| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

निर्गते नारदे सूत भगवान् बादरायणः । श्रुतवांस्तदभिप्रेतं ततः किमकरोद् विभुः ।
निर्गते नारदे सूत भगवान् बादरायणः । श्रुतवान् तद्-अभिप्रेतम् ततस् किम् अकरोत् विभुः ।
nirgate nārade sūta bhagavān bādarāyaṇaḥ . śrutavān tad-abhipretam tatas kim akarot vibhuḥ .
शौनक उवाच । - (अनुष्टुप्)
ब्रह्मनद्यां सरस्वत्यां आश्रमः पश्चिमे तटे । शम्याप्रास इति प्रोक्त ऋषीणां सत्रवर्धनः ॥। २ ॥
ब्रह्मनद्याम् सरस्वत्याम् आश्रमः पश्चिमे तटे । शम्याप्रासः इति प्रोक्तः ऋषीणाम् सत्रवर्धनः ॥। २ ॥
brahmanadyām sarasvatyām āśramaḥ paścime taṭe . śamyāprāsaḥ iti proktaḥ ṛṣīṇām satravardhanaḥ ... 2 ..
सूत उवाच ।
तस्मिन् स्व आश्रमे व्यासो बदरीषण्डमण्डिते । आसीनोऽप उपस्पृश्य प्रणिदध्यौ मनः स्वयम् ॥। ३ ॥
तस्मिन् स्वे आश्रमे व्यासः बदरी-षण्ड-मण्डिते । आसीनः अपः उपस्पृश्य प्रणिदध्यौ मनः स्वयम् ॥। ३ ॥
tasmin sve āśrame vyāsaḥ badarī-ṣaṇḍa-maṇḍite . āsīnaḥ apaḥ upaspṛśya praṇidadhyau manaḥ svayam ... 3 ..
भक्तियोगेन मनसि सम्यक् प्रणिहितेऽमले । अपश्यत् पुरुषं पूर्णं मायां च तदपाश्रयम् ॥। ४ ॥
भक्ति-योगेन मनसि सम्यक् प्रणिहिते अमले । अपश्यत् पुरुषम् पूर्णम् मायाम् च तद्-अपाश्रयम् ॥। ४ ॥
bhakti-yogena manasi samyak praṇihite amale . apaśyat puruṣam pūrṇam māyām ca tad-apāśrayam ... 4 ..
यया संमोहितो जीव आत्मानं त्रिगुणात्मकम् । परोऽपि मनुतेऽनर्थं तत्कृतं चाभिपद्यते ॥। ५ ॥
यया संमोहितः जीवः आत्मानम् त्रिगुण-आत्मकम् । परः अपि मनुते अनर्थम् तत् कृतम् च अभिपद्यते ॥। ५ ॥
yayā saṃmohitaḥ jīvaḥ ātmānam triguṇa-ātmakam . paraḥ api manute anartham tat kṛtam ca abhipadyate ... 5 ..
अनर्थोपशमं साक्षाद् भक्तियोगमधोक्षजे । लोकस्याजानतो विद्वांन् चक्रे सात्वतसंहिताम् ॥। ६ ॥
अनर्थ-उपशमम् साक्षात् भक्तियोगम् अधोक्षजे । लोकस्य अ जानतः विद्वान् चक्रे सात्वतसंहिताम् ॥। ६ ॥
anartha-upaśamam sākṣāt bhaktiyogam adhokṣaje . lokasya a jānataḥ vidvān cakre sātvatasaṃhitām ... 6 ..
यस्यां वै श्रूयमाणायां कृष्णे परमपूरुषे । भक्तिरुत्पद्यते पुंसः शोकमोहभयापहा ॥। ७ ॥
यस्याम् वै श्रूयमाणायाम् कृष्णे परमपूरुषे । भक्तिः उत्पद्यते पुंसः शोक-मोह-भय-अपहा ॥। ७ ॥
yasyām vai śrūyamāṇāyām kṛṣṇe paramapūruṣe . bhaktiḥ utpadyate puṃsaḥ śoka-moha-bhaya-apahā ... 7 ..
स संहितां भागवतीं कृत्वानुक्रम्य चात्मजम् । शुकं अध्यापयामास निवृत्तिनिरतं मुनिः ॥। ८ ॥
स संहिताम् भागवतीम् कृत्वा अनुक्रम्य च आत्मजम् । शुकम् अध्यापयामास निवृत्ति-निरतम् मुनिः ॥। ८ ॥
sa saṃhitām bhāgavatīm kṛtvā anukramya ca ātmajam . śukam adhyāpayāmāsa nivṛtti-niratam muniḥ ... 8 ..
