| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

महीपतिस्त्वथ तत्कर्म गर्ह्यं विचिन्तयन् नात्मकृतं सुदुर्मनाः । अहो मया नीचमनार्यवत्कृतं निरागसि ब्रह्मणि गूढतेजसि ॥ १ ॥
महीपतिः तु अथ तत् कर्म गर्ह्यम् विचिन्तयन् न आत्म-कृतम् सु दुर्मनाः । अहो मया नीचम् अनार्य-वत् कृतम् निरागसि ब्रह्मणि गूढ-तेजसि ॥ १ ॥
mahīpatiḥ tu atha tat karma garhyam vicintayan na ātma-kṛtam su durmanāḥ . aho mayā nīcam anārya-vat kṛtam nirāgasi brahmaṇi gūḍha-tejasi .. 1 ..
सूत उवाच ।
ध्रुवं ततो मे कृतदेवहेलनाद् दुरत्ययं व्यसनं नातिदीर्घात् । तदस्तु कामं ह्यघनिष्कृताय मे यथा न कुर्यां पुनरेवमद्धा ॥ २ ॥
ध्रुवम् ततस् मे कृत-देव-हेलनात् दुरत्ययम् व्यसनम् न अति दीर्घात् । तत् अस्तु कामम् हि अघ-निष्कृताय मे यथा न कुर्याम् पुनर् एवम् अद्धा ॥ २ ॥
dhruvam tatas me kṛta-deva-helanāt duratyayam vyasanam na ati dīrghāt . tat astu kāmam hi agha-niṣkṛtāya me yathā na kuryām punar evam addhā .. 2 ..
अद्यैव राज्यं बलमृद्धकोशं प्रकोपितब्रह्मकुलानलो मे । दहत्वभद्रस्य पुनर्न मेऽभूत् पापीयसी धीर्द्विजदेवगोभ्यः ॥ ३ ॥
अद्य एव राज्यम् बलम् ऋद्ध-कोशम् प्रकोपित-ब्रह्म-कुल-अनलः मे । दहतु अभद्रस्य पुनर् न मे अभूत् पापीयसी धीः द्विज-देव-गोभ्यः ॥ ३ ॥
adya eva rājyam balam ṛddha-kośam prakopita-brahma-kula-analaḥ me . dahatu abhadrasya punar na me abhūt pāpīyasī dhīḥ dvija-deva-gobhyaḥ .. 3 ..
स चिन्तयन्नित्थमथाशृणोद् यथा मुनेः सुतोक्तो निर्ऋतिस्तक्षकाख्यः । स साधु मेने न चिरेण तक्षका नलं प्रसक्तस्य विरक्तिकारणम् ॥ ४ ॥
स चिन्तयन् इत्थम् अथ अशृणोत् यथा मुनेः सुत-उक्तः निरृतिः तक्षक-आख्यः । स साधु मेने न चिरेण तक्षकाः नलम् प्रसक्तस्य विरक्ति-कारणम् ॥ ४ ॥
sa cintayan ittham atha aśṛṇot yathā muneḥ suta-uktaḥ nirṛtiḥ takṣaka-ākhyaḥ . sa sādhu mene na cireṇa takṣakāḥ nalam prasaktasya virakti-kāraṇam .. 4 ..
अथो विहायेमममुं च लोकं विमर्शितौ हेयतया पुरस्तात् । कृष्णाङ्घ्रिसेवामधिमन्यमान उपाविशत् प्रायममर्त्यनद्याम् ॥ ५ ॥
अथो विहाय इमम् अमुम् च लोकम् विमर्शितौ हेय-तया पुरस्तात् । कृष्ण-अङ्घ्रि-सेवाम् अधिमन्यमानः उपाविशत् प्रायम् अमर्त्य-नद्याम् ॥ ५ ॥
atho vihāya imam amum ca lokam vimarśitau heya-tayā purastāt . kṛṣṇa-aṅghri-sevām adhimanyamānaḥ upāviśat prāyam amartya-nadyām .. 5 ..
