| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

ततः परीक्षिद्द्विजवर्यशिक्षया महीं महाभागवतः शशास ह । यथा हि सूत्यामभिजातकोविदाः समादिशन् विप्र महद्गुणस्तथा ॥००१ ॥
ततस् परीक्षित् द्विज-वर्य-शिक्षया महीम् महा-भागवतः शशास ह । यथा हि सूत्याम् अभिजात-कोविदाः समादिशन् विप्र महत्-गुणः तथा ॥००१ ॥
tatas parīkṣit dvija-varya-śikṣayā mahīm mahā-bhāgavataḥ śaśāsa ha . yathā hi sūtyām abhijāta-kovidāḥ samādiśan vipra mahat-guṇaḥ tathā ..001 ..
सूत उवाच
स उत्तरस्य तनयामुपयेम इरावतीम् । जनमेजयादींश्चतुरस्तस्यामुत्पादयत्सुतान् ॥००२ ॥
सः उत्तरस्य तनयाम् उपयेमे इरावतीम् । जनमेजय-आदीन् चतुरः तस्याम् उत्पादयत् सुतान् ॥००२ ॥
saḥ uttarasya tanayām upayeme irāvatīm . janamejaya-ādīn caturaḥ tasyām utpādayat sutān ..002 ..
आजहाराश्वमेधांस्त्रीन् गङ्गायां भूरिदक्षिणान् । शारद्वतं गुरुं कृत्वा देवा यत्राक्षिगोचराः ॥००३ ॥
आजहार अश्वमेधान् त्रीन् गङ्गायाम् भूरि-दक्षिणान् । शारद्वतम् गुरुम् कृत्वा देवाः यत्र अक्षि-गोचराः ॥००३ ॥
ājahāra aśvamedhān trīn gaṅgāyām bhūri-dakṣiṇān . śāradvatam gurum kṛtvā devāḥ yatra akṣi-gocarāḥ ..003 ..
निजग्राहौजसा वीरः कलिं दिग्विजये क्वचित् । नृपलिङ्गधरं शूद्रं घ्नन्तं गोमिथुनं पदा ॥००४ ॥
निजग्राह ओजसा वीरः कलिम् दिग्विजये क्वचिद् । नृप-लिङ्ग-धरम् शूद्रम् घ्नन्तम् गो-मिथुनम् पदा ॥००४ ॥
nijagrāha ojasā vīraḥ kalim digvijaye kvacid . nṛpa-liṅga-dharam śūdram ghnantam go-mithunam padā ..004 ..
कस्य हेतोर्निजग्राह कलिं दिग्विजये नृपः । नृदेवचिह्नधृक्शूद्र कोऽसौ गां यः पदाहनत् । तत्कथ्यतां महाभाग यदि कृष्णकथाश्रयम् ॥००५ ॥
कस्य हेतोः निजग्राह कलिम् दिग्विजये नृपः । नृदेव-चिह्न-धृक् शूद्र कः असौ गाम् यः पदा अहनत् । तत् कथ्यताम् महाभाग यदि कृष्ण-कथा-आश्रयम् ॥००५ ॥
kasya hetoḥ nijagrāha kalim digvijaye nṛpaḥ . nṛdeva-cihna-dhṛk śūdra kaḥ asau gām yaḥ padā ahanat . tat kathyatām mahābhāga yadi kṛṣṇa-kathā-āśrayam ..005 ..
शौनक उवाच
अथवास्य पदाम्भोज मकरन्दलिहां सताम् । किमन्यैरसदालापैरायुषो यदसद्व्ययः ॥००६ ॥
अथवा अस्य पद-अम्भोज मकरन्द-लिहाम् सताम् । किम् अन्यैः असत्-आलापैः आयुषः यत् असत्-व्ययः ॥००६ ॥
athavā asya pada-ambhoja makaranda-lihām satām . kim anyaiḥ asat-ālāpaiḥ āyuṣaḥ yat asat-vyayaḥ ..006 ..
