परममहामङ्गलायनमिदमनुश्रद्धयोपचितयानुशृणोत्याश्रावयति वा-वहितो भगवति तस्मिन्वासुदेव एकान्ततो भक्तिरनयोरपि समनुवर्तते १६।
इति ह स्म सकल-वेद-लोक-देव-ब्राह्मण-गवाम् परम-गुरोः भगवतः ऋषभ-आख्यस्य विशुद्ध-आचरितम् ईरितम् पुंसाम् समस्त-दुश्चरित-अभिहरणम् परम-महा-मङ्गलायनम् इदम् अनुश्रद्धया उपचितया अनुशृणोति आश्रावयति वा अवहितः भगवति तस्मिन् वासुदेवे एकान्ततः भक्तिः अनयोः अपि समनुवर्तते।
iti ha sma sakala-veda-loka-deva-brāhmaṇa-gavām parama-guroḥ bhagavataḥ ṛṣabha-ākhyasya viśuddha-ācaritam īritam puṃsām samasta-duścarita-abhiharaṇam parama-mahā-maṅgalāyanam idam anuśraddhayā upacitayā anuśṛṇoti āśrāvayati vā avahitaḥ bhagavati tasmin vāsudeve ekāntataḥ bhaktiḥ anayoḥ api samanuvartate.
यस्यामेव कवय आत्मानमविरतं विविधवृजिनसंसारपरितापोपतप्यमानमनुसवनं स्नापयन्तस्तयैव परया निर्वृत्या ह्यपवर्गमात्यन्तिकं परमपुरुषार्थमपि स्वयमासादितं नो एवाद्रियन्ते भगवदीयत्वेनैव परिसमाप्तसर्वार्थाः १७।
यस्याम् एव कवयः आत्मानम् अविरतम् विविध-वृजिन-संसार-परिताप-उपतप्यमानम् अनुसवनम् स्नापयन्तः तया एव परया निर्वृत्या हि अपवर्गम् आत्यन्तिकम् परम-पुरुष-अर्थम् अपि स्वयम् आसादितम् नो एव आद्रियन्ते भगवदीय-त्वेन एव परिसमाप्त-सर्व-अर्थाः।
yasyām eva kavayaḥ ātmānam aviratam vividha-vṛjina-saṃsāra-paritāpa-upatapyamānam anusavanam snāpayantaḥ tayā eva parayā nirvṛtyā hi apavargam ātyantikam parama-puruṣa-artham api svayam āsāditam no eva ādriyante bhagavadīya-tvena eva parisamāpta-sarva-arthāḥ.
राजन्पतिर्गुरुरलं भवतां यदूनां। दैवं प्रियः कुलपतिः क्व च किङ्करो वः। अस्त्वेवमङ्ग भगवान्भजतां मुकुन्दो। मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् १८।
राजन् पतिः गुरुः अलम् भवताम् यदूनाम्। दैवम् प्रियः कुल-पतिः क्व च किङ्करः वः। अस्तु एवम् अङ्ग भगवान् भजताम् मुकुन्दो। मुक्तिम् ददाति कर्हिचित् स्म न भक्ति-योगम्।
rājan patiḥ guruḥ alam bhavatām yadūnām. daivam priyaḥ kula-patiḥ kva ca kiṅkaraḥ vaḥ. astu evam aṅga bhagavān bhajatām mukundo. muktim dadāti karhicit sma na bhakti-yogam.
नित्यानुभूतनिजलाभनिवृत्ततृष्णः। श्रेयस्यतद्रचनया चिरसुप्तबुद्धेः। लोकस्य यः करुणयाभयमात्मलोकम्। आख्यान्नमो भगवते ऋषभाय तस्मै १९।
। श्रेयस्य-तद्-रचनया चिर-सुप्त-बुद्धेः। लोकस्य यः करुणया अभयम् आत्म-लोकम्। आख्यात् नमः भगवते ऋषभाय तस्मै।
. śreyasya-tad-racanayā cira-supta-buddheḥ. lokasya yaḥ karuṇayā abhayam ātma-lokam. ākhyāt namaḥ bhagavate ṛṣabhāya tasmai.
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे ऋषभदेवानुचरिते षष्ठोऽध्यायः।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् पञ्चम-स्कन्धे ऋषभदेवानुचरिते षष्ठः अध्यायः।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām pañcama-skandhe ṛṣabhadevānucarite ṣaṣṭhaḥ adhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In