| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

अश्वत्थाम्नोपसृष्टेन ब्रह्मशीर्ष्णोरुतेजसा । उत्तराया हतो गर्भ ईशेनाजीवितः पुनः ॥ १ ॥
अश्वत्थाम्ना उपसृष्टेन ब्रह्म-शीर्ष्णा उरु-तेजसा । उत्तरायाः हतः गर्भः ईशेन आजीवितः पुनर् ॥ १ ॥
aśvatthāmnā upasṛṣṭena brahma-śīrṣṇā uru-tejasā . uttarāyāḥ hataḥ garbhaḥ īśena ājīvitaḥ punar .. 1 ..
शौनक उवाच ।
तस्य जन्म महाबुद्धेः कर्माणि च महात्मनः । निधनं च यथैवासीत् स प्रेत्य गतवान् यथा ॥ २ ॥
तस्य जन्म महाबुद्धेः कर्माणि च महात्मनः । निधनम् च यथा एव आसीत् स प्रेत्य गतवान् यथा ॥ २ ॥
tasya janma mahābuddheḥ karmāṇi ca mahātmanaḥ . nidhanam ca yathā eva āsīt sa pretya gatavān yathā .. 2 ..
तदिदं श्रोतुमिच्छामो गदितुं यदि मन्यसे । ब्रूहि नः श्रद्दधानानां यस्य ज्ञानमदाच्छुकः ॥ ३ ॥
तत् इदम् श्रोतुम् इच्छामः गदितुम् यदि मन्यसे । ब्रूहि नः श्रद्दधानानाम् यस्य ज्ञानम् अदात् शुकः ॥ ३ ॥
tat idam śrotum icchāmaḥ gaditum yadi manyase . brūhi naḥ śraddadhānānām yasya jñānam adāt śukaḥ .. 3 ..
अपीपलद्धर्मराजः पितृवद् रञ्जयन् प्रजाः । निःस्पृहः सर्वकामेभ्यः कृष्णपादानुसेवया ॥ ४ ॥
अपीपलत् धर्मराजः पितृ-वत् रञ्जयन् प्रजाः । निःस्पृहः सर्व-कामेभ्यः कृष्ण-पाद-अनुसेवया ॥ ४ ॥
apīpalat dharmarājaḥ pitṛ-vat rañjayan prajāḥ . niḥspṛhaḥ sarva-kāmebhyaḥ kṛṣṇa-pāda-anusevayā .. 4 ..
सूत उवाच ।
सम्पदः क्रतवो लोका महिषी भ्रातरो मही । जम्बूद्वीपाधिपत्यं च यशश्च त्रिदिवं गतम् ॥ ५ ॥
सम्पदः क्रतवः लोकाः महिषी भ्रातरः मही । जम्बूद्वीप-आधिपत्यम् च यशः च त्रिदिवम् गतम् ॥ ५ ॥
sampadaḥ kratavaḥ lokāḥ mahiṣī bhrātaraḥ mahī . jambūdvīpa-ādhipatyam ca yaśaḥ ca tridivam gatam .. 5 ..
किं ते कामाः सुरस्पार्हा मुकुन्दमनसो द्विजाः । अधिजह्रुर्मुदं राज्ञः क्षुधितस्य यथेतरे ॥ ६ ॥
किम् ते कामाः मुकुन्द-मनसः द्विजाः । अधिजह्रुः मुदम् राज्ञः क्षुधितस्य यथा इतरे ॥ ६ ॥
kim te kāmāḥ mukunda-manasaḥ dvijāḥ . adhijahruḥ mudam rājñaḥ kṣudhitasya yathā itare .. 6 ..
मातुर्गर्भगतो वीरः स तदा भृगुनन्दन । ददर्श पुरुषं कञ्चिद् दह्यमानोऽस्त्रतेजसा ॥ ७ ॥
मातुः गर्भ-गतः वीरः स तदा भृगु-नन्दन । ददर्श पुरुषम् कञ्चिद् दह्यमानः अस्त्र-तेजसा ॥ ७ ॥
mātuḥ garbha-gataḥ vīraḥ sa tadā bhṛgu-nandana . dadarśa puruṣam kañcid dahyamānaḥ astra-tejasā .. 7 ..
अङ्गुष्ठमात्रममलं स्फुरत् पुरट मौलिनम् । अपीव्यदर्शनं श्यामं तडिद् वाससमच्युतम् ॥ ८ ॥
अङ्गुष्ठ-मात्रम् अमलम् स्फुरत् पुरट मौलिनम् । श्यामम् तडित् वाससम् अच्युतम् ॥ ८ ॥
aṅguṣṭha-mātram amalam sphurat puraṭa maulinam . śyāmam taḍit vāsasam acyutam .. 8 ..
