| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

व्यास उवाच ।
इति संप्रश्नसंहृष्टो विप्राणां रौमहर्षणिः । प्रतिपूज्य वचस्तेषां प्रवक्तुं उपचक्रमे ॥ १ ॥
इति संप्रश्न-संहृष्टः विप्राणाम् रौमहर्षणिः । प्रतिपूज्य वचः तेषाम् प्रवक्तुम् उपचक्रमे ॥ १ ॥
iti saṃpraśna-saṃhṛṣṭaḥ viprāṇām raumaharṣaṇiḥ . pratipūjya vacaḥ teṣām pravaktum upacakrame .. 1 ..
सूत उवाच ।
यं प्रव्रजन्तमनुपेतमपेतकृत्यं द्वैपायनो विरहकातर आजुहाव । पुत्रेति तन्मयतया तरवोऽभिनेदुः तं सर्वभूतहृदयं मुनिमानतोऽस्मि ॥ २ ॥
यम् प्रव्रजन्तम् अनुपेतम् अपेत-कृत्यम् द्वैपायनः विरह-कातरः आजुहाव । पुत्र इति तद्-मय-तया तरवः अभिनेदुः तम् सर्व-भूत-हृदयम् मुनिम् आनतः अस्मि ॥ २ ॥
yam pravrajantam anupetam apeta-kṛtyam dvaipāyanaḥ viraha-kātaraḥ ājuhāva . putra iti tad-maya-tayā taravaḥ abhineduḥ tam sarva-bhūta-hṛdayam munim ānataḥ asmi .. 2 ..
(वसंततिलका)
यः स्वानुभावमखिल श्रुतिसारमेकं अध्यात्मदीपं अतितितीर्षतां तमोऽन्धम् । संसारिणां करुणयाऽऽह पुराणगुह्यं तं व्याससूनुमुपयामि गुरुं मुनीनाम् ॥ ३ ॥
यः स्व-अनुभावम् अखिल श्रुति-सारम् एकम् अध्यात्म-दीपम् अतितितीर्षताम् तमः-अन्धम् । संसारिणाम् करुणया आह पुराण-गुह्यम् तम् व्यास-सूनुम् उपयामि गुरुम् मुनीनाम् ॥ ३ ॥
yaḥ sva-anubhāvam akhila śruti-sāram ekam adhyātma-dīpam atititīrṣatām tamaḥ-andham . saṃsāriṇām karuṇayā āha purāṇa-guhyam tam vyāsa-sūnum upayāmi gurum munīnām .. 3 ..
(अनुष्टुप्)
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ ४ ॥
नारायणम् नमस्कृत्य नरम् च एव नरोत्तमम् । देवीम् सरस्वतीम् व्यासम् ततस् जयम् उदीरयेत् ॥ ४ ॥
nārāyaṇam namaskṛtya naram ca eva narottamam . devīm sarasvatīm vyāsam tatas jayam udīrayet .. 4 ..
मुनयः साधु पृष्टोऽहं भवद्भिः लोकमङ्गलम् । यत्कृतः कृष्णसंप्रश्नो येनात्मा सुप्रसीदति ॥ ५ ॥
मुनयः साधु पृष्टः अहम् भवद्भिः लोक-मङ्गलम् । यद्-कृतः कृष्ण-संप्रश्नः येन आत्मा सुप्रसीदति ॥ ५ ॥
munayaḥ sādhu pṛṣṭaḥ aham bhavadbhiḥ loka-maṅgalam . yad-kṛtaḥ kṛṣṇa-saṃpraśnaḥ yena ātmā suprasīdati .. 5 ..
स वै पुंसां परो धर्मो यतो भक्तिरधोक्षजे । अहैतुक्यप्रतिहता ययात्मा संप्रसीदति ॥ ६ ॥
स वै पुंसाम् परः धर्मः यतस् भक्तिः अधोक्षजे । अहैतुकी अ प्रतिहता यया आत्मा संप्रसीदति ॥ ६ ॥
sa vai puṃsām paraḥ dharmaḥ yatas bhaktiḥ adhokṣaje . ahaitukī a pratihatā yayā ātmā saṃprasīdati .. 6 ..
