| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

विदुरस्तीर्थयात्रायां मैत्रेयादात्मनो गतिम् । ज्ञात्वागाt हास्तिनपुरं तयावाप्तविवित्सितः ॥ १ ॥
विदुरः तीर्थ-यात्रायाम् मैत्रेयात् आत्मनः गतिम् । ज्ञात्वा अगात् हास्तिनपुरम् तया अवाप्त-विवित्सितः ॥ १ ॥
viduraḥ tīrtha-yātrāyām maitreyāt ātmanaḥ gatim . jñātvā agāt hāstinapuram tayā avāpta-vivitsitaḥ .. 1 ..
सूत उवाच ।
यावतः कृतवान् प्रश्नान् क्षत्ता कौषारवाग्रतः । जातैकभक्तिः गोविन्दे तेभ्यश्चोपरराम ह ॥ २ ॥
यावतः कृतवान् प्रश्नान् क्षत्ता कौषारव-अग्रतस् । जात-एक-भक्तिः गोविन्दे तेभ्यः च उपरराम ह ॥ २ ॥
yāvataḥ kṛtavān praśnān kṣattā kauṣārava-agratas . jāta-eka-bhaktiḥ govinde tebhyaḥ ca upararāma ha .. 2 ..
तं बन्धुमागतं दृष्ट्वा धर्मपुत्रः सहानुजः । धृतराष्ट्रो युयुत्सुश्च सूतः शारद्वतः पृथा ॥ ३ ॥
तम् बन्धुम् आगतम् दृष्ट्वा धर्मपुत्रः सहानुजः । धृतराष्ट्रः युयुत्सुः च सूतः शारद्वतः पृथा ॥ ३ ॥
tam bandhum āgatam dṛṣṭvā dharmaputraḥ sahānujaḥ . dhṛtarāṣṭraḥ yuyutsuḥ ca sūtaḥ śāradvataḥ pṛthā .. 3 ..
गान्धारी द्रौपदी ब्रह्मन् सुभद्रा चोत्तरा कृपी । अन्याश्च जामयः पाण्डोः ज्ञातयः ससुताः स्त्रियः ॥ ४ ॥
गान्धारी द्रौपदी ब्रह्मन् सुभद्रा च उत्तरा कृपी । अन्याः च जामयः पाण्डोः ज्ञातयः स सुताः स्त्रियः ॥ ४ ॥
gāndhārī draupadī brahman subhadrā ca uttarā kṛpī . anyāḥ ca jāmayaḥ pāṇḍoḥ jñātayaḥ sa sutāḥ striyaḥ .. 4 ..
प्रत्युज्जग्मुः प्रहर्षेण प्राणं तन्व इवागतम् । अभिसङ्गम्य विधिवत् परिष्वङ्गाभिवादनैः ॥ ५ ॥
प्रत्युज्जग्मुः प्रहर्षेण प्राणम् तन्वः इव आगतम् । अभिसङ्गम्य विधिवत् परिष्वङ्ग-अभिवादनैः ॥ ५ ॥
pratyujjagmuḥ praharṣeṇa prāṇam tanvaḥ iva āgatam . abhisaṅgamya vidhivat pariṣvaṅga-abhivādanaiḥ .. 5 ..
मुमुचुः प्रेमबाष्पौघं विरहौत्कण्ठ्य कातराः । राजा तमर्हयां चक्रे कृतासन परिग्रहम् ॥ ६ ॥
मुमुचुः प्रेम-बाष्प-ओघम् कातराः । राजा तम् अर्हयाम् चक्रे कृत-आसन परिग्रहम् ॥ ६ ॥
mumucuḥ prema-bāṣpa-ogham kātarāḥ . rājā tam arhayām cakre kṛta-āsana parigraham .. 6 ..
तं भुक्तवन्तं विश्रान्तं आसीनं सुखमासने । प्रश्रयावनतो राजा प्राह तेषां च श्रृण्वताम् ॥ ७ ॥
तम् भुक्तवन्तम् विश्रान्तम् आसीनम् सुखम् आसने । प्रश्रय-अवनतः राजा प्राह तेषाम् च श्रृण्वताम् ॥ ७ ॥
tam bhuktavantam viśrāntam āsīnam sukham āsane . praśraya-avanataḥ rājā prāha teṣām ca śrṛṇvatām .. 7 ..
अपि स्मरथ नो युष्मत् पक्षच्छायासमेधितान् । विपद्गणाद् विषाग्न्यादेः मोचिता यत्समातृकाः ॥ ८ ॥
अपि स्मरथ नः युष्मत् पक्ष-छाया-समेधितान् । ॥ ८ ॥
api smaratha naḥ yuṣmat pakṣa-chāyā-samedhitān . .. 8 ..