स वै निवृत्तिनिरतः सर्वत्रोपेक्षको मुनिः । कस्य वा बृहतीं एतां आत्मारामः समभ्यसत् ॥ ९ ॥
स वै निवृत्ति-निरतः सर्वत्र उपेक्षकः मुनिः । कस्य वा बृहतीम् एताम् आत्म-आरामः ॥ ९ ॥
sa vai nivṛtti-nirataḥ sarvatra upekṣakaḥ muniḥ . kasya vā bṛhatīm etām ātma-ārāmaḥ .. 9 ..
शौनक उवाच ।
आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे । कुर्वन्ति अहैतुकीं भक्तिं इत्थंभूतगुणो हरिः ॥ १० ॥
आत्म-आरामाः च मुनयः निर्ग्रन्थाः अपि उरुक्रमे । कुर्वन्ति अहैतुकीम् भक्तिम् इत्थंभूत-गुणः हरिः ॥ १० ॥
ātma-ārāmāḥ ca munayaḥ nirgranthāḥ api urukrame . kurvanti ahaitukīm bhaktim itthaṃbhūta-guṇaḥ hariḥ .. 10 ..
सूत उवाच ।
हरेर्गुणाक्षिप्तमतिः भगवान् बादरायणिः । अध्यगान् महदाख्यानं नित्यं विष्णुजनप्रियः ॥ ११ ॥
हरेः गुण-आक्षिप्त-मतिः भगवान् बादरायणिः । अध्यगात् महत् आख्यानम् नित्यम् विष्णु-जन-प्रियः ॥ ११ ॥
hareḥ guṇa-ākṣipta-matiḥ bhagavān bādarāyaṇiḥ . adhyagāt mahat ākhyānam nityam viṣṇu-jana-priyaḥ .. 11 ..
परीक्षितोऽथ राजर्षेः जन्मकर्मविलापनम् । संस्थां च पाण्डुपुत्राणां वक्ष्ये कृष्णकथोदयम् ॥ १२ ॥
परीक्षितः अथ राजर्षेः जन्म-कर्म-विलापनम् । संस्थाम् च पाण्डु-पुत्राणाम् वक्ष्ये कृष्ण-कथा-उदयम् ॥ १२ ॥
parīkṣitaḥ atha rājarṣeḥ janma-karma-vilāpanam . saṃsthām ca pāṇḍu-putrāṇām vakṣye kṛṣṇa-kathā-udayam .. 12 ..
यदा मृधे कौरवसृञ्जयानां वीरेष्वथो वीरगतिं गतेषु । वृकोदराविद्धगदाभिमर्श भग्नोरुदण्डे धृतराष्ट्रपुत्रे ॥ १३ ॥
यदा मृधे कौरव-सृञ्जयानाम् वीरेषु अथो वीरगतिम् गतेषु । वृकोदर-आविद्ध-गद-अभिमर्श भग्नोरुदण्डे धृतराष्ट्र-पुत्रे ॥ १३ ॥
yadā mṛdhe kaurava-sṛñjayānām vīreṣu atho vīragatim gateṣu . vṛkodara-āviddha-gada-abhimarśa bhagnorudaṇḍe dhṛtarāṣṭra-putre .. 13 ..
(इंद्रवज्रा)
भर्तुः प्रियं द्रौणिरिति स्म पश्यन् कृष्णासुतानां स्वपतां शिरांसि । उपाहरद् विप्रियमेव तस्य जुगुप्सितं कर्म विगर्हयन्ति ॥ १४ ॥
भर्तुः प्रियम् द्रौणिः इति स्म पश्यन् कृष्णा-सुतानाम् स्वपताम् शिरांसि । उपाहरत् विप्रियम् एव तस्य जुगुप्सितम् कर्म विगर्हयन्ति ॥ १४ ॥
bhartuḥ priyam drauṇiḥ iti sma paśyan kṛṣṇā-sutānām svapatām śirāṃsi . upāharat vipriyam eva tasya jugupsitam karma vigarhayanti .. 14 ..
माता शिशूनां निधनं सुतानां निशम्य घोरं परितप्यमाना । तदारुदद् बाष्पकलाकुलाक्षी तां सांत्वयन्नाह किरीटमाली ॥ १५ ॥
माता शिशूनाम् निधनम् सुतानाम् निशम्य घोरम् परितप्यमाना । तदा अरुदत् बाष्प-कला-आकुल-अक्षी ताम् सांत्वयन् आह किरीटमाली ॥ १५ ॥
mātā śiśūnām nidhanam sutānām niśamya ghoram paritapyamānā . tadā arudat bāṣpa-kalā-ākula-akṣī tām sāṃtvayan āha kirīṭamālī .. 15 ..
