| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

व्यास उवाच ।
इति ब्रुवाणं संस्तूय मुनीनां दीर्घसत्रिणाम् । वृद्धः कुलपतिः सूतं बह्वृचः शौनकोऽब्रवीत् ॥ १ ॥
इति ब्रुवाणम् संस्तूय मुनीनाम् दीर्घ-सत्रिणाम् । वृद्धः कुलपतिः सूतम् बह्वृचः शौनकः अब्रवीत् ॥ १ ॥
iti bruvāṇam saṃstūya munīnām dīrgha-satriṇām . vṛddhaḥ kulapatiḥ sūtam bahvṛcaḥ śaunakaḥ abravīt .. 1 ..
(अनुष्टुप्)
सूत सूत महाभाग वद नो वदतां वर । कथां भागवतीं पुण्यां यदाह भगवान् शुकः ॥ २ ॥
सूत सूत महाभाग वद नः वदताम् वर । कथाम् भागवतीम् पुण्याम् यदा आह भगवान् शुकः ॥ २ ॥
sūta sūta mahābhāga vada naḥ vadatām vara . kathām bhāgavatīm puṇyām yadā āha bhagavān śukaḥ .. 2 ..
शौनक उवाच ।
कस्मिन् युगे प्रवृत्तेयं स्थाने वा केन हेतुना । कुतः सञ्चोदितः कृष्णः कृतवान् संहितां मुनिः ॥ ३ ॥
कस्मिन् युगे प्रवृत्ता इयम् स्थाने वा केन हेतुना । कुतस् सञ्चोदितः कृष्णः कृतवान् संहिताम् मुनिः ॥ ३ ॥
kasmin yuge pravṛttā iyam sthāne vā kena hetunā . kutas sañcoditaḥ kṛṣṇaḥ kṛtavān saṃhitām muniḥ .. 3 ..
तस्य पुत्रो महायोगी समदृङ् निर्विकल्पकः । एकान्तमतिः उन्निद्रो गूढो मूढ इवेयते ॥ ४ ॥
तस्य पुत्रः महा-योगी समदृश् निर्विकल्पकः । एकान्त-मतिः उन्निद्रः गूढः मूढः इव इयते ॥ ४ ॥
tasya putraḥ mahā-yogī samadṛś nirvikalpakaḥ . ekānta-matiḥ unnidraḥ gūḍhaḥ mūḍhaḥ iva iyate .. 4 ..
दृष्ट्वानुयान्तमृषिमात्मजमप्यनग्नं देव्यो ह्रिया परिदधुर्न सुतस्य चित्रम् । तद्वीक्ष्य पृच्छति मुनौ जगदुस्तवास्ति स्त्रीपुम्भिदा न तु सुतस्य विविक्तदृष्टेः ॥ ५ ॥
दृष्ट्वा अनुयान्तम् ऋषिम् आत्मजम् अपि अनग्नम् देव्यः ह्रिया परिदधुः न सुतस्य चित्रम् । तत् वीक्ष्य पृच्छति मुनौ जगदुः तव अस्ति स्त्री-पुम् भिदा न तु सुतस्य विविक्त-दृष्टेः ॥ ५ ॥
dṛṣṭvā anuyāntam ṛṣim ātmajam api anagnam devyaḥ hriyā paridadhuḥ na sutasya citram . tat vīkṣya pṛcchati munau jagaduḥ tava asti strī-pum bhidā na tu sutasya vivikta-dṛṣṭeḥ .. 5 ..
(वसंततिलका)
कथमालक्षितः पौरैः संप्राप्तः कुरुजाङ्गलान् । उन्मत्तमूकजडवद् विचरन् गजसाह्वये ॥ ६ ॥
कथम् आलक्षितः पौरैः संप्राप्तः कुरुजाङ्गलान् । उन्मत्त-मूक-जड-वत् विचरन् गजसाह्वये ॥ ६ ॥
katham ālakṣitaḥ pauraiḥ saṃprāptaḥ kurujāṅgalān . unmatta-mūka-jaḍa-vat vicaran gajasāhvaye .. 6 ..
