| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

एकदा तु महानद्यां कृताभिषेकनैयमिकावश्यको ब्रह्माक्षरमभिगृणानो मुहूर्तत्रयमुदकान्त उपविवेश १।
एकदा तु महा-नद्याम् कृत-अभिषेक-नैयमिक-आवश्यकः ब्रह्म-अक्षरम् अभिगृणानः मुहूर्त-त्रयम् उदक-अन्ते उपविवेश।
ekadā tu mahā-nadyām kṛta-abhiṣeka-naiyamika-āvaśyakaḥ brahma-akṣaram abhigṛṇānaḥ muhūrta-trayam udaka-ante upaviveśa.
तत्र तदा राजन्हरिणी पिपासया जलाशयाभ्याशमेकैवोपजगाम २।
तत्र तदा राजन् हरिणी पिपासया जलाशय-अभ्याशम् एका एवा उपजगाम।
tatra tadā rājan hariṇī pipāsayā jalāśaya-abhyāśam ekā evā upajagāma.
श्रीशुक उवाच।
तया पेपीयमान उदके तावदेवाविदूरेण नदतो मृगपतेरुन्नादो लोकभयङ्कर उदपतत् ३।
तया पेपीयमाने उदके तावत् एव अविदूरेण नदतः मृगपतेः उन्नादः लोक-भयङ्करः उदपतत्।
tayā pepīyamāne udake tāvat eva avidūreṇa nadataḥ mṛgapateḥ unnādaḥ loka-bhayaṅkaraḥ udapatat.
तमुपश्रुत्य सा मृगवधूः प्रकृतिविक्लवा चकितनिरीक्षणा सुतरामपि हरिभयाभिनिवेशव्यग्रहृदया पारिप्लवदृष्टिरगततृषा भयात्सहसैवोच्चक्राम ४।
तम् उपश्रुत्य सा मृग-वधूः प्रकृति-विक्लवा चकित-निरीक्षणा सुतराम् अपि हरि-भय-अभिनिवेश-व्यग्र-हृदया पारिप्लव-दृष्टिः अगत-तृषा भयात् सहसा एव उच्चक्राम।
tam upaśrutya sā mṛga-vadhūḥ prakṛti-viklavā cakita-nirīkṣaṇā sutarām api hari-bhaya-abhiniveśa-vyagra-hṛdayā pāriplava-dṛṣṭiḥ agata-tṛṣā bhayāt sahasā eva uccakrāma.
तस्या उत्पतन्त्या अन्तर्वत्न्या उरुभयावगलितो योनिनिर्गतो गर्भः स्रोतसि निपपात ५।
तस्याः उत्पतन्त्याः अन्तर्वत्न्याः उरु-भय-अवगलितः योनि-निर्गतः गर्भः स्रोतसि निपपात।
tasyāḥ utpatantyāḥ antarvatnyāḥ uru-bhaya-avagalitaḥ yoni-nirgataḥ garbhaḥ srotasi nipapāta.
तत्प्रसवोत्सर्पणभयखेदातुरा स्वगणेन वियुज्यमाना कस्याञ्चिद्दर्यां कृष्णसारसती निपपाताथ च ममार ६।
तद्-प्रसव-उत्सर्पण-भय-खेद-आतुरा स्व-गणेन वियुज्यमाना कस्याञ्चिद् दर्याम् कृष्णसारसती निपपात अथ च ममार।
tad-prasava-utsarpaṇa-bhaya-kheda-āturā sva-gaṇena viyujyamānā kasyāñcid daryām kṛṣṇasārasatī nipapāta atha ca mamāra.