युधिष्ठिर उवाच ।
कया वृत्त्या वर्तितं वः चरद्भिः क्षितिमण्डलम् । तीर्थानि क्षेत्रमुख्यानि सेवितानीह भूतले ॥ ९ ॥
कया वृत्त्या वर्तितम् वः चरद्भिः क्षिति-मण्डलम् । तीर्थानि क्षेत्र-मुख्यानि सेवितानि इह भू-तले ॥ ९ ॥
kayā vṛttyā vartitam vaḥ caradbhiḥ kṣiti-maṇḍalam . tīrthāni kṣetra-mukhyāni sevitāni iha bhū-tale .. 9 ..
भवद्विधा भागवताः तीर्थभूताः स्वयं विभो । तीर्थीकुर्वन्ति तीर्थानि स्वान्तःस्थेन गदाभृता ॥ १० ॥
भवद्विधाः भागवताः तीर्थ-भूताः स्वयम् विभो । तीर्थीकुर्वन्ति तीर्थानि स्व-अन्तःस्थेन गदाभृता ॥ १० ॥
bhavadvidhāḥ bhāgavatāḥ tīrtha-bhūtāḥ svayam vibho . tīrthīkurvanti tīrthāni sva-antaḥsthena gadābhṛtā .. 10 ..
अपि नः सुहृदस्तात बान्धवाः कृष्णदेवताः । दृष्टाः श्रुता वा यदवः स्वपुर्यां सुखमासते ॥ ११ ॥
अपि नः सुहृदः तात बान्धवाः कृष्ण-देवताः । दृष्टाः श्रुताः वा यदवः स्व-पुर्याम् सुखम् आसते ॥ ११ ॥
api naḥ suhṛdaḥ tāta bāndhavāḥ kṛṣṇa-devatāḥ . dṛṣṭāḥ śrutāḥ vā yadavaḥ sva-puryām sukham āsate .. 11 ..
इत्युक्तो धर्मराजेन सर्वं तत् समवर्णयत् । यथानुभूतं क्रमशो विना यदुकुलक्षयम् ॥ १२ ॥
इति उक्तः धर्मराजेन सर्वम् तत् समवर्णयत् । यथा अनुभूतम् क्रमशस् विना यदु-कुल-क्षयम् ॥ १२ ॥
iti uktaḥ dharmarājena sarvam tat samavarṇayat . yathā anubhūtam kramaśas vinā yadu-kula-kṣayam .. 12 ..
नन्वप्रियं दुर्विषहं नृणां स्वयमुपस्थितम् । नावेदयत् सकरुणो दुःखितान् द्रष्टुमक्षमः ॥ १३ ॥
ननु अप्रियम् दुर्विषहम् नृणाम् स्वयम् उपस्थितम् । न आवेदयत् स करुणः दुःखितान् द्रष्टुम् अक्षमः ॥ १३ ॥
nanu apriyam durviṣaham nṛṇām svayam upasthitam . na āvedayat sa karuṇaḥ duḥkhitān draṣṭum akṣamaḥ .. 13 ..
कञ्चित् कालमथ अवात्सीत् सत्कृतो देववत्सुखम् । भ्रातुर्ज्येष्ठस्य श्रेयस्कृत् सर्वेषां सुखमावहन् ॥ १४ ॥
कञ्चिद् कालम् अथ अवात्सीत् सत्कृतः देव-वत् सुखम् । भ्रातुः ज्येष्ठस्य श्रेयस्कृत् सर्वेषाम् सुखम् आवहन् ॥ १४ ॥
kañcid kālam atha avātsīt satkṛtaḥ deva-vat sukham . bhrātuḥ jyeṣṭhasya śreyaskṛt sarveṣām sukham āvahan .. 14 ..
अबिभ्रदर्यमा दण्डं यथावत् अघकारिषु । यावद् दधार शूद्रत्वं शापात् वर्षशतं यमः ॥ १५ ॥
अबिभ्रत् अर्यमा दण्डम् यथावत् अघ-कारिषु । यावत् दधार शूद्र-त्वम् शापात् वर्ष-शतम् यमः ॥ १५ ॥
abibhrat aryamā daṇḍam yathāvat agha-kāriṣu . yāvat dadhāra śūdra-tvam śāpāt varṣa-śatam yamaḥ .. 15 ..
