| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

अथ कस्यचिद्द्विजवरस्याङ्गिरःप्रवरस्य शमदमतपःस्वाध्यायाध्ययनत्यागसन्तोषतितिक्षाप्रश्रयविद्यानसूयात्मज्ञानानन्दयुक्तस्यात्मस-दृशश्रुतशीलाचाररूपौदार्यगुणा नव सोदर्या अङ्गजा बभूवुर्मिथुनं च यवीयस्यां भार्यायाम्यस्तु तत्र पुमांस्तं परमभागवतं राजर्षिप्रवरं भरतमुत्सृष्टमृगशरीरं चरमशरीरेण विप्रत्वं गतमाहुः १।
अथ कस्यचिद् द्विजवरस्य अङ्गिरः-प्रवरस्य शम-दम-तपः-स्वाध्याय-अध्ययन-त्याग-सन्तोष-तितिक्षा-प्रश्रय-विद्या-अनसूया-आत्म-ज्ञान-आनन्द-युक्तस्य आत्म-सदृश-श्रुत-शील-आचार-रूप-औदार्य-गुणाः नव सोदर्याः अङ्ग-जाः बभूवुः मिथुनम् च यवीयस्याम् भार्यायाम्यः तु तत्र पुमान् तम् परम-भागवतम् राजर्षि-प्रवरम् भरतम् उत्सृष्ट-मृग-शरीरम् चरम-शरीरेण विप्र-त्वम् गतम्।
atha kasyacid dvijavarasya aṅgiraḥ-pravarasya śama-dama-tapaḥ-svādhyāya-adhyayana-tyāga-santoṣa-titikṣā-praśraya-vidyā-anasūyā-ātma-jñāna-ānanda-yuktasya ātma-sadṛśa-śruta-śīla-ācāra-rūpa-audārya-guṇāḥ nava sodaryāḥ aṅga-jāḥ babhūvuḥ mithunam ca yavīyasyām bhāryāyāmyaḥ tu tatra pumān tam parama-bhāgavatam rājarṣi-pravaram bharatam utsṛṣṭa-mṛga-śarīram carama-śarīreṇa vipra-tvam gatam.
तत्रापि स्वजनसङ्गाच्च भृशमुद्विजमानो भगवतः कर्मबन्धविध्वंसनश्रवणस्मरणगुणविवरणचरणारविन्दयुगलं मनसा विदधदात्मनः प्रतिघातमाशङ्कमानो भगवदनुग्रहेणानुस्मृतस्वपूर्वजन्मावलिरात्मानमुन्मत्तजडान्धबधिरस्वरूपेण दर्शयामास लोकस्य २।
तत्र अपि स्व-जन-सङ्गात् च भृशम् उद्विजमानः भगवतः कर्म-बन्ध-विध्वंसन-श्रवण-स्मरण-गुण-विवरण-चरण-अरविन्द-युगलम् मनसा विदधत् आत्मनः प्रतिघातम् आशङ्कमानः भगवत्-अनुग्रहेण अनुस्मृत-स्व-पूर्व-जन्म-आवलिः आत्मानम् उन्मत्त-जड-अन्ध-बधिर-स्व-रूपेण दर्शयामास लोकस्य।
tatra api sva-jana-saṅgāt ca bhṛśam udvijamānaḥ bhagavataḥ karma-bandha-vidhvaṃsana-śravaṇa-smaraṇa-guṇa-vivaraṇa-caraṇa-aravinda-yugalam manasā vidadhat ātmanaḥ pratighātam āśaṅkamānaḥ bhagavat-anugraheṇa anusmṛta-sva-pūrva-janma-āvaliḥ ātmānam unmatta-jaḍa-andha-badhira-sva-rūpeṇa darśayāmāsa lokasya.
