| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

निर्गते नारदे सूत भगवान् बादरायणः । श्रुतवांस्तदभिप्रेतं ततः किमकरोद् विभुः ।
nirgate nārade sūta bhagavān bādarāyaṇaḥ . śrutavāṃstadabhipretaṃ tataḥ kimakarod vibhuḥ .
शौनक उवाच । - (अनुष्टुप्)
ब्रह्मनद्यां सरस्वत्यां आश्रमः पश्चिमे तटे । शम्याप्रास इति प्रोक्त ऋषीणां सत्रवर्धनः ॥। २ ॥
brahmanadyāṃ sarasvatyāṃ āśramaḥ paścime taṭe . śamyāprāsa iti prokta ṛṣīṇāṃ satravardhanaḥ ... 2 ..
सूत उवाच ।
तस्मिन् स्व आश्रमे व्यासो बदरीषण्डमण्डिते । आसीनोऽप उपस्पृश्य प्रणिदध्यौ मनः स्वयम् ॥। ३ ॥
tasmin sva āśrame vyāso badarīṣaṇḍamaṇḍite . āsīno'pa upaspṛśya praṇidadhyau manaḥ svayam ... 3 ..
भक्तियोगेन मनसि सम्यक् प्रणिहितेऽमले । अपश्यत् पुरुषं पूर्णं मायां च तदपाश्रयम् ॥। ४ ॥
bhaktiyogena manasi samyak praṇihite'male . apaśyat puruṣaṃ pūrṇaṃ māyāṃ ca tadapāśrayam ... 4 ..
यया संमोहितो जीव आत्मानं त्रिगुणात्मकम् । परोऽपि मनुतेऽनर्थं तत्कृतं चाभिपद्यते ॥। ५ ॥
yayā saṃmohito jīva ātmānaṃ triguṇātmakam . paro'pi manute'narthaṃ tatkṛtaṃ cābhipadyate ... 5 ..
अनर्थोपशमं साक्षाद् भक्तियोगमधोक्षजे । लोकस्याजानतो विद्वांन् चक्रे सात्वतसंहिताम् ॥। ६ ॥
anarthopaśamaṃ sākṣād bhaktiyogamadhokṣaje . lokasyājānato vidvāṃn cakre sātvatasaṃhitām ... 6 ..
यस्यां वै श्रूयमाणायां कृष्णे परमपूरुषे । भक्तिरुत्पद्यते पुंसः शोकमोहभयापहा ॥। ७ ॥
yasyāṃ vai śrūyamāṇāyāṃ kṛṣṇe paramapūruṣe . bhaktirutpadyate puṃsaḥ śokamohabhayāpahā ... 7 ..
स संहितां भागवतीं कृत्वानुक्रम्य चात्मजम् । शुकं अध्यापयामास निवृत्तिनिरतं मुनिः ॥। ८ ॥
sa saṃhitāṃ bhāgavatīṃ kṛtvānukramya cātmajam . śukaṃ adhyāpayāmāsa nivṛttinirataṃ muniḥ ... 8 ..
स वै निवृत्तिनिरतः सर्वत्रोपेक्षको मुनिः । कस्य वा बृहतीं एतां आत्मारामः समभ्यसत् ॥ ९ ॥
sa vai nivṛttinirataḥ sarvatropekṣako muniḥ . kasya vā bṛhatīṃ etāṃ ātmārāmaḥ samabhyasat .. 9 ..
शौनक उवाच ।
आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे । कुर्वन्ति अहैतुकीं भक्तिं इत्थंभूतगुणो हरिः ॥ १० ॥
ātmārāmāśca munayo nirgranthā apyurukrame . kurvanti ahaitukīṃ bhaktiṃ itthaṃbhūtaguṇo hariḥ .. 10 ..