वासुदेवे भगवति भक्तियोगः प्रयोजितः । जनयत्याशु वैराग्यं ज्ञानं च यद् अहैतुकम् ॥ ७ ॥
वासुदेवे भगवति भक्तियोगः प्रयोजितः । जनयति आशु वैराग्यम् ज्ञानम् च यत् अहैतुकम् ॥ ७ ॥
vāsudeve bhagavati bhaktiyogaḥ prayojitaḥ . janayati āśu vairāgyam jñānam ca yat ahaitukam .. 7 ..
धर्मः स्वनुष्ठितः पुंसां विष्वक्सेनकथासु यः । नोत्पादयेद् यदि रतिं श्रम एव हि केवलम् ॥ ८ ॥
धर्मः सु अनुष्ठितः पुंसाम् विष्वक्सेन-कथासु यः । न उत्पादयेत् यदि रतिम् श्रमः एव हि केवलम् ॥ ८ ॥
dharmaḥ su anuṣṭhitaḥ puṃsām viṣvaksena-kathāsu yaḥ . na utpādayet yadi ratim śramaḥ eva hi kevalam .. 8 ..
धर्मस्य ह्यापवर्ग्यस्य नार्थोऽर्थायोपकल्पते । नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृतः ॥ ९ ॥
धर्मस्य हि आपवर्ग्यस्य न अर्थः अर्थाय उपकल्पते । न अर्थस्य धर्म-एकान्तस्य कामः लाभाय हि स्मृतः ॥ ९ ॥
dharmasya hi āpavargyasya na arthaḥ arthāya upakalpate . na arthasya dharma-ekāntasya kāmaḥ lābhāya hi smṛtaḥ .. 9 ..
कामस्य नेन्द्रियप्रीतिः लाभो जीवेत यावता । जीवस्य तत्त्वजिज्ञासा नार्थो यश्चेह कर्मभिः ॥ १० ॥
कामस्य न इन्द्रिय-प्रीतिः लाभः जीवेत यावता । जीवस्य तत्त्व-जिज्ञासा न अर्थः यः च इह कर्मभिः ॥ १० ॥
kāmasya na indriya-prītiḥ lābhaḥ jīveta yāvatā . jīvasya tattva-jijñāsā na arthaḥ yaḥ ca iha karmabhiḥ .. 10 ..
वदन्ति तत् तत्त्वविदः तत्त्वं यत् ज्ञानमद्वयम् । ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ॥ ११ ॥
वदन्ति तत् तत्त्व-विदः तत्त्वम् यत् ज्ञानम् अद्वयम् । ब्रह्म इति परमात्मा इति भगवान् इति शब्द्यते ॥ ११ ॥
vadanti tat tattva-vidaḥ tattvam yat jñānam advayam . brahma iti paramātmā iti bhagavān iti śabdyate .. 11 ..
तत् श्रद्दधाना मुनयो ज्ञानवैराग्ययुक्तया । पश्यन्त्यात्मनि चात्मानं भक्त्या श्रुतगृहीतया ॥ १२ ॥
तत् श्रद्दधानाः मुनयः ज्ञान-वैराग्य-युक्तया । पश्यन्ति आत्मनि च आत्मानम् भक्त्या श्रुत-गृहीतया ॥ १२ ॥
tat śraddadhānāḥ munayaḥ jñāna-vairāgya-yuktayā . paśyanti ātmani ca ātmānam bhaktyā śruta-gṛhītayā .. 12 ..
अतः पुम्भिः द्विजश्रेष्ठा वर्णाश्रमविभागशः । स्वनुष्ठितस्य धर्मस्य संसिद्धिः हरितोषणम् ॥ १३ ॥
अतस् । सु अनुष्ठितस्य धर्मस्य संसिद्धिः हरि-तोषणम् ॥ १३ ॥
atas . su anuṣṭhitasya dharmasya saṃsiddhiḥ hari-toṣaṇam .. 13 ..
तस्मादेकेन मनसा भगवान् सात्वतां पतिः । श्रोतव्यः कीर्तितव्यश्च ध्येयः पूज्यश्च नित्यदा ॥ १४ ॥
तस्मात् एकेन मनसा भगवान् सात्वताम् पतिः । श्रोतव्यः कीर्तितव्यः च ध्येयः पूज्यः च नित्यदा ॥ १४ ॥
tasmāt ekena manasā bhagavān sātvatām patiḥ . śrotavyaḥ kīrtitavyaḥ ca dhyeyaḥ pūjyaḥ ca nityadā .. 14 ..