क्षुद्रायुषां नृणामङ्ग मर्त्यानामृतमिच्छताम् । इहोपहूतो भगवान्मृत्युः शामित्रकर्मणि ॥००७ ॥
क्षुद्र-आयुषाम् नृणाम् अङ्ग मर्त्यानाम् अमृतम् इच्छताम् । इह उपहूतः भगवान् मृत्युः शामित्र-कर्मणि ॥००७ ॥
kṣudra-āyuṣām nṛṇām aṅga martyānām amṛtam icchatām . iha upahūtaḥ bhagavān mṛtyuḥ śāmitra-karmaṇi ..007 ..
न कश्चिन्म्रियते तावद्यावदास्त इहान्तकः । एतदर्थं हि भगवानाहूतः परमर्षिभिः । अहो नृलोके पीयेत हरिलीलामृतं वचः ॥००८ ॥
न कश्चिद् म्रियते तावत् यावत् आस्ते इह अन्तकः । एतद्-अर्थम् हि भगवान् आहूतः परम-ऋषिभिः । अहो नृ-लोके पीयेत हरि-लीला-अमृतम् वचः ॥००८ ॥
na kaścid mriyate tāvat yāvat āste iha antakaḥ . etad-artham hi bhagavān āhūtaḥ parama-ṛṣibhiḥ . aho nṛ-loke pīyeta hari-līlā-amṛtam vacaḥ ..008 ..
मन्दस्य मन्दप्रज्ञस्य वयो मन्दायुषश्च वै । निद्रया ह्रियते नक्तं दिवा च व्यर्थकर्मभिः ॥००९ ॥
मन्दस्य मन्द-प्रज्ञस्य वयः मन्द-आयुषः च वै । निद्रया ह्रियते नक्तम् दिवा च व्यर्थ-कर्मभिः ॥००९ ॥
mandasya manda-prajñasya vayaḥ manda-āyuṣaḥ ca vai . nidrayā hriyate naktam divā ca vyartha-karmabhiḥ ..009 ..
यदा परीक्षित्कुरुजाङ्गलेऽवसत्कलिं प्रविष्टं निजचक्रवर्तिते । निशम्य वार्तामनतिप्रियां ततः शरासनं संयुगशौण्डिराददे ॥०१० ॥
यदा परीक्षित् कुरुजाङ्गले अवसत् कलिम् प्रविष्टम् निज-चक्र-वर्तिते । निशम्य वार्ताम् अनतिप्रियाम् ततस् शरासनम् संयुग-शौण्डिः आददे ॥०१० ॥
yadā parīkṣit kurujāṅgale avasat kalim praviṣṭam nija-cakra-vartite . niśamya vārtām anatipriyām tatas śarāsanam saṃyuga-śauṇḍiḥ ādade ..010 ..
सूत उवाच
स्वलङ्कृतं श्यामतुरङ्गयोजितं रथं मृगेन्द्रध्वजमाश्रितः पुरात् । वृतो रथाश्वद्विपपत्तियुक्तया स्वसेनया दिग्विजयाय निर्गतः ॥०११ ॥
सु अलङ्कृतम् श्याम-तुरङ्ग-योजितम् रथम् मृगेन्द्र-ध्वजम् आश्रितः पुरात् । वृतः रथ-अश्व-द्विप-पत्ति-युक्तया स्व-सेनया दिग्विजयाय निर्गतः ॥०११ ॥
su alaṅkṛtam śyāma-turaṅga-yojitam ratham mṛgendra-dhvajam āśritaḥ purāt . vṛtaḥ ratha-aśva-dvipa-patti-yuktayā sva-senayā digvijayāya nirgataḥ ..011 ..
