| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

इति भीतः प्रजाद्रोहात् सर्वधर्मविवित्सया । ततो विनशनं प्रागाद् यत्र देवव्रतोऽपतत् ॥। १ ॥
इति भीतः प्रजा-अद्रोहात् सर्व-धर्म-विवित्सया । ततस् विनशनम् प्रागात् यत्र देवव्रतः अपतत् ॥। १ ॥
iti bhītaḥ prajā-adrohāt sarva-dharma-vivitsayā . tatas vinaśanam prāgāt yatra devavrataḥ apatat ... 1 ..
सूत उवाच ।
तदा ते भ्रातरः सर्वे सदश्वैः स्वर्णभूषितैः । अन्वगच्छन् रथैर्विप्रा व्यासधौम्यादयस्तथा ॥। २ ॥
तदा ते भ्रातरः सर्वे सत्-अश्वैः स्वर्ण-भूषितैः । अन्वगच्छन् रथैः विप्राः व्यास-धौम्य-आदयः तथा ॥। २ ॥
tadā te bhrātaraḥ sarve sat-aśvaiḥ svarṇa-bhūṣitaiḥ . anvagacchan rathaiḥ viprāḥ vyāsa-dhaumya-ādayaḥ tathā ... 2 ..
(अनुष्टुप्)
भगवानपि विप्रर्षे रथेन सधनञ्जयः । स तैर्व्यरोचत नृपः कुबेर इव गुह्यकैः ॥। ३ ॥
भगवान् अपि विप्रर्षे रथेन स धनञ्जयः । स तैः व्यरोचत नृपः कुबेरः इव गुह्यकैः ॥। ३ ॥
bhagavān api viprarṣe rathena sa dhanañjayaḥ . sa taiḥ vyarocata nṛpaḥ kuberaḥ iva guhyakaiḥ ... 3 ..
दृष्ट्वा निपतितं भूमौ दिवश्च्युतं इवामरम् । प्रणेमुः पाण्डवा भीष्मं सानुगाः सह चक्रिणा ॥। ४ ॥
दृष्ट्वा निपतितम् भूमौ दिवः च्युतम् इव अमरम् । प्रणेमुः पाण्डवाः भीष्मम् स अनुगाः सह चक्रिणा ॥। ४ ॥
dṛṣṭvā nipatitam bhūmau divaḥ cyutam iva amaram . praṇemuḥ pāṇḍavāḥ bhīṣmam sa anugāḥ saha cakriṇā ... 4 ..
तत्र ब्रह्मर्षयः सर्वे देवर्षयश्च सत्तम । राजर्षयश्च तत्रासन् द्रष्टुं भरतपुङ्गवम् ॥। ५ ॥
तत्र ब्रह्मर्षयः सर्वे देवर्षयः च सत्तम । राजर्षयः च तत्र आसन् द्रष्टुम् भरत-पुङ्गवम् ॥। ५ ॥
tatra brahmarṣayaḥ sarve devarṣayaḥ ca sattama . rājarṣayaḥ ca tatra āsan draṣṭum bharata-puṅgavam ... 5 ..
पर्वतो नारदो धौम्यो भगवान् बादरायणः । बृहदश्वो भरद्वाजः सशिष्यो रेणुकासुतः ॥। ६ ॥
पर्वतः नारदः धौम्यः भगवान् बादरायणः । बृहदश्वः भरद्वाजः स शिष्यः रेणुका-सुतः ॥। ६ ॥
parvataḥ nāradaḥ dhaumyaḥ bhagavān bādarāyaṇaḥ . bṛhadaśvaḥ bharadvājaḥ sa śiṣyaḥ reṇukā-sutaḥ ... 6 ..
वसिष्ठ इन्द्रप्रमदः त्रितो गृत्समदोऽसितः । कक्षीवान् गौतमोऽत्रिश्च कौशिकोऽथ सुदर्शनः ॥। ७ ॥
वसिष्ठः इन्द्रप्रमदः त्रितः गृत्समदः असितः । कक्षीवान् गौतमः अत्रिः च कौशिकः अथ सुदर्शनः ॥। ७ ॥
vasiṣṭhaḥ indrapramadaḥ tritaḥ gṛtsamadaḥ asitaḥ . kakṣīvān gautamaḥ atriḥ ca kauśikaḥ atha sudarśanaḥ ... 7 ..