श्रीशुक उवाच
तस्यापि ह वा आत्मजस्य विप्रः पुत्रस्नेहानुबद्धमना आसमावर्तना-त्संस्कारान्यथोपदेशं विदधान उपनीतस्य च पुनः शौचाचमनादीन्कर्मनियमाननभिप्रेतानपि समशिक्षयदनुशिष्टेन हि भाव्यं पितुः पुत्रेणेति ३।
तस्य अपि ह वा आत्मजस्य विप्रः पुत्र-स्नेह-अनुबद्ध-मनाः आ समावर्तनात् संस्कारान् यथा उपदेशम् विदधानः उपनीतस्य च पुनर् शौच-आचमन-आदीन् कर्म-नियमान् अनभिप्रेतान् अपि समशिक्षयत् अनुशिष्टेन हि भाव्यम् पितुः पुत्रेण इति।
tasya api ha vā ātmajasya vipraḥ putra-sneha-anubaddha-manāḥ ā samāvartanāt saṃskārān yathā upadeśam vidadhānaḥ upanītasya ca punar śauca-ācamana-ādīn karma-niyamān anabhipretān api samaśikṣayat anuśiṣṭena hi bhāvyam pituḥ putreṇa iti.
स चापि तदु ह पितृसन्निधावेवासध्रीचीनमिव स्म करोति छन्दांस्यध्यापयिष्यन्सह व्याहृतिभिः सप्रणवशिरस्त्रिपदीं सावित्रीं ग्रैष्म-वासन्तिकान्मासानधीयानमप्यसमवेतरूपं ग्राहयामास ४।
स च अपि तत् उ ह पितृ-सन्निधौ एव अ सध्रीचीनम् इव स्म करोति छन्दांसि अध्यापयिष्यन् सह व्याहृतिभिः स प्रणव-शिरः-त्रिपदीम् सावित्रीम् ग्रैष्म-वासन्तिकान् मासान् अधीयानम् अपि असमवेत-रूपम् ग्राहयामास।
sa ca api tat u ha pitṛ-sannidhau eva a sadhrīcīnam iva sma karoti chandāṃsi adhyāpayiṣyan saha vyāhṛtibhiḥ sa praṇava-śiraḥ-tripadīm sāvitrīm graiṣma-vāsantikān māsān adhīyānam api asamaveta-rūpam grāhayāmāsa.
एवं स्वतनुज आत्मन्यनुरागावेशितचित्तः शौचाध्ययनव्रतनियमगुर्वनलशुश्रूषणाद्यौपकुर्वाणककर्माण्यनभियुक्तान्यपि समनुशिष्टेन भाव्यमित्यसदाग्रहः पुत्रमनुशास्य स्वयं तावदनधिगतमनोरथः कालेनाप्रमत्तेन स्वयं गृह एव प्रमत्त उसंहृतः ५।
एवम् स्व-तनुजः आत्मनि अनुराग-आवेशित-चित्तः शौच-अध्ययन-व्रत-नियम-गुरु-अनल-शुश्रूषण-आदि-औपकुर्वाणक-कर्माणि अनभियुक्तानि अपि समनुशिष्टेन भाव्यम् इति असत्-आग्रहः पुत्रम् अनुशास्य स्वयम् तावत् अनधिगत-मनोरथः कालेन अप्रमत्तेन स्वयम् गृहे एव प्रमत्तः।
evam sva-tanujaḥ ātmani anurāga-āveśita-cittaḥ śauca-adhyayana-vrata-niyama-guru-anala-śuśrūṣaṇa-ādi-aupakurvāṇaka-karmāṇi anabhiyuktāni api samanuśiṣṭena bhāvyam iti asat-āgrahaḥ putram anuśāsya svayam tāvat anadhigata-manorathaḥ kālena apramattena svayam gṛhe eva pramattaḥ.
अथ यवीयसी द्विजसती स्वगर्भजातं मिथुनं सपत्न्या उपन्यस्य स्वयमनुसंस्थया पतिलोकमगात् ६।
अथ यवीयसी द्विजसती स्व-गर्भ-जातम् मिथुनम् सपत्न्याः उपन्यस्य स्वयम् अनुसंस्थया पति-लोकम् अगात्।
atha yavīyasī dvijasatī sva-garbha-jātam mithunam sapatnyāḥ upanyasya svayam anusaṃsthayā pati-lokam agāt.
