| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

अथ ते सम्परेतानां स्वानामुदकमिच्छताम् । दातुं सकृष्णा गङ्गायां पुरस्कृत्य ययुः स्त्रियः ॥। १ ॥
अथ ते सम्परेतानाम् स्वानाम् उदकम् इच्छताम् । दातुम् स कृष्णाः गङ्गायाम् पुरस्कृत्य ययुः स्त्रियः ॥। १ ॥
atha te samparetānām svānām udakam icchatām . dātum sa kṛṣṇāḥ gaṅgāyām puraskṛtya yayuḥ striyaḥ ... 1 ..
सूत उवाच ।
ते निनीयोदकं सर्वे विलप्य च भृशं पुनः । आप्लुता हरिपादाब्जः अजःपूतसरिज्जले ॥। २ ॥
ते निनीय उदकम् सर्वे विलप्य च भृशम् पुनर् । आप्लुता हरि-पाद-अब्जः अजःपूत-सरित्-जले ॥। २ ॥
te ninīya udakam sarve vilapya ca bhṛśam punar . āplutā hari-pāda-abjaḥ ajaḥpūta-sarit-jale ... 2 ..
(अनुष्टुप्)
तत्रासीनं कुरुपतिं धृतराष्ट्रं सहानुजम् । गान्धारीं पुत्रशोकार्तां पृथां कृष्णां च माधवः ॥। ३ ॥
तत्र आसीनम् कुरु-पतिम् धृतराष्ट्रम् सहानुजम् । गान्धारीम् पुत्र-शोक-आर्ताम् पृथाम् कृष्णाम् च माधवः ॥। ३ ॥
tatra āsīnam kuru-patim dhṛtarāṣṭram sahānujam . gāndhārīm putra-śoka-ārtām pṛthām kṛṣṇām ca mādhavaḥ ... 3 ..
सांत्वयामास मुनिभिः हतबंधून् शुचार्पितान् । भूतेषु कालस्य गतिं दर्शयन् अप्रतिक्रियाम् ॥। ४ ॥
सांत्वयामास मुनिभिः हत-बंधून् शुचा अर्पितान् । भूतेषु कालस्य गतिम् दर्शयन् अ प्रतिक्रियाम् ॥। ४ ॥
sāṃtvayāmāsa munibhiḥ hata-baṃdhūn śucā arpitān . bhūteṣu kālasya gatim darśayan a pratikriyām ... 4 ..
साधयित्वाजातशत्रोः स्वं राज्यं कितवैर्हृतम् । घातयित्वासतो राज्ञः कचस्पर्शक्षतायुषः ॥। ५ ॥
साधयित्वा अजातशत्रोः स्वम् राज्यम् कितवैः हृतम् । घातयित्वा असतः राज्ञः कच-स्पर्श-क्षत-आयुषः ॥। ५ ॥
sādhayitvā ajātaśatroḥ svam rājyam kitavaiḥ hṛtam . ghātayitvā asataḥ rājñaḥ kaca-sparśa-kṣata-āyuṣaḥ ... 5 ..
याजयित्वाश्वमेधैस्तं त्रिभिरुत्तमकल्पकैः । तद्यशः पावनं दिक्षु शतमन्योरिवातनोत् ॥। ६ ॥
याजयित्वा अश्वमेधैः तम् त्रिभिः उत्तम-कल्पकैः । तत् यशः पावनम् दिक्षु शतमन्योः इव अतनोत् ॥। ६ ॥
yājayitvā aśvamedhaiḥ tam tribhiḥ uttama-kalpakaiḥ . tat yaśaḥ pāvanam dikṣu śatamanyoḥ iva atanot ... 6 ..
आमंत्र्य पाण्डुपुत्रांश्च शैनेयोद्धवसंयुतः । द्वैपायनादिभिर्विप्रैः पूजितैः प्रतिपूजितः ॥। ७ ॥
आमंत्र्य पाण्डु-पुत्रान् च शैनेय-उद्धव-संयुतः । द्वैपायन-आदिभिः विप्रैः पूजितैः प्रतिपूजितः ॥। ७ ॥
āmaṃtrya pāṇḍu-putrān ca śaineya-uddhava-saṃyutaḥ . dvaipāyana-ādibhiḥ vipraiḥ pūjitaiḥ pratipūjitaḥ ... 7 ..