या वै लसच्छ्रीतुलसीविमिश्र कृष्णाङ्घ्रिरेण्वभ्यधिकाम्बुनेत्री । पुनाति लोकानुभयत्र सेशान् कस्तां न सेवेत मरिष्यमाणः ॥ ६ ॥
या वै कृष्ण-अङ्घ्रि-रेणु-अभ्यधिक-अम्बु-नेत्री । पुनाति लोकान् उभयत्र स ईशान् कः ताम् न सेवेत मरिष्यमाणः ॥ ६ ॥
yā vai kṛṣṇa-aṅghri-reṇu-abhyadhika-ambu-netrī . punāti lokān ubhayatra sa īśān kaḥ tām na seveta mariṣyamāṇaḥ .. 6 ..
इति व्यवच्छिद्य स पाण्डवेयः प्रायोपवेशं प्रति विष्णुपद्याम् । दधौ मुकुन्दाङ्घ्रिमनन्यभावो मुनिव्रतो मुक्तसमस्तसङ्गः ॥ ७ ॥
इति व्यवच्छिद्य स पाण्डवेयः प्राय-उपवेशम् प्रति विष्णुपद्याम् । मुकुन्द-अङ्घ्रिम् अनन्य-भावः मुनिव्रतः मुक्त-समस्त-सङ्गः ॥ ७ ॥
iti vyavacchidya sa pāṇḍaveyaḥ prāya-upaveśam prati viṣṇupadyām . mukunda-aṅghrim ananya-bhāvaḥ munivrataḥ mukta-samasta-saṅgaḥ .. 7 ..
तत्रोपजग्मुर्भुवनं पुनाना महानुभावा मुनयः सशिष्याः । प्रायेण तीर्थाभिगमापदेशैः स्वयं हि तीर्थानि पुनन्ति सन्तः ॥ ८ ॥
तत्र उपजग्मुः भुवनम् पुनानाः महा-अनुभावाः मुनयः स शिष्याः । प्रायेण तीर्थ-अभिगम-अपदेशैः स्वयम् हि तीर्थानि पुनन्ति सन्तः ॥ ८ ॥
tatra upajagmuḥ bhuvanam punānāḥ mahā-anubhāvāḥ munayaḥ sa śiṣyāḥ . prāyeṇa tīrtha-abhigama-apadeśaiḥ svayam hi tīrthāni punanti santaḥ .. 8 ..
अत्रिर्वसिष्ठश्च्यवनः शरद्वान् अरिष्टनेमिर्भृगुरङ्गिराश्च । पराशरो गाधिसुतोऽथ राम उतथ्य इन्द्रप्रमदेध्मवाहौ ॥ ९ ॥
अत्रिः वसिष्ठः च्यवनः शरद्वान् अरिष्टनेमिः भृगुः अङ्गिराः च । पराशरः गाधि-सुतः अथ रामः उतथ्यः इन्द्रप्रमद-इध्मवाहौ ॥ ९ ॥
atriḥ vasiṣṭhaḥ cyavanaḥ śaradvān ariṣṭanemiḥ bhṛguḥ aṅgirāḥ ca . parāśaraḥ gādhi-sutaḥ atha rāmaḥ utathyaḥ indrapramada-idhmavāhau .. 9 ..
मेधातिथिर्देवल आर्ष्टिषेणो भारद्वाजो गौतमः पिप्पलादः । मैत्रेय और्वः कवषः कुम्भयोनिः द्वैपायनो भगवान् नारदश्च ॥ १० ॥
मेधातिथिः देवलः आर्ष्टिषेणः भारद्वाजः गौतमः पिप्पलादः । मैत्रेय और्वः कवषः कुम्भयोनिः द्वैपायनः भगवान् नारदः च ॥ १० ॥
medhātithiḥ devalaḥ ārṣṭiṣeṇaḥ bhāradvājaḥ gautamaḥ pippalādaḥ . maitreya aurvaḥ kavaṣaḥ kumbhayoniḥ dvaipāyanaḥ bhagavān nāradaḥ ca .. 10 ..