पितर्युपरते भ्रातर एनमतत्प्रभावविदस्त्रय्यां विद्यायामेव पर्यवसितमतयो न परविद्यायां जडमतिरिति भ्रातुरनुशासननिर्बन्धान्न्यवृत्सन्त ७।
पितरि उपरते भ्रातरः एनम् अ तद्-प्रभाव-विदः त्रय्याम् विद्यायाम् एव पर्यवसित-मतयः न पर-विद्यायाम् जड-मतिः इति भ्रातुः अनुशासन-निर्बन्धात् न्यवृत्सन्त।
pitari uparate bhrātaraḥ enam a tad-prabhāva-vidaḥ trayyām vidyāyām eva paryavasita-matayaḥ na para-vidyāyām jaḍa-matiḥ iti bhrātuḥ anuśāsana-nirbandhāt nyavṛtsanta.
स च प्राकृतैर्द्विपदपशुभिरुन्मत्तजडबधिरमूकेत्यभिभाष्यमाणो यदा तदनुरूपाणि प्रभाषते कर्माणि च कार्यमाणः परेच्छया करोति विष्टितो वेतनतो वा याच्ञ्या यदृच्छया वोपसादितमल्पं ८।
स च प्राकृतैः द्विपद-पशुभिः उन्मत्त-जड-बधिर-मूक-इति अभिभाष्यमाणः यदा तद्-अनुरूपाणि प्रभाषते कर्माणि च कार्यमाणः पर-इच्छया करोति विष्टितः वेतनतः वा याच्ञ्या यदृच्छया वा उपसादितम् अल्पम्।
sa ca prākṛtaiḥ dvipada-paśubhiḥ unmatta-jaḍa-badhira-mūka-iti abhibhāṣyamāṇaḥ yadā tad-anurūpāṇi prabhāṣate karmāṇi ca kāryamāṇaḥ para-icchayā karoti viṣṭitaḥ vetanataḥ vā yācñyā yadṛcchayā vā upasāditam alpam.
बहु मृष्टं कदन्नं वाभ्यवहरति परं नेन्द्रि यप्रीतिनिमित्तम्नित्यनिवृत्तनिमित्तस्वसिद्धविशुद्धानुभवानन्दस्वात्मलाभाधिगमः सुखदुःख-योर्द्वन्द्वनिमित्तयोरसम्भावितदेहाभिमानः ९।
बहु मृष्टम् कदन्नम् वा अभ्यवहरति परम् न इन्द्रिय-प्रीति-निमित्तम् नित्य-निवृत्त-निमित्त-स्व-सिद्ध-विशुद्ध-अनुभव-आनन्द-स्व-आत्म-लाभ-अधिगमः सुख-दुःखयोः द्वन्द्व-निमित्तयोः असम्भावित-देह-अभिमानः।
bahu mṛṣṭam kadannam vā abhyavaharati param na indriya-prīti-nimittam nitya-nivṛtta-nimitta-sva-siddha-viśuddha-anubhava-ānanda-sva-ātma-lābha-adhigamaḥ sukha-duḥkhayoḥ dvandva-nimittayoḥ asambhāvita-deha-abhimānaḥ.
शीतोष्णवातवर्षेषु वृष इवानावृताङ्गः पीनः संहननाङ्गः स्थण्डिल संवेशनानुन्मर्दनामज्जनरजसा महामणिरिवानभिव्यक्तब्रह्मवर्चसः कुपटावृतकटिरुपवीतेनोरुमषिणा द्विजातिरिति ब्रह्मबन्धुरिति संज्ञयातज्ज्ञजनावमतो विचचार १०।
शीत-उष्ण-वात-वर्षेषु वृषः इव अन् आवृत-अङ्गः पीनः संहनन-अङ्गः स्थण्डिल संवेशन-अन् उन्मर्दन-आमज्जन-रजसा महा-मणिः इव अन् अभिव्यक्त-ब्रह्मवर्चसः कुपट-आवृत-कटिः उपवीतेन ऊरु-मषिणा द्विजातिः इति ब्रह्मबन्धुः इति संज्ञया अ तज्ज्ञ-जन-अवमतः विचचार।
śīta-uṣṇa-vāta-varṣeṣu vṛṣaḥ iva an āvṛta-aṅgaḥ pīnaḥ saṃhanana-aṅgaḥ sthaṇḍila saṃveśana-an unmardana-āmajjana-rajasā mahā-maṇiḥ iva an abhivyakta-brahmavarcasaḥ kupaṭa-āvṛta-kaṭiḥ upavītena ūru-maṣiṇā dvijātiḥ iti brahmabandhuḥ iti saṃjñayā a tajjña-jana-avamataḥ vicacāra.
