| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

एवं निशम्य भगवान् देवर्षेर्जन्म कर्म च । भूयः पप्रच्छ तं ब्रह्मन् व्यासः सत्यवतीसुतः ॥। १ ॥
एवम् निशम्य भगवान् देवर्षेः जन्म कर्म च । भूयस् पप्रच्छ तम् ब्रह्मन् व्यासः सत्यवती-सुतः ॥। १ ॥
evam niśamya bhagavān devarṣeḥ janma karma ca . bhūyas papraccha tam brahman vyāsaḥ satyavatī-sutaḥ ... 1 ..
सूत उवाच । - (अनुष्टुप्)
भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिस्तव । वर्तमानो वयस्याद्ये ततः किमकरोद्भवान् ॥। २ ॥
भिक्षुभिः विप्रवसिते विज्ञान-आदेष्टृभिः तव । वर्तमानः वयसि आद्ये ततस् किम् अकरोत् भवान् ॥। २ ॥
bhikṣubhiḥ vipravasite vijñāna-ādeṣṭṛbhiḥ tava . vartamānaḥ vayasi ādye tatas kim akarot bhavān ... 2 ..
व्यास उवाच ।
स्वायंभुव कया वृत्त्या वर्तितं ते परं वयः । कथं चेदमुदस्राक्षीः काले प्राप्ते कलेवरम् ॥। ३ ॥
स्वायंभुव कया वृत्त्या वर्तितम् ते परम् वयः । कथम् च इदम् उदस्राक्षीः काले प्राप्ते कलेवरम् ॥। ३ ॥
svāyaṃbhuva kayā vṛttyā vartitam te param vayaḥ . katham ca idam udasrākṣīḥ kāle prāpte kalevaram ... 3 ..
प्राक्कल्पविषयामेतां स्मृतिं ते सुरसत्तम । न ह्येष व्यवधात्काल एष सर्वनिराकृतिः ॥। ४ ॥
प्राक्कल्प-विषयाम् एताम् स्मृतिम् ते सुर-सत्तम । न हि एष व्यवधात् कालः एष सर्व-निराकृतिः ॥। ४ ॥
prākkalpa-viṣayām etām smṛtim te sura-sattama . na hi eṣa vyavadhāt kālaḥ eṣa sarva-nirākṛtiḥ ... 4 ..
भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिर्मम । वर्तमानो वयस्याद्ये तत एतदकारषम् ॥। ५ ॥
भिक्षुभिः विप्रवसिते विज्ञान-आदेष्टृभिः मम । वर्तमानः वयसि आद्ये ततस् एतत् अकारषम् ॥। ५ ॥
bhikṣubhiḥ vipravasite vijñāna-ādeṣṭṛbhiḥ mama . vartamānaḥ vayasi ādye tatas etat akāraṣam ... 5 ..
नारद उवाच ।
एकात्मजा मे जननी योषिन्मूढा च किङ्करी । मय्यात्मजेऽनन्यगतौ चक्रे स्नेहानुबंधनम् ॥। ६ ॥
एक-आत्मजा मे जननी योषित् मूढा च किङ्करी । मयि आत्मजे अनन्यगतौ चक्रे स्नेह-अनुबंधनम् ॥। ६ ॥
eka-ātmajā me jananī yoṣit mūḍhā ca kiṅkarī . mayi ātmaje ananyagatau cakre sneha-anubaṃdhanam ... 6 ..
सास्वतंत्रा न कल्पासीद् योगक्षेमं ममेच्छती । ईशस्य हि वशे लोको योषा दारुमयी यथा ॥। ७ ॥
सा अस्वतंत्रा न कल्पा आसीत् योगक्षेमम् मम इच्छती । ईशस्य हि वशे लोकः योषा दारु-मयी यथा ॥। ७ ॥
sā asvataṃtrā na kalpā āsīt yogakṣemam mama icchatī . īśasya hi vaśe lokaḥ yoṣā dāru-mayī yathā ... 7 ..