युधिष्ठिरो लब्धराज्यो दृष्ट्वा पौत्रं कुलन्धरम् । भ्रातृभिर्लोकपालाभैः मुमुदे परया श्रिया ॥ १६ ॥
युधिष्ठिरः लब्ध-राज्यः दृष्ट्वा पौत्रम् कुलन्धरम् । भ्रातृभिः लोकपाल-आभैः मुमुदे परया श्रिया ॥ १६ ॥
yudhiṣṭhiraḥ labdha-rājyaḥ dṛṣṭvā pautram kulandharam . bhrātṛbhiḥ lokapāla-ābhaiḥ mumude parayā śriyā .. 16 ..
एवं गृहेषु सक्तानां प्रमत्तानां तदीहया । अत्यक्रामत् अविज्ञातः कालः परमदुस्तरः ॥ १७ ॥
एवम् गृहेषु सक्तानाम् प्रमत्तानाम् तद्-ईहया । अत्यक्रामत् अविज्ञातः कालः परम-दुस्तरः ॥ १७ ॥
evam gṛheṣu saktānām pramattānām tad-īhayā . atyakrāmat avijñātaḥ kālaḥ parama-dustaraḥ .. 17 ..
विदुरस्तत् अभिप्रेत्य धृतराष्ट्रं अभाषत । राजन् निर्गम्यतां शीघ्रं पश्येदं भयमागतम् ॥ १८ ॥
विदुरः तत् अभिप्रेत्य धृतराष्ट्रम् अभाषत । राजन् निर्गम्यताम् शीघ्रम् पश्य इदम् भयम् आगतम् ॥ १८ ॥
viduraḥ tat abhipretya dhṛtarāṣṭram abhāṣata . rājan nirgamyatām śīghram paśya idam bhayam āgatam .. 18 ..
प्रतिक्रिया न यस्येह कुतश्चित् कर्हिचित् प्रभो । स एष भगवान् कालः सर्वेषां नः समागतः ॥ १९ ॥
प्रतिक्रिया न यस्य इह कुतश्चिद् कर्हिचित् प्रभो । सः एष भगवान् कालः सर्वेषाम् नः समागतः ॥ १९ ॥
pratikriyā na yasya iha kutaścid karhicit prabho . saḥ eṣa bhagavān kālaḥ sarveṣām naḥ samāgataḥ .. 19 ..
येन चैवाभिपन्नोऽयं प्राणैः प्रियतमैरपि । जनः सद्यो वियुज्येत किमुतान्यैः धनादिभिः ॥ २० ॥
येन च एव अभिपन्नः अयम् प्राणैः प्रियतमैः अपि । जनः सद्यस् वियुज्येत किम् उत अन्यैः धन-आदिभिः ॥ २० ॥
yena ca eva abhipannaḥ ayam prāṇaiḥ priyatamaiḥ api . janaḥ sadyas viyujyeta kim uta anyaiḥ dhana-ādibhiḥ .. 20 ..
पितृभ्रातृसुहृत्पुत्रा हतास्ते विगतं वयः । आत्मा च जरया ग्रस्तः परगेहमुपाससे ॥ २१ ॥
पितृ-भ्रातृ-सुहृद्-पुत्राः हताः ते विगतम् वयः । आत्मा च जरया ग्रस्तः पर-गेहम् उपाससे ॥ २१ ॥
pitṛ-bhrātṛ-suhṛd-putrāḥ hatāḥ te vigatam vayaḥ . ātmā ca jarayā grastaḥ para-geham upāsase .. 21 ..
अहो महीयसी जन्तोः जीविताशा यया भवान् । भीमापवर्जितं पिण्डं आदत्ते गृहपालवत् ॥ २२ ॥
अहो महीयसी जन्तोः जीवित-आशा यया भवान् । भीम-अपवर्जितम् पिण्डम् आदत्ते गृहपाल-वत् ॥ २२ ॥
aho mahīyasī jantoḥ jīvita-āśā yayā bhavān . bhīma-apavarjitam piṇḍam ādatte gṛhapāla-vat .. 22 ..
अग्निर्निसृष्टो दत्तश्च गरो दाराश्च दूषिताः । हृतं क्षेत्रं धनं येषां तद्दत्तैरसुभिः कियत् ॥ २३ ॥
अग्निः निसृष्टः दत्तः च गरः दाराः च दूषिताः । हृतम् क्षेत्रम् धनम् येषाम् तद्-दत्तैः असुभिः कियत् ॥ २३ ॥
agniḥ nisṛṣṭaḥ dattaḥ ca garaḥ dārāḥ ca dūṣitāḥ . hṛtam kṣetram dhanam yeṣām tad-dattaiḥ asubhiḥ kiyat .. 23 ..