तं त्वेणकुणकं कृपणं स्रोतसानूह्यमानमभिवीक्ष्यापविद्धं बन्धुरिवानुकम्पया राजर्षिर्भरत आदाय मृतमातरमित्याश्रमपदमनयत् ७।
तम् तु एण-कुणकम् कृपणम् स्रोतसा अनूह्यमानम् अभिवीक्ष्य अपविद्धम् बन्धुः इव अनुकम्पया राजर्षिः भरतः आदाय मृत-मातरम् इति आश्रम-पदम् अनयत्।
tam tu eṇa-kuṇakam kṛpaṇam srotasā anūhyamānam abhivīkṣya apaviddham bandhuḥ iva anukampayā rājarṣiḥ bharataḥ ādāya mṛta-mātaram iti āśrama-padam anayat.
तस्य ह वा एणकुणक उच्चैरेतस्मिन्कृतनिजाभिमानस्याहरहस्तत्पोषणपालनलालनप्रीणनानुध्यानेनात्मनियमाः सहयमाः पुरुषपरिचर्यादय एकैकशः कतिपयेनाहर्गणेन वियुज्यमानाः किल सर्व एवोदवसन् ८।
तस्य ह वा एण-कुणके उच्चैस् एतस्मिन् कृत-निज-अभिमानस्य अहरहर् तद्-पोषण-पालन-लालन-प्रीणन-अनुध्यानेन आत्म-नियमाः सहयमाः पुरुष-परिचर्या-आदयः एकैकशस् कतिपयेन अहर्गणेन वियुज्यमानाः किल सर्वे एव उदवसन्।
tasya ha vā eṇa-kuṇake uccais etasmin kṛta-nija-abhimānasya aharahar tad-poṣaṇa-pālana-lālana-prīṇana-anudhyānena ātma-niyamāḥ sahayamāḥ puruṣa-paricaryā-ādayaḥ ekaikaśas katipayena ahargaṇena viyujyamānāḥ kila sarve eva udavasan.
अहो बतायं हरिणकुणकः कृपण ईश्वररथचरणपरिभ्रमणरयेण स्वगणसुहृद् बन्धुभ्यः परिवर्जितः शरणं च मोपसादितो मामेव माता-पितरौ भ्रातृज्ञातीन्यौथिकांश्चैवोपेयाय नान्यं कञ्चन वेद मय्यतिवि-स्रब्धश्चात एव मया मत्परायणस्य पोषणपालनप्रीणनलालनमनसूयुनानुष्ठेयं शरण्योपेक्षादोषविदुषा ९।
अहो बत अयम् हरिण-कुणकः कृपणः ईश्वर-रथ-चरण-परिभ्रमण-रयेण स्व-गण-सुहृद् बन्धुभ्यः परिवर्जितः शरणम् च मा उपसादितः माम् एव माता-पितरौ भ्रातृ-ज्ञातीन् न अन्यम् कञ्चन वेद मयि अति विस्रब्धः च अतस् एव मया मद्-परायणस्य पोषण-पालन-प्रीणन-लालनम् अनसूयुना अनुष्ठेयम् शरण्य-उपेक्षा-दोष-विदुषा।
aho bata ayam hariṇa-kuṇakaḥ kṛpaṇaḥ īśvara-ratha-caraṇa-paribhramaṇa-rayeṇa sva-gaṇa-suhṛd bandhubhyaḥ parivarjitaḥ śaraṇam ca mā upasāditaḥ mām eva mātā-pitarau bhrātṛ-jñātīn na anyam kañcana veda mayi ati visrabdhaḥ ca atas eva mayā mad-parāyaṇasya poṣaṇa-pālana-prīṇana-lālanam anasūyunā anuṣṭheyam śaraṇya-upekṣā-doṣa-viduṣā.
नूनं ह्यार्याः साधव उपशमशीलाः कृपणसुहृद एवंविधार्थे स्वार्थानपि गुरुतरानुपेक्षन्ते १०।
नूनम् हि आर्याः साधवः उपशम-शीलाः कृपण-सुहृदः एवंविध-अर्थे स्व-अर्थान् अपि गुरुतरान् उपेक्षन्ते।
nūnam hi āryāḥ sādhavaḥ upaśama-śīlāḥ kṛpaṇa-suhṛdaḥ evaṃvidha-arthe sva-arthān api gurutarān upekṣante.
