| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

अथ तं सुखमासीन उपासीनं बृहच्छ्रवाः । देवर्षिः प्राह विप्रर्षिं वीणापाणिः स्मयन्निव ॥ १ ॥
अथ तम् सुखम् आसीनः उपासीनम् बृहच्छ्रवाः । देवर्षिः प्राह विप्रर्षिम् वीणापाणिः स्मयन् इव ॥ १ ॥
atha tam sukham āsīnaḥ upāsīnam bṛhacchravāḥ . devarṣiḥ prāha viprarṣim vīṇāpāṇiḥ smayan iva .. 1 ..
सूत उवाच ।
पाराशर्य महाभाग भवतः कच्चिदात्मना । परितुष्यति शारीर आत्मा मानस एव वा ॥ २ ॥
पाराशर्य महाभाग भवतः कच्चित् आत्मना । परितुष्यति शारीरः आत्मा मानसः एव वा ॥ २ ॥
pārāśarya mahābhāga bhavataḥ kaccit ātmanā . parituṣyati śārīraḥ ātmā mānasaḥ eva vā .. 2 ..
(अनुष्टुप्) - नारद उवाच ।
जिज्ञासितं सुसंपन्नं अपि ते महदद्भुतम् । कृतवान् भारतं यस्त्वं सर्वार्थपरिबृंहितम् ॥ ३ ॥
जिज्ञासितम् सु संपन्नम् अपि ते महत् अद्भुतम् । कृतवान् भारतम् यः त्वम् सर्व-अर्थ-परिबृंहितम् ॥ ३ ॥
jijñāsitam su saṃpannam api te mahat adbhutam . kṛtavān bhāratam yaḥ tvam sarva-artha-paribṛṃhitam .. 3 ..
जिज्ञासितमधीतं च यत्तद् ब्रह्म सनातनम् । तथापि शोचस्यात्मानं अकृतार्थ इव प्रभो ॥ ४ ॥
जिज्ञासितम् अधीतम् च यत् तत् ब्रह्म सनातनम् । तथा अपि शोचसि आत्मानम् अकृतार्थः इव प्रभो ॥ ४ ॥
jijñāsitam adhītam ca yat tat brahma sanātanam . tathā api śocasi ātmānam akṛtārthaḥ iva prabho .. 4 ..
अस्त्येव मे सर्वमिदं त्वयोक्तं तथापि नात्मा परितुष्यते मे । तन्मूलमव्यक्तमगाधबोधं पृच्छामहे त्वात्मभवात्मभूतम् ॥ ५ ॥
अस्ति एव मे सर्वम् इदम् त्वया उक्तम् तथा अपि न आत्मा परितुष्यते मे । तद्-मूलम् अव्यक्तम् अगाध-बोधम् पृच्छामहे त्वा आत्मभव-आत्मभूतम् ॥ ५ ॥
asti eva me sarvam idam tvayā uktam tathā api na ātmā parituṣyate me . tad-mūlam avyaktam agādha-bodham pṛcchāmahe tvā ātmabhava-ātmabhūtam .. 5 ..
व्यास उवाच ।
स वै भवान् वेद समस्तगुह्यं उपासितो यत्पुरुषः पुराणः । परावरेशो मनसैव विश्वं सृजत्यवत्यत्ति गुणैरसङ्गः ॥ ६ ॥
स वै भवान् वेद समस्त-गुह्यम् उपासितः यत्पुरुषः पुराणः । परावर-ईशः मनसा एव विश्वम् सृजति अवति अत्ति गुणैः असङ्गः ॥ ६ ॥
sa vai bhavān veda samasta-guhyam upāsitaḥ yatpuruṣaḥ purāṇaḥ . parāvara-īśaḥ manasā eva viśvam sṛjati avati atti guṇaiḥ asaṅgaḥ .. 6 ..