तदा शुचस्ते प्रमृजामि भद्रे यद्ब्रह्मबंधोः शिर आततायिनः । गाण्डीवमुक्तैः विशिखैरुपाहरे त्वाक्रम्य यत्स्नास्यसि दग्धपुत्रा ॥ १६ ॥
तदा शुचः ते प्रमृजामि भद्रे यत् ब्रह्मबंधोः शिरः आततायिनः । गाण्डीव-मुक्तैः विशिखैः उपाहरे त्वा आक्रम्य यत् स्नास्यसि दग्ध-पुत्रा ॥ १६ ॥
tadā śucaḥ te pramṛjāmi bhadre yat brahmabaṃdhoḥ śiraḥ ātatāyinaḥ . gāṇḍīva-muktaiḥ viśikhaiḥ upāhare tvā ākramya yat snāsyasi dagdha-putrā .. 16 ..
इति प्रियां वल्गुविचित्रजल्पैः स सान्त्वयित्वाच्युतमित्रसूतः । अन्वाद्रवद् दंशित उग्रधन्वा कपिध्वजो गुरुपुत्रं रथेन ॥ १७ ॥
इति प्रियाम् वल्गु-विचित्र-जल्पैः स सान्त्वयित्वा अच्युत-मित्र-सूतः । अन्वाद्रवत् दंशितः उग्र-धन्वा कपिध्वजः गुरु-पुत्रम् रथेन ॥ १७ ॥
iti priyām valgu-vicitra-jalpaiḥ sa sāntvayitvā acyuta-mitra-sūtaḥ . anvādravat daṃśitaḥ ugra-dhanvā kapidhvajaḥ guru-putram rathena .. 17 ..
(उपेंद्रवज्रा)
तमापतन्तं स विलक्ष्य दूरात् कुमारहोद्विग्नमना रथेन । पराद्रवत् प्राणपरीप्सुरुर्व्यां यावद्गमं रुद्रभयाद् यथार्कः ॥ १८ ॥
तम् आपतन्तम् स विलक्ष्य दूरात् कुमार-हा उद्विग्न-मनाः रथेन । पराद्रवत् प्राण-परीप्सुः उर्व्याम् यावद्गमम् रुद्र-भयात् यथा अर्कः ॥ १८ ॥
tam āpatantam sa vilakṣya dūrāt kumāra-hā udvigna-manāḥ rathena . parādravat prāṇa-parīpsuḥ urvyām yāvadgamam rudra-bhayāt yathā arkaḥ .. 18 ..
यदाशरणमात्मानं ऐक्षत श्रान्तवाजिनम् । अस्त्रं ब्रह्मशिरो मेने आत्मत्राणं द्विजात्मजः ॥ १९ ॥
यदा शरणम् आत्मानम् ऐक्षत श्रान्त-वाजिनम् । अस्त्रम् ब्रह्मशिरः मेने आत्म-त्राणम् द्विज-आत्मजः ॥ १९ ॥
yadā śaraṇam ātmānam aikṣata śrānta-vājinam . astram brahmaśiraḥ mene ātma-trāṇam dvija-ātmajaḥ .. 19 ..
(अनुष्टुप्)
अथोपस्पृश्य सलिलं सन्दधे तत्समाहितः । अजानन् उपसंहारं प्राणकृच्छ्र उपस्थिते ॥ २० ॥
अथ उपस्पृश्य सलिलम् सन्दधे तत् समाहितः । अ जानन् उपसंहारम् प्राणकृच्छ्रे उपस्थिते ॥ २० ॥
atha upaspṛśya salilam sandadhe tat samāhitaḥ . a jānan upasaṃhāram prāṇakṛcchre upasthite .. 20 ..
ततः प्रादुष्कृतं तेजः प्रचण्डं सर्वतो दिशम् । प्राणापदमभिप्रेक्ष्य विष्णुं जिष्णुरुवाच ह ॥ २१ ॥
ततस् प्रादुष्कृतम् तेजः प्रचण्डम् सर्वतस् दिशम् । प्राण-आपदम् अभिप्रेक्ष्य विष्णुम् जिष्णुः उवाच ह ॥ २१ ॥
tatas prāduṣkṛtam tejaḥ pracaṇḍam sarvatas diśam . prāṇa-āpadam abhiprekṣya viṣṇum jiṣṇuḥ uvāca ha .. 21 ..