तस्यापि तव देहोऽयं कृपणस्य जिजीविषोः । परैत्यनिच्छतो जीर्णो जरया वाससी इव ॥ २४ ॥
तस्य अपि तव देहः अयम् कृपणस्य जिजीविषोः । परैति अन् इच्छतः जीर्णः जरया वाससी इव ॥ २४ ॥
tasya api tava dehaḥ ayam kṛpaṇasya jijīviṣoḥ . paraiti an icchataḥ jīrṇaḥ jarayā vāsasī iva .. 24 ..
गतस्वार्थमिमं देहं विरक्तो मुक्तबन्धनः । अविज्ञातगतिः जह्यात् स वै धीर उदाहृतः ॥ २५ ॥
गत-स्व-अर्थम् इमम् देहम् विरक्तः मुक्त-बन्धनः । अविज्ञातगतिः जह्यात् स वै धीर उदाहृतः ॥ २५ ॥
gata-sva-artham imam deham viraktaḥ mukta-bandhanaḥ . avijñātagatiḥ jahyāt sa vai dhīra udāhṛtaḥ .. 25 ..
यः स्वकात्परतो वेह जातनिर्वेद आत्मवान् । हृदि कृत्वा हरिं गेहात् प्रव्रजेत् स नरोत्तमः ॥ २६ ॥
यः स्वकात् परतस् वा इह जात-निर्वेदः आत्मवान् । हृदि कृत्वा हरिम् गेहात् प्रव्रजेत् स नर-उत्तमः ॥ २६ ॥
yaḥ svakāt paratas vā iha jāta-nirvedaḥ ātmavān . hṛdi kṛtvā harim gehāt pravrajet sa nara-uttamaḥ .. 26 ..
अथोदीचीं दिशं यातु स्वैरज्ञात गतिर्भवान् । इतोऽर्वाक् प्रायशः कालः पुंसां गुणविकर्षणः ॥ २७ ॥
अथ उदीचीम् दिशम् यातु स्वैः अज्ञात गतिः भवान् । इतस् अर्वाक् प्रायशस् कालः पुंसाम् गुण-विकर्षणः ॥ २७ ॥
atha udīcīm diśam yātu svaiḥ ajñāta gatiḥ bhavān . itas arvāk prāyaśas kālaḥ puṃsām guṇa-vikarṣaṇaḥ .. 27 ..
एवं राजा विदुरेणानुजेन प्रज्ञाचक्षुर्बोधित आजमीढः । छित्त्वा स्वेषु स्नेहपाशान्द्रढिम्नो निश्चक्राम भ्रातृसन्दर्शिताध्वा ॥ २८ ॥
एवम् राजा विदुरेण अनुजेन प्रज्ञाचक्षुः-बोधितः आजमीढः । छित्त्वा स्वेषु स्नेह-पाशान् द्रढिम्नः निश्चक्राम भ्रातृ-सन्दर्शित-अध्वा ॥ २८ ॥
evam rājā vidureṇa anujena prajñācakṣuḥ-bodhitaḥ ājamīḍhaḥ . chittvā sveṣu sneha-pāśān draḍhimnaḥ niścakrāma bhrātṛ-sandarśita-adhvā .. 28 ..
पतिं प्रयान्तं सुबलस्य पुत्री पतिव्रता चानुजगाम साध्वी । हिमालयं न्यस्तदण्डप्रहर्षं मनस्विनामिव सत्सम्प्रहारः ॥ २९ ॥
पतिम् प्रयान्तम् सुबलस्य पुत्री पतिव्रता च अनुजगाम साध्वी । हिमालयम् न्यस्त-दण्ड-प्रहर्षम् मनस्विनाम् इव सत्-सम्प्रहारः ॥ २९ ॥
patim prayāntam subalasya putrī pativratā ca anujagāma sādhvī . himālayam nyasta-daṇḍa-praharṣam manasvinām iva sat-samprahāraḥ .. 29 ..
अजातशत्रुः कृतमैत्रो हुताग्निः विप्रान् नत्वा तिलगोभूमिरुक्मैः । गृहं प्रविष्टो गुरुवन्दनाय न चापश्यत् पितरौ सौबलीं च ॥ ३० ॥
अजातशत्रुः कृत-मैत्रः हुत-अग्निः विप्रान् नत्वा तिल-गो-भूमि-रुक्मैः । गृहम् प्रविष्टः गुरु-वन्दनाय न च अपश्यत् पितरौ सौबलीम् च ॥ ३० ॥
ajātaśatruḥ kṛta-maitraḥ huta-agniḥ viprān natvā tila-go-bhūmi-rukmaiḥ . gṛham praviṣṭaḥ guru-vandanāya na ca apaśyat pitarau saubalīm ca .. 30 ..