श्रीमद् दीर्घचतुर्बाहुं तप्तकाञ्चन कुण्डलम् । क्षतजाक्षं गदापाणिं आत्मनः सर्वतो दिशम् । परिभ्रमन्तं उल्काभां भ्रामयन्तं गदां मुहुः ॥ ९ ॥
श्रीमत् दीर्घ-चतुर्-बाहुम् तप्त-काञ्चन कुण्डलम् । क्षतज-अक्षम् गदा-पाणिम् आत्मनः सर्वतस् दिशम् । परिभ्रमन्तम् उल्का-आभाम् भ्रामयन्तम् गदाम् मुहुर् ॥ ९ ॥
śrīmat dīrgha-catur-bāhum tapta-kāñcana kuṇḍalam . kṣataja-akṣam gadā-pāṇim ātmanaḥ sarvatas diśam . paribhramantam ulkā-ābhām bhrāmayantam gadām muhur .. 9 ..
अस्त्रतेजः स्वगदया नीहारमिव गोपतिः । विधमन्तं सन्निकर्षे पर्यैक्षत क इत्यसौ ॥ १० ॥
अस्त्र-तेजः स्व-गदया नीहारम् इव गोपतिः । विधमन्तम् सन्निकर्षे पर्यैक्षत कः इति असौ ॥ १० ॥
astra-tejaḥ sva-gadayā nīhāram iva gopatiḥ . vidhamantam sannikarṣe paryaikṣata kaḥ iti asau .. 10 ..
विधूय तदमेयात्मा भगवान् धर्मगुब् विभुः । मिषतो दशमासस्य तत्रैवान्तर्दधे हरिः ॥ ११ ॥
विधूय तत् अमेय-आत्मा भगवान् विभुः । मिषतः दश-मासस्य तत्र एव अन्तर्दधे हरिः ॥ ११ ॥
vidhūya tat ameya-ātmā bhagavān vibhuḥ . miṣataḥ daśa-māsasya tatra eva antardadhe hariḥ .. 11 ..
ततः सर्वगुणोदर्के सानुकूल ग्रहोदये । जज्ञे वंशधरः पाण्डोः भूयः पाण्डुरिवौजसा ॥ १२ ॥
ततस् सर्व-गुण-उदर्के स अनुकूल ग्रह-उदये । जज्ञे वंश-धरः पाण्डोः भूयस् पाण्डुः इव ओजसा ॥ १२ ॥
tatas sarva-guṇa-udarke sa anukūla graha-udaye . jajñe vaṃśa-dharaḥ pāṇḍoḥ bhūyas pāṇḍuḥ iva ojasā .. 12 ..
तस्य प्रीतमना राजा विप्रैर्धौम्य कृपादिभिः । जातकं कारयामास वाचयित्वा च मङ्गलम् ॥ १३ ॥
तस्य प्रीत-मनाः राजा विप्रैः धौम्य कृप-आदिभिः । जातकम् कारयामास वाचयित्वा च मङ्गलम् ॥ १३ ॥
tasya prīta-manāḥ rājā vipraiḥ dhaumya kṛpa-ādibhiḥ . jātakam kārayāmāsa vācayitvā ca maṅgalam .. 13 ..
हिरण्यं गां महीं ग्रामान् हस्त्यश्वान् नृपतिर्वरान् । प्रादात्स्वन्नं च विप्रेभ्यः प्रजातीर्थे स तीर्थवित् ॥ १४ ॥
हिरण्यम् गाम् महीम् ग्रामान् हस्ति-अश्वान् नृपतिः वरान् । प्रादात् स्वन्नम् च विप्रेभ्यः प्रजातीर्थे स तीर्थ-विद् ॥ १४ ॥
hiraṇyam gām mahīm grāmān hasti-aśvān nṛpatiḥ varān . prādāt svannam ca viprebhyaḥ prajātīrthe sa tīrtha-vid .. 14 ..
तमूचुर्ब्राह्मणास्तुष्टा राजानं प्रश्रयान्वितम् । एष ह्यस्मिन् प्रजातन्तौ पुरूणां पौरवर्षभ ॥ १५ ॥
तम् ऊचुः ब्राह्मणाः तुष्टाः राजानम् प्रश्रय-अन्वितम् । एष हि अस्मिन् प्रजा-तन्तौ पुरूणाम् पौरव-ऋषभ ॥ १५ ॥
tam ūcuḥ brāhmaṇāḥ tuṣṭāḥ rājānam praśraya-anvitam . eṣa hi asmin prajā-tantau purūṇām paurava-ṛṣabha .. 15 ..