कृष्ण कृष्ण महाबाहो भक्तानामभयङ्कर । त्वमेको दह्यमानानां अपवर्गोऽसि संसृतेः ॥ २२ ॥
कृष्ण कृष्ण महा-बाहो भक्तानाम् अभयङ्कर । त्वम् एकः दह्यमानानाम् अपवर्गः असि संसृतेः ॥ २२ ॥
kṛṣṇa kṛṣṇa mahā-bāho bhaktānām abhayaṅkara . tvam ekaḥ dahyamānānām apavargaḥ asi saṃsṛteḥ .. 22 ..
अर्जुन उवाच ।
त्वमाद्यः पुरुषः साक्षाद् ईश्वरः प्रकृतेः परः । मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि ॥ २३ ॥
त्वम् आद्यः पुरुषः साक्षात् ईश्वरः प्रकृतेः परः । मायाम् व्युदस्य चिच्छक्त्या कैवल्ये स्थितः आत्मनि ॥ २३ ॥
tvam ādyaḥ puruṣaḥ sākṣāt īśvaraḥ prakṛteḥ paraḥ . māyām vyudasya cicchaktyā kaivalye sthitaḥ ātmani .. 23 ..
स एव जीवलोकस्य मायामोहितचेतसः । विधत्से स्वेन वीर्येण श्रेयो धर्मादिलक्षणम् ॥ २४ ॥
सः एव जीव-लोकस्य माया-मोहित-चेतसः । विधत्से स्वेन वीर्येण श्रेयः धर्म-आदि-लक्षणम् ॥ २४ ॥
saḥ eva jīva-lokasya māyā-mohita-cetasaḥ . vidhatse svena vīryeṇa śreyaḥ dharma-ādi-lakṣaṇam .. 24 ..
तथायं चावतारस्ते भुवो भारजिहीर्षया । स्वानां चानन्यभावानां अनुध्यानाय चासकृत् ॥ २५ ॥
तथा अयम् च अवतारः ते भुवः भार-जिहीर्षया । स्वानाम् च अनन्य-भावानाम् अनुध्यानाय च असकृत् ॥ २५ ॥
tathā ayam ca avatāraḥ te bhuvaḥ bhāra-jihīrṣayā . svānām ca ananya-bhāvānām anudhyānāya ca asakṛt .. 25 ..
किमिदं स्वित्कुतो वेति देवदेव न वेद्म्यहम् । सर्वतो मुखमायाति तेजः परमदारुणम् ॥ २६ ॥
किम् इदम् स्विद् कुतस् वा इति देवदेव न वेद्मि अहम् । सर्वतस् मुखम् आयाति तेजः परम-दारुणम् ॥ २६ ॥
kim idam svid kutas vā iti devadeva na vedmi aham . sarvatas mukham āyāti tejaḥ parama-dāruṇam .. 26 ..
वेत्थेदं द्रोणपुत्रस्य ब्राह्ममस्त्रं प्रदर्शितम् । नैवासौ वेद संहारं प्राणबाध उपस्थिते ॥ २७ ॥
वा इत्था इदम् द्रोणपुत्रस्य ब्राह्मम् अस्त्रम् प्रदर्शितम् । न एव असौ वेद संहारम् प्राण-बाधे उपस्थिते ॥ २७ ॥
vā itthā idam droṇaputrasya brāhmam astram pradarśitam . na eva asau veda saṃhāram prāṇa-bādhe upasthite .. 27 ..
श्रीभगवानुवाच ।
न ह्यस्यान्यतमं किञ्चिद् अस्त्रं प्रत्यवकर्शनम् । जह्यस्त्रतेज उन्नद्धं अस्त्रज्ञो ह्यस्त्रतेजसा ॥ २८ ॥
न हि अस्य अन्यतमम् किञ्चिद् अस्त्रम् प्रत्यवकर्शनम् । जहि अस्त्र-तेजः उन्नद्धम् अस्त्र-ज्ञः हि अस्त्र-तेजसा ॥ २८ ॥
na hi asya anyatamam kiñcid astram pratyavakarśanam . jahi astra-tejaḥ unnaddham astra-jñaḥ hi astra-tejasā .. 28 ..
श्रुत्वा भगवता प्रोक्तं फाल्गुनः परवीरहा । स्पृष्ट्वापस्तं परिक्रम्य ब्राह्मं ब्राह्माय संदधे ॥ २९ ॥
श्रुत्वा भगवता प्रोक्तम् फाल्गुनः पर-वीर-हा । स्पृष्ट्वा अपः तम् परिक्रम्य ब्राह्मम् ब्राह्माय संदधे ॥ २९ ॥
śrutvā bhagavatā proktam phālgunaḥ para-vīra-hā . spṛṣṭvā apaḥ tam parikramya brāhmam brāhmāya saṃdadhe .. 29 ..