गन्तुं कृतमतिर्ब्रह्मन् द्वारकां रथमास्थितः । उपलेभेऽभिधावन्तीं उत्तरां भयविह्वलाम् ॥। ८ ॥
गन्तुम् कृतमतिः ब्रह्मन् द्वारकाम् रथम् आस्थितः । उपलेभे अभिधावन्तीम् उत्तराम् भय-विह्वलाम् ॥। ८ ॥
gantum kṛtamatiḥ brahman dvārakām ratham āsthitaḥ . upalebhe abhidhāvantīm uttarām bhaya-vihvalām ... 8 ..
पाहि पाहि महायोगिन् देवदेव जगत्पते । नान्यं त्वदभयं पश्ये यत्र मृत्युः परस्परम् ॥ ९ ॥
पाहि पाहि महायोगिन् देवदेव जगत्पते । न अन्यम् त्वत् अभयम् पश्ये यत्र मृत्युः परस्परम् ॥ ९ ॥
pāhi pāhi mahāyogin devadeva jagatpate . na anyam tvat abhayam paśye yatra mṛtyuḥ parasparam .. 9 ..
उत्तरोवाच
अभिद्रवति मामीश शरस्तप्तायसो विभो । कामं दहतु मां नाथ मा मे गर्भो निपात्यताम् ॥ १० ॥
अभिद्रवति माम् ईश शरः तप्त-अयसः विभो । कामम् दहतु माम् नाथ मा मे गर्भः निपात्यताम् ॥ १० ॥
abhidravati mām īśa śaraḥ tapta-ayasaḥ vibho . kāmam dahatu mām nātha mā me garbhaḥ nipātyatām .. 10 ..
उपधार्य वचस्तस्या भगवान् भक्तवत्सलः । अपाण्डवमिदं कर्तुं द्रौणेरस्त्रमबुध्यत ॥ ११ ॥
उपधार्य वचः तस्याः भगवान् भक्त-वत्सलः । अपाण्डवम् इदम् कर्तुम् द्रौणेः अस्त्रम् अबुध्यत ॥ ११ ॥
upadhārya vacaḥ tasyāḥ bhagavān bhakta-vatsalaḥ . apāṇḍavam idam kartum drauṇeḥ astram abudhyata .. 11 ..
सूत उवाच ।
तर्ह्येवाथ मुनिश्रेष्ठ पाण्डवाः पञ्च सायकान् । आत्मनोऽभिमुखान् दीप्तान् आलक्ष्यास्त्राण्युपाददुः ॥ १२ ॥
तर्हि एव अथ मुनि-श्रेष्ठ पाण्डवाः पञ्च सायकान् । आत्मनः अभिमुखान् दीप्तान् आलक्ष्य अस्त्राणि उपाददुः ॥ १२ ॥
tarhi eva atha muni-śreṣṭha pāṇḍavāḥ pañca sāyakān . ātmanaḥ abhimukhān dīptān ālakṣya astrāṇi upādaduḥ .. 12 ..
व्यसनं वीक्ष्य तत्तेषां अनन्यविषयात्मनाम् । सुदर्शनेन स्वास्त्रेण स्वानां रक्षां व्यधाद्विभुः ॥ १३ ॥
व्यसनम् वीक्ष्य तत् तेषाम् अनन्य-विषय-आत्मनाम् । सुदर्शनेन स्व-अस्त्रेण स्वानाम् रक्षाम् व्यधात् विभुः ॥ १३ ॥
vyasanam vīkṣya tat teṣām ananya-viṣaya-ātmanām . sudarśanena sva-astreṇa svānām rakṣām vyadhāt vibhuḥ .. 13 ..
अन्तःस्थः सर्वभूतानां आत्मा योगेश्वरो हरिः । स्वमाययाऽऽवृणोद्गर्भं वैराट्याः कुरुतन्तवे ॥ १४ ॥
अन्तर् स्थः सर्व-भूतानाम् आत्मा योगेश्वरः हरिः । स्व-मायया आवृणोत् गर्भम् वैराट्याः कुरु-तन्तवे ॥ १४ ॥
antar sthaḥ sarva-bhūtānām ātmā yogeśvaraḥ hariḥ . sva-māyayā āvṛṇot garbham vairāṭyāḥ kuru-tantave .. 14 ..