इति कृतानुषङ्ग आसनशयनाटनस्नानाशनादिषु सह मृगजहुना स्नेहानुबद्धहृदय आसीत् ११।
इति कृत-अनुषङ्गः आसन-शयन-अटन-स्नान-अशन-आदिषु सह मृगजहुना स्नेह-अनुबद्ध-हृदयः आसीत्।
iti kṛta-anuṣaṅgaḥ āsana-śayana-aṭana-snāna-aśana-ādiṣu saha mṛgajahunā sneha-anubaddha-hṛdayaḥ āsīt.
कुशकुसुमसमित्पलाशफलमूलोदकान्याहरिष्यमाणो वृकसालावृकादिभ्यो भयमाशंसमानो यदा सह हरिणकुणकेन वनं समा-विशति १२।
कुश-कुसुम-समिध्-पलाश-फल-मूल-उदकानि आहरिष्यमाणः वृक-शालावृक-आदिभ्यः भयम् आशंसमानः यदा सह हरिण-कुणकेन वनम् समाविशति।
kuśa-kusuma-samidh-palāśa-phala-mūla-udakāni āhariṣyamāṇaḥ vṛka-śālāvṛka-ādibhyaḥ bhayam āśaṃsamānaḥ yadā saha hariṇa-kuṇakena vanam samāviśati.
पथिषु च मुग्धभावेन तत्र तत्र विषक्तमतिप्रणयभरहृदयः कार्पण्यात्स्कन्धेनोद्वहति एवमुत्सङ्ग उरसि चाधायोपलालयन्मुदं परमामवाप १३।
पथिषु च मुग्ध-भावेन तत्र तत्र विषक्त-मति-प्रणय-भर-हृदयः कार्पण्यात् स्कन्धेन उद्वहति एवम् उत्सङ्गे उरसि च आधाय उपलालयन् मुदम् परमाम् अवाप।
pathiṣu ca mugdha-bhāvena tatra tatra viṣakta-mati-praṇaya-bhara-hṛdayaḥ kārpaṇyāt skandhena udvahati evam utsaṅge urasi ca ādhāya upalālayan mudam paramām avāpa.
क्रियायां निर्वर्त्यमानायामन्तरालेऽप्युत्थायोत्थाय यदैनमभिचक्षीत तर्हि वाव स वर्षपतिः प्रकृतिस्थेन मनसा तस्मा आशिष आशास्ते स्वस्ति स्ताद्वत्स ते सर्वत इति १४।
क्रियायाम् निर्वर्त्यमानायाम् अन्तराले अपि उत्थाय उत्थाय यदा एनम् अभिचक्षीत तर्हि वाव स वर्षपतिः प्रकृति-स्थेन मनसा तस्मै आशिषः आशास्ते स्वस्ति स्ताद्वत् स ते सर्वतस् इति।
kriyāyām nirvartyamānāyām antarāle api utthāya utthāya yadā enam abhicakṣīta tarhi vāva sa varṣapatiḥ prakṛti-sthena manasā tasmai āśiṣaḥ āśāste svasti stādvat sa te sarvatas iti.
अन्यदा भृशमुद्विग्नमना नष्टद्रविण इव कृपणः सकरुणमतितर्षेण हरिणकुणकविरहविह्वलहृदयसन्तापस्तमेवानुशोचन्किल कश्मलं महदभिरम्भित इति होवाच १५।
अन्यदा भृशम् उद्विग्न-मनाः नष्ट-द्रविणः इव कृपणः स करुणम् अतितर्षेण हरिण-कुणक-विरह-विह्वल-हृदय-सन्तापः तम् एव अनुशोचन् किल कश्मलम् महत् अभिरम्भितः इति ह उवाच।
anyadā bhṛśam udvigna-manāḥ naṣṭa-draviṇaḥ iva kṛpaṇaḥ sa karuṇam atitarṣeṇa hariṇa-kuṇaka-viraha-vihvala-hṛdaya-santāpaḥ tam eva anuśocan kila kaśmalam mahat abhirambhitaḥ iti ha uvāca.