अन्ये च देवर्षिब्रह्मर्षिवर्या राजर्षिवर्या अरुणादयश्च । नानार्षेयप्रवरान् समेतान् अभ्यर्च्य राजा शिरसा ववन्दे ॥ ११ ॥
अन्ये च देवर्षि-ब्रह्मर्षि-वर्याः राजर्षि-वर्याः अरुण-आदयः च । नाना आर्षेय-प्रवरान् समेतान् अभ्यर्च्य राजा शिरसा ववन्दे ॥ ११ ॥
anye ca devarṣi-brahmarṣi-varyāḥ rājarṣi-varyāḥ aruṇa-ādayaḥ ca . nānā ārṣeya-pravarān sametān abhyarcya rājā śirasā vavande .. 11 ..
सुखोपविष्टेष्वथ तेषु भूयः कृतप्रणामः स्वचिकीर्षितं यत् । विज्ञापयामास विविक्तचेता उपस्थितोऽग्रेऽभिगृहीतपाणिः ॥ १२ ॥
सुख-उपविष्टेषु अथ तेषु भूयस् कृत-प्रणामः स्व-चिकीर्षितम् यत् । विज्ञापयामास विविक्त-चेताः उपस्थितः अग्रे अभिगृहीत-पाणिः ॥ १२ ॥
sukha-upaviṣṭeṣu atha teṣu bhūyas kṛta-praṇāmaḥ sva-cikīrṣitam yat . vijñāpayāmāsa vivikta-cetāḥ upasthitaḥ agre abhigṛhīta-pāṇiḥ .. 12 ..
अहो वयं धन्यतमा नृपाणां महत्तमानुग्रहणीयशीलाः । राज्ञां कुलं ब्राह्मणपादशौचाद् दूराद् विसृष्टं बत गर्ह्यकर्म ॥ १३ ॥
अहो वयम् धन्यतमाः नृपाणाम् महत्तम-अनुग्रहणीय-शीलाः । राज्ञाम् कुलम् ब्राह्मण-पाद-शौचात् दूरात् विसृष्टम् बत गर्ह्य-कर्म ॥ १३ ॥
aho vayam dhanyatamāḥ nṛpāṇām mahattama-anugrahaṇīya-śīlāḥ . rājñām kulam brāhmaṇa-pāda-śaucāt dūrāt visṛṣṭam bata garhya-karma .. 13 ..
तस्यैव मेऽघस्य परावरेशो व्यासक्तचित्तस्य गृहेष्वभीक्ष्णम् । निर्वेदमूलो द्विजशापरूपो यत्र प्रसक्तो भयमाशु धत्ते ॥ १४ ॥
तस्य एव मे अघस्य परावर-ईशः व्यासक्त-चित्तस्य गृहेषु अभीक्ष्णम् । निर्वेद-मूलः द्विज-शाप-रूपः यत्र प्रसक्तः भयम् आशु धत्ते ॥ १४ ॥
tasya eva me aghasya parāvara-īśaḥ vyāsakta-cittasya gṛheṣu abhīkṣṇam . nirveda-mūlaḥ dvija-śāpa-rūpaḥ yatra prasaktaḥ bhayam āśu dhatte .. 14 ..
राजोवाच
तं मोपयातं प्रतियन्तु विप्रा गङ्गा च देवी धृतचित्तमीशे । द्विजोपसृष्टः कुहकस्तक्षको वा दशत्वलं गायत विष्णुगाथाः ॥ १५ ॥
तम् मा उपयातम् प्रतियन्तु विप्राः गङ्गा च देवी धृत-चित्तम् ईशे । द्विज-उपसृष्टः कुहकः तक्षकः वा दशतु अलम् गायत विष्णु-गाथाः ॥ १५ ॥
tam mā upayātam pratiyantu viprāḥ gaṅgā ca devī dhṛta-cittam īśe . dvija-upasṛṣṭaḥ kuhakaḥ takṣakaḥ vā daśatu alam gāyata viṣṇu-gāthāḥ .. 15 ..