यद्यप्यस्त्रं ब्रह्मशिरः त्वमोघं चाप्रतिक्रियम् । वैष्णवं तेज आसाद्य समशाम्यद् भृगूद्वह ॥ १५ ॥
यदि अपि अस्त्रम् ब्रह्मशिरः तु अमोघम् च अप्रतिक्रियम् । वैष्णवम् तेजः आसाद्य समशाम्यत् भृगूद्वह ॥ १५ ॥
yadi api astram brahmaśiraḥ tu amogham ca apratikriyam . vaiṣṇavam tejaḥ āsādya samaśāmyat bhṛgūdvaha .. 15 ..
मा मंस्था ह्येतदाश्चर्यं सर्वाश्चर्यमयेऽच्युते । य इदं मायया देव्या सृजत्यवति हन्त्यजः ॥ १६ ॥
मा हि एतत् आश्चर्यम् सर्व-आश्चर्य-मये अच्युते । यः इदम् मायया देव्या सृजति अवति हन्ति अजः ॥ १६ ॥
mā hi etat āścaryam sarva-āścarya-maye acyute . yaḥ idam māyayā devyā sṛjati avati hanti ajaḥ .. 16 ..
ब्रह्मतेजोविनिर्मुक्तैः आत्मजैः सह कृष्णया । प्रयाणाभिमुखं कृष्णं इदमाह पृथा सती ॥ १७ ॥
ब्रह्म-तेजः-विनिर्मुक्तैः आत्मजैः सह कृष्णया । प्रयाण-अभिमुखम् कृष्णम् इदम् आह पृथा सती ॥ १७ ॥
brahma-tejaḥ-vinirmuktaiḥ ātmajaiḥ saha kṛṣṇayā . prayāṇa-abhimukham kṛṣṇam idam āha pṛthā satī .. 17 ..
नमस्ये पुरुषं त्वाऽऽद्यं ईश्वरं प्रकृतेः परम् । अलक्ष्यं सर्वभूतानां अन्तर्बहिरवस्थितम् ॥ १८ ॥
नमस्ये पुरुषम् त्वा आद्यम् ईश्वरम् प्रकृतेः परम् । अलक्ष्यम् सर्व-भूतानाम् अन्तर् बहिस् अवस्थितम् ॥ १८ ॥
namasye puruṣam tvā ādyam īśvaram prakṛteḥ param . alakṣyam sarva-bhūtānām antar bahis avasthitam .. 18 ..
कुन्त्युवाच ।
मायाजवनिकाच्छन्नं अज्ञाधोक्षजमव्ययम् । न लक्ष्यसे मूढदृशा नटो नाट्यधरो यथा ॥ १९ ॥
माया-जवनिका-आच्छन्नम् अज्ञ-अधोक्षजम् अव्ययम् । न लक्ष्यसे मूढ-दृशा नटः नाट्य-धरः यथा ॥ १९ ॥
māyā-javanikā-ācchannam ajña-adhokṣajam avyayam . na lakṣyase mūḍha-dṛśā naṭaḥ nāṭya-dharaḥ yathā .. 19 ..
तथा परमहंसानां मुनीनां अमलात्मनाम् । भक्तियोगविधानार्थं कथं पश्येम हि स्त्रियः ॥ २० ॥
तथा परमहंसानाम् मुनीनाम् अमल-आत्मनाम् । भक्तियोग-विधान-अर्थम् कथम् पश्येम हि स्त्रियः ॥ २० ॥
tathā paramahaṃsānām munīnām amala-ātmanām . bhaktiyoga-vidhāna-artham katham paśyema hi striyaḥ .. 20 ..
कृष्णाय वासुदेवाय देवकीनंदनाय च । नंदगोपकुमाराय गोविंदाय नमो नमः ॥ २१ ॥
कृष्णाय वासुदेवाय देवकीनंदनाय च । नंद-गोप-कुमाराय गोविंदाय नमः नमः ॥ २१ ॥
kṛṣṇāya vāsudevāya devakīnaṃdanāya ca . naṃda-gopa-kumārāya goviṃdāya namaḥ namaḥ .. 21 ..