अपि बत स वै कृपण एणबालको मृतहरिणीसुतोऽहो ममानार्यस्य शठकिरातमतेरकृतसुकृतस्य कृतविस्रम्भ आत्मप्रत्ययेन तदविगणयन्सुजन इवागष्यिति १६।
अपि बत स वै कृपणः एण-बालकः मृत-हरिणी-सुतः अहो मम अनार्यस्य शठ-किरात-मतेः अ कृत-सुकृतस्य कृत-विस्रम्भः आत्म-प्रत्ययेन तत् अ विगणयन् सु जनः इव आगषि इति।
api bata sa vai kṛpaṇaḥ eṇa-bālakaḥ mṛta-hariṇī-sutaḥ aho mama anāryasya śaṭha-kirāta-mateḥ a kṛta-sukṛtasya kṛta-visrambhaḥ ātma-pratyayena tat a vigaṇayan su janaḥ iva āgaṣi iti.
अपि क्षेमेणास्मिन्नाश्रमोपवने शष्पाणि चरन्तं देवगुप्तं द्रक्ष्यामि १७।
अपि क्षेमेण अस्मिन् आश्रम-उपवने शष्पाणि चरन्तम् देवगुप्तम् द्रक्ष्यामि।
api kṣemeṇa asmin āśrama-upavane śaṣpāṇi carantam devaguptam drakṣyāmi.
अपि च न वृकः सालावृकोऽन्यतमो वा नैकचर एकचरो वा भक्षयति १८।
अपि च न वृकः सालावृकः अन्यतमः वा न एकचरः एकचरः वा भक्षयति।
api ca na vṛkaḥ sālāvṛkaḥ anyatamaḥ vā na ekacaraḥ ekacaraḥ vā bhakṣayati.
निम्लोचति ह भगवान्सकलजगत्क्षेमोदयस्त्रय्यात्माद्यापि मम न मृगवधून्यास आगच्छति १९।
निम्लोचति ह भगवान् सकल-जगत्-क्षेम-उदयः त्रयी-आत्मा अद्य अपि मम न मृग-वधू-न्यासः आगच्छति।
nimlocati ha bhagavān sakala-jagat-kṣema-udayaḥ trayī-ātmā adya api mama na mṛga-vadhū-nyāsaḥ āgacchati.
अपि स्विदकृतसुकृतमागत्य मां सुखयिष्यति हरिणराजकुमारो विविधरुचिरदर्शनीयनिजमृगदारकविनोदैरसन्तोषं स्वानामपनुदन् २०।
अपि स्विद् अकृत-सुकृतम् आगत्य माम् सुखयिष्यति हरिण-राज-कुमारः विविध-रुचिर-दर्शनीय-निज-मृग-दारक-विनोदैः असन्तोषम् स्वानाम् अपनुदन्।
api svid akṛta-sukṛtam āgatya mām sukhayiṣyati hariṇa-rāja-kumāraḥ vividha-rucira-darśanīya-nija-mṛga-dāraka-vinodaiḥ asantoṣam svānām apanudan.
क्ष्वेलिकायां मां मृषासमाधिनामीलितदृशं प्रेमसंरम्भेण चकितचकित आगत्य पृषद् अपरुषविषाणाग्रेण लुठति २१।
क्ष्वेलिकायाम् माम् मृषा समाधिना आमीलित-दृशम् प्रेम-संरम्भेण चकित-चकितः आगत्य पृषत् अपरुष-विषाण-अग्रेण लुठति।
kṣvelikāyām mām mṛṣā samādhinā āmīlita-dṛśam prema-saṃrambheṇa cakita-cakitaḥ āgatya pṛṣat aparuṣa-viṣāṇa-agreṇa luṭhati.