(उपेंद्रवज्रा)
त्वं पर्यटन्नर्क इव त्रिलोकीं अन्तश्चरो वायुरिवात्मसाक्षी । परावरे ब्रह्मणि धर्मतो व्रतैः स्नातस्य मे न्यूनमलं विचक्ष्व ॥ ७ ॥
त्वम् पर्यटन् अर्कः इव त्रिलोकीम् अन्तश्चरः वायुः इव आत्म-साक्षी । परावरे ब्रह्मणि धर्मतः व्रतैः स्नातस्य मे न्यूनम् अलम् विचक्ष्व ॥ ७ ॥
tvam paryaṭan arkaḥ iva trilokīm antaścaraḥ vāyuḥ iva ātma-sākṣī . parāvare brahmaṇi dharmataḥ vrataiḥ snātasya me nyūnam alam vicakṣva .. 7 ..
भवतानुदितप्रायं यशो भगवतोऽमलम् । येनैवासौ न तुष्येत मन्ये तद्दर्शनं खिलम् ॥ ८ ॥
भवता अनुदित-प्रायम् यशः भगवतः अमलम् । येन एव असौ न तुष्येत मन्ये तद्-दर्शनम् खिलम् ॥ ८ ॥
bhavatā anudita-prāyam yaśaḥ bhagavataḥ amalam . yena eva asau na tuṣyeta manye tad-darśanam khilam .. 8 ..
(अनुष्टुप्) - नारद उवाच ।
यथा धर्मादयश्चार्था मुनिवर्यानुकीर्तिताः । न तथा वासुदेवस्य महिमा ह्यनुवर्णितः ॥ ९ ॥
यथा धर्म-आदयः च अर्थाः मुनि-वर्य अनुकीर्तिताः । न तथा वासुदेवस्य महिमा हि अनुवर्णितः ॥ ९ ॥
yathā dharma-ādayaḥ ca arthāḥ muni-varya anukīrtitāḥ . na tathā vāsudevasya mahimā hi anuvarṇitaḥ .. 9 ..
न यद् वचश्चित्रपदं हरेर्यशो जगत्पवित्रं प्रगृणीत कर्हिचित् । तद्वायसं तीर्थमुशन्ति मानसा न यत्र हंसा निरमन्त्युशिक्क्षयाः ॥ १० ॥
न यत् वचः चित्र-पदम् हरेः यशः जगत्-पवित्रम् प्रगृणीत कर्हिचित् । तत् वायसम् तीर्थम् उशन्ति मानसाः न यत्र हंसाः निरमन्ति उशिक्क्षयाः ॥ १० ॥
na yat vacaḥ citra-padam hareḥ yaśaḥ jagat-pavitram pragṛṇīta karhicit . tat vāyasam tīrtham uśanti mānasāḥ na yatra haṃsāḥ niramanti uśikkṣayāḥ .. 10 ..
(वंशस्थ)
तद्वाग्विसर्गो जनताघविप्लवो यस्मिन् प्रतिश्लोकमबद्धवत्यपि । नामान्यनन्तस्य यशोऽङ्कितानि यत् श्रृण्वन्ति गायन्ति गृणन्ति साधवः ॥ ११ ॥
तद्-वाग्विसर्गः जनता-अघ-विप्लवः यस्मिन् प्रतिश्लोकम् अबद्धवती अपि । नामानि अनन्तस्य यशः-अङ्कितानि यत् श्रृण्वन्ति गायन्ति गृणन्ति साधवः ॥ ११ ॥
tad-vāgvisargaḥ janatā-agha-viplavaḥ yasmin pratiślokam abaddhavatī api . nāmāni anantasya yaśaḥ-aṅkitāni yat śrṛṇvanti gāyanti gṛṇanti sādhavaḥ .. 11 ..
नैष्कर्म्यमप्यच्युतभाववर्जितं न शोभते ज्ञानमलं निरञ्जनम् । कुतः पुनः शश्वदभद्रमीश्वरे न चार्पितं कर्म यदप्यकारणम् ॥ १२ ॥
नैष्कर्म्यम् अपि अच्युत-भाव-वर्जितम् न शोभते ज्ञान-मलम् निरञ्जनम् । कुतस् पुनर् शश्वत् अभद्रम् ईश्वरे न च अर्पितम् कर्म यत् अपि अकारणम् ॥ १२ ॥
naiṣkarmyam api acyuta-bhāva-varjitam na śobhate jñāna-malam nirañjanam . kutas punar śaśvat abhadram īśvare na ca arpitam karma yat api akāraṇam .. 12 ..