भद्राश्वं केतुमालं च भारतं चोत्तरान् कुरून् । किम्पुरुषादीनि वर्षाणि विजित्य जगृहे बलिम् ॥०१२ ॥
भद्राश्वम् केतुमालम् च भारतम् च उत्तरान् कुरून् । किम्पुरुष-आदीनि वर्षाणि विजित्य जगृहे बलिम् ॥०१२ ॥
bhadrāśvam ketumālam ca bhāratam ca uttarān kurūn . kimpuruṣa-ādīni varṣāṇi vijitya jagṛhe balim ..012 ..
नगरांश्च वनांश्चैव नदीश्च विमलोदकाः । पुरुषान् देवकल्पांश्च नारीश्च प्रियदर्शनाः ॥०१३ ॥
नगरान् च वनान् च एव नदीः च विमल-उदकाः । पुरुषान् देव-कल्पान् च नारीः च प्रिय-दर्शनाः ॥०१३ ॥
nagarān ca vanān ca eva nadīḥ ca vimala-udakāḥ . puruṣān deva-kalpān ca nārīḥ ca priya-darśanāḥ ..013 ..
अदृष्टपूर्वान् सुभगान् स ददर्श धनञ्जयः । सदनानि च शुभ्राणि नारीश्चाप्सरसां निभाः ॥०१४ ॥
अ दृष्ट-पूर्वान् सुभगान् स ददर्श धनञ्जयः । सदनानि च शुभ्राणि नारीः च अप्सरसाम् ॥०१४ ॥
a dṛṣṭa-pūrvān subhagān sa dadarśa dhanañjayaḥ . sadanāni ca śubhrāṇi nārīḥ ca apsarasām ..014 ..
तत्र तत्रोपशृण्वानः स्वपूर्वेषां महात्मनाम् । प्रगीयमाणं च यशः कृष्णमाहात्म्यसूचकम् ॥०१५ ॥
तत्र तत्र उपशृण्वानः स्व-पूर्वेषाम् महात्मनाम् । प्रगीयमाणम् च यशः कृष्ण-माहात्म्य-सूचकम् ॥०१५ ॥
tatra tatra upaśṛṇvānaḥ sva-pūrveṣām mahātmanām . pragīyamāṇam ca yaśaḥ kṛṣṇa-māhātmya-sūcakam ..015 ..
आत्मानं च परित्रातमश्वत्थाम्नोऽस्त्रतेजसः । स्नेहं च वृष्णिपार्थानां तेषां भक्तिं च केशवे ॥०१६ ॥
आत्मानम् च परित्रातम् अश्वत्थाम्नः अस्त्र-तेजसः । स्नेहम् च वृष्णि-पार्थानाम् तेषाम् भक्तिम् च केशवे ॥०१६ ॥
ātmānam ca paritrātam aśvatthāmnaḥ astra-tejasaḥ . sneham ca vṛṣṇi-pārthānām teṣām bhaktim ca keśave ..016 ..
तेभ्यः परमसन्तुष्टः प्रीत्युज्जृम्भितलोचनः । महाधनानि वासांसि ददौ हारान्महामनाः ॥०१७ ॥
तेभ्यः परम-सन्तुष्टः प्रीति-उज्जृम्भित-लोचनः । महाधनानि वासांसि ददौ हारान् महा-मनाः ॥०१७ ॥
tebhyaḥ parama-santuṣṭaḥ prīti-ujjṛmbhita-locanaḥ . mahādhanāni vāsāṃsi dadau hārān mahā-manāḥ ..017 ..
सारथ्यपारषदसेवनसख्यदौत्य वीरासनानुगमनस्तवनप्रणामान् । स्निग्धेषु पाण्डुषु जगत्प्रणतिं च विष्णोर् भक्तिं करोति नृपतिश्चरणारविन्दे ॥०१८ ॥*
सारथ्य-पारषद-सेवन-सख्य-दौत्य-वीरासन-अनुगमन-स्तवन-प्रणामान् । स्निग्धेषु पाण्डुषु जगत्-प्रणतिम् च विष्णोः भक्तिम् करोति नृपतिः चरण-अरविन्दे ॥०१८ ॥
sārathya-pāraṣada-sevana-sakhya-dautya-vīrāsana-anugamana-stavana-praṇāmān . snigdheṣu pāṇḍuṣu jagat-praṇatim ca viṣṇoḥ bhaktim karoti nṛpatiḥ caraṇa-aravinde ..018 ..