दैवेनाप्रतिघातेन शुक्ले संस्थामुपेयुषि । रातो वोऽनुग्रहार्थाय विष्णुना प्रभविष्णुना ॥ १६ ॥
दैवेन अप्रतिघातेन शुक्ले संस्थाम् उपेयुषि । रातः वः अनुग्रह-अर्थाय विष्णुना प्रभविष्णुना ॥ १६ ॥
daivena apratighātena śukle saṃsthām upeyuṣi . rātaḥ vaḥ anugraha-arthāya viṣṇunā prabhaviṣṇunā .. 16 ..
तस्मान्नाम्ना विष्णुरात इति लोके बृहच्छ्रवाः । भविष्यति न सन्देहो महाभागवतो महान् ॥ १७ ॥
तस्मात् नाम्ना विष्णुरातः इति लोके बृहच्छ्रवाः । भविष्यति न सन्देहः महा-भागवतः महान् ॥ १७ ॥
tasmāt nāmnā viṣṇurātaḥ iti loke bṛhacchravāḥ . bhaviṣyati na sandehaḥ mahā-bhāgavataḥ mahān .. 17 ..
अप्येष वंश्यान् राजर्षीन् पुण्यश्लोकान् महात्मनः । अनुवर्तिता स्विद्यशसा साधुवादेन सत्तमाः ॥ १८ ॥
अपि एष वंश्यान् राजर्षीन् पुण्य-श्लोकान् महात्मनः । अनुवर्तिता स्विद् यशसा साधुवादेन सत्तमाः ॥ १८ ॥
api eṣa vaṃśyān rājarṣīn puṇya-ślokān mahātmanaḥ . anuvartitā svid yaśasā sādhuvādena sattamāḥ .. 18 ..
युधिष्ठिर उवाच ।
पार्थ प्रजाविता साक्षात् इक्ष्वाकुरिव मानवः । ब्रह्मण्यः सत्यसन्धश्च रामो दाशरथिर्यथा ॥ १९ ॥
पार्थ साक्षात् इक्ष्वाकुः इव मानवः । ब्रह्मण्यः सत्य-सन्धः च रामः दाशरथिः यथा ॥ १९ ॥
pārtha sākṣāt ikṣvākuḥ iva mānavaḥ . brahmaṇyaḥ satya-sandhaḥ ca rāmaḥ dāśarathiḥ yathā .. 19 ..
ब्राह्मणा ऊचुः ।
एष दाता शरण्यश्च यथा ह्यौशीनरः शिबिः । यशो वितनिता स्वानां दौष्यन्तिरिव यज्वनाम् ॥ २० ॥
एष दाता शरण्यः च यथा हि औशीनरः शिबिः । यशः वितनिता स्वानाम् दौष्यन्तिः इव यज्वनाम् ॥ २० ॥
eṣa dātā śaraṇyaḥ ca yathā hi auśīnaraḥ śibiḥ . yaśaḥ vitanitā svānām dauṣyantiḥ iva yajvanām .. 20 ..
धन्विनामग्रणीरेष तुल्यश्चार्जुनयोर्द्वयोः । हुताश इव दुर्धर्षः समुद्र इव दुस्तरः ॥ २१ ॥
धन्विनाम् अग्रणीः एष तुल्यः च अर्जुनयोः द्वयोः । हुताशः इव दुर्धर्षः समुद्रः इव दुस्तरः ॥ २१ ॥
dhanvinām agraṇīḥ eṣa tulyaḥ ca arjunayoḥ dvayoḥ . hutāśaḥ iva durdharṣaḥ samudraḥ iva dustaraḥ .. 21 ..
मृगेन्द्र इव विक्रान्तो निषेव्यो हिमवानिव । तितिक्षुर्वसुधेवासौ सहिष्णुः पितराविव ॥ २२ ॥
मृगेन्द्रः इव विक्रान्तः निषेव्यः हिमवान् इव । तितिक्षुः वसुधा इव असौ सहिष्णुः पितरौ इव ॥ २२ ॥
mṛgendraḥ iva vikrāntaḥ niṣevyaḥ himavān iva . titikṣuḥ vasudhā iva asau sahiṣṇuḥ pitarau iva .. 22 ..