पुनश्च भूयाद्भगवत्यनन्ते रतिः प्रसङ्गश्च तदाश्रयेषु । महत्सु यां यामुपयामि सृष्टिं मैत्र्यस्तु सर्वत्र नमो द्विजेभ्यः ॥ १६ ॥
पुनर् च भूयात् भगवति अनन्ते रतिः प्रसङ्गः च तद्-आश्रयेषु । महत्सु याम् याम् उपयामि सृष्टिम् मैत्री अस्तु सर्वत्र नमः द्विजेभ्यः ॥ १६ ॥
punar ca bhūyāt bhagavati anante ratiḥ prasaṅgaḥ ca tad-āśrayeṣu . mahatsu yām yām upayāmi sṛṣṭim maitrī astu sarvatra namaḥ dvijebhyaḥ .. 16 ..
इति स्म राजाध्यवसाययुक्तः प्राचीनमूलेषु कुशेषु धीरः । उदङ्मुखो दक्षिणकूल आस्ते समुद्रपत्न्याः स्वसुतन्यस्तभारः ॥ १७ ॥
इति स्म राजा अध्यवसाय-युक्तः प्राचीन-मूलेषु कुशेषु धीरः । उदक्-मुखः दक्षिण-कूले आस्ते समुद्रपत्न्याः स्व-सुत-न्यस्त-भारः ॥ १७ ॥
iti sma rājā adhyavasāya-yuktaḥ prācīna-mūleṣu kuśeṣu dhīraḥ . udak-mukhaḥ dakṣiṇa-kūle āste samudrapatnyāḥ sva-suta-nyasta-bhāraḥ .. 17 ..
एवं च तस्मिन् नरदेवदेवे प्रायोपविष्टे दिवि देवसङ्घाः । प्रशस्य भूमौ व्यकिरन् प्रसूनैः मुदा मुहुर्दुन्दुभयश्च नेदुः ॥ १८ ॥
एवम् च तस्मिन् नरदेव-देवे प्राय-उपविष्टे दिवि देव-सङ्घाः । प्रशस्य भूमौ व्यकिरन् प्रसूनैः मुदा मुहुर् दुन्दुभयः च नेदुः ॥ १८ ॥
evam ca tasmin naradeva-deve prāya-upaviṣṭe divi deva-saṅghāḥ . praśasya bhūmau vyakiran prasūnaiḥ mudā muhur dundubhayaḥ ca neduḥ .. 18 ..
महर्षयो वै समुपागता ये प्रशस्य साध्वित्यनुमोदमानाः । ऊचुः प्रजानुग्रहशीलसारा यदुत्तमश्लोकगुणाभिरूपम् ॥ १९ ॥
महा-ऋषयः वै समुपागताः ये प्रशस्य साधु इति अनुमोदमानाः । ऊचुः प्रजा-अनुग्रह-शील-साराः यत् उत्तमश्लोक-गुण-अभिरूपम् ॥ १९ ॥
mahā-ṛṣayaḥ vai samupāgatāḥ ye praśasya sādhu iti anumodamānāḥ . ūcuḥ prajā-anugraha-śīla-sārāḥ yat uttamaśloka-guṇa-abhirūpam .. 19 ..