कथं वा पाण्डवेयस्य राजर्षेर्मुनिना सह । संवादः समभूत् तात यत्रैषा सात्वती श्रुतिः ॥ ७ ॥
कथम् वा पाण्डवेयस्य राजर्षेः मुनिना सह । संवादः समभूत् तात यत्र एषा सात्वती श्रुतिः ॥ ७ ॥
katham vā pāṇḍaveyasya rājarṣeḥ muninā saha . saṃvādaḥ samabhūt tāta yatra eṣā sātvatī śrutiḥ .. 7 ..
स गोदोहनमात्रं हि गृहेषु गृहमेधिनाम् । अवेक्षते महाभागः तीर्थीकुर्वन् तदाश्रमम् ॥ ८ ॥
स गोदोहन-मात्रम् हि गृहेषु गृहमेधिनाम् । अवेक्षते महाभागः तीर्थीकुर्वन् तद्-आश्रमम् ॥ ८ ॥
sa godohana-mātram hi gṛheṣu gṛhamedhinām . avekṣate mahābhāgaḥ tīrthīkurvan tad-āśramam .. 8 ..
अभिमन्युसुतं सूत प्राहुर्भागवतोत्तमम् । तस्य जन्म महाश्चर्यं कर्माणि च गृणीहि नः ॥ ९ ॥
अभिमन्यु-सुतम् सूत प्राहुः भागवत-उत्तमम् । तस्य जन्म महा-आश्चर्यम् कर्माणि च गृणीहि नः ॥ ९ ॥
abhimanyu-sutam sūta prāhuḥ bhāgavata-uttamam . tasya janma mahā-āścaryam karmāṇi ca gṛṇīhi naḥ .. 9 ..
स सम्राट् कस्य वा हेतोः पाण्डूनां मानवर्धनः । प्रायोपविष्टो गङ्गायां अनादृत्य अधिराट् श्रियम् ॥ १० ॥
स सम्राज् कस्य वा हेतोः पाण्डूनाम् मान-वर्धनः । प्राय-उपविष्टः गङ्गायाम् अन् आदृत्य अधिराज् श्रियम् ॥ १० ॥
sa samrāj kasya vā hetoḥ pāṇḍūnām māna-vardhanaḥ . prāya-upaviṣṭaḥ gaṅgāyām an ādṛtya adhirāj śriyam .. 10 ..
नमन्ति यत्पादनिकेतमात्मनः शिवाय हानीय धनानि शत्रवः । कथं स वीरः श्रियमङ्ग दुस्त्यजां युवैषतोत् स्रष्टुमहो सहासुभिः ॥ ११ ॥
नमन्ति यत् पादनिकेतम् आत्मनः शिवाय ह आनीय धनानि शत्रवः । कथम् स वीरः श्रियम् अङ्ग दुस्त्यजाम् स्रष्टुम् अहो सह असुभिः ॥ ११ ॥
namanti yat pādaniketam ātmanaḥ śivāya ha ānīya dhanāni śatravaḥ . katham sa vīraḥ śriyam aṅga dustyajām sraṣṭum aho saha asubhiḥ .. 11 ..
(वंशस्थ)
शिवाय लोकस्य भवाय भूतये य उत्तमश्लोकपरायणा जनाः । जीवन्ति नात्मार्थमसौ पराश्रयं मुमोच निर्विद्य कुतः कलेवरम् ॥ १२ ॥
शिवाय लोकस्य भवाय भूतये ये उत्तमश्लोक-परायणाः जनाः । जीवन्ति न आत्म-अर्थम् असौ पर-आश्रयम् मुमोच निर्विद्य कुतस् कलेवरम् ॥ १२ ॥
śivāya lokasya bhavāya bhūtaye ye uttamaśloka-parāyaṇāḥ janāḥ . jīvanti na ātma-artham asau para-āśrayam mumoca nirvidya kutas kalevaram .. 12 ..
तत्सर्वं नः समाचक्ष्व पृष्टो यदिह किञ्चन । मन्ये त्वां विषये वाचां स्नातमन्यत्र छान्दसात् ॥ १३ ॥
तत् सर्वम् नः समाचक्ष्व पृष्टः यत् इह किञ्चन । मन्ये त्वाम् विषये वाचाम् स्नातम् अन्यत्र छान्दसात् ॥ १३ ॥
tat sarvam naḥ samācakṣva pṛṣṭaḥ yat iha kiñcana . manye tvām viṣaye vācām snātam anyatra chāndasāt .. 13 ..