अन्ये च मुनयो ब्रह्मन् ब्रह्मरातादयोऽमलाः । शिष्यैरुपेता आजग्मुः कश्यपाङ्गिरसादयः ॥। ८ ॥
अन्ये च मुनयः ब्रह्मन् ब्रह्मरात-आदयः अमलाः । शिष्यैः उपेताः आजग्मुः कश्यप-अङ्गिरस-आदयः ॥। ८ ॥
anye ca munayaḥ brahman brahmarāta-ādayaḥ amalāḥ . śiṣyaiḥ upetāḥ ājagmuḥ kaśyapa-aṅgirasa-ādayaḥ ... 8 ..
तान् समेतान् महाभागान् उपलभ्य वसूत्तमः । पूजयामास धर्मज्ञो देशकालविभागवित् ॥ ९ ॥
तान् समेतान् महाभागान् उपलभ्य वसूत्तमः । पूजयामास धर्म-ज्ञः देश-काल-विभाग-विद् ॥ ९ ॥
tān sametān mahābhāgān upalabhya vasūttamaḥ . pūjayāmāsa dharma-jñaḥ deśa-kāla-vibhāga-vid .. 9 ..
कृष्णं च तत्प्रभावज्ञ आसीनं जगदीश्वरम् । हृदिस्थं पूजयामास माययोपात्त विग्रहम् ॥ १० ॥
कृष्णम् च तद्-प्रभाव-ज्ञः आसीनम् जगत्-ईश्वरम् । हृदिस्थम् पूजयामास मायया उपात्त-विग्रहम् ॥ १० ॥
kṛṣṇam ca tad-prabhāva-jñaḥ āsīnam jagat-īśvaram . hṛdistham pūjayāmāsa māyayā upātta-vigraham .. 10 ..
पाण्डुपुत्रान् उपासीनान् प्रश्रयप्रेमसङ्गतान् । अभ्याचष्टानुरागाश्रैः अन्धीभूतेन चक्षुषा ॥ ११ ॥
पाण्डु-पुत्रान् उपासीनान् प्रश्रय-प्रेम-सङ्ग-तान् । अन्धीभूतेन चक्षुषा ॥ ११ ॥
pāṇḍu-putrān upāsīnān praśraya-prema-saṅga-tān . andhībhūtena cakṣuṣā .. 11 ..
अहो कष्टमहोऽन्याय्यं यद् यूयं धर्मनन्दनाः । जीवितुं नार्हथ क्लिष्टं विप्रधर्माच्युताश्रयाः ॥ १२ ॥
अहो कष्टम् अहो अन्याय्यम् यत् यूयम् धर्म-नन्दनाः । जीवितुम् ना अर्हथ क्लिष्टम् विप्र-धर्म-अच्युत-आश्रयाः ॥ १२ ॥
aho kaṣṭam aho anyāyyam yat yūyam dharma-nandanāḥ . jīvitum nā arhatha kliṣṭam vipra-dharma-acyuta-āśrayāḥ .. 12 ..
संस्थितेऽतिरथे पाण्डौ पृथा बालप्रजा वधूः । युष्मत्कृते बहून् क्लेशान् प्राप्ता तोकवती मुहुः ॥ १३ ॥
संस्थिते अतिरथे पाण्डौ पृथा बाल-प्रजा वधूः । युष्मद्-कृते बहून् क्लेशान् प्राप्ता तोकवती मुहुर् ॥ १३ ॥
saṃsthite atirathe pāṇḍau pṛthā bāla-prajā vadhūḥ . yuṣmad-kṛte bahūn kleśān prāptā tokavatī muhur .. 13 ..
सर्वं कालकृतं मन्ये भवतां च यदप्रियम् । सपालो यद्वशे लोको वायोरिव घनावलिः ॥ १४ ॥
सर्वम् काल-कृतम् मन्ये भवताम् च यत् अप्रियम् । स पालः यद्-वशे लोकः वायोः इव घन-आवलिः ॥ १४ ॥
sarvam kāla-kṛtam manye bhavatām ca yat apriyam . sa pālaḥ yad-vaśe lokaḥ vāyoḥ iva ghana-āvaliḥ .. 14 ..