अहं च तद्ब्रह्मकुले ऊषिवांस्तदपेक्षया । दिग्देशकालाव्युत्पन्नो बालकः पञ्चहायनः ॥। ८ ॥
अहम् च तद्-ब्रह्म-कुले ऊषिवान् तद्-अपेक्षया । ॥। ८ ॥
aham ca tad-brahma-kule ūṣivān tad-apekṣayā . ... 8 ..
एकदा निर्गतां गेहाद् दुहन्तीं निशि गां पथि । सर्पोऽदशत्पदा स्पृष्टः कृपणां कालचोदितः ॥ ९ ॥
एकदा निर्गताम् गेहात् दुहन्तीम् निशि गाम् पथि । सर्पः अदशत् पदा स्पृष्टः कृपणाम् काल-चोदितः ॥ ९ ॥
ekadā nirgatām gehāt duhantīm niśi gām pathi . sarpaḥ adaśat padā spṛṣṭaḥ kṛpaṇām kāla-coditaḥ .. 9 ..
तदा तदहमीशस्य भक्तानां शमभीप्सतः । अनुग्रहं मन्यमानः प्रातिष्ठं दिशमुत्तराम् ॥ १० ॥
तदा तत् अहम् ईशस्य भक्तानाम् शम् अभीप्सतः । अनुग्रहम् मन्यमानः प्रातिष्ठम् दिशम् उत्तराम् ॥ १० ॥
tadā tat aham īśasya bhaktānām śam abhīpsataḥ . anugraham manyamānaḥ prātiṣṭham diśam uttarām .. 10 ..
स्फीताञ्जनपदांस्तत्र पुरग्रामव्रजाकरान् । खेटखर्वटवाटीश्च वनान्युपवनानि च ॥ ११ ॥
स्फीतान् जनपदान् तत्र पुर-ग्राम-व्रज-आकरान् । खेट-खर्वट-वाटीः च वनानि उपवनानि च ॥ ११ ॥
sphītān janapadān tatra pura-grāma-vraja-ākarān . kheṭa-kharvaṭa-vāṭīḥ ca vanāni upavanāni ca .. 11 ..
चित्रधातुविचित्राद्रीन् इभभग्नभुजद्रुमान् । जलाशयान् शिवजलान् नलिनीः सुरसेविताः ॥ १२ ॥
चित्र-धातु-विचित्र-अद्रीन् इभ-भग्न-भुज-द्रुमान् । जलाशयान् शिव-जलान् नलिनीः सुर-सेविताः ॥ १२ ॥
citra-dhātu-vicitra-adrīn ibha-bhagna-bhuja-drumān . jalāśayān śiva-jalān nalinīḥ sura-sevitāḥ .. 12 ..
चित्रस्वनैः पत्ररथैः विभ्रमद् भ्रमरश्रियः । नलवेणुशरस्तम्ब कुशकीचकगह्वरम् ॥ १३ ॥
चित्र-स्वनैः पत्ररथैः विभ्रमत् भ्रमर-श्रियः । नल-वेणु-शर-स्तम्ब कुश-कीचक-गह्वरम् ॥ १३ ॥
citra-svanaiḥ patrarathaiḥ vibhramat bhramara-śriyaḥ . nala-veṇu-śara-stamba kuśa-kīcaka-gahvaram .. 13 ..
एक एवातियातोऽहं अद्राक्षं विपिनं महत् । घोरं प्रतिभयाकारं व्यालोलूकशिवाजिरम् ॥ १४ ॥
एकः एव अतियातः अहम् अद्राक्षम् विपिनम् महत् । घोरम् प्रतिभया आकारम् व्याल-उलूक-शिवा-अजिरम् ॥ १४ ॥
ekaḥ eva atiyātaḥ aham adrākṣam vipinam mahat . ghoram pratibhayā ākāram vyāla-ulūka-śivā-ajiram .. 14 ..