सूत उवाच ।
हरेर्गुणाक्षिप्तमतिः भगवान् बादरायणिः । अध्यगान् महदाख्यानं नित्यं विष्णुजनप्रियः ॥ ११ ॥
harerguṇākṣiptamatiḥ bhagavān bādarāyaṇiḥ . adhyagān mahadākhyānaṃ nityaṃ viṣṇujanapriyaḥ .. 11 ..
परीक्षितोऽथ राजर्षेः जन्मकर्मविलापनम् । संस्थां च पाण्डुपुत्राणां वक्ष्ये कृष्णकथोदयम् ॥ १२ ॥
parīkṣito'tha rājarṣeḥ janmakarmavilāpanam . saṃsthāṃ ca pāṇḍuputrāṇāṃ vakṣye kṛṣṇakathodayam .. 12 ..
यदा मृधे कौरवसृञ्जयानां वीरेष्वथो वीरगतिं गतेषु । वृकोदराविद्धगदाभिमर्श भग्नोरुदण्डे धृतराष्ट्रपुत्रे ॥ १३ ॥
yadā mṛdhe kauravasṛñjayānāṃ vīreṣvatho vīragatiṃ gateṣu . vṛkodarāviddhagadābhimarśa bhagnorudaṇḍe dhṛtarāṣṭraputre .. 13 ..
(इंद्रवज्रा)
भर्तुः प्रियं द्रौणिरिति स्म पश्यन् कृष्णासुतानां स्वपतां शिरांसि । उपाहरद् विप्रियमेव तस्य जुगुप्सितं कर्म विगर्हयन्ति ॥ १४ ॥
bhartuḥ priyaṃ drauṇiriti sma paśyan kṛṣṇāsutānāṃ svapatāṃ śirāṃsi . upāharad vipriyameva tasya jugupsitaṃ karma vigarhayanti .. 14 ..
माता शिशूनां निधनं सुतानां निशम्य घोरं परितप्यमाना । तदारुदद् बाष्पकलाकुलाक्षी तां सांत्वयन्नाह किरीटमाली ॥ १५ ॥
mātā śiśūnāṃ nidhanaṃ sutānāṃ niśamya ghoraṃ paritapyamānā . tadārudad bāṣpakalākulākṣī tāṃ sāṃtvayannāha kirīṭamālī .. 15 ..
तदा शुचस्ते प्रमृजामि भद्रे यद्ब्रह्मबंधोः शिर आततायिनः । गाण्डीवमुक्तैः विशिखैरुपाहरे त्वाक्रम्य यत्स्नास्यसि दग्धपुत्रा ॥ १६ ॥
tadā śucaste pramṛjāmi bhadre yadbrahmabaṃdhoḥ śira ātatāyinaḥ . gāṇḍīvamuktaiḥ viśikhairupāhare tvākramya yatsnāsyasi dagdhaputrā .. 16 ..
इति प्रियां वल्गुविचित्रजल्पैः स सान्त्वयित्वाच्युतमित्रसूतः । अन्वाद्रवद् दंशित उग्रधन्वा कपिध्वजो गुरुपुत्रं रथेन ॥ १७ ॥
iti priyāṃ valguvicitrajalpaiḥ sa sāntvayitvācyutamitrasūtaḥ . anvādravad daṃśita ugradhanvā kapidhvajo guruputraṃ rathena .. 17 ..
(उपेंद्रवज्रा)
तमापतन्तं स विलक्ष्य दूरात् कुमारहोद्विग्नमना रथेन । पराद्रवत् प्राणपरीप्सुरुर्व्यां यावद्गमं रुद्रभयाद् यथार्कः ॥ १८ ॥
tamāpatantaṃ sa vilakṣya dūrāt kumārahodvignamanā rathena . parādravat prāṇaparīpsururvyāṃ yāvadgamaṃ rudrabhayād yathārkaḥ .. 18 ..
यदाशरणमात्मानं ऐक्षत श्रान्तवाजिनम् । अस्त्रं ब्रह्मशिरो मेने आत्मत्राणं द्विजात्मजः ॥ १९ ॥
yadāśaraṇamātmānaṃ aikṣata śrāntavājinam . astraṃ brahmaśiro mene ātmatrāṇaṃ dvijātmajaḥ .. 19 ..