सूत उवाच ।
संहत्य अन्योन्यं उभयोः तेजसी शरसंवृते । आवृत्य रोदसी खं च ववृधातेऽर्कवह्निवत् ॥ ३० ॥
संहत्य अन्योन्यम् उभयोः तेजसी शर-संवृते । आवृत्य रोदसी खम् च ववृधाते अर्क-वह्नि-वत् ॥ ३० ॥
saṃhatya anyonyam ubhayoḥ tejasī śara-saṃvṛte . āvṛtya rodasī kham ca vavṛdhāte arka-vahni-vat .. 30 ..
दृष्ट्वास्त्रतेजस्तु तयोः त्रिँल्लोकान् प्रदहन्महत् । दह्यमानाः प्रजाः सर्वाः सांवर्तकममंसत ॥ ३१ ॥
दृष्ट्वा अस्त्र-तेजः तु तयोः त्रिन् लोकान् प्रदहत् महत् । दह्यमानाः प्रजाः सर्वाः सांवर्तकम् अमंसत ॥ ३१ ॥
dṛṣṭvā astra-tejaḥ tu tayoḥ trin lokān pradahat mahat . dahyamānāḥ prajāḥ sarvāḥ sāṃvartakam amaṃsata .. 31 ..
प्रजोपप्लवमालक्ष्य लोकव्यतिकरं च तम् । मतं च वासुदेवस्य संजहारार्जुनो द्वयम् ॥ ३२ ॥
प्रजा-उपप्लवम् आलक्ष्य लोक-व्यतिकरम् च तम् । मतम् च वासुदेवस्य संजहार अर्जुनः द्वयम् ॥ ३२ ॥
prajā-upaplavam ālakṣya loka-vyatikaram ca tam . matam ca vāsudevasya saṃjahāra arjunaḥ dvayam .. 32 ..
तत आसाद्य तरसा दारुणं गौतमीसुतम् । बबंधामर्षताम्राक्षः पशुं रशनया यथा ॥ ३३ ॥
ततस् आसाद्य तरसा दारुणम् गौतमीसुतम् । बबंध आमर्ष-ताम्र-अक्षः पशुम् रशनया यथा ॥ ३३ ॥
tatas āsādya tarasā dāruṇam gautamīsutam . babaṃdha āmarṣa-tāmra-akṣaḥ paśum raśanayā yathā .. 33 ..
शिबिराय निनीषन्तं रज्ज्वा बद्ध्वा रिपुं बलात् । प्राहार्जुनं प्रकुपितो भगवान् अंबुजेक्षणः ॥ ३४ ॥
शिबिराय निनीषन्तम् रज्ज्वा बद्ध्वा रिपुम् बलात् । प्राह अर्जुनम् प्रकुपितः भगवान् अंबुज-ईक्षणः ॥ ३४ ॥
śibirāya ninīṣantam rajjvā baddhvā ripum balāt . prāha arjunam prakupitaḥ bhagavān aṃbuja-īkṣaṇaḥ .. 34 ..
मैनं पार्थार्हसि त्रातुं ब्रह्मबंधुमिमं जहि । यो असौ अनागसः सुप्तान् अवधीन्निशि बालकान् ॥ ३५ ॥
मा एनम् पार्थ अर्हसि त्रातुम् ब्रह्मबंधुम् इमम् जहि । यः असौ अनागसः सुप्तान् अवधीत् निशि बालकान् ॥ ३५ ॥
mā enam pārtha arhasi trātum brahmabaṃdhum imam jahi . yaḥ asau anāgasaḥ suptān avadhīt niśi bālakān .. 35 ..
मत्तं प्रमत्तमुन्मत्तं सुप्तं बालं स्त्रियं जडम् । प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्मवित् ॥ ३६ ॥
मत्तम् प्रमत्तम् उन्मत्तम् सुप्तम् बालम् स्त्रियम् जडम् । प्रपन्नम् विरथम् भीतम् न रिपुम् हन्ति धर्म-विद् ॥ ३६ ॥
mattam pramattam unmattam suptam bālam striyam jaḍam . prapannam viratham bhītam na ripum hanti dharma-vid .. 36 ..