परिश्रान्तेन्द्रियात्माहं तृट्परीतो बुभुक्षितः । स्नात्वा पीत्वा ह्रदे नद्या उपस्पृष्टो गतश्रमः ॥ १५ ॥
परिश्रान्त-इन्द्रिय-आत्मा अहम् तृष्-परीतः बुभुक्षितः । स्नात्वा पीत्वा ह्रदे नद्याः उपस्पृष्टः गत-श्रमः ॥ १५ ॥
pariśrānta-indriya-ātmā aham tṛṣ-parītaḥ bubhukṣitaḥ . snātvā pītvā hrade nadyāḥ upaspṛṣṭaḥ gata-śramaḥ .. 15 ..
तस्मिन्निर्मनुजेऽरण्ये पिप्पलोपस्थ आश्रितः । आत्मनात्मानमात्मस्थं यथाश्रुतमचिन्तयम् ॥ १६ ॥
तस्मिन् निर्मनुजे अरण्ये पिप्पल-उपस्थः आश्रितः । आत्मना आत्मानम् आत्म-स्थम् यथाश्रुतम् अचिन्तयम् ॥ १६ ॥
tasmin nirmanuje araṇye pippala-upasthaḥ āśritaḥ . ātmanā ātmānam ātma-stham yathāśrutam acintayam .. 16 ..
ध्यायतश्चरणांभोजं भावनिर्जितचेतसा । औत्कण्ठ्याश्रुकलाक्षस्य हृद्यासीन्मे शनैर्हरिः ॥ १७ ॥
ध्यायतः चरण-अंभोजम् भाव-निर्जित-चेतसा । औत्कण्ठ्य-अश्रु-कला-अक्षस्य हृदि आसीत् मे शनैस् हरिः ॥ १७ ॥
dhyāyataḥ caraṇa-aṃbhojam bhāva-nirjita-cetasā . autkaṇṭhya-aśru-kalā-akṣasya hṛdi āsīt me śanais hariḥ .. 17 ..
प्रेमातिभरनिर्भिन्न पुलकाङ्गोऽतिनिर्वृतः । आनंदसंप्लवे लीनो नापश्यमुभयं मुने ॥ १८ ॥
प्रेम-अतिभर-निर्भिन्न-पुलक-अङ्गः अति निर्वृतः । आनन्द-संप्लवे लीनः न अपश्यम् उभयम् मुने ॥ १८ ॥
prema-atibhara-nirbhinna-pulaka-aṅgaḥ ati nirvṛtaḥ . ānanda-saṃplave līnaḥ na apaśyam ubhayam mune .. 18 ..
रूपं भगवतो यत्तन् मनःकान्तं शुचापहम् । अपश्यन् सहसोत्तस्थे वैक्लव्याद् दुर्मना इव ॥ १९ ॥
रूपम् भगवतः यत् तत् मनः-कान्तम् शुचा अपहम् । अ पश्यन् सहसा उत्तस्थे वैक्लव्यात् दुर्मनाः इव ॥ १९ ॥
rūpam bhagavataḥ yat tat manaḥ-kāntam śucā apaham . a paśyan sahasā uttasthe vaiklavyāt durmanāḥ iva .. 19 ..
दिदृक्षुस्तदहं भूयः प्रणिधाय मनो हृदि । वीक्षमाणोऽपि नापश्यं अवितृप्त इवातुरः ॥ २० ॥
दिदृक्षुः तत् अहम् भूयस् प्रणिधाय मनः हृदि । वीक्षमाणः अपि न अपश्यम् अ वितृप्तः इव आतुरः ॥ २० ॥
didṛkṣuḥ tat aham bhūyas praṇidhāya manaḥ hṛdi . vīkṣamāṇaḥ api na apaśyam a vitṛptaḥ iva āturaḥ .. 20 ..