यत्र धर्मसुतो राजा गदापाणिर्वृकोदरः । कृष्णोऽस्त्री गाण्डिवं चापं सुहृत् कृष्णः ततो विपत् ॥ १५ ॥
यत्र धर्मसुतः राजा गदा-पाणिः वृकोदरः । कृष्णः अस्त्री गाण्डिवम् चापम् सुहृद् कृष्णः ततस् विपद् ॥ १५ ॥
yatra dharmasutaḥ rājā gadā-pāṇiḥ vṛkodaraḥ . kṛṣṇaḥ astrī gāṇḍivam cāpam suhṛd kṛṣṇaḥ tatas vipad .. 15 ..
न ह्यस्य कर्हिचित् राजन् पुमान् वेद विधित्सितम् । यत् विजिज्ञासया युक्ता मुह्यन्ति कवयोऽपि हि ॥ १६ ॥
न हि अस्य कर्हिचित् राजन् पुमान् वेद विधित्सितम् । यत् विजिज्ञासया युक्ताः मुह्यन्ति कवयः अपि हि ॥ १६ ॥
na hi asya karhicit rājan pumān veda vidhitsitam . yat vijijñāsayā yuktāḥ muhyanti kavayaḥ api hi .. 16 ..
तस्मात् इदं दैवतंत्रं व्यवस्य भरतर्षभ । तस्यानुविहितोऽनाथा नाथ पाहि प्रजाः प्रभो ॥ १७ ॥
तस्मात् इदम् दैवतंत्रम् व्यवस्य भरत-ऋषभ । तस्य अनुविहितः अनाथाः नाथ पाहि प्रजाः प्रभो ॥ १७ ॥
tasmāt idam daivataṃtram vyavasya bharata-ṛṣabha . tasya anuvihitaḥ anāthāḥ nātha pāhi prajāḥ prabho .. 17 ..
एष वै भगवान् साक्षात् आद्यो नारायणः पुमान् । मोहयन् मायया लोकं गूढश्चरति वृष्णिषु ॥ १८ ॥
एष वै भगवान् साक्षात् आद्यः नारायणः पुमान् । मोहयन् मायया लोकम् गूढः चरति वृष्णिषु ॥ १८ ॥
eṣa vai bhagavān sākṣāt ādyaḥ nārāyaṇaḥ pumān . mohayan māyayā lokam gūḍhaḥ carati vṛṣṇiṣu .. 18 ..
अस्यानुभावं भगवान् वेद गुह्यतमं शिवः । देवर्षिर्नारदः साक्षात् भगवान् कपिलो नृप ॥ १९ ॥
अस्य अनुभावम् भगवान् वेद गुह्यतमम् शिवः । देव-ऋषिः नारदः साक्षात् भगवान् कपिलः नृप ॥ १९ ॥
asya anubhāvam bhagavān veda guhyatamam śivaḥ . deva-ṛṣiḥ nāradaḥ sākṣāt bhagavān kapilaḥ nṛpa .. 19 ..
यं मन्यसे मातुलेयं प्रियं मित्रं सुहृत्तमम् । अकरोः सचिवं दूतं सौहृदादथ सारथिम् ॥ २० ॥
यम् मन्यसे मातुलेयम् प्रियम् मित्रम् सुहृत्तमम् । अकरोः सचिवम् दूतम् सौहृदात् अथ सारथिम् ॥ २० ॥
yam manyase mātuleyam priyam mitram suhṛttamam . akaroḥ sacivam dūtam sauhṛdāt atha sārathim .. 20 ..
सर्वात्मनः समदृशो ह्यद्वयस्यानहङ्कृतेः । तत्कृतं मतिवैषम्यं निरवद्यस्य न क्वचित् ॥ २१ ॥
सर्वात्मनः समदृशः हि अद्वयस्य अनहङ्कृतेः । तद्-कृतम् मति-वैषम्यम् निरवद्यस्य न क्वचिद् ॥ २१ ॥
sarvātmanaḥ samadṛśaḥ hi advayasya anahaṅkṛteḥ . tad-kṛtam mati-vaiṣamyam niravadyasya na kvacid .. 21 ..