नमः पङ्कजनाभाय नमः पङ्कजमालिने । नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये ॥ २२ ॥
नमः पङ्कजनाभाय नमः पङ्कज-मालिने । नमः पङ्कज-नेत्राय नमः ते पङ्कज-अङ्घ्रये ॥ २२ ॥
namaḥ paṅkajanābhāya namaḥ paṅkaja-māline . namaḥ paṅkaja-netrāya namaḥ te paṅkaja-aṅghraye .. 22 ..
यथा हृषीकेश खलेन देवकी कंसेन रुद्धातिचिरं शुचार्पिता । विमोचिताहं च सहात्मजा विभो त्वयैव नाथेन मुहुर्विपद्गणात् ॥ २३ ॥
यथा हृषीकेश खलेन देवकी कंसेन रुद्धा अति चिरम् शुचा अर्पिता । विमोचिता अहम् च सह आत्मजा विभो त्वया एव नाथेन मुहुर् विपद्-गणात् ॥ २३ ॥
yathā hṛṣīkeśa khalena devakī kaṃsena ruddhā ati ciram śucā arpitā . vimocitā aham ca saha ātmajā vibho tvayā eva nāthena muhur vipad-gaṇāt .. 23 ..
(वंशस्थ)
विषान्महाग्नेः पुरुषाददर्शनाद् असत्सभाया वनवासकृच्छ्रतः । मृधे मृधेऽनेकमहारथास्त्रतो द्रौण्यस्त्रतश्चास्म हरेऽभिरक्षिताः ॥ २४ ॥
विषात् महा-अग्नेः पुरुषात् अदर्शनात् असत्-सभायाः वन-वास-कृच्छ्रतः । मृधे मृधे अनेक-महा-रथ-अस्त्रतः द्रौणि-अस्त्रतः च आस्म हरे अभिरक्षिताः ॥ २४ ॥
viṣāt mahā-agneḥ puruṣāt adarśanāt asat-sabhāyāḥ vana-vāsa-kṛcchrataḥ . mṛdhe mṛdhe aneka-mahā-ratha-astrataḥ drauṇi-astrataḥ ca āsma hare abhirakṣitāḥ .. 24 ..
विपदः सन्तु ताः शश्वत् तत्र तत्र जगद्गुरो । भवतो दर्शनं यत्स्याद् अपुनर्भवदर्शनम् ॥ २५ ॥
विपदः सन्तु ताः शश्वत् तत्र तत्र जगद्गुरो । भवतः दर्शनम् यत् स्यात् अपुनर्भव-दर्शनम् ॥ २५ ॥
vipadaḥ santu tāḥ śaśvat tatra tatra jagadguro . bhavataḥ darśanam yat syāt apunarbhava-darśanam .. 25 ..
(अनुष्टुप्)
जन्मैश्वर्यश्रुतश्रीभिः एधमानमदः पुमान् । नैवार्हत्यभिधातुं वै त्वां अकिञ्चनगोचरम् ॥ २६ ॥
जन्म-ऐश्वर्य-श्रुत-श्रीभिः एधमान-मदः पुमान् । न एव अर्हति अभिधातुम् वै त्वाम् अकिञ्चन-गोचरम् ॥ २६ ॥
janma-aiśvarya-śruta-śrībhiḥ edhamāna-madaḥ pumān . na eva arhati abhidhātum vai tvām akiñcana-gocaram .. 26 ..
नमोऽकिञ्चनवित्ताय निवृत्तगुणवृत्तये । आत्मारामाय शान्ताय कैवल्यपतये नमः ॥ २७ ॥
नमः अकिञ्चन-वित्ताय निवृत्त-गुणवृत्तये । आत्म-आरामाय शान्ताय कैवल्य-पतये नमः ॥ २७ ॥
namaḥ akiñcana-vittāya nivṛtta-guṇavṛttaye . ātma-ārāmāya śāntāya kaivalya-pataye namaḥ .. 27 ..
मन्ये त्वां कालमीशानं अनादिनिधनं विभुम् । समं चरन्तं सर्वत्र भूतानां यन्मिथः कलिः ॥ २८ ॥
मन्ये त्वाम् कालम् ईशानम् अन् आदि-निधनम् विभुम् । समम् चरन्तम् सर्वत्र भूतानाम् यत् मिथस् कलिः ॥ २८ ॥
manye tvām kālam īśānam an ādi-nidhanam vibhum . samam carantam sarvatra bhūtānām yat mithas kaliḥ .. 28 ..