स्वप्राणान्यः परप्राणैः प्रपुष्णात्यघृणः खलः । तद् वधस्तस्य हि श्रेयो यद् दोषाद्यात्यधः पुमान् ॥ ३७ ॥
स्व-प्राणान् यः पर-प्राणैः प्रपुष्णाति अघृणः खलः । तत् वधः तस्य हि श्रेयः यत् दोषात् याति अधस् पुमान् ॥ ३७ ॥
sva-prāṇān yaḥ para-prāṇaiḥ prapuṣṇāti aghṛṇaḥ khalaḥ . tat vadhaḥ tasya hi śreyaḥ yat doṣāt yāti adhas pumān .. 37 ..
प्रतिश्रुतं च भवता पाञ्चाल्यै श्रृण्वतो मम । आहरिष्ये शिरस्तस्य यस्ते मानिनि पुत्रहा ॥ ३८ ॥
प्रतिश्रुतम् च भवता पाञ्चाल्यै श्रृण्वतः मम । आहरिष्ये शिरः तस्य यः ते मानिनि पुत्र-हा ॥ ३८ ॥
pratiśrutam ca bhavatā pāñcālyai śrṛṇvataḥ mama . āhariṣye śiraḥ tasya yaḥ te mānini putra-hā .. 38 ..
तदसौ वध्यतां पाप आतताय्यात्मबंधुहा । भर्तुश्च विप्रियं वीर कृतवान् कुलपांसनः ॥ ३९ ॥
तत् असौ वध्यताम् पापः आततायी आत्मबंधु-हा । भर्तुः च विप्रियम् वीर कृतवान् कुल-पांसनः ॥ ३९ ॥
tat asau vadhyatām pāpaḥ ātatāyī ātmabaṃdhu-hā . bhartuḥ ca vipriyam vīra kṛtavān kula-pāṃsanaḥ .. 39 ..
एवं परीक्षता धर्मं पार्थः कृष्णेन चोदितः । नैच्छद् हन्तुं गुरुसुतं यद्यप्यात्महनं महान् ॥ ४० ॥
एवम् परीक्षता धर्मम् पार्थः कृष्णेन चोदितः । ना ऐच्छत् हन्तुम् गुरु-सुतम् यदि अपि आत्म-हनम् महान् ॥ ४० ॥
evam parīkṣatā dharmam pārthaḥ kṛṣṇena coditaḥ . nā aicchat hantum guru-sutam yadi api ātma-hanam mahān .. 40 ..
सूत उवाच ।
अथोपेत्य स्वशिबिरं गोविंदप्रियसारथिः । न्यवेदयत् तं प्रियायै शोचन्त्या आत्मजान् हतान् ॥ ४१ ॥
अथा उपेत्य स्व-शिबिरम् गोविंद-प्रिय-सारथिः । न्यवेदयत् तम् प्रियायै शोचन्त्यै आत्मजान् हतान् ॥ ४१ ॥
athā upetya sva-śibiram goviṃda-priya-sārathiḥ . nyavedayat tam priyāyai śocantyai ātmajān hatān .. 41 ..
तथाहृतं पशुवत्पाशबद्धं अवाङ्मुखं कर्मजुगुप्सितेन । निरीक्ष्य कृष्णापकृतं गुरोः सुतं वामस्वभावा कृपया ननाम च ॥ ४२ ॥
तथा आहृतम् पशु-वत् पाश-बद्धम् अवाङ्मुखम् कर्म-जुगुप्सितेन । निरीक्ष्य कृष्ण-अपकृतम् गुरोः सुतम् वामस्वभावा कृपया ननाम च ॥ ४२ ॥
tathā āhṛtam paśu-vat pāśa-baddham avāṅmukham karma-jugupsitena . nirīkṣya kṛṣṇa-apakṛtam guroḥ sutam vāmasvabhāvā kṛpayā nanāma ca .. 42 ..
(वंशस्थ)
उवाच चासहन्त्यस्य बंधनानयनं सती । मुच्यतां मुच्यतां एष ब्राह्मणो नितरां गुरुः ॥ ४३ ॥
उवाच च अ सहन्ति अस्य बंधन-आनयनम् सती । मुच्यताम् मुच्यताम् एष ब्राह्मणः नितराम् गुरुः ॥ ४३ ॥
uvāca ca a sahanti asya baṃdhana-ānayanam satī . mucyatām mucyatām eṣa brāhmaṇaḥ nitarām guruḥ .. 43 ..
(अनुष्टुप्)
सरहस्यो धनुर्वेदः सविसर्गोपसंयमः । अस्त्रग्रामश्च भवता शिक्षितो यदनुग्रहात् ॥ ४४ ॥
स रहस्यः धनुर्वेदः स विसर्ग-उपसंयमः । अस्त्र-ग्रामः च भवता शिक्षितः यद्-अनुग्रहात् ॥ ४४ ॥
sa rahasyaḥ dhanurvedaḥ sa visarga-upasaṃyamaḥ . astra-grāmaḥ ca bhavatā śikṣitaḥ yad-anugrahāt .. 44 ..