आसादितहविषि बर्हिषि दूषिते मयोपालब्धो भीतभीतः सपद्युपरतरास ऋषिकुमारवदवहितकरणकलाप आस्ते २२।
आसादित-हविषि बर्हिषि दूषिते मया उपालब्धः भीत-भीतः सपदि उपरत-रासः ऋषि-कुमार-वत् अवहित-करण-कलापः आस्ते।
āsādita-haviṣi barhiṣi dūṣite mayā upālabdhaḥ bhīta-bhītaḥ sapadi uparata-rāsaḥ ṛṣi-kumāra-vat avahita-karaṇa-kalāpaḥ āste.
किं वा अरे आचरितं तपस्तपस्विन्यानया यदियमवनिः सविनयकृष्णसारतनयतनुतरसुभगशिवतमाखरखुरपदपङ्क्तिभिर्द्रविणविधुरातुरस्य कृपणस्य मम द्रविणपदवीं सूचयन्त्यात्मानं च सर्वतः कृतकौतुकं द्विजानां स्वर्गापवर्गकामानां देवयजनं करोति २३।
किम् वै अरे आचरितम् तपः तपस्विन्या अनया यत् इयम् अवनिः स विनय-कृष्ण-सार-तनय-तनुतर-सुभग-शिव-तम-आखर-खुर-पद-पङ्क्तिभिः द्रविण-विधुर-आतुरस्य कृपणस्य मम द्रविण-पदवीम् सूचयन्ति आत्मानम् च सर्वतस् कृत-कौतुकम् द्विजानाम् स्वर्ग-अपवर्ग-कामानाम् देवयजनम् करोति।
kim vai are ācaritam tapaḥ tapasvinyā anayā yat iyam avaniḥ sa vinaya-kṛṣṇa-sāra-tanaya-tanutara-subhaga-śiva-tama-ākhara-khura-pada-paṅktibhiḥ draviṇa-vidhura-āturasya kṛpaṇasya mama draviṇa-padavīm sūcayanti ātmānam ca sarvatas kṛta-kautukam dvijānām svarga-apavarga-kāmānām devayajanam karoti.
अपि स्विदसौ भगवानुडुपतिरेनं मृगपतिभयान्मृतमातरं मृगबालकं स्वाश्रमपरिभ्रष्टमनुकम्पया कृपणजनवत्सलः परिपाति २४।
अपि स्विद् असौ भगवान् उडुपतिः एनम् मृगपति-भयात् मृत-मातरम् मृग-बालकम् स्व-आश्रम-परिभ्रष्टम् अनुकम्पया कृपण-जन-वत्सलः परिपाति।
api svid asau bhagavān uḍupatiḥ enam mṛgapati-bhayāt mṛta-mātaram mṛga-bālakam sva-āśrama-paribhraṣṭam anukampayā kṛpaṇa-jana-vatsalaḥ paripāti.
किं वात्मजविश्लेषज्वरदवदहनशिखाभिरुपतप्यमानहृदयस्थलनलिनीकं मामुपसृतमृगीतनयं शिशिरशान्तानुरागगुणितनिजवदनसलिलामृतमयगभस्तिभिः स्वधयतीति च एवमघटमानमनोरथाकुलहृदयो मृगदारकाभासेन स्वारब्धकर्मणा योगारम्भणतो २५।
किम् वा आत्मज-विश्लेष-ज्वर-दव-दहन-शिखाभिः उपतप्यमान-हृदय-स्थल-नलिनीकम् माम् उपसृत-मृगी-तनयम् शिशिर-शान्त-अनुराग-गुणित-निज-वदन-सलिल-अमृत-मय-गभस्तिभिः स्वधयति इति च एवम् अघटमान-मनोरथ-आकुल-हृदयः मृगदारक-आभासेन सु आरब्ध-कर्मणा योग-आरम्भणतः।
kim vā ātmaja-viśleṣa-jvara-dava-dahana-śikhābhiḥ upatapyamāna-hṛdaya-sthala-nalinīkam mām upasṛta-mṛgī-tanayam śiśira-śānta-anurāga-guṇita-nija-vadana-salila-amṛta-maya-gabhastibhiḥ svadhayati iti ca evam aghaṭamāna-manoratha-ākula-hṛdayaḥ mṛgadāraka-ābhāsena su ārabdha-karmaṇā yoga-ārambhaṇataḥ.