न वेद कश्चिद् भगवंश्चिकीर्षितं तवेहमानस्य नृणां विडम्बनम् ।
न वेद कश्चिद् भगवन् चिकीर्षितम् तव ईहमानस्य नृणाम् विडम्बनम् ।
na veda kaścid bhagavan cikīrṣitam tava īhamānasya nṛṇām viḍambanam .
(वंशस्थ)
न यस्य कश्चिद् दयितोऽस्ति कर्हिचिद् द्वेष्यश्च यस्मिन्विषमा मतिर्नृणाम् ॥ २९ ॥
न यस्य कश्चिद् दयितः अस्ति कर्हिचित् द्वेष्यः च यस्मिन् विषमा मतिः नृणाम् ॥ २९ ॥
na yasya kaścid dayitaḥ asti karhicit dveṣyaḥ ca yasmin viṣamā matiḥ nṛṇām .. 29 ..
जन्म कर्म च विश्वात्मन् अजस्याकर्तुरात्मनः । तिर्यङ् नृषिषु यादःसु तद् अत्यन्तविडम्बनम् ॥ ३० ॥
जन्म कर्म च विश्वात्मन् अजस्य अकर्तुः आत्मनः । तिर्यक् नृषिषु यादःसु तत् अत्यन्त-विडम्बनम् ॥ ३० ॥
janma karma ca viśvātman ajasya akartuḥ ātmanaḥ . tiryak nṛṣiṣu yādaḥsu tat atyanta-viḍambanam .. 30 ..
(अनुष्टुप्)
गोप्याददे त्वयि कृतागसि दाम तावद् या ते दशाश्रुकलिल अञ्जन संभ्रमाक्षम् । वक्त्रं निनीय भयभावनया स्थितस्य सा मां विमोहयति भीरपि यद्बिभेति ॥ ३१ ॥
गोपी आददे त्वयि कृत-आगसि दाम तावत् या ते दश-अश्रु-कलिल-अञ्जन-संभ्रम-अक्षम् । वक्त्रम् निनीय भय-भावनया स्थितस्य सा माम् विमोहयति भीः अपि यत् बिभेति ॥ ३१ ॥
gopī ādade tvayi kṛta-āgasi dāma tāvat yā te daśa-aśru-kalila-añjana-saṃbhrama-akṣam . vaktram ninīya bhaya-bhāvanayā sthitasya sā mām vimohayati bhīḥ api yat bibheti .. 31 ..
(वसंततिलका)
केचिद् आहुः अजं जातं पुण्यश्लोकस्य कीर्तये । यदोः प्रियस्य अन्ववाये मलयस्येव चन्दनम् ॥ ३२ ॥
केचिद् आहुः अजम् जातम् पुण्यश्लोकस्य कीर्तये । यदोः प्रियस्य अन्ववाये मलयस्य इव चन्दनम् ॥ ३२ ॥
kecid āhuḥ ajam jātam puṇyaślokasya kīrtaye . yadoḥ priyasya anvavāye malayasya iva candanam .. 32 ..
(अनुष्टुप्)
अपरे वसुदेवस्य देवक्यां याचितोऽभ्यगात् । अजस्त्वमस्य क्षेमाय वधाय च सुरद्विषाम् ॥ ३३ ॥
अपरे वसुदेवस्य देवक्याम् याचितः अभ्यगात् । अजः त्वम् अस्य क्षेमाय वधाय च सुरद्विषाम् ॥ ३३ ॥
apare vasudevasya devakyām yācitaḥ abhyagāt . ajaḥ tvam asya kṣemāya vadhāya ca suradviṣām .. 33 ..
भारावतारणायान्ये भुवो नाव इवोदधौ । सीदन्त्या भूरिभारेण जातो ह्यात्मभुवार्थितः ॥ ३४ ॥
भार-अवतारणाय अन्ये भुवः नावः इव उदधौ । सीदन्त्याः भूरि-भारेण जातः हि आत्म-भुवा अर्थितः ॥ ३४ ॥
bhāra-avatāraṇāya anye bhuvaḥ nāvaḥ iva udadhau . sīdantyāḥ bhūri-bhāreṇa jātaḥ hi ātma-bhuvā arthitaḥ .. 34 ..