स एष भगवान् द्रोणः प्रजारूपेण वर्तते । तस्यात्मनोऽर्धं पत्न्याः ते नान्वगाद् वीरसूः कृपी ॥ ४५ ॥
सः एष भगवान् द्रोणः प्रजा-रूपेण वर्तते । तस्य आत्मनः अर्धम् पत्न्याः ते न अन्वगात् वीरसूः कृपी ॥ ४५ ॥
saḥ eṣa bhagavān droṇaḥ prajā-rūpeṇa vartate . tasya ātmanaḥ ardham patnyāḥ te na anvagāt vīrasūḥ kṛpī .. 45 ..
तद् धर्मज्ञ महाभाग भवद्भिः र्गौरवं कुलम् । वृजिनं नार्हति प्राप्तुं पूज्यं वन्द्यमभीक्ष्णशः ॥ ४६ ॥
तत् धर्म-ज्ञ महाभाग भवद्भिः ः गौरवम् कुलम् । वृजिनम् ना अर्हति प्राप्तुम् पूज्यम् वन्द्यम् अभीक्ष्णशस् ॥ ४६ ॥
tat dharma-jña mahābhāga bhavadbhiḥ ḥ gauravam kulam . vṛjinam nā arhati prāptum pūjyam vandyam abhīkṣṇaśas .. 46 ..
मा रोदीदस्य जननी गौतमी पतिदेवता । यथाहं मृतवत्साऽर्ता रोदिम्यश्रुमुखी मुहुः ॥ ४७ ॥
मा रोदीत् अस्य जननी गौतमी पति-देवता । यथा अहम् मृत-वत्सा आर्ता रोदिमि अश्रु-मुखी मुहुर् ॥ ४७ ॥
mā rodīt asya jananī gautamī pati-devatā . yathā aham mṛta-vatsā ārtā rodimi aśru-mukhī muhur .. 47 ..
यैः कोपितं ब्रह्मकुलं राजन्यैरजितात्मभिः । तत् कुलं प्रदहत्याशु सानुबंधं शुचार्पितम् ॥ ४८ ॥
यैः कोपितम् ब्रह्म-कुलम् राजन्यैः अजितात्मभिः । तत् कुलम् प्रदहति आशु सानुबन्धम् शुचा अर्पितम् ॥ ४८ ॥
yaiḥ kopitam brahma-kulam rājanyaiḥ ajitātmabhiḥ . tat kulam pradahati āśu sānubandham śucā arpitam .. 48 ..
धर्म्यं न्याय्यं सकरुणं निर्व्यलीकं समं महत् । राजा धर्मसुतो राज्ञ्याः प्रत्यनंदद् वचो द्विजाः ॥ ४९ ॥
धर्म्यम् न्याय्यम् स करुणम् निर्व्यलीकम् समम् महत् । राजा धर्मसुतः राज्ञ्याः प्रत्यनंदत् वचः द्विजाः ॥ ४९ ॥
dharmyam nyāyyam sa karuṇam nirvyalīkam samam mahat . rājā dharmasutaḥ rājñyāḥ pratyanaṃdat vacaḥ dvijāḥ .. 49 ..
सूत उवाच ।
नकुलः सहदेवश्च युयुधानो धनंजयः । भगवान् देवकीपुत्रो ये चान्ये याश्च योषितः ॥ ५० ॥
नकुलः सहदेवः च युयुधानः धनंजयः । भगवान् देवकीपुत्रः ये च अन्ये याः च योषितः ॥ ५० ॥
nakulaḥ sahadevaḥ ca yuyudhānaḥ dhanaṃjayaḥ . bhagavān devakīputraḥ ye ca anye yāḥ ca yoṣitaḥ .. 50 ..
तत्राहामर्षितो भीमः तस्य श्रेयान् वधः स्मृतः । न भर्तुर्नात्मनश्चार्थे योऽहन् सुप्तान् शिशून् वृथा ॥ ५१ ॥
तत्र आह अमर्षितः भीमः तस्य श्रेयान् वधः स्मृतः । न भर्तुः ना आत्मनः च अर्थे यः अहन् सुप्तान् शिशून् वृथा ॥ ५१ ॥
tatra āha amarṣitaḥ bhīmaḥ tasya śreyān vadhaḥ smṛtaḥ . na bhartuḥ nā ātmanaḥ ca arthe yaḥ ahan suptān śiśūn vṛthā .. 51 ..