(अनुष्टुप्)
अथोपस्पृश्य सलिलं सन्दधे तत्समाहितः । अजानन् उपसंहारं प्राणकृच्छ्र उपस्थिते ॥ २० ॥
athopaspṛśya salilaṃ sandadhe tatsamāhitaḥ . ajānan upasaṃhāraṃ prāṇakṛcchra upasthite .. 20 ..
ततः प्रादुष्कृतं तेजः प्रचण्डं सर्वतो दिशम् । प्राणापदमभिप्रेक्ष्य विष्णुं जिष्णुरुवाच ह ॥ २१ ॥
tataḥ prāduṣkṛtaṃ tejaḥ pracaṇḍaṃ sarvato diśam . prāṇāpadamabhiprekṣya viṣṇuṃ jiṣṇuruvāca ha .. 21 ..
कृष्ण कृष्ण महाबाहो भक्तानामभयङ्कर । त्वमेको दह्यमानानां अपवर्गोऽसि संसृतेः ॥ २२ ॥
kṛṣṇa kṛṣṇa mahābāho bhaktānāmabhayaṅkara . tvameko dahyamānānāṃ apavargo'si saṃsṛteḥ .. 22 ..
अर्जुन उवाच ।
त्वमाद्यः पुरुषः साक्षाद् ईश्वरः प्रकृतेः परः । मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि ॥ २३ ॥
tvamādyaḥ puruṣaḥ sākṣād īśvaraḥ prakṛteḥ paraḥ . māyāṃ vyudasya cicchaktyā kaivalye sthita ātmani .. 23 ..
स एव जीवलोकस्य मायामोहितचेतसः । विधत्से स्वेन वीर्येण श्रेयो धर्मादिलक्षणम् ॥ २४ ॥
sa eva jīvalokasya māyāmohitacetasaḥ . vidhatse svena vīryeṇa śreyo dharmādilakṣaṇam .. 24 ..
तथायं चावतारस्ते भुवो भारजिहीर्षया । स्वानां चानन्यभावानां अनुध्यानाय चासकृत् ॥ २५ ॥
tathāyaṃ cāvatāraste bhuvo bhārajihīrṣayā . svānāṃ cānanyabhāvānāṃ anudhyānāya cāsakṛt .. 25 ..
किमिदं स्वित्कुतो वेति देवदेव न वेद्म्यहम् । सर्वतो मुखमायाति तेजः परमदारुणम् ॥ २६ ॥
kimidaṃ svitkuto veti devadeva na vedmyaham . sarvato mukhamāyāti tejaḥ paramadāruṇam .. 26 ..
वेत्थेदं द्रोणपुत्रस्य ब्राह्ममस्त्रं प्रदर्शितम् । नैवासौ वेद संहारं प्राणबाध उपस्थिते ॥ २७ ॥
vetthedaṃ droṇaputrasya brāhmamastraṃ pradarśitam . naivāsau veda saṃhāraṃ prāṇabādha upasthite .. 27 ..
श्रीभगवानुवाच ।
न ह्यस्यान्यतमं किञ्चिद् अस्त्रं प्रत्यवकर्शनम् । जह्यस्त्रतेज उन्नद्धं अस्त्रज्ञो ह्यस्त्रतेजसा ॥ २८ ॥
na hyasyānyatamaṃ kiñcid astraṃ pratyavakarśanam . jahyastrateja unnaddhaṃ astrajño hyastratejasā .. 28 ..
श्रुत्वा भगवता प्रोक्तं फाल्गुनः परवीरहा । स्पृष्ट्वापस्तं परिक्रम्य ब्राह्मं ब्राह्माय संदधे ॥ २९ ॥
śrutvā bhagavatā proktaṃ phālgunaḥ paravīrahā . spṛṣṭvāpastaṃ parikramya brāhmaṃ brāhmāya saṃdadhe .. 29 ..