अथो महाभाग भवानमोघदृक् शुचिश्रवाः सत्यरतो धृतव्रतः । उरुक्रमस्याखिलबंधमुक्तये समाधिनानुस्मर तद्विचेष्टितम् ॥ १३ ॥
अथो महाभाग भवान् अमोघ-दृश् शुचिश्रवाः सत्यरतः धृतव्रतः । उरुक्रमस्य अखिल-बंध-मुक्तये समाधिना अनुस्मर तत् विचेष्टितम् ॥ १३ ॥
atho mahābhāga bhavān amogha-dṛś śuciśravāḥ satyarataḥ dhṛtavrataḥ . urukramasya akhila-baṃdha-muktaye samādhinā anusmara tat viceṣṭitam .. 13 ..
ततोऽन्यथा किञ्चन यद्विवक्षतः पृथग् दृशस्तत् कृतरूपनामभिः । न कर्हिचित् क्वापि च दुःस्थिता मतिः लभेत वाताहतनौरिवास्पदम् ॥ १४ ॥
ततस् अन्यथा किञ्चन यत् विवक्षतः पृथक् दृशः तत् कृत-रूप-नामभिः । न कर्हिचित् क्वापि च दुःस्थिता मतिः लभेत वात-आहत-नौः इव आस्पदम् ॥ १४ ॥
tatas anyathā kiñcana yat vivakṣataḥ pṛthak dṛśaḥ tat kṛta-rūpa-nāmabhiḥ . na karhicit kvāpi ca duḥsthitā matiḥ labheta vāta-āhata-nauḥ iva āspadam .. 14 ..
जुगुप्सितं धर्मकृतेऽनुशासतः स्वभावरक्तस्य महान् व्यतिक्रमः । यद्वाक्यतो धर्म इतीतरः स्थितो न मन्यते तस्य निवारणं जनः ॥ १५ ॥
जुगुप्सितम् धर्म-कृते अनुशासतः स्वभाव-रक्तस्य महान् व्यतिक्रमः । यद्-वाक्यतः धर्मः इति इतरः स्थितः न मन्यते तस्य निवारणम् जनः ॥ १५ ॥
jugupsitam dharma-kṛte anuśāsataḥ svabhāva-raktasya mahān vyatikramaḥ . yad-vākyataḥ dharmaḥ iti itaraḥ sthitaḥ na manyate tasya nivāraṇam janaḥ .. 15 ..
विचक्षणोऽस्यार्हति वेदितुं विभोः अनन्तपारस्य निवृत्तितः सुखम् । प्रवर्तमानस्य गुणैरनात्मनः ततो भवान् दर्शय चेष्टितं विभोः ॥ १६ ॥
विचक्षणः अस्य अर्हति वेदितुम् विभोः अनन्तपारस्य निवृत्तितः सुखम् । प्रवर्तमानस्य गुणैः अनात्मनः ततस् भवान् दर्शय चेष्टितम् विभोः ॥ १६ ॥
vicakṣaṇaḥ asya arhati veditum vibhoḥ anantapārasya nivṛttitaḥ sukham . pravartamānasya guṇaiḥ anātmanaḥ tatas bhavān darśaya ceṣṭitam vibhoḥ .. 16 ..
त्यक्त्वा स्वधर्मं चरणाम्बुजं हरेः भजन् अपक्वोऽथ पतेत् ततो यदि । यत्र क्व वाभद्रमभूदमुष्य किं को वार्थ आप्तोऽभजतां स्वधर्मतः ॥ १७ ॥
त्यक्त्वा स्वधर्मम् चरण-अम्बुजम् हरेः भजन् अपक्वः अथ पतेत् ततस् यदि । यत्र क्व वा अभद्रम् अभूत् अमुष्य किम् कः वा अर्थः आप्तः अभजताम् स्वधर्मतः ॥ १७ ॥
tyaktvā svadharmam caraṇa-ambujam hareḥ bhajan apakvaḥ atha patet tatas yadi . yatra kva vā abhadram abhūt amuṣya kim kaḥ vā arthaḥ āptaḥ abhajatām svadharmataḥ .. 17 ..
