| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

जन्माद्यस्य यतोऽन्वयादितरतः चार्थेष्वभिज्ञः स्वराट् । तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत् सूरयः । तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा । धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि । १ ॥
जन्म आद्यस्य यतस् अन्वयात् इतरतस् च अर्थेषु अभिज्ञः स्वराज् । तेने ब्रह्म हृदा यः आदिकवये मुह्यन्ति यत् सूरयः । तेजः-वारि-मृदाम् यथा विनिमयः यत्र त्रिसर्गः अमृषा । धाम्ना स्वेन सदा निरस्त-कुहकम् सत्यम् परम् धीमहि । १ ॥
janma ādyasya yatas anvayāt itaratas ca artheṣu abhijñaḥ svarāj . tene brahma hṛdā yaḥ ādikavaye muhyanti yat sūrayaḥ . tejaḥ-vāri-mṛdām yathā vinimayaḥ yatra trisargaḥ amṛṣā . dhāmnā svena sadā nirasta-kuhakam satyam param dhīmahi . 1 ..
धर्मः प्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां । वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् । श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरः । सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिः तत् क्षणात् ॥ २ ॥
धर्मः प्रोज्झित-कैतवः अत्र परमः निर्मत्सराणाम् सताम् । वेद्यम् वास्तवम् अत्र वस्तु शिव-दम् ताप-त्रय-उन्मूलनम् । श्रीमत्-भागवते महामुनि-कृते किम् वा परैः ईश्वरः । सद्यस् हृदि अवरुध्यते अत्र कृतिभिः शुश्रूषुभिः तत् क्षणात् ॥ २ ॥
dharmaḥ projjhita-kaitavaḥ atra paramaḥ nirmatsarāṇām satām . vedyam vāstavam atra vastu śiva-dam tāpa-traya-unmūlanam . śrīmat-bhāgavate mahāmuni-kṛte kim vā paraiḥ īśvaraḥ . sadyas hṛdi avarudhyate atra kṛtibhiḥ śuśrūṣubhiḥ tat kṣaṇāt .. 2 ..
(द्रुतविलम्बित)
निगमकल्पतरोर्गलितं फलं । शुकमुखाद् अमृतद्रवसंयुतम् । पिबत भागवतं रसमालयं । मुहुरहो रसिका भुवि भावुकाः । ३ ॥
निगम-कल्पतरोः गलितम् फलम् । । पिबत भागवतम् रसम् आलयम् । मुहुर् अहो रसिकाः भुवि भावुकाः । ३ ॥
nigama-kalpataroḥ galitam phalam . . pibata bhāgavatam rasam ālayam . muhur aho rasikāḥ bhuvi bhāvukāḥ . 3 ..
(अनुष्टुप्)
नैमिषेऽनिमिषक्षेत्रे ऋषयः शौनकादयः । सत्रं स्वर्गायलोकाय सहस्रसममासत ॥ ४ ॥
नैमिषे अनिमिष-क्षेत्रे ऋषयः शौनक-आदयः । सत्रम् स्वर्गाय लोकाय सहस्र-समम् आसत ॥ ४ ॥
naimiṣe animiṣa-kṣetre ṛṣayaḥ śaunaka-ādayaḥ . satram svargāya lokāya sahasra-samam āsata .. 4 ..
त एकदा तु मुनयः प्रातर्हुतहुताग्नयः । सत्कृतं सूतमासीनं पप्रच्छुः इदमादरात् ॥ ५ ॥
ते एकदा तु मुनयः प्रातर्हुत-हुत-अग्नयः । सत्कृतम् सूतम् आसीनम् पप्रच्छुः इदम् आदरात् ॥ ५ ॥
te ekadā tu munayaḥ prātarhuta-huta-agnayaḥ . satkṛtam sūtam āsīnam papracchuḥ idam ādarāt .. 5 ..
ऋषय ऊचुः ।
त्वया खलु पुराणानि सेतिहासानि चानघ । आख्यातान्यप्यधीतानि धर्मशास्त्राणि यान्युत । ६ ॥
त्वया खलु पुराणानि स इतिहासानि च अनघ । आख्यातानि अपि अधीतानि धर्म-शास्त्राणि यानि उत । ६ ॥
tvayā khalu purāṇāni sa itihāsāni ca anagha . ākhyātāni api adhītāni dharma-śāstrāṇi yāni uta . 6 ..
यानि वेदविदां श्रेष्ठो भगवान् बादरायणः । अन्ये च मुनयः सूत परावरविदो विदुः ॥ ७ ॥
यानि वेद-विदाम् श्रेष्ठः भगवान् बादरायणः । अन्ये च मुनयः सूत परावर-विदः विदुः ॥ ७ ॥
yāni veda-vidām śreṣṭhaḥ bhagavān bādarāyaṇaḥ . anye ca munayaḥ sūta parāvara-vidaḥ viduḥ .. 7 ..