न वा इदं राजर्षिवर्य चित्रं भवत्सु कृष्णं समनुव्रतेषु । येऽध्यासनं राजकिरीटजुष्टं सद्यो जहुर्भगवत्पार्श्वकामाः ॥ २० ॥
न वै इदम् राजर्षि-वर्य चित्रम् भवत्सु कृष्णम् समनुव्रतेषु । ये अध्यासनम् राज-किरीट-जुष्टम् सद्यस् जहुः भगवत्-पार्श्व-कामाः ॥ २० ॥
na vai idam rājarṣi-varya citram bhavatsu kṛṣṇam samanuvrateṣu . ye adhyāsanam rāja-kirīṭa-juṣṭam sadyas jahuḥ bhagavat-pārśva-kāmāḥ .. 20 ..
सर्वे वयं तावदिहास्महेऽद्य कलेवरं यावदसौ विहाय । लोकं परं विरजस्कं विशोकं यास्यत्ययं भागवतप्रधानः ॥ २१ ॥
सर्वे वयम् तावत् इह आस्महे अद्य कलेवरम् यावत् असौ विहाय । लोकम् परम् विरजस्कम् विशोकम् यास्यति अयम् भागवत-प्रधानः ॥ २१ ॥
sarve vayam tāvat iha āsmahe adya kalevaram yāvat asau vihāya . lokam param virajaskam viśokam yāsyati ayam bhāgavata-pradhānaḥ .. 21 ..
आश्रुत्य तद् ऋषिगणवचः परीक्षित् समं मधुच्युद् गुरु चाव्यलीकम् । आभाषतैनानभिनन्द्य युक्तान् शुश्रूषमाणश्चरितानि विष्णोः ॥ २२ ॥
आश्रुत्य तत् ऋषि-गण-वचः परीक्षित् समम् मधु-च्युत् गुरु च अव्यलीकम् । आभाषत एनान् अभिनन्द्य युक्तान् शुश्रूषमाणः चरितानि विष्णोः ॥ २२ ॥
āśrutya tat ṛṣi-gaṇa-vacaḥ parīkṣit samam madhu-cyut guru ca avyalīkam . ābhāṣata enān abhinandya yuktān śuśrūṣamāṇaḥ caritāni viṣṇoḥ .. 22 ..
समागताः सर्वत एव सर्वे वेदा यथा मूर्तिधरास्त्रिपृष्ठे । नेहाथवामुत्र च कश्चनार्थ ऋते परानुग्रहमात्मशीलम् ॥ २३ ॥
समागताः सर्वतस् एव सर्वे वेदाः यथा मूर्ति-धराः त्रिपृष्ठे । न इह अथवा अमुत्र च कश्चन अर्थः ऋते पर-अनुग्रहम् आत्म-शीलम् ॥ २३ ॥
samāgatāḥ sarvatas eva sarve vedāḥ yathā mūrti-dharāḥ tripṛṣṭhe . na iha athavā amutra ca kaścana arthaḥ ṛte para-anugraham ātma-śīlam .. 23 ..
ततश्च वः पृच्छ्यमिमं विपृच्छे विश्रभ्य विप्रा इति कृत्यतायाम् । सर्वात्मना म्रियमाणैश्च कृत्यं शुद्धं च तत्रामृशताभियुक्ताः ॥ २४ ॥
ततस् च वः पृच्छ्यम् इमम् विपृच्छे विश्रभ्य विप्राः इति कृत्य-तायाम् । सर्व-आत्मना म्रियमाणैः च कृत्यम् शुद्धम् च तत्र आमृशत अभियुक्ताः ॥ २४ ॥
tatas ca vaḥ pṛcchyam imam vipṛcche viśrabhya viprāḥ iti kṛtya-tāyām . sarva-ātmanā mriyamāṇaiḥ ca kṛtyam śuddham ca tatra āmṛśata abhiyuktāḥ .. 24 ..