यद् अदनुध्यासिना युक्ताः कर्मग्रन्थिनिबन्धनम् । छिन्दन्ति कोविदास्तस्य को न कुर्यात् कथारतिम् ॥ १५ ॥
यत् युक्ताः कर्म-ग्रन्थि-निबन्धनम् । छिन्दन्ति कोविदाः तस्य कः न कुर्यात् कथा-रतिम् ॥ १५ ॥
yat yuktāḥ karma-granthi-nibandhanam . chindanti kovidāḥ tasya kaḥ na kuryāt kathā-ratim .. 15 ..
शुश्रूषोः श्रद्दधानस्य वासुदेवकथारुचिः । स्यान्महत्सेवया विप्राः पुण्यतीर्थनिषेवणात् ॥ १६ ॥
शुश्रूषोः श्रद्दधानस्य वासुदेव-कथा-रुचिः । स्यात् महत्-सेवया विप्राः पुण्य-तीर्थ-निषेवणात् ॥ १६ ॥
śuśrūṣoḥ śraddadhānasya vāsudeva-kathā-ruciḥ . syāt mahat-sevayā viprāḥ puṇya-tīrtha-niṣevaṇāt .. 16 ..
श्रृण्वतां स्वकथां कृष्णः पुण्यश्रवणकीर्तनः । हृद्यन्तःस्थो ह्यभद्राणि विधुनोति सुहृत्सताम् ॥ १७ ॥
श्रृण्वताम् स्व-कथाम् कृष्णः पुण्य-श्रवण-कीर्तनः । हृदि अन्तःस्थः हि अभद्राणि विधुनोति सुहृद् सताम् ॥ १७ ॥
śrṛṇvatām sva-kathām kṛṣṇaḥ puṇya-śravaṇa-kīrtanaḥ . hṛdi antaḥsthaḥ hi abhadrāṇi vidhunoti suhṛd satām .. 17 ..
नष्टप्रायेष्वभद्रेषु नित्यं भागवतसेवया । भगवति उत्तमश्लोके भक्तिर्भवति नैष्ठिकी ॥ १८ ॥
नष्ट-प्रायेषु अभद्रेषु नित्यम् भागवत-सेवया । भगवति उत्तमश्लोके भक्तिः भवति नैष्ठिकी ॥ १८ ॥
naṣṭa-prāyeṣu abhadreṣu nityam bhāgavata-sevayā . bhagavati uttamaśloke bhaktiḥ bhavati naiṣṭhikī .. 18 ..
तदा रजस्तमोभावाः कामलोभादयश्च ये । चेत एतैरनाविद्धं स्थितं सत्त्वे प्रसीदति ॥ १९ ॥
तदा रजः-तमः-भावाः काम-लोभ-आदयः च ये । चेतः एतैः अनाविद्धम् स्थितम् सत्त्वे प्रसीदति ॥ १९ ॥
tadā rajaḥ-tamaḥ-bhāvāḥ kāma-lobha-ādayaḥ ca ye . cetaḥ etaiḥ anāviddham sthitam sattve prasīdati .. 19 ..
एवं प्रसन्नमनसो भगवद्भक्तियोगतः । भगवत् तत्त्वविज्ञानं मुक्तसङ्गस्य जायते ॥ २० ॥
एवम् प्रसन्न-मनसः भगवत्-भक्ति-योगतः । भगवत् तत्त्व-विज्ञानम् मुक्त-सङ्गस्य जायते ॥ २० ॥
evam prasanna-manasaḥ bhagavat-bhakti-yogataḥ . bhagavat tattva-vijñānam mukta-saṅgasya jāyate .. 20 ..
भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे ॥ २१ ॥
भिद्यते हृदय-ग्रन्थिः छिद्यन्ते सर्व-संशयाः । क्षीयन्ते च अस्य कर्माणि दृष्टे एव आत्मनि ईश्वरे ॥ २१ ॥
bhidyate hṛdaya-granthiḥ chidyante sarva-saṃśayāḥ . kṣīyante ca asya karmāṇi dṛṣṭe eva ātmani īśvare .. 21 ..