तत्र सञ्जयमासीनं पप्रच्छोद्विग्नमानसः । गावल्गणे क्व नस्तातो वृद्धो हीनश्च नेत्रयोः ॥ ३१ ॥
तत्र सञ्जयम् आसीनम् पप्रच्छ उद्विग्न-मानसः । गावल्गणे क्व नः तातः वृद्धः हीनः च नेत्रयोः ॥ ३१ ॥
tatra sañjayam āsīnam papraccha udvigna-mānasaḥ . gāvalgaṇe kva naḥ tātaḥ vṛddhaḥ hīnaḥ ca netrayoḥ .. 31 ..
अम्बा च हतपुत्राऽऽर्ता पितृव्यः क्व गतः सुहृत् । अपि मय्यकृतप्रज्ञे हतबन्धुः स भार्यया । आशंसमानः शमलं गङ्गायां दुःखितोऽपतत् ॥ ३२ ॥
अम्बा च हत-पुत्रा आर्ता पितृव्यः क्व गतः सुहृद् । अपि मयि अ कृत-प्रज्ञे हत-बन्धुः स भार्यया । आशंसमानः शमलम् गङ्गायाम् दुःखितः अपतत् ॥ ३२ ॥
ambā ca hata-putrā ārtā pitṛvyaḥ kva gataḥ suhṛd . api mayi a kṛta-prajñe hata-bandhuḥ sa bhāryayā . āśaṃsamānaḥ śamalam gaṅgāyām duḥkhitaḥ apatat .. 32 ..
पितर्युपरते पाण्डौ सर्वान्नः सुहृदः शिशून् । अरक्षतां व्यसनतः पितृव्यौ क्व गतावितः ॥ ३३ ॥
पितरि उपरते पाण्डौ सर्वान् नः सुहृदः शिशून् । अरक्षताम् व्यसनतः पितृव्यौ क्व गतौ इतस् ॥ ३३ ॥
pitari uparate pāṇḍau sarvān naḥ suhṛdaḥ śiśūn . arakṣatām vyasanataḥ pitṛvyau kva gatau itas .. 33 ..
कृपया स्नेहवैक्लव्यात् सूतो विरहकर्शितः । आत्मेश्वरमचक्षाणो न प्रत्याहातिपीडितः ॥ ३४ ॥
कृपया स्नेह-वैक्लव्यात् सूतः विरह-कर्शितः । आत्म-ईश्वरम् अचक्षाणः न प्रत्याह अतिपीडितः ॥ ३४ ॥
kṛpayā sneha-vaiklavyāt sūtaḥ viraha-karśitaḥ . ātma-īśvaram acakṣāṇaḥ na pratyāha atipīḍitaḥ .. 34 ..
सूत उवाच ।
विमृज्याश्रूणि पाणिभ्यां विष्टभ्यात्मानमात्मना । अजातशत्रुं प्रत्यूचे प्रभोः पादावनुस्मरन् ॥ ३५ ॥
विमृज्य अश्रूणि पाणिभ्याम् विष्टभ्य आत्मानम् आत्मना । अजातशत्रुम् प्रत्यूचे प्रभोः पादौ अनुस्मरन् ॥ ३५ ॥
vimṛjya aśrūṇi pāṇibhyām viṣṭabhya ātmānam ātmanā . ajātaśatrum pratyūce prabhoḥ pādau anusmaran .. 35 ..
नाहं वेद व्यवसितं पित्रोर्वः कुलनन्दन । गान्धार्या वा महाबाहो मुषितोऽस्मि महात्मभिः ॥ ३७ ॥
न अहम् वेद व्यवसितम् पित्रोः वः कुल-नन्दन । गान्धार्याः वा महा-बाहो मुषितः अस्मि महात्मभिः ॥ ३७ ॥
na aham veda vyavasitam pitroḥ vaḥ kula-nandana . gāndhāryāḥ vā mahā-bāho muṣitaḥ asmi mahātmabhiḥ .. 37 ..
सञ्जय उवाच ।
अथाजगाम भगवान् नारदः सहतुम्बुरुः । प्रत्युत्थायाभिवाद्याह सानुजोऽभ्यर्चयन् मुनिम् ॥ ३८ ॥
अथ आजगाम भगवान् नारदः सह तुम्बुरुः । प्रत्युत्थाय अभिवाद्य आह स अनुजः अभ्यर्चयन् मुनिम् ॥ ३८ ॥
atha ājagāma bhagavān nāradaḥ saha tumburuḥ . pratyutthāya abhivādya āha sa anujaḥ abhyarcayan munim .. 38 ..