पितामहसमः साम्ये प्रसादे गिरिशोपमः । आश्रयः सर्वभूतानां यथा देवो रमाश्रयः ॥ २३ ॥
पितामह-समः साम्ये प्रसादे गिरिश-उपमः । आश्रयः सर्व-भूतानाम् यथा देवः रमाश्रयः ॥ २३ ॥
pitāmaha-samaḥ sāmye prasāde giriśa-upamaḥ . āśrayaḥ sarva-bhūtānām yathā devaḥ ramāśrayaḥ .. 23 ..
सर्वसद्गुणमाहात्म्ये एष कृष्णमनुव्रतः । रन्तिदेव इवोदारो ययातिरिव धार्मिकः ॥ २४ ॥
सर्व-सत्-गुण-माहात्म्ये एष कृष्णम् अनुव्रतः । रन्तिदेवः इव उदारः ययातिः इव धार्मिकः ॥ २४ ॥
sarva-sat-guṇa-māhātmye eṣa kṛṣṇam anuvrataḥ . rantidevaḥ iva udāraḥ yayātiḥ iva dhārmikaḥ .. 24 ..
धृत्या बलिसमः कृष्णे प्रह्राद इव सद्ग्रहः । आहर्तैषोऽश्वमेधानां वृद्धानां पर्युपासकः ॥ २५ ॥
धृत्या बलि-समः कृष्णे प्रह्रादः इव सत्-ग्रहः । आहर्ता एषः अश्वमेधानाम् वृद्धानाम् पर्युपासकः ॥ २५ ॥
dhṛtyā bali-samaḥ kṛṣṇe prahrādaḥ iva sat-grahaḥ . āhartā eṣaḥ aśvamedhānām vṛddhānām paryupāsakaḥ .. 25 ..
राजर्षीणां जनयिता शास्ता चोत्पथगामिनाम् । निग्रहीता कलेरेष भुवो धर्मस्य कारणात् ॥ २६ ॥
राजर्षीणाम् जनयिता शास्ता च उत्पथ-गामिनाम् । निग्रहीता कलेः एष भुवः धर्मस्य कारणात् ॥ २६ ॥
rājarṣīṇām janayitā śāstā ca utpatha-gāminām . nigrahītā kaleḥ eṣa bhuvaḥ dharmasya kāraṇāt .. 26 ..
तक्षकादात्मनो मृत्युं द्विजपुत्रोपसर्जितात् । प्रपत्स्यत उपश्रुत्य मुक्तसङ्गः पदं हरेः ॥ २७ ॥
तक्षकात् आत्मनः मृत्युम् द्विज-पुत्र-उपसर्जितात् । प्रपत्स्यते उपश्रुत्य मुक्त-सङ्गः पदम् हरेः ॥ २७ ॥
takṣakāt ātmanaḥ mṛtyum dvija-putra-upasarjitāt . prapatsyate upaśrutya mukta-saṅgaḥ padam hareḥ .. 27 ..
जिज्ञासितात्म याथार्थ्यो मुनेर्व्याससुतादसौ । हित्वेदं नृप गङ्गायां यास्यत्यद्धा अकुतोभयम् ॥ २८ ॥
जिज्ञासित-आत्म याथार्थ्यः मुनेः व्यास-सुतात् असौ । हित्वा इदम् नृप गङ्गायाम् यास्यति अद्धा अकुतोभयम् ॥ २८ ॥
jijñāsita-ātma yāthārthyaḥ muneḥ vyāsa-sutāt asau . hitvā idam nṛpa gaṅgāyām yāsyati addhā akutobhayam .. 28 ..
इति राज्ञ उपादिश्य विप्रा जातककोविदाः । लब्धापचितयः सर्वे प्रतिजग्मुः स्वकान् गृहान् ॥ २९ ॥
इति राज्ञः उपादिश्य विप्राः जातक-कोविदाः । लब्ध-अपचितयः सर्वे प्रतिजग्मुः स्वकान् गृहान् ॥ २९ ॥
iti rājñaḥ upādiśya viprāḥ jātaka-kovidāḥ . labdha-apacitayaḥ sarve pratijagmuḥ svakān gṛhān .. 29 ..
स एष लोके विख्यातः परीक्षिदिति यत्प्रभुः । पूर्वं दृष्टमनुध्यायन् परीक्षेत नरेष्विह ॥ ३० ॥
सः एष लोके विख्यातः परीक्षित् इति यत् प्रभुः । पूर्वम् दृष्टम् अनुध्यायन् परीक्षेत नरेषु इह ॥ ३० ॥
saḥ eṣa loke vikhyātaḥ parīkṣit iti yat prabhuḥ . pūrvam dṛṣṭam anudhyāyan parīkṣeta nareṣu iha .. 30 ..