(अनुष्टुप्)
द्वापरे समनुप्राप्ते तृतीये युगपर्यये । जातः पराशराद् योगी वासव्यां कलया हरेः ॥ १४ ॥
द्वापरे समनुप्राप्ते तृतीये युग-पर्यये । जातः पराशरात् योगी वासव्याम् कलया हरेः ॥ १४ ॥
dvāpare samanuprāpte tṛtīye yuga-paryaye . jātaḥ parāśarāt yogī vāsavyām kalayā hareḥ .. 14 ..
सूत उवाच
स कदाचित् सरस्वत्या उपस्पृश्य जलं शुचिः । विविक्तदेश आसीन उदिते रविमण्डले ॥ १५ ॥
स कदाचिद् सरस्वत्याः उपस्पृश्य जलम् शुचिः । विविक्त-देशः आसीनः उदिते रवि-मण्डले ॥ १५ ॥
sa kadācid sarasvatyāḥ upaspṛśya jalam śuciḥ . vivikta-deśaḥ āsīnaḥ udite ravi-maṇḍale .. 15 ..
परावरज्ञः स ऋषिः कालेनाव्यक्तरंहसा । युगधर्मव्यतिकरं प्राप्तं भुवि युगे युगे ॥ १६ ॥
परावर-ज्ञः सः ऋषिः कालेन अव्यक्त-रंहसा । युग-धर्म-व्यतिकरम् प्राप्तम् भुवि युगे युगे ॥ १६ ॥
parāvara-jñaḥ saḥ ṛṣiḥ kālena avyakta-raṃhasā . yuga-dharma-vyatikaram prāptam bhuvi yuge yuge .. 16 ..
भौतिकानां च भावानां शक्तिह्रासं च तत्कृतम् । अश्रद्दधानान्निःसत्त्वान् दुर्मेधान् ह्रसितायुषः ॥ १७ ॥
भौतिकानाम् च भावानाम् शक्ति-ह्रासम् च तद्-कृतम् । अश्रद्दधानान् निःसत्त्वान् दुर्मेधान् ह्रसित-आयुषः ॥ १७ ॥
bhautikānām ca bhāvānām śakti-hrāsam ca tad-kṛtam . aśraddadhānān niḥsattvān durmedhān hrasita-āyuṣaḥ .. 17 ..
दुर्भगांश्च जनान् वीक्ष्य मुनिर्दिव्येन चक्षुषा । सर्ववर्णाश्रमाणां यद् दध्यौ हितममोघदृक् ॥ १८ ॥
दुर्भगान् च जनान् वीक्ष्य मुनिः दिव्येन चक्षुषा । सर्व-वर्ण-आश्रमाणाम् यत् दध्यौ हितम् अमोघ-दृश् ॥ १८ ॥
durbhagān ca janān vīkṣya muniḥ divyena cakṣuṣā . sarva-varṇa-āśramāṇām yat dadhyau hitam amogha-dṛś .. 18 ..
चातुर्होत्रं कर्म शुद्धं प्रजानां वीक्ष्य वैदिकम् । व्यदधाद् यज्ञसन्तत्यै वेदमेकं चतुर्विधम् ॥ १९ ॥
चातुर्होत्रम् कर्म शुद्धम् प्रजानाम् वीक्ष्य वैदिकम् । व्यदधात् यज्ञ-सन्तत्यै वेदम् एकम् चतुर्विधम् ॥ १९ ॥
cāturhotram karma śuddham prajānām vīkṣya vaidikam . vyadadhāt yajña-santatyai vedam ekam caturvidham .. 19 ..
ऋग्यजुःसामाथर्वाख्या वेदाश्चत्वार उद्धृताः । इतिहासपुराणं च पञ्चमो वेद उच्यते ॥ २० ॥
ऋक्-यजुः-साम-अथर्व-आख्याः वेदाः चत्वारः उद्धृताः । इतिहास-पुराणम् च पञ्चमः वेदः उच्यते ॥ २० ॥
ṛk-yajuḥ-sāma-atharva-ākhyāḥ vedāḥ catvāraḥ uddhṛtāḥ . itihāsa-purāṇam ca pañcamaḥ vedaḥ ucyate .. 20 ..