नाहं वेद गतिं पित्रोः भगवन् क्व गतावितः । अम्बा वा हतपुत्रार्ता क्व गता च तपस्विनी ॥ ३९ ॥
न अहम् वेद गतिम् पित्रोः भगवन् क्व गतौ इतस् । अम्बा वा हत-पुत्रा आर्ता क्व गता च तपस्विनी ॥ ३९ ॥
na aham veda gatim pitroḥ bhagavan kva gatau itas . ambā vā hata-putrā ārtā kva gatā ca tapasvinī .. 39 ..
युधिष्ठिर उवाच ।
कर्णधार इवापारे भगवान् पारदर्शकः । अथाबभाषे भगवान् नारदो मुनिसत्तमः ॥ ४० ॥
कर्णधारः इव अपारे भगवान् पार-दर्शकः । अथा आबभाषे भगवान् नारदः मुनि-सत्तमः ॥ ४० ॥
karṇadhāraḥ iva apāre bhagavān pāra-darśakaḥ . athā ābabhāṣe bhagavān nāradaḥ muni-sattamaḥ .. 40 ..
मा कञ्चन शुचो राजन् यदीश्वरवशं जगत् । लोकाः सपाला यस्येमे वहन्ति बलिमीशितुः । स संयुनक्ति भूतानि स एव वियुनक्ति च ॥ ४० ॥
मा कञ्चन शुचः राजन् यत् ईश्वर-वशम् जगत् । लोकाः स पालाः यस्य इमे वहन्ति बलिम् ईशितुः । स संयुनक्ति भूतानि सः एव वियुनक्ति च ॥ ४० ॥
mā kañcana śucaḥ rājan yat īśvara-vaśam jagat . lokāḥ sa pālāḥ yasya ime vahanti balim īśituḥ . sa saṃyunakti bhūtāni saḥ eva viyunakti ca .. 40 ..
नारद उवाच ।
यथा गावो नसि प्रोताः तन्त्यां बद्धाः स्वदामभिः । वाक्तन्त्यां नामभिर्बद्धा वहन्ति बलिमीशितुः ॥ ४१ ॥
यथा गावः नसि प्रोताः तन्त्याम् बद्धाः स्व-दामभिः । वाच्-तन्त्याम् नामभिः बद्धाः वहन्ति बलिम् ईशितुः ॥ ४१ ॥
yathā gāvaḥ nasi protāḥ tantyām baddhāḥ sva-dāmabhiḥ . vāc-tantyām nāmabhiḥ baddhāḥ vahanti balim īśituḥ .. 41 ..
यथा क्रीडोपस्कराणां संयोगविगमाविह । इच्छया क्रीडितुः स्यातां तथैवेशेच्छया नृणाम् ॥ ४२ ॥
यथा क्रीडा-उपस्कराणाम् संयोग-विगमौ इह । इच्छया क्रीडितुः स्याताम् तथा एवा ईश-इच्छया नृणाम् ॥ ४२ ॥
yathā krīḍā-upaskarāṇām saṃyoga-vigamau iha . icchayā krīḍituḥ syātām tathā evā īśa-icchayā nṛṇām .. 42 ..
यन्मन्यसे ध्रुवं लोकं अध्रुवं वा न चोभयम् । सर्वथा न हि शोच्यास्ते स्नेहात् अन्यत्र मोहजात् ॥ ४३ ॥
यत् मन्यसे ध्रुवम् लोकम् अध्रुवम् वा न च उभयम् । सर्वथा न हि शोच्याः ते स्नेहात् अन्यत्र मोह-जात् ॥ ४३ ॥
yat manyase dhruvam lokam adhruvam vā na ca ubhayam . sarvathā na hi śocyāḥ te snehāt anyatra moha-jāt .. 43 ..
तस्माज्जह्यङ्ग वैक्लव्यं अज्ञानकृतमात्मनः । कथं त्वनाथाः कृपणा वर्तेरंस्ते च मां विना ॥ ४४ ॥
तस्मात् जहि अङ्ग वैक्लव्यम् अज्ञान-कृतम् आत्मनः । कथम् तु अनाथाः कृपणाः वर्तेरन् ते च माम् विना ॥ ४४ ॥
tasmāt jahi aṅga vaiklavyam ajñāna-kṛtam ātmanaḥ . katham tu anāthāḥ kṛpaṇāḥ varteran te ca mām vinā .. 44 ..