एवं यतन्तं विजने मामाहागोचरो गिराम् । गंभीरश्लक्ष्णया वाचा शुचः प्रशमयन्निव ॥ २१ ॥
एवम् यतन्तम् विजने माम् आह अगोचरः गिराम् । गंभीर-श्लक्ष्णया वाचा शुचः प्रशमयन् इव ॥ २१ ॥
evam yatantam vijane mām āha agocaraḥ girām . gaṃbhīra-ślakṣṇayā vācā śucaḥ praśamayan iva .. 21 ..
हन्तास्मिन् जन्मनि भवान् मा मां द्रष्टुमिहार्हति । अविपक्वकषायाणां दुर्दर्शोऽहं कुयोगिनाम् ॥ २२ ॥
हन्त अस्मिन् जन्मनि भवान् मा माम् द्रष्टुम् इह अर्हति । अविपक्व-कषायाणाम् दुर्दर्शः अहम् कुयोगिनाम् ॥ २२ ॥
hanta asmin janmani bhavān mā mām draṣṭum iha arhati . avipakva-kaṣāyāṇām durdarśaḥ aham kuyoginām .. 22 ..
सकृद् यद् दर्शितं रूपं एतत्कामाय तेऽनघ । मत्कामः शनकैः साधु सर्वान् मुञ्चति हृच्छयान् ॥ २३ ॥
सकृत् यत् दर्शितम् रूपम् एतत् कामाय ते अनघ । मद्-कामः शनकैस् साधु सर्वान् मुञ्चति हृच्छयान् ॥ २३ ॥
sakṛt yat darśitam rūpam etat kāmāya te anagha . mad-kāmaḥ śanakais sādhu sarvān muñcati hṛcchayān .. 23 ..
सत्सेवयाऽदीर्घया ते जाता मयि दृढा मतिः । हित्वावद्यमिमं लोकं गन्ता मज्जनतामसि ॥ २४ ॥
सत्सेवया अदीर्घया ते जाता मयि दृढा मतिः । हित्वा अवद्यम् इमम् लोकम् गन्ता मद्-जनताम् असि ॥ २४ ॥
satsevayā adīrghayā te jātā mayi dṛḍhā matiḥ . hitvā avadyam imam lokam gantā mad-janatām asi .. 24 ..
मतिर्मयि निबद्धेयं न विपद्येत कर्हिचित् । प्रजासर्गनिरोधेऽपि स्मृतिश्च मदनुग्रहात् ॥ २५ ॥
मतिः मयि निबद्धा इयम् न विपद्येत कर्हिचित् । प्रजा-सर्ग-निरोधे अपि स्मृतिः च मद्-अनुग्रहात् ॥ २५ ॥
matiḥ mayi nibaddhā iyam na vipadyeta karhicit . prajā-sarga-nirodhe api smṛtiḥ ca mad-anugrahāt .. 25 ..
एतावदुक्त्वोपरराम तन्महद् भूतं नभोलिङ्गमलिङ्गमीश्वरम् । अहं च तस्मै महतां महीयसे शीर्ष्णावनामं विदधेऽनुकंपितः ॥ २६ ॥
एतावत् उक्त्वा उपरराम तत् महत् भूतम् नभः-लिङ्गम् अलिङ्गम् ईश्वरम् । अहम् च तस्मै महताम् महीयसे विदधे अनुकंपितः ॥ २६ ॥
etāvat uktvā upararāma tat mahat bhūtam nabhaḥ-liṅgam aliṅgam īśvaram . aham ca tasmai mahatām mahīyase vidadhe anukaṃpitaḥ .. 26 ..
(इंद्रवंशा)
नामान्यनन्तस्य हतत्रपः पठन् गुह्यानि भद्राणि कृतानि च स्मरन् । गां पर्यटन् तुष्टमना गतस्पृहः कालं प्रतीक्षन् विमदो विमत्सरः ॥ २७ ॥
नामानि अनन्तस्य हतत्रपः पठन् गुह्यानि भद्राणि कृतानि च स्मरन् । गाम् पर्यटन् तुष्ट-मनाः गत-स्पृहः कालम् प्रतीक्षन् विमदः विमत्सरः ॥ २७ ॥
nāmāni anantasya hatatrapaḥ paṭhan guhyāni bhadrāṇi kṛtāni ca smaran . gām paryaṭan tuṣṭa-manāḥ gata-spṛhaḥ kālam pratīkṣan vimadaḥ vimatsaraḥ .. 27 ..