अतो वै कवयो नित्यं भक्तिं परमया मुदा । वासुदेवे भगवति कुर्वन्त्यात्मप्रसादनीम् ॥ २२ ॥
अतस् वै कवयः नित्यम् भक्तिम् परमया मुदा । वासुदेवे भगवति कुर्वन्ति आत्म-प्रसादनीम् ॥ २२ ॥
atas vai kavayaḥ nityam bhaktim paramayā mudā . vāsudeve bhagavati kurvanti ātma-prasādanīm .. 22 ..
(वसंततिलका)
सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैः युक्तः परः पुरुष एक इहास्य धत्ते । स्थित्यादये हरिविरिञ्चिहरेति संज्ञाः श्रेयांसि तत्र खलु सत्त्वतनोः नृणां स्युः ॥ २३ ॥
सत्त्वम् रजः तमः इति प्रकृतेः गुणाः तैः युक्तः परः पुरुषः एकः इह अस्य धत्ते । स्थिति-आदये हरि-विरिञ्चि-हर इति संज्ञाः श्रेयांसि तत्र खलु सत्त्व-तनोः नृणाम् स्युः ॥ २३ ॥
sattvam rajaḥ tamaḥ iti prakṛteḥ guṇāḥ taiḥ yuktaḥ paraḥ puruṣaḥ ekaḥ iha asya dhatte . sthiti-ādaye hari-viriñci-hara iti saṃjñāḥ śreyāṃsi tatra khalu sattva-tanoḥ nṛṇām syuḥ .. 23 ..
(अनुष्टुप्)
पार्थिवाद् दारुणो धूमः तस्मादग्निस्त्रयीमयः । तमसस्तु रजस्तस्मात् सत्त्वं यद् ब्रह्मदर्शनम् ॥ २४ ॥
पार्थिवात् दारुणः धूमः तस्मात् अग्निः त्रयी-मयः । तमसः तु रजः तस्मात् सत्त्वम् यत् ब्रह्म-दर्शनम् ॥ २४ ॥
pārthivāt dāruṇaḥ dhūmaḥ tasmāt agniḥ trayī-mayaḥ . tamasaḥ tu rajaḥ tasmāt sattvam yat brahma-darśanam .. 24 ..
भेजिरे मुनयोऽथाग्रे भगवन्तं अधोक्षजम् । सत्त्वं विशुद्धं क्षेमाय कल्पन्ते येऽनु तानिह ॥ २५ ॥
भेजिरे मुनयः अथ अग्रे भगवन्तम् अधोक्षजम् । सत्त्वम् विशुद्धम् क्षेमाय कल्पन्ते ये अनु तान् इह ॥ २५ ॥
bhejire munayaḥ atha agre bhagavantam adhokṣajam . sattvam viśuddham kṣemāya kalpante ye anu tān iha .. 25 ..
मुमुक्षवो घोररूपान् हित्वा भूतपतीनथ । नारायणकलाः शान्ता भजन्ति ह्यनसूयवः ॥ २६ ॥
मुमुक्षवः घोर-रूपान् हित्वा भूतपतीन् अथ । नारायण-कलाः शान्ताः भजन्ति हि अनसूयवः ॥ २६ ॥
mumukṣavaḥ ghora-rūpān hitvā bhūtapatīn atha . nārāyaṇa-kalāḥ śāntāḥ bhajanti hi anasūyavaḥ .. 26 ..
रजस्तमःप्रकृतयः समशीला भजन्ति वै । पितृभूतप्रजेशादीन् श्रियैश्वर्यप्रजेप्सवः ॥ २७ ॥
रजः-तमः-प्रकृतयः समशीलाः भजन्ति वै । पितृ-भूत-प्रजा-ईश-आदीन् श्रिया ऐश्वर्य-प्रजेप्सवः ॥ २७ ॥
rajaḥ-tamaḥ-prakṛtayaḥ samaśīlāḥ bhajanti vai . pitṛ-bhūta-prajā-īśa-ādīn śriyā aiśvarya-prajepsavaḥ .. 27 ..