तस्यैव हेतोः प्रयतेत कोविदो न लभ्यते यद्भ्रमतामुपर्यधः । तल्लभ्यते दुःखवदन्यतः सुखं कालेन सर्वत्र गभीररंहसा ॥ १८ ॥
तस्य एव हेतोः प्रयतेत कोविदः न लभ्यते यत् भ्रमताम् उपरि अधस् । तत् लभ्यते दुःख-वत् अन्यतस् सुखम् कालेन सर्वत्र गभीर-रंहसा ॥ १८ ॥
tasya eva hetoḥ prayateta kovidaḥ na labhyate yat bhramatām upari adhas . tat labhyate duḥkha-vat anyatas sukham kālena sarvatra gabhīra-raṃhasā .. 18 ..
(इंद्रवंशा)
न वै जनो जातु कथञ्चनाव्रजेत् मुकुंदसेव्यन्यवदङ्ग संसृतिम् । स्मरन् मुकुंदाङ्घ्र्युपगूहनं पुनः विहातुमिच्छेन्न रसग्रहो जनः ॥ १९ ॥
न वै जनः जातु कथञ्चन आव्रजेत् मुकुन्द-सेवि-अन्य-वत् अङ्ग संसृतिम् । स्मरन् मुकुन्द-अङ्घ्रि-उपगूहनम् पुनर् विहातुम् इच्छेत् न रसग्रहः जनः ॥ १९ ॥
na vai janaḥ jātu kathañcana āvrajet mukunda-sevi-anya-vat aṅga saṃsṛtim . smaran mukunda-aṅghri-upagūhanam punar vihātum icchet na rasagrahaḥ janaḥ .. 19 ..
(वंशस्थ)
इदं हि विश्वं भगवानिवेतरो यतो जगत्स्थाननिरोधसंभवाः । तद्धि स्वयं वेद भवांस्तथापि वै प्रादेशमात्रं भवतः प्रदर्शितम् ॥ २० ॥
इदम् हि विश्वम् भगवान् इव इतरः यतस् जगत्-स्थान-निरोध-संभवाः । तत् हि स्वयम् वेद भवान् तथा अपि वै प्रादेश-मात्रम् भवतः प्रदर्शितम् ॥ २० ॥
idam hi viśvam bhagavān iva itaraḥ yatas jagat-sthāna-nirodha-saṃbhavāḥ . tat hi svayam veda bhavān tathā api vai prādeśa-mātram bhavataḥ pradarśitam .. 20 ..
त्वमात्मनात्मानमवेह्यमोघदृक् परस्य पुंसः परमात्मनः कलाम् । अजं प्रजातं जगतः शिवाय तन् महानुभावाभ्युदयोऽधिगण्यताम् ॥ २१ ॥
त्वम् आत्मना आत्मानम् अवेहि अमोघ-दृश् परस्य पुंसः परमात्मनः कलाम् । अजम् प्रजातम् जगतः शिवाय तत् महा-अनुभाव-अभ्युदयः अधिगण्यताम् ॥ २१ ॥
tvam ātmanā ātmānam avehi amogha-dṛś parasya puṃsaḥ paramātmanaḥ kalām . ajam prajātam jagataḥ śivāya tat mahā-anubhāva-abhyudayaḥ adhigaṇyatām .. 21 ..
इदं हि पुंसस्तपसः श्रुतस्य वा स्विष्टस्य सूक्तस्य च बुद्धिदत्तयोः । अविच्युतोऽर्थः कविभिर्निरूपितो यदुत्तमश्लोक गुणानुवर्णनम् ॥ २२ ॥
इदम् हि पुंसः तपसः श्रुतस्य वा सु इष्टस्य सूक्तस्य च बुद्धि-दत्तयोः । अविच्युतः अर्थः कविभिः निरूपितः यत् उत्तमश्लोक गुण-अनुवर्णनम् ॥ २२ ॥
idam hi puṃsaḥ tapasaḥ śrutasya vā su iṣṭasya sūktasya ca buddhi-dattayoḥ . avicyutaḥ arthaḥ kavibhiḥ nirūpitaḥ yat uttamaśloka guṇa-anuvarṇanam .. 22 ..