भवेऽस्मिन् क्लिश्यमानानां अविद्याकामकर्मभिः । श्रवण स्मरणार्हाणि करिष्यम् इति केचन ॥ ३५ ॥
भवे अस्मिन् क्लिश्यमानानाम् अविद्या-काम-कर्मभिः । श्रवण-स्मरणार्हाणि करिष्यम् इति केचन ॥ ३५ ॥
bhave asmin kliśyamānānām avidyā-kāma-karmabhiḥ . śravaṇa-smaraṇārhāṇi kariṣyam iti kecana .. 35 ..
श्रृण्वन्ति गायन्ति गृणन्त्यभीक्ष्णशः स्मरन्ति नन्दन्ति तवेहितं जनाः । त एव पश्यन्त्यचिरेण तावकं भवप्रवाहोपरमं पदाम्बुजम् ॥ ३६ ॥
श्रृण्वन्ति गायन्ति गृणन्ति अभीक्ष्णशस् स्मरन्ति नन्दन्ति तव ईहितम् जनाः । ते एव पश्यन्ति अचिरेण तावकम् भव-प्रवाह-उपरमम् पद-अम्बुजम् ॥ ३६ ॥
śrṛṇvanti gāyanti gṛṇanti abhīkṣṇaśas smaranti nandanti tava īhitam janāḥ . te eva paśyanti acireṇa tāvakam bhava-pravāha-uparamam pada-ambujam .. 36 ..
(वंशस्थ)
अप्यद्य नस्त्वं स्वकृतेहित प्रभो जिहाससि स्वित् सुहृदोऽनुजीविनः । येषां न चान्यत् भवतः पदाम्बुजात् परायणं राजसु योजितांहसाम् ॥ ३७ ॥
अपि अद्य नः त्वम् स्व-कृत-ईहित प्रभो जिहाससि स्विद् सुहृदः अनुजीविनः । येषाम् न च अन्यत् भवतः पद-अम्बुजात् परायणम् राजसु योजित-अंहसाम् ॥ ३७ ॥
api adya naḥ tvam sva-kṛta-īhita prabho jihāsasi svid suhṛdaḥ anujīvinaḥ . yeṣām na ca anyat bhavataḥ pada-ambujāt parāyaṇam rājasu yojita-aṃhasām .. 37 ..
के वयं नामरूपाभ्यां यदुभिः सह पाण्डवाः । भवतोऽदर्शनं यर्हि हृषीकाणां इव ईशितुः ॥ ३८ ॥
के वयम् नाम-रूपाभ्याम् यदुभिः सह पाण्डवाः । भवतः अदर्शनम् यर्हि हृषीकाणाम् इव ईशितुः ॥ ३८ ॥
ke vayam nāma-rūpābhyām yadubhiḥ saha pāṇḍavāḥ . bhavataḥ adarśanam yarhi hṛṣīkāṇām iva īśituḥ .. 38 ..
(अनुष्टुप्)
नेयं शोभिष्यते तत्र यथेदानीं गदाधर । त्वत्पदैः अङ्किता भाति स्वलक्षणविलक्षितैः ॥ ३९ ॥
न इयम् शोभिष्यते तत्र यथा इदानीम् गदाधर । त्वद्-पदैः अङ्किता भाति स्व-लक्षण-विलक्षितैः ॥ ३९ ॥
na iyam śobhiṣyate tatra yathā idānīm gadādhara . tvad-padaiḥ aṅkitā bhāti sva-lakṣaṇa-vilakṣitaiḥ .. 39 ..
इमे जनपदाः स्वृद्धाः सुपक्वौषधिवीरुधः । वनाद्रि नदी उदन्वन्तो ह्येधन्ते तव वीक्षितैः ॥ ४० ॥
इमे जनपदाः सु ऋद्धाः सुपक्व-ओषधि-वीरुधः । वन-अद्रि नदी उदन्वन्तः हि एधन्ते तव वीक्षितैः ॥ ४० ॥
ime janapadāḥ su ṛddhāḥ supakva-oṣadhi-vīrudhaḥ . vana-adri nadī udanvantaḥ hi edhante tava vīkṣitaiḥ .. 40 ..