तत्रर्ग्वेदधरः पैलः सामगो जैमिनिः कविः । वैशंपायन एवैको निष्णातो यजुषामुत ॥ २१ ॥
तत्र ऋग्वेद-धरः पैलः सामगः जैमिनिः कविः । वैशंपायनः एव एकः निष्णातः यजुषाम् उत ॥ २१ ॥
tatra ṛgveda-dharaḥ pailaḥ sāmagaḥ jaiminiḥ kaviḥ . vaiśaṃpāyanaḥ eva ekaḥ niṣṇātaḥ yajuṣām uta .. 21 ..
अथर्वाङ्गिरसामासीत् सुमन्तुर्दारुणो मुनिः । इतिहासपुराणानां पिता मे रोमहर्षणः ॥ २२ ॥
अथर्व-अङ्गिरसाम् आसीत् सुमन्तुः दारुणः मुनिः । इतिहास-पुराणानाम् पिता मे रोमहर्षणः ॥ २२ ॥
atharva-aṅgirasām āsīt sumantuḥ dāruṇaḥ muniḥ . itihāsa-purāṇānām pitā me romaharṣaṇaḥ .. 22 ..
त एत ऋषयो वेदं स्वं स्वं व्यस्यन्ननेकधा । शिष्यैः प्रशिष्यैः तत् शिष्यैः वेदास्ते शाखिनोऽभवन् ॥ २३ ॥
ते एते ऋषयः वेदम् स्वम् स्वम् व्यस्यन् अनेकधा । शिष्यैः प्रशिष्यैः तद्-शिष्यैः वेदाः ते शाखिनः अभवन् ॥ २३ ॥
te ete ṛṣayaḥ vedam svam svam vyasyan anekadhā . śiṣyaiḥ praśiṣyaiḥ tad-śiṣyaiḥ vedāḥ te śākhinaḥ abhavan .. 23 ..
त एव वेदा दुर्मेधैः धार्यन्ते पुरुषैर्यथा । एवं चकार भगवान् व्यासः कृपणवत्सलः ॥ २४ ॥
ते एव वेदाः दुर्मेधैः धार्यन्ते पुरुषैः यथा । एवम् चकार भगवान् व्यासः कृपण-वत्सलः ॥ २४ ॥
te eva vedāḥ durmedhaiḥ dhāryante puruṣaiḥ yathā . evam cakāra bhagavān vyāsaḥ kṛpaṇa-vatsalaḥ .. 24 ..
स्त्रीशूद्रद्विजबंधूनां त्रयी न श्रुतिगोचरा । कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह । इति भारतमाख्यानं कृपया मुनिना कृतम् ॥ २५ ॥
स्त्री-शूद्र-द्विजबंधूनाम् त्रयी न श्रुति-गोचरा । कर्म-श्रेयसि मूढानाम् श्रेयः एवम् भवेत् इह । इति भारतम् आख्यानम् कृपया मुनिना कृतम् ॥ २५ ॥
strī-śūdra-dvijabaṃdhūnām trayī na śruti-gocarā . karma-śreyasi mūḍhānām śreyaḥ evam bhavet iha . iti bhāratam ākhyānam kṛpayā muninā kṛtam .. 25 ..
एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजाः । सर्वात्मकेनापि यदा नातुष्यत् हृदयं ततः ॥ २६ ॥
एवम् प्रवृत्तस्य सदा भूतानाम् श्रेयसि द्विजाः । सर्वात्मकेन अपि यदा न अतुष्यत् हृदयम् ततस् ॥ २६ ॥
evam pravṛttasya sadā bhūtānām śreyasi dvijāḥ . sarvātmakena api yadā na atuṣyat hṛdayam tatas .. 26 ..