एवं कृष्णमतेर्ब्रह्मन् असक्तस्यामलात्मनः । कालः प्रादुरभूत्काले तडित्सौदामनी यथा ॥ २८ ॥
एवम् कृष्ण-मतेः ब्रह्मन् असक्तस्य अमल-आत्मनः । कालः प्रादुरभूत् काले तडित्-सौदामनी यथा ॥ २८ ॥
evam kṛṣṇa-mateḥ brahman asaktasya amala-ātmanaḥ . kālaḥ prādurabhūt kāle taḍit-saudāmanī yathā .. 28 ..
(अनुष्टुप्)
प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् । आरब्धकर्मनिर्वाणो न्यपतत् पांचभौतिकः ॥ २९ ॥
प्रयुज्यमाने मयि ताम् शुद्धाम् भागवतीम् तनुम् । आरब्ध-कर्म-निर्वाणः न्यपतत् पांचभौतिकः ॥ २९ ॥
prayujyamāne mayi tām śuddhām bhāgavatīm tanum . ārabdha-karma-nirvāṇaḥ nyapatat pāṃcabhautikaḥ .. 29 ..
कल्पान्त इदमादाय शयानेऽम्भस्युदन्वतः । शिशयिषोरनुप्राणं विविशेऽन्तरहं विभोः ॥ ३० ॥
कल्पान्ते इदम् आदाय शयाने अम्भसि उदन्वतः । शिशयिषोः अनुप्राणम् विविशे अन्तर् अहम् विभोः ॥ ३० ॥
kalpānte idam ādāya śayāne ambhasi udanvataḥ . śiśayiṣoḥ anuprāṇam viviśe antar aham vibhoḥ .. 30 ..
सहस्रयुगपर्यन्ते उत्थायेदं सिसृक्षतः । मरीचिमिश्रा ऋषयः प्राणेभ्योऽहं च जज्ञिरे ॥ ३१ ॥
सहस्र-युग-पर्यन्ते उत्थाय इदम् सिसृक्षतः । मरीचि-मिश्राः ऋषयः प्राणेभ्यः अहम् च जज्ञिरे ॥ ३१ ॥
sahasra-yuga-paryante utthāya idam sisṛkṣataḥ . marīci-miśrāḥ ṛṣayaḥ prāṇebhyaḥ aham ca jajñire .. 31 ..
अंतर्बहिश्च लोकान् त्रीन् पर्येम्यस्कन्दितव्रतः । अनुग्रहात् महाविष्णोः अविघातगतिः क्वचित् ॥ ३२ ॥
अन्तर् बहिस् च लोकान् त्रीन् पर्येमि अस्कन्दित-व्रतः । अनुग्रहात् महाविष्णोः अविघात-गतिः क्वचिद् ॥ ३२ ॥
antar bahis ca lokān trīn paryemi askandita-vrataḥ . anugrahāt mahāviṣṇoḥ avighāta-gatiḥ kvacid .. 32 ..
देवदत्तामिमां वीणां स्वरब्रह्मविभूषिताम् । मूर्च्छयित्वा हरिकथां गायमानश्चराम्यहम् ॥ ३३ ॥
देव-दत्ताम् इमाम् वीणाम् स्वरब्रह्म-विभूषिताम् । मूर्च्छयित्वा हरि-कथाम् गायमानः चरामि अहम् ॥ ३३ ॥
deva-dattām imām vīṇām svarabrahma-vibhūṣitām . mūrcchayitvā hari-kathām gāyamānaḥ carāmi aham .. 33 ..