अहं पुरातीतभवेऽभवं मुने दास्यास्तु कस्याश्चन वेदवादिनाम् । निरूपितो बालक एव योगिनां शुश्रूषणे प्रावृषि निर्विविक्षताम् ॥ २३ ॥
अहम् पुरा अतीत-भवे अभवम् मुने दास्याः तु कस्याश्चन वेद-वादिनाम् । निरूपितः बालकः एव योगिनाम् शुश्रूषणे प्रावृषि निर्विविक्षताम् ॥ २३ ॥
aham purā atīta-bhave abhavam mune dāsyāḥ tu kasyāścana veda-vādinām . nirūpitaḥ bālakaḥ eva yoginām śuśrūṣaṇe prāvṛṣi nirvivikṣatām .. 23 ..
ते मय्यपेताखिलचापलेऽर्भके दान्तेऽधृतक्रीडनकेऽनुवर्तिनि । चक्रुः कृपां यद्यपि तुल्यदर्शनाः शुश्रूषमाणे मुनयोऽल्पभाषिणि ॥ २४ ॥
ते मयि अपेत-अखिल-चापले अर्भके दान्ते अधृत-क्रीडनके अनुवर्तिनि । चक्रुः कृपाम् यदि अपि तुल्य-दर्शनाः शुश्रूषमाणे मुनयः अल्प-भाषिणि ॥ २४ ॥
te mayi apeta-akhila-cāpale arbhake dānte adhṛta-krīḍanake anuvartini . cakruḥ kṛpām yadi api tulya-darśanāḥ śuśrūṣamāṇe munayaḥ alpa-bhāṣiṇi .. 24 ..
उच्छिष्टलेपाननुमोदितो द्विजैः सकृत्स्म भुञ्जे तदपास्तकिल्बिषः । एवं प्रवृत्तस्य विशुद्धचेतसः तद्धर्म एवात्मरुचिः प्रजायते ॥ २५ ॥
उच्छिष्ट-लेपान् अनुमोदितः द्विजैः सकृत् स्म भुञ्जे तद्-अपास्त-किल्बिषः । एवम् प्रवृत्तस्य विशुद्ध-चेतसः तद्-धर्मे एव आत्म-रुचिः प्रजायते ॥ २५ ॥
ucchiṣṭa-lepān anumoditaḥ dvijaiḥ sakṛt sma bhuñje tad-apāsta-kilbiṣaḥ . evam pravṛttasya viśuddha-cetasaḥ tad-dharme eva ātma-ruciḥ prajāyate .. 25 ..
तत्रान्वहं कृष्णकथाः प्रगायतां अनुग्रहेणाश्रृणवं मनोहराः । ताः श्रद्धया मेऽनुपदं विश्रृण्वतः प्रियश्रवस्यङ्ग ममाभवद् रुचिः ॥ २६ ॥
तत्र अन्वहम् कृष्ण-कथाः प्रगायताम् अनुग्रहेण अश्रृणवम् मनोहराः । ताः श्रद्धया मे अनुपदम् विश्रृण्वतः प्रियश्रवसि अङ्ग मम अभवत् रुचिः ॥ २६ ॥
tatra anvaham kṛṣṇa-kathāḥ pragāyatām anugraheṇa aśrṛṇavam manoharāḥ . tāḥ śraddhayā me anupadam viśrṛṇvataḥ priyaśravasi aṅga mama abhavat ruciḥ .. 26 ..
(वंशस्थ)
तस्मिंस्तदा लब्धरुचेर्महामते प्रियश्रवस्यस्खलिता मतिर्मम । ययाहमेतत् सदसत्स्वमायया पश्ये मयि ब्रह्मणि कल्पितं परे ॥ २७ ॥
तस्मिन् तदा लब्ध-रुचेः महामते प्रियश्रवसि अस्खलिता मतिः मम । यया अहम् एतत् सत्-असत्-स्व-मायया पश्ये मयि ब्रह्मणि कल्पितम् परे ॥ २७ ॥
tasmin tadā labdha-ruceḥ mahāmate priyaśravasi askhalitā matiḥ mama . yayā aham etat sat-asat-sva-māyayā paśye mayi brahmaṇi kalpitam pare .. 27 ..