अथ विश्वेश विश्वात्मन् विश्वमूर्ते स्वकेषु मे । स्नेहपाशं इमं छिन्धि दृढं पाण्डुषु वृष्णिषु ॥ ४१ ॥
अथ विश्वेश विश्वात्मन् विश्वमूर्ते स्वकेषु मे । स्नेह-पाशम् इमम् छिन्धि दृढम् पाण्डुषु वृष्णिषु ॥ ४१ ॥
atha viśveśa viśvātman viśvamūrte svakeṣu me . sneha-pāśam imam chindhi dṛḍham pāṇḍuṣu vṛṣṇiṣu .. 41 ..
त्वयि मेऽनन्यविषया मतिर्मधुपतेऽसकृत् । रतिं उद्वहतात् अद्धा गङ्गेवौघं उदन्वति ॥ ४२ ॥
त्वयि मे अनन्य-विषया मतिः मधुपते असकृत् । रतिम् उद्वहतात् अद्धा गङ्गा इव ओघम् उदन्वति ॥ ४२ ॥
tvayi me ananya-viṣayā matiḥ madhupate asakṛt . ratim udvahatāt addhā gaṅgā iva ogham udanvati .. 42 ..
श्रीकृष्ण कृष्णसख वृष्णि ऋषभावनिध्रुग् राजन्यवंशदहन अनपवर्ग वीर्य ।
श्रीकृष्ण कृष्णसख वृष्णि ऋषभ-अवनिद्रुह् राजन्य-वंश-दहन-अनपवर्ग-वीर्य ।
śrīkṛṣṇa kṛṣṇasakha vṛṣṇi ṛṣabha-avanidruh rājanya-vaṃśa-dahana-anapavarga-vīrya .
(वसंततिलका)
गोविन्द गोद्विजसुरार्तिहरावतार योगेश्वराखिलगुरो भगवन् नमस्ते ॥ ४३ ॥
गोविन्द गो द्विज-सुर-आर्ति-हर-अवतार योग-ईश्वर-अखिल-गुरो भगवन् नमः ते ॥ ४३ ॥
govinda go dvija-sura-ārti-hara-avatāra yoga-īśvara-akhila-guro bhagavan namaḥ te .. 43 ..
पृथयेत्थं कलपदैः परिणूताखिलोदयः । मन्दं जहास वैकुण्ठो मोहयन्निव मायया ॥ ४४ ॥
पृथया इत्थम् कल-पदैः परिणूत-अखिल-उदयः । मन्दम् जहास वैकुण्ठः मोहयन् इव मायया ॥ ४४ ॥
pṛthayā ittham kala-padaiḥ pariṇūta-akhila-udayaḥ . mandam jahāsa vaikuṇṭhaḥ mohayan iva māyayā .. 44 ..
सूत उवाच ।
तां बाढं इति उपामंत्र्य प्रविश्य गजसाह्वयम् । स्त्रियश्च स्वपुरं यास्यन् प्रेम्णा राज्ञा निवारितः ॥ ४५ ॥
ताम् बाढम् इति उपामंत्र्य प्रविश्य गजसाह्वयम् । स्त्रियः च स्व-पुरम् यास्यन् प्रेम्णा राज्ञा निवारितः ॥ ४५ ॥
tām bāḍham iti upāmaṃtrya praviśya gajasāhvayam . striyaḥ ca sva-puram yāsyan premṇā rājñā nivāritaḥ .. 45 ..
(अनुष्टुप्)
व्यासाद्यैरीश्वरेहा ज्ञैः कृष्णेनाद्भुतकर्मणा । प्रबोधितोऽपि इतिहासैः नाबुध्यत शुचार्पितः ॥ ४६ ॥
व्यास-आद्यैः ईश्वर-ईहा ज्ञैः कृष्णेन अद्भुत-कर्मणा । प्रबोधितः अपि इतिहासैः न अबुध्यत शुचा अर्पितः ॥ ४६ ॥
vyāsa-ādyaiḥ īśvara-īhā jñaiḥ kṛṣṇena adbhuta-karmaṇā . prabodhitaḥ api itihāsaiḥ na abudhyata śucā arpitaḥ .. 46 ..