तत्राभवद् भगवान् व्यासपुत्रो यदृच्छया गामटमानोऽनपेक्षः । अलक्ष्यलिङ्गो निजलाभतुष्टो वृतश्च बालैरवधूतवेषः ॥ २५ ॥
तत्र अभवत् भगवान् व्यास-पुत्रः यदृच्छया गाम् अटमानः अनपेक्षः । अलक्ष्य-लिङ्गः निज-लाभ-तुष्टः वृतः च बालैः अवधूत-वेषः ॥ २५ ॥
tatra abhavat bhagavān vyāsa-putraḥ yadṛcchayā gām aṭamānaḥ anapekṣaḥ . alakṣya-liṅgaḥ nija-lābha-tuṣṭaḥ vṛtaḥ ca bālaiḥ avadhūta-veṣaḥ .. 25 ..
तं द्व्यष्टवर्षं सुकुमारपाद करोरुबाह्वंसकपोलगात्रम् । चार्वायताक्षोन्नसतुल्यकर्ण सुभ्र्वाननं कम्बुसुजातकण्ठम् ॥ २६ ॥
तम् द्वि-अष्ट-वर्षम् सुकुमारपाद कर-ऊरु-बाहु-अंस-कपोल-गात्रम् । चारु-आयत-अक्ष-उन्नस-तुल्य-कर्ण सु भ्रू-आननम् कम्बु-सुजात-कण्ठम् ॥ २६ ॥
tam dvi-aṣṭa-varṣam sukumārapāda kara-ūru-bāhu-aṃsa-kapola-gātram . cāru-āyata-akṣa-unnasa-tulya-karṇa su bhrū-ānanam kambu-sujāta-kaṇṭham .. 26 ..
निगूढजत्रुं पृथुतुङ्गवक्षसं आवर्तनाभिं वलिवल्गूदरं च । दिगम्बरं वक्त्रविकीर्णकेशं प्रलम्बबाहुं स्वमरोत्तमाभम् ॥ २७ ॥
निगूढ-जत्रुम् पृथु-तुङ्ग-वक्षसम् आवर्त-नाभिम् वलि-वल्गु-उदरम् च । दिगम्बरम् वक्त्र-विकीर्ण-केशम् प्रलम्ब-बाहुम् सु अमर-उत्तम-आभम् ॥ २७ ॥
nigūḍha-jatrum pṛthu-tuṅga-vakṣasam āvarta-nābhim vali-valgu-udaram ca . digambaram vaktra-vikīrṇa-keśam pralamba-bāhum su amara-uttama-ābham .. 27 ..
श्यामं सदापीच्यवयोऽङ्गलक्ष्म्या स्त्रीणां मनोज्ञं रुचिरस्मितेन । प्रत्युत्थितास्ते मुनयः स्वासनेभ्यः तल्लक्षणज्ञा अपि गूढवर्चसम् ॥ २८ ॥
श्यामम् सदा अपीच्य-वयः-अङ्ग-लक्ष्म्या स्त्रीणाम् मनोज्ञम् रुचिर-स्मितेन । प्रत्युत्थिताः ते मुनयः स्व-आसनेभ्यः तद्-लक्षण-ज्ञाः अपि गूढ-वर्चसम् ॥ २८ ॥
śyāmam sadā apīcya-vayaḥ-aṅga-lakṣmyā strīṇām manojñam rucira-smitena . pratyutthitāḥ te munayaḥ sva-āsanebhyaḥ tad-lakṣaṇa-jñāḥ api gūḍha-varcasam .. 28 ..
स विष्णुरातोऽतिथय आगताय तस्मै सपर्यां शिरसाऽऽजहार । ततो निवृत्ता ह्यबुधाः स्त्रियोऽर्भका महासने सोपविवेश पूजितः ॥ २९ ॥
स विष्णुरातः अतिथये आगताय तस्मै सपर्याम् शिरसा आजहार । ततस् निवृत्ताः हि अबुधाः स्त्रियः अर्भकाः महा-आसने सः उपविवेश पूजितः ॥ २९ ॥
sa viṣṇurātaḥ atithaye āgatāya tasmai saparyām śirasā ājahāra . tatas nivṛttāḥ hi abudhāḥ striyaḥ arbhakāḥ mahā-āsane saḥ upaviveśa pūjitaḥ .. 29 ..