(इंद्रवंशा) - (अनुष्टुप्)
इत्थं शरत् प्रावृषिकावृतू हरेः विश्रृण्वतो मेऽनुसवं यशोऽमलम् । सङ्कीर्त्यमानं मुनिभिर्महात्मभिः भक्तिः प्रवृत्ताऽऽत्मरजस्तमोपहा ॥ २८ ॥
इत्थम् शरद् प्रावृषिकौ ऋतू हरेः विश्रृण्वतः मे यशः अमलम् । सङ्कीर्त्यमानम् मुनिभिः महात्मभिः भक्तिः प्रवृत्ता आत्म-रजः-तमः-उपहा ॥ २८ ॥
ittham śarad prāvṛṣikau ṛtū hareḥ viśrṛṇvataḥ me yaśaḥ amalam . saṅkīrtyamānam munibhiḥ mahātmabhiḥ bhaktiḥ pravṛttā ātma-rajaḥ-tamaḥ-upahā .. 28 ..
तस्यैवं मेऽनुरक्तस्य प्रश्रितस्य हतैनसः । श्रद्दधानस्य बालस्य दान्तस्यानुचरस्य च ॥ २९ ॥
तस्य एवम् मे अनुरक्तस्य प्रश्रितस्य हत-एनसः । श्रद्दधानस्य बालस्य दान्तस्य अनुचरस्य च ॥ २९ ॥
tasya evam me anuraktasya praśritasya hata-enasaḥ . śraddadhānasya bālasya dāntasya anucarasya ca .. 29 ..
ज्ञानं गुह्यतमं यत्तत् साक्षाद्भगवतोदितम् । अन्ववोचन् गमिष्यन्तः कृपया दीनवत्सलाः ॥ ३० ॥
ज्ञानम् गुह्यतमम् यत् तत् साक्षात् भगवता उदितम् । अन्ववोचन् गमिष्यन्तः कृपया दीन-वत्सलाः ॥ ३० ॥
jñānam guhyatamam yat tat sākṣāt bhagavatā uditam . anvavocan gamiṣyantaḥ kṛpayā dīna-vatsalāḥ .. 30 ..
येनैवाहं भगवतो वासुदेवस्य वेधसः । मायानुभावमविदं येन गच्छन्ति तत्पदम् ॥ ३१ ॥
येन एव अहम् भगवतः वासुदेवस्य वेधसः । माया-अनुभावम् अविदम् येन गच्छन्ति तत् पदम् ॥ ३१ ॥
yena eva aham bhagavataḥ vāsudevasya vedhasaḥ . māyā-anubhāvam avidam yena gacchanti tat padam .. 31 ..
एतत् संसूचितं ब्रह्मन् तापत्रयचिकित्सितम् । यदीश्वरे भगवति कर्म ब्रह्मणि भावितम् ॥ ३२ ॥
एतत् संसूचितम् ब्रह्मन् ताप-त्रय-चिकित्सितम् । यदि ईश्वरे भगवति कर्म ब्रह्मणि भावितम् ॥ ३२ ॥
etat saṃsūcitam brahman tāpa-traya-cikitsitam . yadi īśvare bhagavati karma brahmaṇi bhāvitam .. 32 ..
आमयो यश्च भूतानां जायते येन सुव्रत । तदेव ह्यामयं द्रव्यं न पुनाति चिकित्सितम् ॥ ३३ ॥
आमयः यः च भूतानाम् जायते येन सुव्रत । तत् एव हि आमयम् द्रव्यम् न पुनाति चिकित्सितम् ॥ ३३ ॥
āmayaḥ yaḥ ca bhūtānām jāyate yena suvrata . tat eva hi āmayam dravyam na punāti cikitsitam .. 33 ..
एवं नृणां क्रियायोगाः सर्वे संसृतिहेतवः । त एवात्मविनाशाय कल्पन्ते कल्पिताः परे ॥ ३४ ॥
एवम् नृणाम् क्रियायोगाः सर्वे संसृति-हेतवः । ते एव आत्म-विनाशाय कल्पन्ते कल्पिताः परे ॥ ३४ ॥
evam nṛṇām kriyāyogāḥ sarve saṃsṛti-hetavaḥ . te eva ātma-vināśāya kalpante kalpitāḥ pare .. 34 ..