स राजपुत्रो ववृधे आशु शुक्ल इवोडुपः । आपूर्यमाणः पितृभिः काष्ठाभिरिव सोऽन्वहम् ॥ ३१ ॥
स राज-पुत्रः ववृधे आशु शुक्लः इव उडुपः । आपूर्यमाणः पितृभिः काष्ठाभिः इव सः अन्वहम् ॥ ३१ ॥
sa rāja-putraḥ vavṛdhe āśu śuklaḥ iva uḍupaḥ . āpūryamāṇaḥ pitṛbhiḥ kāṣṭhābhiḥ iva saḥ anvaham .. 31 ..
यक्ष्यमाणोऽश्वमेधेन ज्ञातिद्रोहजिहासया । राजा लब्धधनो दध्यौ अन्यत्र करदण्डयोः ॥ ३२ ॥
यक्ष्यमाणः अश्वमेधेन ज्ञाति-द्रोह-जिहासया । राजा लब्ध-धनः दध्यौ अन्यत्र कर-दण्डयोः ॥ ३२ ॥
yakṣyamāṇaḥ aśvamedhena jñāti-droha-jihāsayā . rājā labdha-dhanaḥ dadhyau anyatra kara-daṇḍayoḥ .. 32 ..
तदभिप्रेतमालक्ष्य भ्रातरोऽच्युतचोदिताः । धनं प्रहीणमाजह्रुः उदीच्यां दिशि भूरिशः ॥ ३३ ॥
तद्-अभिप्रेतम् आलक्ष्य भ्रातरः अच्युत-चोदिताः । धनम् प्रहीणम् आजह्रुः उदीच्याम् दिशि भूरिशस् ॥ ३३ ॥
tad-abhipretam ālakṣya bhrātaraḥ acyuta-coditāḥ . dhanam prahīṇam ājahruḥ udīcyām diśi bhūriśas .. 33 ..
तेन सम्भृतसम्भारो धर्मपुत्रो युधिष्ठिरः । वाजिमेधैः त्रिभिर्भीतो यज्ञैः समयजत् हरिम् ॥ ३४ ॥
तेन सम्भृत-सम्भारः धर्मपुत्रः युधिष्ठिरः । वाजिमेधैः त्रिभिः भीतः यज्ञैः समयजत् हरिम् ॥ ३४ ॥
tena sambhṛta-sambhāraḥ dharmaputraḥ yudhiṣṭhiraḥ . vājimedhaiḥ tribhiḥ bhītaḥ yajñaiḥ samayajat harim .. 34 ..
आहूतो भगवान् राज्ञा याजयित्वा द्विजैर्नृपम् । उवास कतिचित् मासान् सुहृदां प्रियकाम्यया ॥ ३५ ॥
आहूतः भगवान् राज्ञा याजयित्वा द्विजैः नृपम् । उवास कतिचिद् मासान् सुहृदाम् प्रिय-काम्यया ॥ ३५ ॥
āhūtaḥ bhagavān rājñā yājayitvā dvijaiḥ nṛpam . uvāsa katicid māsān suhṛdām priya-kāmyayā .. 35 ..
ततो राज्ञाभ्यनुज्ञातः कृष्णया सहबन्धुभिः । ययौ द्वारवतीं ब्रह्मन् सार्जुनो यदुभिर्वृतः ॥ ३६ ॥
ततस् राज्ञा अभ्यनुज्ञातः कृष्णया सह बन्धुभिः । ययौ द्वारवतीम् ब्रह्मन् स अर्जुनः यदुभिः वृतः ॥ ३६ ॥
tatas rājñā abhyanujñātaḥ kṛṣṇayā saha bandhubhiḥ . yayau dvāravatīm brahman sa arjunaḥ yadubhiḥ vṛtaḥ .. 36 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने परीक्षिज्जन्माद्युत्कर्षो नाम द्वादशोऽध्यायः ॥ १२ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् प्रथम-स्कन्धे नैमिषीयोपाख्याने परीक्षिज्जन्माद्युत्कर्षः नाम द्वादशः अध्यायः ॥ १२ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām prathama-skandhe naimiṣīyopākhyāne parīkṣijjanmādyutkarṣaḥ nāma dvādaśaḥ adhyāyaḥ .. 12 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In