वेत्थ त्वं सौम्य तत्सर्वं तत्त्वतः तदनुग्रहात् । ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत ॥ ८ ॥
वेत्थ त्वम् सौम्य तत् सर्वम् तत्त्वतः तद्-अनुग्रहात् । ब्रूयुः स्निग्धस्य शिष्यस्य गुरवः गुह्यम् अपि उत ॥ ८ ॥
vettha tvam saumya tat sarvam tattvataḥ tad-anugrahāt . brūyuḥ snigdhasya śiṣyasya guravaḥ guhyam api uta .. 8 ..
तत्र तत्राञ्जसाऽऽयुष्मन् भवता यद् विनिश्चितम् । पुंसां एकान्ततः श्रेयः तन्नः शंसितुमर्हसि । ०९ ॥
तत्र तत्र अञ्जसा आयुष्मन् भवता यत् विनिश्चितम् । पुंसाम् एकान्ततः श्रेयः तत् नः शंसितुम् अर्हसि । ०९ ॥
tatra tatra añjasā āyuṣman bhavatā yat viniścitam . puṃsām ekāntataḥ śreyaḥ tat naḥ śaṃsitum arhasi . 09 ..
प्रायेणाल्पायुषः सभ्य कलौ अस्मिन् युगे जनाः । मन्दाः सुमन्दमतयो मन्दभाग्या ह्युपद्रुताः ॥ १० ॥
प्रायेण अल्प-आयुषः सभ्य कलौ अस्मिन् युगे जनाः । मन्दाः सु मन्द-मतयः मन्दभाग्याः हि उपद्रुताः ॥ १० ॥
prāyeṇa alpa-āyuṣaḥ sabhya kalau asmin yuge janāḥ . mandāḥ su manda-matayaḥ mandabhāgyāḥ hi upadrutāḥ .. 10 ..
भूरीणि भूरिकर्माणि श्रोतव्यानि विभागशः । अतः साधोऽत्र यत्सारं समुद्धृत्य मनीषया ।,ब्रूहि नः श्रद्दधानानां येनात्मा संप्रसीदति ॥ ११ ॥
भूरीणि भूरि-कर्माणि श्रोतव्यानि विभागशः । अतस् साधो अत्र यत् सारम् समुद्धृत्य मनीषया ।,ब्रूहि नः श्रद्दधानानाम् येन आत्मा संप्रसीदति ॥ ११ ॥
bhūrīṇi bhūri-karmāṇi śrotavyāni vibhāgaśaḥ . atas sādho atra yat sāram samuddhṛtya manīṣayā .,brūhi naḥ śraddadhānānām yena ātmā saṃprasīdati .. 11 ..
सूत जानासि भद्रं ते भगवान् सात्वतां पतिः । देवक्यां वसुदेवस्य जातो यस्य चिकीर्षया ॥ १२ ॥
सूत जानासि भद्रम् ते भगवान् सात्वताम् पतिः । देवक्याम् वसुदेवस्य जातः यस्य चिकीर्षया ॥ १२ ॥
sūta jānāsi bhadram te bhagavān sātvatām patiḥ . devakyām vasudevasya jātaḥ yasya cikīrṣayā .. 12 ..
तन्नः शुष्रूषमाणानां अर्हस्यङ्गानुवर्णितुम् । यस्यावतारो भूतानां क्षेमाय च भवाय च ॥ १३ ॥
तत् नः शुष्रूषमाणानाम् अर्हसि अङ्ग अनुवर्णितुम् । यस्य अवतारः भूतानाम् क्षेमाय च भवाय च ॥ १३ ॥
tat naḥ śuṣrūṣamāṇānām arhasi aṅga anuvarṇitum . yasya avatāraḥ bhūtānām kṣemāya ca bhavāya ca .. 13 ..
आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन् । ततः सद्यो विमुच्येत यद् बिभेति स्वयं भयम् ॥ १४ ॥
आपन्नः संसृतिम् घोराम् यद्-नाम विवशः गृणन् । ततस् सद्यस् विमुच्येत यत् बिभेति स्वयम् भयम् ॥ १४ ॥
āpannaḥ saṃsṛtim ghorām yad-nāma vivaśaḥ gṛṇan . tatas sadyas vimucyeta yat bibheti svayam bhayam .. 14 ..
यत्पादसंश्रयाः सूत मुनयः प्रशमायनाः । सद्यः पुनन्त्युपस्पृष्टाः स्वर्धुन्यापोऽनुसेवया ॥ १५ ॥
यद्-पाद-संश्रयाः सूत मुनयः प्रशम-अयनाः । सद्यस् पुनन्ति उपस्पृष्टाः स्वर्धुनी-अपः अनुसेवया ॥ १५ ॥
yad-pāda-saṃśrayāḥ sūta munayaḥ praśama-ayanāḥ . sadyas punanti upaspṛṣṭāḥ svardhunī-apaḥ anusevayā .. 15 ..