तस्यैवं वर्तमानस्य पूर्वेषां वृत्तिमन्वहम् । नातिदूरे किलाश्चर्यं यदासीत्तन्निबोध मे ॥०१९ ॥
तस्य एवम् वर्तमानस्य पूर्वेषाम् वृत्तिम् अन्वहम् । न अति दूरे किल आश्चर्यम् यत् आसीत् तत् निबोध मे ॥०१९ ॥
tasya evam vartamānasya pūrveṣām vṛttim anvaham . na ati dūre kila āścaryam yat āsīt tat nibodha me ..019 ..
धर्मः पदैकेन चरन् विच्छायामुपलभ्य गाम् । पृच्छति स्माश्रुवदनां विवत्सामिव मातरम् ॥०२० ॥
धर्मः पदा एकेन चरन् विच्छायाम् उपलभ्य गाम् । पृच्छति स्म अश्रु-वदनाम् विवत्साम् इव मातरम् ॥०२० ॥
dharmaḥ padā ekena caran vicchāyām upalabhya gām . pṛcchati sma aśru-vadanām vivatsām iva mātaram ..020 ..
कच्चिद्भद्रेऽनामयमात्मनस्ते विच्छायासि म्लायतेषन्मुखेन । आलक्षये भवतीमन्तराधिं दूरे बन्धुं शोचसि कञ्चनाम्ब ॥०२१ ॥
कच्चित् भद्रे अनामयम् आत्मनः ते विच्छाया असि म्लायता ईषत् मुखेन । आलक्षये भवतीम् अन्तर-आधिम् दूरे बन्धुम् शोचसि कञ्चन अम्ब ॥०२१ ॥
kaccit bhadre anāmayam ātmanaḥ te vicchāyā asi mlāyatā īṣat mukhena . ālakṣaye bhavatīm antara-ādhim dūre bandhum śocasi kañcana amba ..021 ..
धर्म उवाच
पादैर्न्यूनं शोचसि मैकपादमात्मानं वा वृषलैर्भोक्ष्यमाणम् । आहो सुरादीन् हृतयज्ञभागान् प्रजा उत स्विन्मघवत्यवर्षति ॥०२२ ॥
पादैः न्यूनम् शोचसि मा एक-पादम् आत्मानम् वा वृषलैः भोक्ष्यमाणम् । आहो सुर-आदीन् हृत-यज्ञ-भागान् प्रजाः उत स्विद् मघवति अवर्षति ॥०२२ ॥
pādaiḥ nyūnam śocasi mā eka-pādam ātmānam vā vṛṣalaiḥ bhokṣyamāṇam . āho sura-ādīn hṛta-yajña-bhāgān prajāḥ uta svid maghavati avarṣati ..022 ..
अरक्ष्यमाणाः स्त्रिय उर्वि बालान् शोचस्यथो पुरुषादैरिवार्तान् । वाचं देवीं ब्रह्मकुले कुकर्मण्यब्रह्मण्ये राजकुले कुलाग्र्यान् ॥०२३ ॥
अरक्ष्यमाणाः स्त्रियः उर्वि बालान् शोचसि अथो पुरुषादैः इव आर्तान् । वाचम् देवीम् ब्रह्म-कुले कुकर्मणि अब्रह्मण्ये राज-कुले कुल-अग्र्यान् ॥०२३ ॥
arakṣyamāṇāḥ striyaḥ urvi bālān śocasi atho puruṣādaiḥ iva ārtān . vācam devīm brahma-kule kukarmaṇi abrahmaṇye rāja-kule kula-agryān ..023 ..