निशम्य भीमगदितं द्रौपद्याश्च चतुर्भुजः । आलोक्य वदनं सख्युः इदमाह हसन्निव ॥ ५२ ॥
निशम्य भीम-गदितम् द्रौपद्याः च चतुर्भुजः । आलोक्य वदनम् सख्युः इदम् आह हसन् इव ॥ ५२ ॥
niśamya bhīma-gaditam draupadyāḥ ca caturbhujaḥ . ālokya vadanam sakhyuḥ idam āha hasan iva .. 52 ..
ब्रह्मबंधुर्न हन्तव्य आततायी वधार्हणः । मयैवोभयमाम्नातं परिपाह्यनुशासनम् ॥ ५३ ॥
ब्रह्मबंधुः न हन्तव्यः आततायी वध-अर्हणः । मया एव उभयम् आम्नातम् परिपाहि अनुशासनम् ॥ ५३ ॥
brahmabaṃdhuḥ na hantavyaḥ ātatāyī vadha-arhaṇaḥ . mayā eva ubhayam āmnātam paripāhi anuśāsanam .. 53 ..
श्रीभगवानुवाच ।
कुरु प्रतिश्रुतं सत्यं यत्तत् सांत्वयता प्रियाम् । प्रियं च भीमसेनस्य पाञ्चाल्या मह्यमेव च ॥ ५४ ॥
कुरु प्रतिश्रुतम् सत्यम् यत् तत् सांत्वयता प्रियाम् । प्रियम् च भीमसेनस्य पाञ्चाल्याः मह्यम् एव च ॥ ५४ ॥
kuru pratiśrutam satyam yat tat sāṃtvayatā priyām . priyam ca bhīmasenasya pāñcālyāḥ mahyam eva ca .. 54 ..
अर्जुनः सहसाऽऽज्ञाय हरेर्हार्दमथासिना । मणिं जहार मूर्धन्यं द्विजस्य सहमूर्धजम् ॥ ५५ ॥
अर्जुनः सहसा आज्ञाय हरेः हार्दम् अथ असिना । मणिम् जहार मूर्धन्यम् द्विजस्य सह मूर्धजम् ॥ ५५ ॥
arjunaḥ sahasā ājñāya hareḥ hārdam atha asinā . maṇim jahāra mūrdhanyam dvijasya saha mūrdhajam .. 55 ..
सूत उवाच ।
विमुच्य रशनाबद्धं बालहत्याहतप्रभम् । तेजसा मणिना हीनं शिबिरान् निरयापयत् ॥ ५६ ॥
विमुच्य रशना-बद्धम् बाल-हत्या-हत-प्रभम् । तेजसा मणिना हीनम् शिबिरात् निरयापयत् ॥ ५६ ॥
vimucya raśanā-baddham bāla-hatyā-hata-prabham . tejasā maṇinā hīnam śibirāt nirayāpayat .. 56 ..
वपनं द्रविणादानं स्थानान् निर्यापणं तथा । एष हि ब्रह्मबंधूनां वधो नान्योऽस्ति दैहिकः ॥ ५७ ॥
वपनम् द्रविण-आदानम् स्थानात् निर्यापणम् तथा । एष हि ब्रह्मबंधूनाम् वधः न अन्यः अस्ति दैहिकः ॥ ५७ ॥
vapanam draviṇa-ādānam sthānāt niryāpaṇam tathā . eṣa hi brahmabaṃdhūnām vadhaḥ na anyaḥ asti daihikaḥ .. 57 ..
पुत्रशोकातुराः सर्वे पाण्डवाः सह कृष्णया । स्वानां मृतानां यत्कृत्यं चक्रुर्निर्हरणादिकम् ॥ ५८ ॥
पुत्र-शोक-आतुराः सर्वे पाण्डवाः सह कृष्णया । स्वानाम् मृतानाम् यत् कृत्यम् चक्रुः निर्हरण-आदिकम् ॥ ५८ ॥
putra-śoka-āturāḥ sarve pāṇḍavāḥ saha kṛṣṇayā . svānām mṛtānām yat kṛtyam cakruḥ nirharaṇa-ādikam .. 58 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे द्रौणिनिग्रहो नाम सप्तमोऽध्यायः ॥। ७ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् प्रथम-स्कन्धे द्रौणिनिग्रहः नाम सप्तमः अध्यायः ॥। ७ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām prathama-skandhe drauṇinigrahaḥ nāma saptamaḥ adhyāyaḥ ... 7 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In