स संवृतस्तत्र महान् महीयसां ब्रह्मर्षिराजर्षिदेवर्षि सङ्घैः । व्यरोचतालं भगवान् यथेन्दुः ग्रहर्क्षतारानिकरैः परीतः ॥ ३० ॥
स संवृतः तत्र महान् महीयसाम् ब्रह्मर्षि-राजर्षि-देवर्षि-सङ्घैः । व्यरोचत अलम् भगवान् यथा इन्दुः ग्रह-ऋक्ष-तारा-निकरैः परीतः ॥ ३० ॥
sa saṃvṛtaḥ tatra mahān mahīyasām brahmarṣi-rājarṣi-devarṣi-saṅghaiḥ . vyarocata alam bhagavān yathā induḥ graha-ṛkṣa-tārā-nikaraiḥ parītaḥ .. 30 ..
प्रशान्तमासीनमकुण्ठमेधसं मुनिं नृपो भागवतोऽभ्युपेत्य । प्रणम्य मूर्ध्नावहितः कृताञ्जलिः नत्वा गिरा सूनृतयान्वपृच्छत् ॥ ३१ ॥
प्रशान्तम् आसीनम् अकुण्ठ-मेधसम् मुनिम् नृपः भागवतः अभ्युपेत्य । प्रणम्य मूर्ध्ना अवहितः कृताञ्जलिः नत्वा गिरा सूनृतया अन्वपृच्छत् ॥ ३१ ॥
praśāntam āsīnam akuṇṭha-medhasam munim nṛpaḥ bhāgavataḥ abhyupetya . praṇamya mūrdhnā avahitaḥ kṛtāñjaliḥ natvā girā sūnṛtayā anvapṛcchat .. 31 ..
अहो अद्य वयं ब्रह्मन् सत्सेव्याः क्षत्रबन्धवः । कृपयातिथिरूपेण भवद्भिस्तीर्थकाः कृताः ॥ ३२ ॥
अहो अद्य वयम् ब्रह्मन् सत्-सेव्याः क्षत्रबन्धवः । कृपया अतिथि-रूपेण भवद्भिः तीर्थकाः कृताः ॥ ३२ ॥
aho adya vayam brahman sat-sevyāḥ kṣatrabandhavaḥ . kṛpayā atithi-rūpeṇa bhavadbhiḥ tīrthakāḥ kṛtāḥ .. 32 ..
परीक्षिदुवाच ।
येषां संस्मरणात् पुंसां सद्यः शुद्ध्यन्ति वै गृहाः । किं पुनर्दर्शनस्पर्श पादशौचासनादिभिः ॥ ३३ ॥
येषाम् संस्मरणात् पुंसाम् सद्यस् शुद्ध्यन्ति वै गृहाः । किम् पुनर् दर्शन-स्पर्श पाद-शौच-आसन-आदिभिः ॥ ३३ ॥
yeṣām saṃsmaraṇāt puṃsām sadyas śuddhyanti vai gṛhāḥ . kim punar darśana-sparśa pāda-śauca-āsana-ādibhiḥ .. 33 ..
सान्निध्यात्ते महायोगिन् पातकानि महान्त्यपि । सद्यो नश्यन्ति वै पुंसां विष्णोरिव सुरेतराः ॥ ३४ ॥
सान्निध्यात् ते महा-योगिन् पातकानि महान्ति अपि । सद्यस् नश्यन्ति वै पुंसाम् विष्णोः इव सुरेतराः ॥ ३४ ॥
sānnidhyāt te mahā-yogin pātakāni mahānti api . sadyas naśyanti vai puṃsām viṣṇoḥ iva suretarāḥ .. 34 ..