वासुदेवपरा वेदा वासुदेवपरा मखाः । वासुदेवपरा योगा वासुदेवपराः क्रियाः ॥ २८ ॥
वासुदेव-पराः वेदाः वासुदेव-पराः मखाः । वासुदेव-पराः योगाः वासुदेव-पराः क्रियाः ॥ २८ ॥
vāsudeva-parāḥ vedāḥ vāsudeva-parāḥ makhāḥ . vāsudeva-parāḥ yogāḥ vāsudeva-parāḥ kriyāḥ .. 28 ..
वासुदेवपरं ज्ञानं वासुदेवपरं तपः । वासुदेवपरो धर्मो वासुदेवपरा गतिः ॥ २९ ॥
वासुदेव-परम् ज्ञानम् वासुदेव-परम् तपः । वासुदेव-परः धर्मः वासुदेव-परा गतिः ॥ २९ ॥
vāsudeva-param jñānam vāsudeva-param tapaḥ . vāsudeva-paraḥ dharmaḥ vāsudeva-parā gatiḥ .. 29 ..
स एवेदं ससर्जाग्रे भगवान् आत्ममायया । सद् असद् रूपया चासौ गुणमय्यागुणो विभुः ॥ ३० ॥
सः एव इदम् ससर्ज अग्रे भगवान् आत्म-मायया । सत् असत् रूपया च असौ गुण-मय्या अगुणः विभुः ॥ ३० ॥
saḥ eva idam sasarja agre bhagavān ātma-māyayā . sat asat rūpayā ca asau guṇa-mayyā aguṇaḥ vibhuḥ .. 30 ..
तया विलसितेष्वेषु गुणेषु गुणवानिव । अन्तःप्रविष्ट आभाति विज्ञानेन विजृम्भितः ॥ ३१ ॥
तया विलसितेषु एषु गुणेषु गुणवान् इव । अन्तर् प्रविष्टः आभाति विज्ञानेन विजृम्भितः ॥ ३१ ॥
tayā vilasiteṣu eṣu guṇeṣu guṇavān iva . antar praviṣṭaḥ ābhāti vijñānena vijṛmbhitaḥ .. 31 ..
यथा ह्यवहितो वह्निः दारुष्वेकः स्वयोनिषु । नानेव भाति विश्वात्मा भूतेषु च तथा पुमान् ॥ ३२ ॥
यथा हि अवहितः वह्निः दारुषु एकः स्वयोनिषु । नाना इव भाति विश्वात्मा भूतेषु च तथा पुमान् ॥ ३२ ॥
yathā hi avahitaḥ vahniḥ dāruṣu ekaḥ svayoniṣu . nānā iva bhāti viśvātmā bhūteṣu ca tathā pumān .. 32 ..
असौ गुणमयैर्भावैः भूत सूक्ष्मेन्द्रियात्मभिः । स्वनिर्मितेषु निर्विष्टो भुङ्क्ते भूतेषु तद्गुणान् ॥ ३३ ॥
असौ गुण-मयैः भावैः भूत सूक्ष्म-इन्द्रिय-आत्मभिः । स्व-निर्मितेषु निर्विष्टः भुङ्क्ते भूतेषु तद्-गुणान् ॥ ३३ ॥
asau guṇa-mayaiḥ bhāvaiḥ bhūta sūkṣma-indriya-ātmabhiḥ . sva-nirmiteṣu nirviṣṭaḥ bhuṅkte bhūteṣu tad-guṇān .. 33 ..
भावयत्येष सत्त्वेन लोकान्वै लोकभावनः । लीलावतारानुरतो देवतिर्यङ् नरादिषु ॥ ३४ ॥
भावयति एष सत्त्वेन लोकान् वै लोक-भावनः । लीलावतार-अनुरतः देवतिर्यङ् नर-आदिषु ॥ ३४ ॥
bhāvayati eṣa sattvena lokān vai loka-bhāvanaḥ . līlāvatāra-anurataḥ devatiryaṅ nara-ādiṣu .. 34 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने द्वितीयोऽध्यायः ॥ २ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् प्रथम-स्कन्धे नैमिषीय-उपाख्याने द्वितीयः अध्यायः ॥ २ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām prathama-skandhe naimiṣīya-upākhyāne dvitīyaḥ adhyāyaḥ .. 2 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In