यदा तु परत आहारं कर्मवेतनत ईहमानः स्वभ्रातृभिरपि केदारकर्मणि निरूपितस्तदपि करोति किन्तु न समं विषमं न्यूनमधिकमिति वेद कणपिण्याकफलीकरणकुल्माषस्थालीपुरीषादीन्यप्यमृतवदभ्यवहरति ११।
यदा तु परतस् आहारम् कर्म-वेतनतः ईहमानः स्व-भ्रातृभिः अपि केदार-कर्मणि निरूपितः तत् अपि करोति किन्तु न समम् विषमम् न्यूनम् अधिकम् इति वेद कण-पिण्याक-फलीकरण-कुल्माष-स्थाली-पुरीष-आदीनि अपि अमृत-वत् अभ्यवहरति।
yadā tu paratas āhāram karma-vetanataḥ īhamānaḥ sva-bhrātṛbhiḥ api kedāra-karmaṇi nirūpitaḥ tat api karoti kintu na samam viṣamam nyūnam adhikam iti veda kaṇa-piṇyāka-phalīkaraṇa-kulmāṣa-sthālī-purīṣa-ādīni api amṛta-vat abhyavaharati.
अथ कदाचित्कश्चिद्वृषलपतिर्भद्र काल्यै पुरुषपशुमालभतापत्यकामः १२।
अथ कदाचिद् कश्चिद् वृषल-पतिः भद्र काल्यै पुरुष-पशुम् आलभत अपत्य-कामः।
atha kadācid kaścid vṛṣala-patiḥ bhadra kālyai puruṣa-paśum ālabhata apatya-kāmaḥ.
तस्य ह दैवमुक्तस्य पशोः पदवीं तदनुचराः परिधावन्तो निशि निशीथसमये तमसावृतायामनधिगतपशव आकस्मिकेन विधिना केदारान्वीरासनेन मृगवराहादिभ्यः संरक्षमाणमङ्गिरःप्रवरसुतमपश्यन् १३।
तस्य ह दैव-मुक्तस्य पशोः पदवीम् तद्-अनुचराः परिधावन्तः निशि निशीथ-समये तमसा आवृतायाम् अनधिगत-पशवः आकस्मिकेन विधिना केदारान् वीरासनेन मृग-वराह-आदिभ्यः संरक्षमाणम् अङ्गिरः-प्रवर-सुतम् अपश्यन्।
tasya ha daiva-muktasya paśoḥ padavīm tad-anucarāḥ paridhāvantaḥ niśi niśītha-samaye tamasā āvṛtāyām anadhigata-paśavaḥ ākasmikena vidhinā kedārān vīrāsanena mṛga-varāha-ādibhyaḥ saṃrakṣamāṇam aṅgiraḥ-pravara-sutam apaśyan.
अथ त एनमनवद्यक्षणमवमृश्य भर्तृकर्मनिष्पत्तिं मन्यमाना बद्ध्वा रशनया चण्डिकागृहमुपनिन्युर्मुदा विकसितवदनाः १४।
अथ ते एनम् अनवद्य-क्षणम् अवमृश्य भर्तृ-कर्म-निष्पत्तिम् मन्यमानाः बद्ध्वा रशनया चण्डिका-गृहम् उपनिन्युः मुदा विकसित-वदनाः।
atha te enam anavadya-kṣaṇam avamṛśya bhartṛ-karma-niṣpattim manyamānāḥ baddhvā raśanayā caṇḍikā-gṛham upaninyuḥ mudā vikasita-vadanāḥ.