नातिप्रसीदद् हृदयः सरस्वत्यास्तटे शुचौ । वितर्कयन् विविक्तस्थ इदं प्रोवाच धर्मवित् ॥ २७ ॥
न अति प्रसीदत् हृदयः सरस्वत्याः तटे शुचौ । वितर्कयन् विविक्त-स्थः इदम् प्रोवाच धर्म-विद् ॥ २७ ॥
na ati prasīdat hṛdayaḥ sarasvatyāḥ taṭe śucau . vitarkayan vivikta-sthaḥ idam provāca dharma-vid .. 27 ..
धृतव्रतेन हि मया छन्दांसि गुरवोऽग्नयः । मानिता निर्व्यलीकेन गृहीतं चानुशासनम् ॥ २८ ॥
धृत-व्रतेन हि मया छन्दांसि गुरवः अग्नयः । मानिता निर्व्यलीकेन गृहीतम् च अनुशासनम् ॥ २८ ॥
dhṛta-vratena hi mayā chandāṃsi guravaḥ agnayaḥ . mānitā nirvyalīkena gṛhītam ca anuśāsanam .. 28 ..
भारतव्यपदेशेन ह्याम्नायार्थश्च दर्शितः । दृश्यते यत्र धर्मादि स्त्रीशूद्रादिभिरप्युत ॥ २९ ॥
भारत-व्यपदेशेन हि आम्नाय-अर्थः च दर्शितः । दृश्यते यत्र धर्म-आदि स्त्री-शूद्र-आदिभिः अपि उत ॥ २९ ॥
bhārata-vyapadeśena hi āmnāya-arthaḥ ca darśitaḥ . dṛśyate yatra dharma-ādi strī-śūdra-ādibhiḥ api uta .. 29 ..
तथापि बत मे दैह्यो ह्यात्मा चैवात्मना विभुः । असंपम्पन्न इवाभाति ब्रह्मवर्चस्य सत्तमः ॥ ३० ॥
तथा अपि बत मे दैह्यः हि आत्मा च एव आत्मना विभुः । असंपम्पन्नः इव आभाति ब्रह्मवर्चस्य सत्तमः ॥ ३० ॥
tathā api bata me daihyaḥ hi ātmā ca eva ātmanā vibhuḥ . asaṃpampannaḥ iva ābhāti brahmavarcasya sattamaḥ .. 30 ..
किं वा भागवता धर्मा न प्रायेण निरूपिताः । प्रियाः परमहंसानां त एव ह्यच्युतप्रियाः ॥ ३१ ॥
किम् वा भागवताः धर्माः न प्रायेण निरूपिताः । प्रियाः परमहंसानाम् ते एव हि अच्युत-प्रियाः ॥ ३१ ॥
kim vā bhāgavatāḥ dharmāḥ na prāyeṇa nirūpitāḥ . priyāḥ paramahaṃsānām te eva hi acyuta-priyāḥ .. 31 ..
तस्यैवं खिलमात्मानं मन्यमानस्य खिद्यतः । कृष्णस्य नारदोऽभ्यागाद् आश्रमं प्रागुदाहृतम् ॥ ३२ ॥
तस्य एवम् खिलम् आत्मानम् मन्यमानस्य । कृष्णस्य नारदः अभ्यागात् आश्रमम् प्राक् उदाहृतम् ॥ ३२ ॥
tasya evam khilam ātmānam manyamānasya . kṛṣṇasya nāradaḥ abhyāgāt āśramam prāk udāhṛtam .. 32 ..
तमभिज्ञाय सहसा प्रत्युत्थायागतं मुनिः । पूजयामास विधिवत् नारदं सुरपूजितम् ॥ ३३ ॥
तम् अभिज्ञाय सहसा प्रत्युत्थाय आगतम् मुनिः । पूजयामास विधिवत् नारदम् सुर-पूजितम् ॥ ३३ ॥
tam abhijñāya sahasā pratyutthāya āgatam muniḥ . pūjayāmāsa vidhivat nāradam sura-pūjitam .. 33 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने चतुर्थोऽध्यायः ॥ ४ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् प्रथम-स्कन्धे नैमिषीय-उपाख्याने चतुर्थः अध्यायः ॥ ४ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām prathama-skandhe naimiṣīya-upākhyāne caturthaḥ adhyāyaḥ .. 4 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In