प्रगायतः स्ववीर्याणि तीर्थपादः प्रियश्रवाः । आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥ ३४ ॥
प्रगायतः स्व-वीर्याणि तीर्थपादः प्रियश्रवाः । आहूतः इव मे शीघ्रम् दर्शनम् याति चेतसि ॥ ३४ ॥
pragāyataḥ sva-vīryāṇi tīrthapādaḥ priyaśravāḥ . āhūtaḥ iva me śīghram darśanam yāti cetasi .. 34 ..
एतद्ध्यातुरचित्तानां मात्रास्पर्शेच्छया मुहुः । भवसिन्धुप्लवो दृष्टो हरिचर्यानुवर्णनम् ॥ ३५ ॥
एतद्-ध्यातुः अचित्तानाम् मात्रा-स्पर्श-इच्छया मुहुर् । भव-सिन्धु-प्लवः दृष्टः हरि-चर्या-अनुवर्णनम् ॥ ३५ ॥
etad-dhyātuḥ acittānām mātrā-sparśa-icchayā muhur . bhava-sindhu-plavaḥ dṛṣṭaḥ hari-caryā-anuvarṇanam .. 35 ..
यमादिभिर्योगपथैः कामलोभहतो मुहुः । मुकुंदसेवया यद्वत् तथात्माद्धा न शाम्यति ॥ ३६ ॥
यम-आदिभिः योगपथैः काम-लोभ-हतः मुहुर् । मुकुन्द-सेवया यद्वत् तथा आत्मा अद्धा न शाम्यति ॥ ३६ ॥
yama-ādibhiḥ yogapathaiḥ kāma-lobha-hataḥ muhur . mukunda-sevayā yadvat tathā ātmā addhā na śāmyati .. 36 ..
सर्वं तदिदमाख्यातं यत्पृष्टोऽहं त्वयानघ । जन्मकर्मरहस्यं मे भवतश्चात्मतोषणम् ॥ ३७ ॥
सर्वम् तत् इदम् आख्यातम् यत् पृष्टः अहम् त्वया अनघ । जन्म-कर्म-रहस्यम् मे भवतः च आत्म-तोषणम् ॥ ३७ ॥
sarvam tat idam ākhyātam yat pṛṣṭaḥ aham tvayā anagha . janma-karma-rahasyam me bhavataḥ ca ātma-toṣaṇam .. 37 ..
एवं संभाष्य भगवान् नारदो वासवीसुतम् । आमंत्र्य वीणां रणयन् ययौ यादृच्छिको मुनिः ॥ ३८ ॥
एवम् संभाष्य भगवान् नारदः वासवी-सुतम् । आमंत्र्य वीणाम् रणयन् ययौ यादृच्छिकः मुनिः ॥ ३८ ॥
evam saṃbhāṣya bhagavān nāradaḥ vāsavī-sutam . āmaṃtrya vīṇām raṇayan yayau yādṛcchikaḥ muniḥ .. 38 ..
सूत उवाच ।
अहो देवर्षिर्धन्योऽयं यत्कीर्तिं शार्ङ्गधन्वनः । गायन्माद्यन्निदं तंत्र्या रमयत्यातुरं जगत् ॥ ३९ ॥
अहो देवर्षिः धन्यः अयम् यत् कीर्तिम् शार्ङ्गधन्वनः । गायन् माद्यन् इदम् तंत्र्या रमयति आतुरम् जगत् ॥ ३९ ॥
aho devarṣiḥ dhanyaḥ ayam yat kīrtim śārṅgadhanvanaḥ . gāyan mādyan idam taṃtryā ramayati āturam jagat .. 39 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे व्यासनारदसंवादे षष्ठोऽध्यायः ॥। ६ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् प्रथम-स्कन्धे व्यास-नारद-संवादे षष्ठः अध्यायः ॥। ६ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām prathama-skandhe vyāsa-nārada-saṃvāde ṣaṣṭhaḥ adhyāyaḥ ... 6 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In