अथ पणयस्तं स्वविधिनाभिषिच्याहतेन वाससाच्छाद्य भूषणालेपस्रक्तिलकादिभिरुपस्कृतं भुक्तवन्तं धूपदीपमाल्यलाजकिसलया-ङ्कुरफलोपहारोपेतया वैशससंस्थया महता गीतस्तुतिमृदङ्गपणव-घोषेण च पुरुषपशुं भद्र काल्याः पुरत उपवेशयामासुः १५।
अथ पणयः तम् स्व-विधिना अभिषिच्य अहतेन वाससा आच्छाद्य भूषण-आलेप-स्रक्-तिलक-आदिभिः उपस्कृतम् भुक्तवन्तम् धूप-दीप-माल्य-लाज-किसलय-अङ्कुर-फल-उपहार-उपेतया वैशस-संस्थया महता गीत-स्तुति-मृदङ्ग-पणव-घोषेण च पुरुष-पशुम् भद्र काल्याः पुरतस् उपवेशयामासुः।
atha paṇayaḥ tam sva-vidhinā abhiṣicya ahatena vāsasā ācchādya bhūṣaṇa-ālepa-srak-tilaka-ādibhiḥ upaskṛtam bhuktavantam dhūpa-dīpa-mālya-lāja-kisalaya-aṅkura-phala-upahāra-upetayā vaiśasa-saṃsthayā mahatā gīta-stuti-mṛdaṅga-paṇava-ghoṣeṇa ca puruṣa-paśum bhadra kālyāḥ puratas upaveśayāmāsuḥ.
अथ वृषलराजपणिः पुरुषपशोरसृगासवेन देवीं भद्र कालीं यक्ष्य-माणस्तदभिमन्त्रितमसिमतिकरालनिशितमुपाददे १६।
अथ वृषल-राज-पणिः पुरुष-पशोः असृज्-आसवेन देवीम् भद्र कालीम् यक्ष्यमाणः तद्-अभिमन्त्रितम् असिम् अति कराल-निशितम् उपाददे।
atha vṛṣala-rāja-paṇiḥ puruṣa-paśoḥ asṛj-āsavena devīm bhadra kālīm yakṣyamāṇaḥ tad-abhimantritam asim ati karāla-niśitam upādade.
इति तेषां वृषलानां रजस्तमःप्रकृतीनां धनमदरजौत्सिक्तमनसां भगवत्कलावीरकुलं कदर्थीकृत्योत्पथेन स्वैरं विहरतां हिंसावि-हाराणां कर्मातिदारुणं यद्ब्रह्मभूतस्य साक्षाद्ब्रह्मर्षिसुतस्य निर्वैरस्य सर्वभूतसुहृदः सूनायामप्यननुमतमालम्भनं तदुपलभ्य ब्रह्मतेजसा-तिदुर्विषहेण दन्दह्यमानेन वपुषा सहसोच्चचाट सैव देवी भद्रकाली १७।
इति तेषाम् वृषलानाम् रजः-तमः-प्रकृतीनाम् धन-मद-रज-उत्सिक्त-मनसाम् भगवत्-कला-वीर-कुलम् कदर्थीकृत्य उत्पथेन स्वैरम् विहरताम् हिंसा-विहाराणाम् कर्म अति दारुणम् यत् ब्रह्म-भूतस्य साक्षात् ब्रह्मर्षि-सुतस्य निर्वैरस्य सर्व-भूत-सुहृदः सूनायाम् अपि अननुमतम् आलम्भनम् तत् उपलभ्य ब्रह्म-तेजसा अति दुर्विषहेण दन्दह्यमानेन वपुषा सहसा उच्चचाट सा एव देवी भद्रकाली।
iti teṣām vṛṣalānām rajaḥ-tamaḥ-prakṛtīnām dhana-mada-raja-utsikta-manasām bhagavat-kalā-vīra-kulam kadarthīkṛtya utpathena svairam viharatām hiṃsā-vihārāṇām karma ati dāruṇam yat brahma-bhūtasya sākṣāt brahmarṣi-sutasya nirvairasya sarva-bhūta-suhṛdaḥ sūnāyām api ananumatam ālambhanam tat upalabhya brahma-tejasā ati durviṣaheṇa dandahyamānena vapuṣā sahasā uccacāṭa sā eva devī bhadrakālī.