विभ्रंशितः स योगतापसो भगवदाराधनलक्षणाच्च कथमितरथा जात्यन्तर एणकुणक आसङ्गः साक्षान्निःश्रेयसप्रतिपक्षतया प्राक्परित्यक्तदुस्त्यजहृदयाभिजातस्य तस्यैवमन्तरायविहतयोगारम्भणस्य राजर्षेर्भरतस्य तावन्मृगार्भकपोषणपालनप्रीणनलालनानुषङ्गेणाविगणयत आत्मानमहिरिवाखुबिलं दुरतिक्रमः कालः करालरभस आपद्यत २६।
विभ्रंशितः स योग-तापसः भगवत्-आराधन-लक्षणात् च कथम् इतरथा जाति-अन्तरे एणकुणकः आसङ्गः साक्षात् निःश्रेयस-प्रतिपक्ष-तया प्राक् परित्यक्त-दुस्त्यज-हृदय-अभिजातस्य तस्य एवम् अन्तराय-विहत-योग-आरम्भणस्य राजर्षेः भरतस्य तावत् मृग-अर्भक-पोषण-पालन-प्रीणन-लालन-अनुषङ्गेण अ विगणयतः आत्मानम् अहिः इव आखु-बिलम् दुरतिक्रमः कालः।
vibhraṃśitaḥ sa yoga-tāpasaḥ bhagavat-ārādhana-lakṣaṇāt ca katham itarathā jāti-antare eṇakuṇakaḥ āsaṅgaḥ sākṣāt niḥśreyasa-pratipakṣa-tayā prāk parityakta-dustyaja-hṛdaya-abhijātasya tasya evam antarāya-vihata-yoga-ārambhaṇasya rājarṣeḥ bharatasya tāvat mṛga-arbhaka-poṣaṇa-pālana-prīṇana-lālana-anuṣaṅgeṇa a vigaṇayataḥ ātmānam ahiḥ iva ākhu-bilam duratikramaḥ kālaḥ.
तदानीमपि पार्श्ववर्तिनमात्मजमिवानुशोचन्तमभिवीक्षमाणो मृग एवाभिनिवेशितमना विसृज्य लोकमिमं सह मृगेण कलेवरं मृतमनु न मृतजन्मानुस्मृतिरितरवन्मृगशरीरमवाप २७।
तदानीम् अपि पार्श्व-वर्तिनम् आत्मजम् इव अनुशोचन्तम् अभिवीक्षमाणः मृगः एव अभिनिवेशित-मनाः विसृज्य लोकम् इमम् सह मृगेण कलेवरम् मृतम् अनु न मृत-जन्म-अनुस्मृतिः इतर-वत् मृग-शरीरम् अवाप।
tadānīm api pārśva-vartinam ātmajam iva anuśocantam abhivīkṣamāṇaḥ mṛgaḥ eva abhiniveśita-manāḥ visṛjya lokam imam saha mṛgeṇa kalevaram mṛtam anu na mṛta-janma-anusmṛtiḥ itara-vat mṛga-śarīram avāpa.
तत्रापि ह वा आत्मनो मृगत्वकारणं भगवदाराधनसमीहानुभावेनानुस्मृत्य भृशमनुतप्यमान आह २८।
तत्र अपि ह वा आत्मनः मृग-त्व-कारणम् भगवत्-आराधन-समीहा-अनुभावेन अनुस्मृत्य भृशम् अनुतप्यमानः आह।
tatra api ha vā ātmanaḥ mṛga-tva-kāraṇam bhagavat-ārādhana-samīhā-anubhāvena anusmṛtya bhṛśam anutapyamānaḥ āha.