कालकर्म गुणाधीनो देहोऽयं पाञ्चभौतिकः । कथमन्यांस्तु गोपायेत् सर्पग्रस्तो यथा परम् ॥ ४५ ॥
काल-कर्म गुण-अधीनः देहः अयम् पाञ्चभौतिकः । कथम् अन्यान् तु गोपायेत् सर्प-ग्रस्तः यथा परम् ॥ ४५ ॥
kāla-karma guṇa-adhīnaḥ dehaḥ ayam pāñcabhautikaḥ . katham anyān tu gopāyet sarpa-grastaḥ yathā param .. 45 ..
अहस्तानि सहस्तानां अपदानि चतुष्पदाम् । फल्गूनि तत्र महतां जीवो जीवस्य जीवनम् ॥ ४६ ॥
अ हस्तानि स हस्तानाम् अ पदानि चतुष्पदाम् । फल्गूनि तत्र महताम् जीवः जीवस्य जीवनम् ॥ ४६ ॥
a hastāni sa hastānām a padāni catuṣpadām . phalgūni tatra mahatām jīvaḥ jīvasya jīvanam .. 46 ..
तदिदं भगवान् राजन् एक आत्मात्मनां स्वदृक् । अन्तरोऽनन्तरो भाति पश्य तं माययोरुधा ॥ ४७ ॥
तत् इदम् भगवान् राजन् एकः आत्मा आत्मनाम् स्वदृश् । अन्तरः अनन्तरः भाति पश्य तम् मायया उरुधा ॥ ४७ ॥
tat idam bhagavān rājan ekaḥ ātmā ātmanām svadṛś . antaraḥ anantaraḥ bhāti paśya tam māyayā urudhā .. 47 ..
सोऽयमद्य महाराज भगवान् भूतभावनः । कालरूपोऽवतीर्णोऽस्यां अभावाय सुरद्विषाम् ॥ ४८ ॥
सः अयम् अद्य महा-राज भगवान् भूतभावनः । काल-रूपः अवतीर्णः अस्याम् अभावाय सुरद्विषाम् ॥ ४८ ॥
saḥ ayam adya mahā-rāja bhagavān bhūtabhāvanaḥ . kāla-rūpaḥ avatīrṇaḥ asyām abhāvāya suradviṣām .. 48 ..
निष्पादितं देवकृत्यं अवशेषं प्रतीक्षते । तावद् यूयं अवेक्षध्वं भवेद् यावदिहेश्वरः ॥ ४९ ॥
निष्पादितम् देव-कृत्यम् अवशेषम् प्रतीक्षते । तावत् यूयम् अवेक्षध्वम् भवेत् यावत् इह ईश्वरः ॥ ४९ ॥
niṣpāditam deva-kṛtyam avaśeṣam pratīkṣate . tāvat yūyam avekṣadhvam bhavet yāvat iha īśvaraḥ .. 49 ..
धृतराष्ट्रः सह भ्रात्रा गान्धार्या च स्वभार्यया । दक्षिणेन हिमवत ऋषीणां आश्रमं गतः ॥ ५० ॥
धृतराष्ट्रः सह भ्रात्रा गान्धार्या च स्व-भार्यया । दक्षिणेन हिमवतः ऋषीणाम् आश्रमम् गतः ॥ ५० ॥
dhṛtarāṣṭraḥ saha bhrātrā gāndhāryā ca sva-bhāryayā . dakṣiṇena himavataḥ ṛṣīṇām āśramam gataḥ .. 50 ..
स्रोतोभिः सप्तभिर्या वै स्वर्धुनी सप्तधा व्यधात् । सप्तानां प्रीतये नाना सप्तस्रोतः प्रचक्षते ॥ ५१ ॥
स्रोतोभिः सप्तभिः या वै स्वर्धुनी सप्तधा व्यधात् । सप्तानाम् प्रीतये नाना सप्त-स्रोतः प्रचक्षते ॥ ५१ ॥
srotobhiḥ saptabhiḥ yā vai svardhunī saptadhā vyadhāt . saptānām prītaye nānā sapta-srotaḥ pracakṣate .. 51 ..
स्नात्वानुसवनं तस्मिन् हुत्वा चाग्नीन्यथाविधि । अब्भक्ष उपशान्तात्मा स आस्ते विगतैषणः ॥ ५२ ॥
स्नात्वा अनुसवनम् तस्मिन् हुत्वा च अग्नीन् यथाविधि । अब्भक्षः उपशान्त-आत्मा सः आस्ते विगत-एषणः ॥ ५२ ॥
snātvā anusavanam tasmin hutvā ca agnīn yathāvidhi . abbhakṣaḥ upaśānta-ātmā saḥ āste vigata-eṣaṇaḥ .. 52 ..