आह राजा धर्मसुतः चिन्तयन् सुहृदां वधम् । प्राकृतेनात्मना विप्राः स्नेहमोहवशं गतः ॥ ४७ ॥
आह राजा धर्मसुतः चिन्तयन् सुहृदाम् वधम् । प्राकृतेन आत्मना विप्राः स्नेह-मोह-वशम् गतः ॥ ४७ ॥
āha rājā dharmasutaḥ cintayan suhṛdām vadham . prākṛtena ātmanā viprāḥ sneha-moha-vaśam gataḥ .. 47 ..
अहो मे पश्यताज्ञानं हृदि रूढं दुरात्मनः । पारक्यस्यैव देहस्य बह्व्यो मेऽक्षौहिणीर्हताः ॥ ४८ ॥
अहो मे पश्यता अज्ञानम् हृदि रूढम् दुरात्मनः । पारक्यस्य एव देहस्य बह्व्यः मे अक्षौहिणीः हताः ॥ ४८ ॥
aho me paśyatā ajñānam hṛdi rūḍham durātmanaḥ . pārakyasya eva dehasya bahvyaḥ me akṣauhiṇīḥ hatāḥ .. 48 ..
बालद्विजसुहृन् मित्र पितृभ्रातृगुरु द्रुहः । न मे स्यात् निरयात् मोक्षो ह्यपि वर्ष अयुत आयुतैः ॥ ४९ ॥
बाल-द्विज-सुहृद् मित्र पितृ-भ्रातृ-गुरु द्रुहः । न मे स्यात् निरयात् मोक्षः हि अपि वर्ष-अयुत-आयुतैः ॥ ४९ ॥
bāla-dvija-suhṛd mitra pitṛ-bhrātṛ-guru druhaḥ . na me syāt nirayāt mokṣaḥ hi api varṣa-ayuta-āyutaiḥ .. 49 ..
नैनो राज्ञः प्रजाभर्तुः धर्मयुद्धे वधो द्विषाम् । इति मे न तु बोधाय कल्पते शासनं वचः ॥ ५० ॥
न एनः राज्ञः प्रजा-भर्तुः धर्म-युद्धे वधः द्विषाम् । इति मे न तु बोधाय कल्पते शासनम् वचः ॥ ५० ॥
na enaḥ rājñaḥ prajā-bhartuḥ dharma-yuddhe vadhaḥ dviṣām . iti me na tu bodhāya kalpate śāsanam vacaḥ .. 50 ..
स्त्रीणां मत् हतबंधूनां द्रोहो योऽसौ इहोत्थितः । कर्मभिः गृहमेधीयैः नाहं कल्पो व्यपोहितुम् ॥ ५१ ॥
स्त्रीणाम् मत् हत-बंधूनाम् द्रोहः यः असौ इह उत्थितः । कर्मभिः गृहमेधीयैः न अहम् कल्पः व्यपोहितुम् ॥ ५१ ॥
strīṇām mat hata-baṃdhūnām drohaḥ yaḥ asau iha utthitaḥ . karmabhiḥ gṛhamedhīyaiḥ na aham kalpaḥ vyapohitum .. 51 ..
यथा पङ्केन पङ्काम्भः सुरया वा सुराकृतम् । भूतहत्यां तथैवैकां न यज्ञैः मार्ष्टुमर्हति ॥ ५२ ॥
यथा पङ्केन पङ्क-अम्भः सुरया वा सुरा-कृतम् । भूत-हत्याम् तथा एव एकाम् न यज्ञैः मार्ष्टुम् अर्हति ॥ ५२ ॥
yathā paṅkena paṅka-ambhaḥ surayā vā surā-kṛtam . bhūta-hatyām tathā eva ekām na yajñaiḥ mārṣṭum arhati .. 52 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे कुन्तीस्तुतिर्युधिष्ठिरानुतापो नाम अष्टमोऽध्यायः ॥ ८ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् प्रथम-स्कन्धे कुन्तीस्तुतिः युधिष्ठिरानुतापः नाम अष्टमः अध्यायः ॥ ८ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām prathama-skandhe kuntīstutiḥ yudhiṣṭhirānutāpaḥ nāma aṣṭamaḥ adhyāyaḥ .. 8 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In