किं क्षत्रबन्धून् कलिनोपसृष्टान् राष्ट्राणि वा तैरवरोपितानि । इतस्ततो वाशनपानवासः स्नानव्यवायोन्मुखजीवलोकम् ॥०२४ ॥
किम् क्षत्रबन्धून् कलिना उपसृष्टान् राष्ट्राणि वा तैः अवरोपितानि । इतस् ततस् वा अशन-पान-वासः स्नान-व्यवाय-उन्मुख-जीव-लोकम् ॥०२४ ॥
kim kṣatrabandhūn kalinā upasṛṣṭān rāṣṭrāṇi vā taiḥ avaropitāni . itas tatas vā aśana-pāna-vāsaḥ snāna-vyavāya-unmukha-jīva-lokam ..024 ..
यद्वाम्ब ते भूरिभरावतार कृतावतारस्य हरेर्धरित्रि । अन्तर्हितस्य स्मरती विसृष्टा कर्माणि निर्वाणविलम्बितानि ॥०२५ ॥
यत् वा अम्ब ते भूरि-भर-अवतार कृत-अवतारस्य हरेः धरित्रि । अन्तर्हितस्य स्मरती विसृष्टा कर्माणि निर्वाण-विलम्बितानि ॥०२५ ॥
yat vā amba te bhūri-bhara-avatāra kṛta-avatārasya hareḥ dharitri . antarhitasya smaratī visṛṣṭā karmāṇi nirvāṇa-vilambitāni ..025 ..
इदं ममाचक्ष्व तवाधिमूलं वसुन्धरे येन विकर्शितासि । कालेन वा ते बलिनां बलीयसा सुरार्चितं किं हृतमम्ब सौभगम् ॥०२६ ॥
इदम् मम आचक्ष्व तव आधि-मूलम् वसुन्धरे येन विकर्शिता असि । कालेन वा ते बलिनाम् बलीयसा सुर-अर्चितम् किम् हृतम् अम्ब सौभगम् ॥०२६ ॥
idam mama ācakṣva tava ādhi-mūlam vasundhare yena vikarśitā asi . kālena vā te balinām balīyasā sura-arcitam kim hṛtam amba saubhagam ..026 ..
भवान् हि वेद तत्सर्वं यन्मां धर्मानुपृच्छसि । चतुर्भिर्वर्तसे येन पादैर्लोकसुखावहैः ॥०२७ ॥
भवान् हि वेद तत् सर्वम् यत् माम् धर्म अनुपृच्छसि । चतुर्भिः वर्तसे येन पादैः लोक-सुख-आवहैः ॥०२७ ॥
bhavān hi veda tat sarvam yat mām dharma anupṛcchasi . caturbhiḥ vartase yena pādaiḥ loka-sukha-āvahaiḥ ..027 ..
धरण्युवाच
सत्यं शौचं दया क्षान्तिस्त्यागः सन्तोष आर्जवम् । शमो दमस्तपः साम्यं तितिक्षोपरतिः श्रुतम् ॥०२८ ॥
सत्यम् शौचम् दया क्षान्तिः त्यागः सन्तोषः आर्जवम् । शमः दमः तपः साम्यम् तितिक्षा उपरतिः श्रुतम् ॥०२८ ॥
satyam śaucam dayā kṣāntiḥ tyāgaḥ santoṣaḥ ārjavam . śamaḥ damaḥ tapaḥ sāmyam titikṣā uparatiḥ śrutam ..028 ..
ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो बलं स्मृतिः । स्वातन्त्र्यं कौशलं कान्तिर्धैर्यं मार्दवमेव च ॥०२९ ॥
ज्ञानम् विरक्तिः ऐश्वर्यम् शौर्यम् तेजः बलम् स्मृतिः । स्वातन्त्र्यम् कौशलम् कान्तिः धैर्यम् मार्दवम् एव च ॥०२९ ॥
jñānam viraktiḥ aiśvaryam śauryam tejaḥ balam smṛtiḥ . svātantryam kauśalam kāntiḥ dhairyam mārdavam eva ca ..029 ..
प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः । गाम्भीर्यं स्थैर्यमास्तिक्यं कीर्तिर्मानोऽनहङ्कृतिः ॥०३० ॥
प्रागल्भ्यम् प्रश्रयः शीलम् सहः ओजः बलम् भगः । गाम्भीर्यम् स्थैर्यम् आस्तिक्यम् कीर्तिः मानः अनहङ्कृतिः ॥०३० ॥
prāgalbhyam praśrayaḥ śīlam sahaḥ ojaḥ balam bhagaḥ . gāmbhīryam sthairyam āstikyam kīrtiḥ mānaḥ anahaṅkṛtiḥ ..030 ..
एते चान्ये च भगवन्नित्या यत्र महागुणाः । प्रार्थ्या महत्त्वमिच्छद्भिर्न वियन्ति स्म कर्हिचित् ॥०३१ ॥
एते च अन्ये च भगवन् नित्याः यत्र महा-गुणाः । प्रार्थ्याः महत्-त्वम् इच्छद्भिः न वियन्ति स्म कर्हिचित् ॥०३१ ॥
ete ca anye ca bhagavan nityāḥ yatra mahā-guṇāḥ . prārthyāḥ mahat-tvam icchadbhiḥ na viyanti sma karhicit ..031 ..
तेनाहं गुणपात्रेण श्रीनिवासेन साम्प्रतम् । शोचामि रहितं लोकं पाप्मना कलिनेक्षितम् ॥०३२ ॥
तेन अहम् गुण-पात्रेण श्रीनिवासेन साम्प्रतम् । शोचामि रहितम् लोकम् पाप्मना कलिना ईक्षितम् ॥०३२ ॥
tena aham guṇa-pātreṇa śrīnivāsena sāmpratam . śocāmi rahitam lokam pāpmanā kalinā īkṣitam ..032 ..
आत्मानं चानुशोचामि भवन्तं चामरोत्तमम् । देवान् पितॄनृषीन् साधून् सर्वान् वर्णांस्तथाश्रमान् ॥०३३ ॥
आत्मानम् च अनुशोचामि भवन्तम् च अमर-उत्तमम् । देवान् पितॄन् ऋषीन् साधून् सर्वान् वर्णान् तथा आश्रमान् ॥०३३ ॥
ātmānam ca anuśocāmi bhavantam ca amara-uttamam . devān pitṝn ṛṣīn sādhūn sarvān varṇān tathā āśramān ..033 ..
ब्रह्मादयो बहुतिथं यदपाङ्गमोक्ष कामास्तपः समचरन् भगवत्प्रपन्नाः । सा श्रीः स्ववासमरविन्दवनं विहाय यत्पादसौभगमलं भजतेऽनुरक्ता ॥०३४ ॥*
ब्रह्म-आदयः बहुतिथम् यत् अपाङ्ग-मोक्ष कामाः तपः समचरन् भगवत्-प्रपन्नाः । सा श्रीः स्व-वासम् अरविन्द-वनम् विहाय यत् पाद-सौभग-मलम् भजते अनुरक्ता ॥०३४ ॥
brahma-ādayaḥ bahutitham yat apāṅga-mokṣa kāmāḥ tapaḥ samacaran bhagavat-prapannāḥ . sā śrīḥ sva-vāsam aravinda-vanam vihāya yat pāda-saubhaga-malam bhajate anuraktā ..034 ..