जितासनो जितश्वासः प्रत्याहृतषडिन्द्रियः । हरिभावनया ध्वस्तः अजःसत्त्वतमोमलः ॥ ५३ ॥
जित-आसनः जित-श्वासः प्रत्याहृत-षष्-इन्द्रियः । ॥ ५३ ॥
jita-āsanaḥ jita-śvāsaḥ pratyāhṛta-ṣaṣ-indriyaḥ . .. 53 ..
विज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम् । ब्रह्मण्यात्मानमाधारे घटाम्बरमिवाम्बरे ॥ ५४ ॥
विज्ञान-आत्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम् । ब्रह्मणि आत्मानम् आधारे घट-अम्बरम् इव अम्बरे ॥ ५४ ॥
vijñāna-ātmani saṃyojya kṣetrajñe pravilāpya tam . brahmaṇi ātmānam ādhāre ghaṭa-ambaram iva ambare .. 54 ..
ध्वस्तमायागुणोदर्को निरुद्धकरणाशयः । निवर्तिताखिलाहार आस्ते स्थाणुरिवाचलः । तस्यान्तरायो मैवाभूः सन्न्यस्ताखिलकर्मणः ॥ ५५ ॥
ध्वस्त-माया-गुण-उदर्कः निरुद्ध-करण-आशयः । निवर्तित-अखिल-आहारः आस्ते स्थाणुः इव अचलः । तस्य अन्तरायः सन्-न्यस्त-अखिल-कर्मणः ॥ ५५ ॥
dhvasta-māyā-guṇa-udarkaḥ niruddha-karaṇa-āśayaḥ . nivartita-akhila-āhāraḥ āste sthāṇuḥ iva acalaḥ . tasya antarāyaḥ san-nyasta-akhila-karmaṇaḥ .. 55 ..
स वा अद्यतनाद् राजन् परतः पञ्चमेऽहनि । कलेवरं हास्यति स्वं तच्च भस्मीभविष्यति ॥ ५६ ॥
स वै अद्यतनात् राजन् परतस् पञ्चमे अहनि । कलेवरम् हास्यति स्वम् तत् च भस्मीभविष्यति ॥ ५६ ॥
sa vai adyatanāt rājan paratas pañcame ahani . kalevaram hāsyati svam tat ca bhasmībhaviṣyati .. 56 ..
दह्यमानेऽग्निभिर्देहे पत्युः पत्नी सहोटजे । बहिः स्थिता पतिं साध्वी तमग्निमनु वेक्ष्यति ॥ ५७ ॥
दह्यमाने अग्निभिः देहे पत्युः पत्नी सह उटजे । बहिस् स्थिता पतिम् साध्वी तम् अग्निम् अनु वेक्ष्यति ॥ ५७ ॥
dahyamāne agnibhiḥ dehe patyuḥ patnī saha uṭaje . bahis sthitā patim sādhvī tam agnim anu vekṣyati .. 57 ..
विदुरस्तु तदाश्चर्यं निशाम्य कुरुनन्दन । हर्षशोकयुतस्तस्माद् गन्ता तीर्थनिषेवकः ॥ ५८ ॥
विदुरः तु तत् आश्चर्यम् निशाम्य कुरु-नन्दन । हर्ष-शोक-युतः तस्मात् गन्ता तीर्थ-निषेवकः ॥ ५८ ॥
viduraḥ tu tat āścaryam niśāmya kuru-nandana . harṣa-śoka-yutaḥ tasmāt gantā tīrtha-niṣevakaḥ .. 58 ..
इत्युक्त्वाथारुहत् स्वर्गं नारदः सहतुम्बुरुः । युधिष्ठिरो वचस्तस्य हृदि कृत्वाजहाच्छुचः ॥ ५९ ॥
इति उक्त्वा अथ अरुहत् स्वर्गम् नारदः सह तुम्बुरुः । युधिष्ठिरः वचः तस्य हृदि कृत्वा अजहात् शुचः ॥ ५९ ॥
iti uktvā atha aruhat svargam nāradaḥ saha tumburuḥ . yudhiṣṭhiraḥ vacaḥ tasya hṛdi kṛtvā ajahāt śucaḥ .. 59 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने त्रयोदशोऽध्यायः ॥ १३ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् प्रथम-स्कन्धे नैमिषीय-उपाख्याने त्रयोदशः अध्यायः ॥ १३ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām prathama-skandhe naimiṣīya-upākhyāne trayodaśaḥ adhyāyaḥ .. 13 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In