अहो कष्टं भ्रष्टोऽहमात्मवतामनुपथाद्यद्विमुक्तसमस्तसङ्गस्य विवि-क्तपुण्यारण्यशरणस्यात्मवत आत्मनि सर्वेषामात्मनां भगवति वासुदेवे तदनुश्रवणमननसङ्कीर्तनाराधनानुस्मरणाभियोगेनाशून्यसकलयामेन कालेन समावेशितं समाहितं कार्त्स्न्येन मनस्तत्तु पुनर्ममाबुधस्यारान्मृगसुतमनु परिसुस्राव २९।
अहो कष्टम् भ्रष्टः अहम् आत्मवताम् अनुपथात् यत् विमुक्त-समस्त-सङ्गस्य विविक्त-पुण्य-अरण्य-शरणस्य आत्मवतः आत्मनि सर्वेषाम् आत्मनाम् भगवति तद्-अनुश्रवण-मनन-सङ्कीर्तन-आराधन-अनुस्मरण-अभियोगेन अ शून्य-सकल-यामेन कालेन समावेशितम् समाहितम् कार्त्स्न्येन मनः तत् तु पुनर् मम अबुधस्य आरात् मृगसुतम् अनु परिसुस्राव।
aho kaṣṭam bhraṣṭaḥ aham ātmavatām anupathāt yat vimukta-samasta-saṅgasya vivikta-puṇya-araṇya-śaraṇasya ātmavataḥ ātmani sarveṣām ātmanām bhagavati tad-anuśravaṇa-manana-saṅkīrtana-ārādhana-anusmaraṇa-abhiyogena a śūnya-sakala-yāmena kālena samāveśitam samāhitam kārtsnyena manaḥ tat tu punar mama abudhasya ārāt mṛgasutam anu parisusrāva.
इत्येवं निगूढनिर्वेदो विसृज्य मृगीं मातरं पुनर्भगवत्क्षेत्रमुपशमशीलमुनिगणदयितं शालग्रामं पुलस्त्यपुलहाश्रमं कालञ्जरात्प्रत्याज-गाम ३०।
इति एवम् निगूढ-निर्वेदः विसृज्य मृगीम् मातरम् पुनर् भगवत्-क्षेत्रम् उपशम-शील-मुनि-गण-दयितम् शालग्रामम् पुलस्त्य-पुलह-आश्रमम् कालञ्जरात् प्रत्याज।
iti evam nigūḍha-nirvedaḥ visṛjya mṛgīm mātaram punar bhagavat-kṣetram upaśama-śīla-muni-gaṇa-dayitam śālagrāmam pulastya-pulaha-āśramam kālañjarāt pratyāja.
तस्मिन्नपि कालं प्रतीक्षमाणः सङ्गाच्च भृशमुद्विग्न आत्मसहचरः शुष्कपर्णतृणवीरुधा वर्तमानो मृगत्वनिमित्तावसानमेव गणयन्मृगशरीरं तीर्थोदकक्लिन्नमुत्ससर्ज ३१।
तस्मिन् अपि कालम् प्रतीक्षमाणः सङ्गात् च भृशम् उद्विग्नः आत्म-सहचरः शुष्क-पर्ण-तृण-वीरुधा वर्तमानः मृग-त्व-निमित्त-अवसानम् एव गणयन् मृग-शरीरम् तीर्थ-उदक-क्लिन्नम् उत्ससर्ज।
tasmin api kālam pratīkṣamāṇaḥ saṅgāt ca bhṛśam udvignaḥ ātma-sahacaraḥ śuṣka-parṇa-tṛṇa-vīrudhā vartamānaḥ mṛga-tva-nimitta-avasānam eva gaṇayan mṛga-śarīram tīrtha-udaka-klinnam utsasarja.
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे भरतचरितेऽष्टमोऽध्यायः।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् पञ्चम-स्कन्धे भरतचरिते अष्टमः अध्यायः।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām pañcama-skandhe bharatacarite aṣṭamaḥ adhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In