तस्याहमब्जकुलिशाङ्कुशकेतुकेतैः श्रीमत्पदैर्भगवतः समलङ्कृताङ्गी । त्रीनत्यरोच उपलभ्य ततो विभूतिं लोकान् स मां व्यसृजदुत्स्मयतीं तदन्ते ॥०३५ ॥*
तस्य अहम् अब्ज-कुलिश-अङ्कुश-केतु-केतैः श्रीमत्-पदैः भगवतः समलङ्कृत-अङ्गी । त्रीन् अत्यरोचे उपलभ्य ततस् विभूतिम् लोकान् स माम् व्यसृजत् उत्स्मयतीम् तद्-अन्ते ॥०३५ ॥
tasya aham abja-kuliśa-aṅkuśa-ketu-ketaiḥ śrīmat-padaiḥ bhagavataḥ samalaṅkṛta-aṅgī . trīn atyaroce upalabhya tatas vibhūtim lokān sa mām vyasṛjat utsmayatīm tad-ante ..035 ..
यो वै ममातिभरमासुरवंशराज्ञाम् अक्षौहिणीशतमपानुददात्मतन्त्रः । त्वां दुःस्थमूनपदमात्मनि पौरुषेण सम्पादयन् यदुषु रम्यमबिभ्रदङ्गम् ॥०३६ ॥*
यः वै मम अति भरमासुर-वंश-राज्ञाम् अक्षौहिणी-शतम् अपानुदत् आत्मतन्त्रः । त्वाम् दुःस्थम् ऊन-पदम् आत्मनि पौरुषेण सम्पादयन् यदुषु रम्यम् अबिभ्रत् अङ्गम् ॥०३६ ॥
yaḥ vai mama ati bharamāsura-vaṃśa-rājñām akṣauhiṇī-śatam apānudat ātmatantraḥ . tvām duḥstham ūna-padam ātmani pauruṣeṇa sampādayan yaduṣu ramyam abibhrat aṅgam ..036 ..
का वा सहेत विरहं पुरुषोत्तमस्य प्रेमावलोकरुचिरस्मितवल्गुजल्पैः । स्थैर्यं समानमहरन्मधुमानिनीनां रोमोत्सवो मम यदङ्घ्रिविटङ्कितायाः ॥०३७ ॥*
का वा सहेत विरहम् पुरुषोत्तमस्य प्रेम-अवलोक-रुचिर-स्मित-वल्गु-जल्पैः । स्थैर्यम् स मानम् अहरत् मधु-मानिनीनाम् रोम-उत्सवः मम यत् अङ्घ्रि-विटङ्कितायाः ॥०३७ ॥
kā vā saheta viraham puruṣottamasya prema-avaloka-rucira-smita-valgu-jalpaiḥ . sthairyam sa mānam aharat madhu-māninīnām roma-utsavaḥ mama yat aṅghri-viṭaṅkitāyāḥ ..037 ..
तयोरेवं कथयतोः पृथिवीधर्मयोस्तदा । परीक्षिन्नाम राजर्षिः प्राप्तः प्राचीं सरस्वतीम् ॥०३८ ॥
तयोः एवम् कथयतोः पृथिवी-धर्मयोः तदा । परीक्षित् नाम राजर्षिः प्राप्तः प्राचीम् सरस्वतीम् ॥०३८ ॥
tayoḥ evam kathayatoḥ pṛthivī-dharmayoḥ tadā . parīkṣit nāma rājarṣiḥ prāptaḥ prācīm sarasvatīm ..038 ..
इति श्रीमद्भगवते महापुराणे पारमहंस्या संहितायं प्रथमस्कन्धे नाम षष्टदशोऽध्यायः ॥१५॥
इति श्रीमत्-भगवते महापुराणे पारमहंस्या संहिता अयम् प्रथम-स्कन्धे नाम षष्टदशः अध्यायः ॥१५॥
iti śrīmat-bhagavate mahāpurāṇe pāramahaṃsyā saṃhitā ayam prathama-skandhe nāma ṣaṣṭadaśaḥ adhyāyaḥ ..15..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In