भृशममर्षरोषावेशरभसविलसितभ्रुकुटिविटपकुटिलदंष्ट्रारुणेक्षणाटोपातिभयानकवदना हन्तुकामेवेदं महाट्टहासमतिसंरम्भेण विमुञ्चन्ती तत उत्पत्य पापीयसां दुष्टानां तेनैवासिना विवृक्णशीर्ष्णां गलात्स्रवन्तमसृगासवमत्युष्णं सह गणेन निपीयातिपानमदविह्वलो-च्चैस्तरां स्वपार्षदैः सह जगौ ननर्त च विजहार च शिरःकन्दुक-लीलया १८।
भृशम् अमर्ष-रोष-आवेश-रभस-विलसित-भ्रुकुटि-विटप-कुटिल-दंष्ट्र-अरुण-ईक्षण-आटोप-अति भयानक-वदना हन्तु-कामा इव इदम् महा-अट्टहासम् अति संरम्भेण विमुञ्चन्ती तेन एव असिना विवृक्ण-शीर्ष्णाम् गलात् स्रवन्तम् असृज्-आसवम् अति उष्णम् सह गणेन निपीय अतिपान-मद-विह्वल-उच्चैस्तराम् स्व-पार्षदैः सह जगौ ननर्त च विजहार च शिरः-कन्दुक-लीलया।
bhṛśam amarṣa-roṣa-āveśa-rabhasa-vilasita-bhrukuṭi-viṭapa-kuṭila-daṃṣṭra-aruṇa-īkṣaṇa-āṭopa-ati bhayānaka-vadanā hantu-kāmā iva idam mahā-aṭṭahāsam ati saṃrambheṇa vimuñcantī tena eva asinā vivṛkṇa-śīrṣṇām galāt sravantam asṛj-āsavam ati uṣṇam saha gaṇena nipīya atipāna-mada-vihvala-uccaistarām sva-pārṣadaiḥ saha jagau nanarta ca vijahāra ca śiraḥ-kanduka-līlayā.
एवमेव खलु महदभिचारातिक्रमः कार्त्स्न्येनात्मने फलति १९।
एवम् एव खलु महत् अभिचार-अतिक्रमः कार्त्स्न्येन आत्मने फलति।
evam eva khalu mahat abhicāra-atikramaḥ kārtsnyena ātmane phalati.
न वा एतद्विष्णुदत्त महदद्भुतं यदसम्भ्रमः स्वशिरश्छेदन आपतितेऽपि विमुक्तदेहाद्यात्मभावसुदृढहृदयग्रन्थीनां सर्वसत्त्वसुहृदात्मनां निर्वैराणां साक्षाद्भगवतानिमिषारिवरायुधेनाप्रमत्तेन तैस्तैर्भावैः परिरक्ष्यमाणानां तत्पादमूलमकुतश्चिद्भयमुपसृतानां भागवतपरमहंसानाम् २०।
न वा एतत् विष्णुदत्त महत् अद्भुतम् यत् असम्भ्रमः स्व-शिरः-छेदने आपतिते अपि विमुक्त-देह-आदि-आत्मभाव-सु दृढ-हृदय-ग्रन्थीनाम् सर्व-सत्त्व-सुहृद्-आत्मनाम् निर्वैराणाम् साक्षात् भगवता अनिमिष-अरि-वर-आयुधेन अप्रमत्तेन तैः तैः भावैः परिरक्ष्यमाणानाम् तद्-पाद-मूलम् अकुतश्चिद्भयम् उपसृतानाम् भागवत-परमहंसानाम्।
na vā etat viṣṇudatta mahat adbhutam yat asambhramaḥ sva-śiraḥ-chedane āpatite api vimukta-deha-ādi-ātmabhāva-su dṛḍha-hṛdaya-granthīnām sarva-sattva-suhṛd-ātmanām nirvairāṇām sākṣāt bhagavatā animiṣa-ari-vara-āyudhena apramattena taiḥ taiḥ bhāvaiḥ parirakṣyamāṇānām tad-pāda-mūlam akutaścidbhayam upasṛtānām bhāgavata-paramahaṃsānām.
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे जडभरतचरिते नवमोऽध्यायः।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् पञ्चम-स्कन्धे जडभरतचरिते नवमः अध्यायः।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām pañcama-skandhe jaḍabharatacarite navamaḥ adhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In