सूत उवाच ।
संहत्य अन्योन्यं उभयोः तेजसी शरसंवृते । आवृत्य रोदसी खं च ववृधातेऽर्कवह्निवत् ॥ ३० ॥
saṃhatya anyonyaṃ ubhayoḥ tejasī śarasaṃvṛte . āvṛtya rodasī khaṃ ca vavṛdhāte'rkavahnivat .. 30 ..
दृष्ट्वास्त्रतेजस्तु तयोः त्रिँल्लोकान् प्रदहन्महत् । दह्यमानाः प्रजाः सर्वाः सांवर्तकममंसत ॥ ३१ ॥
dṛṣṭvāstratejastu tayoḥ trim̐llokān pradahanmahat . dahyamānāḥ prajāḥ sarvāḥ sāṃvartakamamaṃsata .. 31 ..
प्रजोपप्लवमालक्ष्य लोकव्यतिकरं च तम् । मतं च वासुदेवस्य संजहारार्जुनो द्वयम् ॥ ३२ ॥
prajopaplavamālakṣya lokavyatikaraṃ ca tam . mataṃ ca vāsudevasya saṃjahārārjuno dvayam .. 32 ..
तत आसाद्य तरसा दारुणं गौतमीसुतम् । बबंधामर्षताम्राक्षः पशुं रशनया यथा ॥ ३३ ॥
tata āsādya tarasā dāruṇaṃ gautamīsutam . babaṃdhāmarṣatāmrākṣaḥ paśuṃ raśanayā yathā .. 33 ..
शिबिराय निनीषन्तं रज्ज्वा बद्ध्वा रिपुं बलात् । प्राहार्जुनं प्रकुपितो भगवान् अंबुजेक्षणः ॥ ३४ ॥
śibirāya ninīṣantaṃ rajjvā baddhvā ripuṃ balāt . prāhārjunaṃ prakupito bhagavān aṃbujekṣaṇaḥ .. 34 ..
मैनं पार्थार्हसि त्रातुं ब्रह्मबंधुमिमं जहि । यो असौ अनागसः सुप्तान् अवधीन्निशि बालकान् ॥ ३५ ॥
mainaṃ pārthārhasi trātuṃ brahmabaṃdhumimaṃ jahi . yo asau anāgasaḥ suptān avadhīnniśi bālakān .. 35 ..
मत्तं प्रमत्तमुन्मत्तं सुप्तं बालं स्त्रियं जडम् । प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्मवित् ॥ ३६ ॥
mattaṃ pramattamunmattaṃ suptaṃ bālaṃ striyaṃ jaḍam . prapannaṃ virathaṃ bhītaṃ na ripuṃ hanti dharmavit .. 36 ..
स्वप्राणान्यः परप्राणैः प्रपुष्णात्यघृणः खलः । तद् वधस्तस्य हि श्रेयो यद् दोषाद्यात्यधः पुमान् ॥ ३७ ॥
svaprāṇānyaḥ paraprāṇaiḥ prapuṣṇātyaghṛṇaḥ khalaḥ . tad vadhastasya hi śreyo yad doṣādyātyadhaḥ pumān .. 37 ..
प्रतिश्रुतं च भवता पाञ्चाल्यै श्रृण्वतो मम । आहरिष्ये शिरस्तस्य यस्ते मानिनि पुत्रहा ॥ ३८ ॥
pratiśrutaṃ ca bhavatā pāñcālyai śrṛṇvato mama . āhariṣye śirastasya yaste mānini putrahā .. 38 ..
तदसौ वध्यतां पाप आतताय्यात्मबंधुहा । भर्तुश्च विप्रियं वीर कृतवान् कुलपांसनः ॥ ३९ ॥
tadasau vadhyatāṃ pāpa ātatāyyātmabaṃdhuhā . bhartuśca vipriyaṃ vīra kṛtavān kulapāṃsanaḥ .. 39 ..