यदत्र क्रियते कर्म भगवत् परितोषणम् । ज्ञानं यत् तद् अधीनं हि भक्तियोगसमन्वितम् ॥ ३५ ॥
यत् अत्र क्रियते कर्म भगवत् परितोषणम् । ज्ञानम् यत् तत् अधीनम् हि भक्ति-योग-समन्वितम् ॥ ३५ ॥
yat atra kriyate karma bhagavat paritoṣaṇam . jñānam yat tat adhīnam hi bhakti-yoga-samanvitam .. 35 ..
कुर्वाणा यत्र कर्माणि भगवच्छिक्षयासकृत् । गृणन्ति गुणनामानि कृष्णस्यानुस्मरन्ति च ॥ ३६ ॥
कुर्वाणाः यत्र कर्माणि भगवत्-शिक्षया असकृत् । गृणन्ति गुण-नामानि कृष्णस्य अनुस्मरन्ति च ॥ ३६ ॥
kurvāṇāḥ yatra karmāṇi bhagavat-śikṣayā asakṛt . gṛṇanti guṇa-nāmāni kṛṣṇasya anusmaranti ca .. 36 ..
नमो भगवते तुभ्यं वासुदेवाय धीमहि । प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च ॥ ३७ ॥
नमः भगवते तुभ्यम् वासुदेवाय धीमहि । प्रद्युम्नाय अनिरुद्धाय नमः सङ्कर्षणाय च ॥ ३७ ॥
namaḥ bhagavate tubhyam vāsudevāya dhīmahi . pradyumnāya aniruddhāya namaḥ saṅkarṣaṇāya ca .. 37 ..
इति मूर्त्यभिधानेन मंत्रमूर्तिममूर्तिकम् । यजते यज्ञपुरुषं स सम्यग् दर्शनः पुमान् ॥ ३८ ॥
इति मूर्ति-अभिधानेन मंत्रमूर्तिम् अमूर्तिकम् । यजते यज्ञपुरुषम् स सम्यक् दर्शनः पुमान् ॥ ३८ ॥
iti mūrti-abhidhānena maṃtramūrtim amūrtikam . yajate yajñapuruṣam sa samyak darśanaḥ pumān .. 38 ..
इमं स्वनिगमं ब्रह्मन् अवेत्य मदनुष्ठितम् । अदान्मे ज्ञानमैश्वर्यं स्वस्मिन् भावं च केशवः ॥ ३९ ॥
इमम् स्व-निगमम् ब्रह्मन् अवेत्य मद्-अनुष्ठितम् । अदात् मे ज्ञानम् ऐश्वर्यम् स्वस्मिन् भावम् च केशवः ॥ ३९ ॥
imam sva-nigamam brahman avetya mad-anuṣṭhitam . adāt me jñānam aiśvaryam svasmin bhāvam ca keśavaḥ .. 39 ..
त्वमप्यदभ्रश्रुत विश्रुतं विभोः समाप्यते येन विदां बुभुत्सितम् । प्राख्याहि दुःखैर्मुहुरर्दितात्मनां संक्लेशनिर्वाणमुशन्ति नान्यथा ॥ ४० ॥
त्वम् अपि अदभ्र-श्रुत विश्रुतम् विभोः समाप्यते येन विदाम् बुभुत्सितम् । दुःखैः मुहुर् अर्दित-आत्मनाम् संक्लेश-निर्वाणम् उशन्ति ना अन्यथा ॥ ४० ॥
tvam api adabhra-śruta viśrutam vibhoḥ samāpyate yena vidām bubhutsitam . duḥkhaiḥ muhur ardita-ātmanām saṃkleśa-nirvāṇam uśanti nā anyathā .. 40 ..
(इंद्रवंशा)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे व्यासनारदसंवादे पञ्चमोऽध्यायः ॥ ५ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् प्रथम-स्कन्धे व्यास-नारद-संवादे पञ्चमः अध्यायः ॥ ५ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām prathama-skandhe vyāsa-nārada-saṃvāde pañcamaḥ adhyāyaḥ .. 5 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In