अपि मे भगवान् प्रीतः कृष्णः पाण्डुसुतप्रियः । पैतृष्वसेयप्रीत्यर्थं तद्गोत्रस्यात्तबान्धवः ॥ ३५ ॥
अपि मे भगवान् प्रीतः कृष्णः पाण्डु-सुत-प्रियः । पैतृष्वसेय-प्रीति-अर्थम् तद्-गोत्रस्य आत्त-बान्धवः ॥ ३५ ॥
api me bhagavān prītaḥ kṛṣṇaḥ pāṇḍu-suta-priyaḥ . paitṛṣvaseya-prīti-artham tad-gotrasya ātta-bāndhavaḥ .. 35 ..
अन्यथा तेऽव्यक्तगतेः दर्शनं नः कथं नृणाम् । नितरां म्रियमाणानां संसिद्धस्य वनीयसः ॥ ३६ ॥
अन्यथा ते अव्यक्त-गतेः दर्शनम् नः कथम् नृणाम् । नितराम् म्रियमाणानाम् संसिद्धस्य वनीयसः ॥ ३६ ॥
anyathā te avyakta-gateḥ darśanam naḥ katham nṛṇām . nitarām mriyamāṇānām saṃsiddhasya vanīyasaḥ .. 36 ..
अतः पृच्छामि संसिद्धिं योगिनां परमं गुरुम् । पुरुषस्येह यत्कार्यं म्रियमाणस्य सर्वथा ॥ ३७ ॥
अतस् पृच्छामि संसिद्धिम् योगिनाम् परमम् गुरुम् । पुरुषस्य इह यत् कार्यम् म्रियमाणस्य सर्वथा ॥ ३७ ॥
atas pṛcchāmi saṃsiddhim yoginām paramam gurum . puruṣasya iha yat kāryam mriyamāṇasya sarvathā .. 37 ..
यच्छ्रोतव्यमथो जप्यं यत्कर्तव्यं नृभिः प्रभो । स्मर्तव्यं भजनीयं वा ब्रूहि यद्वा विपर्ययम् ॥ ३८ ॥
यत् श्रोतव्यम् अथो जप्यम् यत् कर्तव्यम् नृभिः प्रभो । स्मर्तव्यम् भजनीयम् वा ब्रूहि यत् वा विपर्ययम् ॥ ३८ ॥
yat śrotavyam atho japyam yat kartavyam nṛbhiḥ prabho . smartavyam bhajanīyam vā brūhi yat vā viparyayam .. 38 ..
नूनं भगवतो ब्रह्मन् गृहेषु गृहमेधिनाम् । न लक्ष्यते ह्यवस्थानं अपि गोदोहनं क्वचित् ॥ ३९ ॥
नूनम् भगवतः ब्रह्मन् गृहेषु गृहमेधिनाम् । न लक्ष्यते हि अवस्थानम् अपि गोदोहनम् क्वचिद् ॥ ३९ ॥
nūnam bhagavataḥ brahman gṛheṣu gṛhamedhinām . na lakṣyate hi avasthānam api godohanam kvacid .. 39 ..
एवमाभाषितः पृष्टः स राज्ञा श्लक्ष्णया गिरा । प्रत्यभाषत धर्मज्ञो भगवान् बादरायणिः ॥ ४० ॥
एवम् आभाषितः पृष्टः स राज्ञा श्लक्ष्णया गिरा । प्रत्यभाषत धर्म-ज्ञः भगवान् बादरायणिः ॥ ४० ॥
evam ābhāṣitaḥ pṛṣṭaḥ sa rājñā ślakṣṇayā girā . pratyabhāṣata dharma-jñaḥ bhagavān bādarāyaṇiḥ .. 40 ..
सूत उवाच ।
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे शुकागमनं नाम एकोनविंशोऽध्यायः ॥ १९ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् प्रथम-स्कन्धे शुकागमनम् नाम एकोनविंशः अध्यायः ॥ १९ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām prathama-skandhe śukāgamanam nāma ekonaviṃśaḥ adhyāyaḥ .. 19 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In