एवं परीक्षता धर्मं पार्थः कृष्णेन चोदितः । नैच्छद् हन्तुं गुरुसुतं यद्यप्यात्महनं महान् ॥ ४० ॥
evaṃ parīkṣatā dharmaṃ pārthaḥ kṛṣṇena coditaḥ . naicchad hantuṃ gurusutaṃ yadyapyātmahanaṃ mahān .. 40 ..
सूत उवाच ।
अथोपेत्य स्वशिबिरं गोविंदप्रियसारथिः । न्यवेदयत् तं प्रियायै शोचन्त्या आत्मजान् हतान् ॥ ४१ ॥
athopetya svaśibiraṃ goviṃdapriyasārathiḥ . nyavedayat taṃ priyāyai śocantyā ātmajān hatān .. 41 ..
तथाहृतं पशुवत्पाशबद्धं अवाङ्मुखं कर्मजुगुप्सितेन । निरीक्ष्य कृष्णापकृतं गुरोः सुतं वामस्वभावा कृपया ननाम च ॥ ४२ ॥
tathāhṛtaṃ paśuvatpāśabaddhaṃ avāṅmukhaṃ karmajugupsitena . nirīkṣya kṛṣṇāpakṛtaṃ guroḥ sutaṃ vāmasvabhāvā kṛpayā nanāma ca .. 42 ..
(वंशस्थ)
उवाच चासहन्त्यस्य बंधनानयनं सती । मुच्यतां मुच्यतां एष ब्राह्मणो नितरां गुरुः ॥ ४३ ॥
uvāca cāsahantyasya baṃdhanānayanaṃ satī . mucyatāṃ mucyatāṃ eṣa brāhmaṇo nitarāṃ guruḥ .. 43 ..
(अनुष्टुप्)
सरहस्यो धनुर्वेदः सविसर्गोपसंयमः । अस्त्रग्रामश्च भवता शिक्षितो यदनुग्रहात् ॥ ४४ ॥
sarahasyo dhanurvedaḥ savisargopasaṃyamaḥ . astragrāmaśca bhavatā śikṣito yadanugrahāt .. 44 ..
स एष भगवान् द्रोणः प्रजारूपेण वर्तते । तस्यात्मनोऽर्धं पत्न्याः ते नान्वगाद् वीरसूः कृपी ॥ ४५ ॥
sa eṣa bhagavān droṇaḥ prajārūpeṇa vartate . tasyātmano'rdhaṃ patnyāḥ te nānvagād vīrasūḥ kṛpī .. 45 ..
तद् धर्मज्ञ महाभाग भवद्भिः र्गौरवं कुलम् । वृजिनं नार्हति प्राप्तुं पूज्यं वन्द्यमभीक्ष्णशः ॥ ४६ ॥
tad dharmajña mahābhāga bhavadbhiḥ rgauravaṃ kulam . vṛjinaṃ nārhati prāptuṃ pūjyaṃ vandyamabhīkṣṇaśaḥ .. 46 ..
मा रोदीदस्य जननी गौतमी पतिदेवता । यथाहं मृतवत्साऽर्ता रोदिम्यश्रुमुखी मुहुः ॥ ४७ ॥
mā rodīdasya jananī gautamī patidevatā . yathāhaṃ mṛtavatsā'rtā rodimyaśrumukhī muhuḥ .. 47 ..
यैः कोपितं ब्रह्मकुलं राजन्यैरजितात्मभिः । तत् कुलं प्रदहत्याशु सानुबंधं शुचार्पितम् ॥ ४८ ॥
yaiḥ kopitaṃ brahmakulaṃ rājanyairajitātmabhiḥ . tat kulaṃ pradahatyāśu sānubaṃdhaṃ śucārpitam .. 48 ..