को वा भगवतस्तस्य पुण्यश्लोकेड्यकर्मणः । शुद्धिकामो न श्रृणुयाद् यशः कलिमलापहम् ॥ १६ ॥
कः वा भगवतः तस्य पुण्य-श्लोक-ईड्य-कर्मणः । शुद्धि-कामः न श्रृणुयात् यशः कलि-मल-अपहम् ॥ १६ ॥
kaḥ vā bhagavataḥ tasya puṇya-śloka-īḍya-karmaṇaḥ . śuddhi-kāmaḥ na śrṛṇuyāt yaśaḥ kali-mala-apaham .. 16 ..
तस्य कर्माण्युदाराणि परिगीतानि सूरिभिः । ब्रूहि नः श्रद्दधानानां लीलया दधतः कलाः ॥ १७ ॥
तस्य कर्माणि उदाराणि परिगीतानि सूरिभिः । ब्रूहि नः श्रद्दधानानाम् लीलया दधतः कलाः ॥ १७ ॥
tasya karmāṇi udārāṇi parigītāni sūribhiḥ . brūhi naḥ śraddadhānānām līlayā dadhataḥ kalāḥ .. 17 ..
अथाख्याहि हरेर्धीमन् अवतारकथाः शुभाः । लीला विदधतः स्वैरं ईश्वरस्यात्ममायया ॥ १८ ॥
अथा आख्याहि हरेः धीमन् अवतार-कथाः शुभाः । लीलाः विदधतः स्वैरम् ईश्वरस्य आत्म-मायया ॥ १८ ॥
athā ākhyāhi hareḥ dhīman avatāra-kathāḥ śubhāḥ . līlāḥ vidadhataḥ svairam īśvarasya ātma-māyayā .. 18 ..
वयं तु न वितृप्याम उत्तमश्लोकविक्रमे । यत् श्रृण्वतां रसज्ञानां स्वादु स्वादु पदे पदे ॥ १९ ॥
वयम् तु न वितृप्यामः उत्तम-श्लोक-विक्रमे । यत् श्रृण्वताम् रसज्ञानाम् स्वादु स्वादु पदे पदे ॥ १९ ॥
vayam tu na vitṛpyāmaḥ uttama-śloka-vikrame . yat śrṛṇvatām rasajñānām svādu svādu pade pade .. 19 ..
कृतवान् किल वीर्याणि सह रामेण केशवः । अतिमर्त्यानि भगवान् गूढः कपटमानुषः ॥ २० ॥
कृतवान् किल वीर्याणि सह रामेण केशवः । अतिमर्त्यानि भगवान् गूढः कपट-मानुषः ॥ २० ॥
kṛtavān kila vīryāṇi saha rāmeṇa keśavaḥ . atimartyāni bhagavān gūḍhaḥ kapaṭa-mānuṣaḥ .. 20 ..
कलिमागतमाज्ञाय क्षेत्रेऽस्मिन् वैष्णवे वयम् । आसीना दीर्घसत्रेण कथायां सक्षणा हरेः ॥ २१ ॥
कलिम् आगतम् आज्ञाय क्षेत्रे अस्मिन् वैष्णवे वयम् । आसीनाः दीर्घ-सत्रेण कथायाम् सक्षणाः हरेः ॥ २१ ॥
kalim āgatam ājñāya kṣetre asmin vaiṣṇave vayam . āsīnāḥ dīrgha-satreṇa kathāyām sakṣaṇāḥ hareḥ .. 21 ..
त्वं नः संदर्शितो धात्रा दुस्तरं निस्तितीर्षताम् । कलिं सत्त्वहरं पुंसां कर्णधार इवार्णवम् ॥ २२ ॥
त्वम् नः संदर्शितः धात्रा दुस्तरम् । कलिम् सत्त्व-हरम् पुंसाम् कर्णधारः इव अर्णवम् ॥ २२ ॥
tvam naḥ saṃdarśitaḥ dhātrā dustaram . kalim sattva-haram puṃsām karṇadhāraḥ iva arṇavam .. 22 ..
ब्रूहि योगेश्वरे कृष्णे ब्रह्मण्ये धर्मवर्मणि । स्वां काष्ठामधुनोपेते धर्मः कं शरणं गतः ॥ २३ ॥
ब्रूहि योगेश्वरे कृष्णे ब्रह्मण्ये धर्मवर्मणि । स्वाम् काष्ठाम् अधुना उपेते धर्मः कम् शरणम् गतः ॥ २३ ॥
brūhi yogeśvare kṛṣṇe brahmaṇye dharmavarmaṇi . svām kāṣṭhām adhunā upete dharmaḥ kam śaraṇam gataḥ .. 23 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां । प्रथमस्कन्धे नैमिषीयोपाखाने प्रथमोऽध्यायः ॥ १ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् । प्रथम-स्कन्धे नैमिषीय-उपाखाने प्रथमः अध्यायः ॥ १ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām . prathama-skandhe naimiṣīya-upākhāne prathamaḥ adhyāyaḥ .. 1 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In