धर्म्यं न्याय्यं सकरुणं निर्व्यलीकं समं महत् । राजा धर्मसुतो राज्ञ्याः प्रत्यनंदद् वचो द्विजाः ॥ ४९ ॥
dharmyaṃ nyāyyaṃ sakaruṇaṃ nirvyalīkaṃ samaṃ mahat . rājā dharmasuto rājñyāḥ pratyanaṃdad vaco dvijāḥ .. 49 ..
सूत उवाच ।
नकुलः सहदेवश्च युयुधानो धनंजयः । भगवान् देवकीपुत्रो ये चान्ये याश्च योषितः ॥ ५० ॥
nakulaḥ sahadevaśca yuyudhāno dhanaṃjayaḥ . bhagavān devakīputro ye cānye yāśca yoṣitaḥ .. 50 ..
तत्राहामर्षितो भीमः तस्य श्रेयान् वधः स्मृतः । न भर्तुर्नात्मनश्चार्थे योऽहन् सुप्तान् शिशून् वृथा ॥ ५१ ॥
tatrāhāmarṣito bhīmaḥ tasya śreyān vadhaḥ smṛtaḥ . na bharturnātmanaścārthe yo'han suptān śiśūn vṛthā .. 51 ..
निशम्य भीमगदितं द्रौपद्याश्च चतुर्भुजः । आलोक्य वदनं सख्युः इदमाह हसन्निव ॥ ५२ ॥
niśamya bhīmagaditaṃ draupadyāśca caturbhujaḥ . ālokya vadanaṃ sakhyuḥ idamāha hasanniva .. 52 ..
ब्रह्मबंधुर्न हन्तव्य आततायी वधार्हणः । मयैवोभयमाम्नातं परिपाह्यनुशासनम् ॥ ५३ ॥
brahmabaṃdhurna hantavya ātatāyī vadhārhaṇaḥ . mayaivobhayamāmnātaṃ paripāhyanuśāsanam .. 53 ..
श्रीभगवानुवाच ।
कुरु प्रतिश्रुतं सत्यं यत्तत् सांत्वयता प्रियाम् । प्रियं च भीमसेनस्य पाञ्चाल्या मह्यमेव च ॥ ५४ ॥
kuru pratiśrutaṃ satyaṃ yattat sāṃtvayatā priyām . priyaṃ ca bhīmasenasya pāñcālyā mahyameva ca .. 54 ..
अर्जुनः सहसाऽऽज्ञाय हरेर्हार्दमथासिना । मणिं जहार मूर्धन्यं द्विजस्य सहमूर्धजम् ॥ ५५ ॥
arjunaḥ sahasā''jñāya harerhārdamathāsinā . maṇiṃ jahāra mūrdhanyaṃ dvijasya sahamūrdhajam .. 55 ..
सूत उवाच ।
विमुच्य रशनाबद्धं बालहत्याहतप्रभम् । तेजसा मणिना हीनं शिबिरान् निरयापयत् ॥ ५६ ॥
vimucya raśanābaddhaṃ bālahatyāhataprabham . tejasā maṇinā hīnaṃ śibirān nirayāpayat .. 56 ..
वपनं द्रविणादानं स्थानान् निर्यापणं तथा । एष हि ब्रह्मबंधूनां वधो नान्योऽस्ति दैहिकः ॥ ५७ ॥
vapanaṃ draviṇādānaṃ sthānān niryāpaṇaṃ tathā . eṣa hi brahmabaṃdhūnāṃ vadho nānyo'sti daihikaḥ .. 57 ..
पुत्रशोकातुराः सर्वे पाण्डवाः सह कृष्णया । स्वानां मृतानां यत्कृत्यं चक्रुर्निर्हरणादिकम् ॥ ५८ ॥
putraśokāturāḥ sarve pāṇḍavāḥ saha kṛṣṇayā . svānāṃ mṛtānāṃ yatkṛtyaṃ cakrurnirharaṇādikam .. 58 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे द्रौणिनिग्रहो नाम सप्तमोऽध्यायः ॥। ७ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ prathamaskandhe drauṇinigraho nāma saptamo'dhyāyaḥ ... 7 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In