तथाप्येकान्तभक्तेषु पश्य भूपानुकम्पितम् । यत् मे असून् त्यजतः साक्षात् कृष्णो दर्शनमागतः ॥ २२ ॥
तथा अपि एकान्त-भक्तेषु पश्य भूप-अनुकम्पितम् । यत् मे असून् त्यजतः साक्षात् कृष्णः दर्शनम् आगतः ॥ २२ ॥
tathā api ekānta-bhakteṣu paśya bhūpa-anukampitam . yat me asūn tyajataḥ sākṣāt kṛṣṇaḥ darśanam āgataḥ .. 22 ..
भक्त्यावेश्य मनो यस्मिन् वाचा यन्नाम कीर्तयन् । त्यजन् कलेवरं योगी मुच्यते कामकर्मभिः ॥ २३ ॥
भक्ति-आवेश्य मनः यस्मिन् वाचा यद्-नाम कीर्तयन् । त्यजन् कलेवरम् योगी मुच्यते काम-कर्मभिः ॥ २३ ॥
bhakti-āveśya manaḥ yasmin vācā yad-nāma kīrtayan . tyajan kalevaram yogī mucyate kāma-karmabhiḥ .. 23 ..
स देवदेवो भगवान् प्रतीक्षतां कलेवरं यावदिदं हिनोम्यहम् । प्रसन्नहासारुणलोचनोल्लसन् मुखाम्बुजो ध्यानपथश्चतुर्भुजः ॥ २४ ॥
स देवदेवः भगवान् प्रतीक्षताम् कलेवरम् यावत् इदम् हिनोमि अहम् । प्रसन्न-हास-अरुण-लोचन-उल्लसन् मुख-अम्बुजः ध्यान-पथः चतुर्भुजः ॥ २४ ॥
sa devadevaḥ bhagavān pratīkṣatām kalevaram yāvat idam hinomi aham . prasanna-hāsa-aruṇa-locana-ullasan mukha-ambujaḥ dhyāna-pathaḥ caturbhujaḥ .. 24 ..
(वंशस्थ)
युधिष्ठिरः तत् आकर्ण्य शयानं शरपञ्जरे । अपृच्छत् विविधान् धर्मान् ऋषीणां चानुश्रृण्वताम् ॥ २५ ॥
युधिष्ठिरः तत् आकर्ण्य शयानम् शर-पञ्जरे । अपृच्छत् विविधान् धर्मान् ऋषीणाम् च अनुश्रृण्वताम् ॥ २५ ॥
yudhiṣṭhiraḥ tat ākarṇya śayānam śara-pañjare . apṛcchat vividhān dharmān ṛṣīṇām ca anuśrṛṇvatām .. 25 ..
पुरुषस्वभावविहितान् यथावर्णं यथाश्रमम् । वैराग्यरागोपाधिभ्यां आम्नातोभयलक्षणान् ॥ २६ ॥
पुरुष-स्वभाव-विहितान् यथावर्णम् यथाश्रमम् । वैराग्य-राग-उपाधिभ्याम् आम्नात-उभय-लक्षणान् ॥ २६ ॥
puruṣa-svabhāva-vihitān yathāvarṇam yathāśramam . vairāgya-rāga-upādhibhyām āmnāta-ubhaya-lakṣaṇān .. 26 ..
सूत उवाच ।
दानधर्मान् राजधर्मान् मोक्षधर्मान् विभागशः । स्त्रीधर्मान् भगवद्धर्मान् समासव्यास योगतः ॥ २७ ॥
दान-धर्मान् राज-धर्मान् मोक्ष-धर्मान् विभागशः । स्त्री-धर्मान् भगवत्-धर्मान् समास-व्यास योगतः ॥ २७ ॥
dāna-dharmān rāja-dharmān mokṣa-dharmān vibhāgaśaḥ . strī-dharmān bhagavat-dharmān samāsa-vyāsa yogataḥ .. 27 ..
(अनुष्टुप्)
धर्मार्थकाममोक्षांश्च सहोपायान् यथा मुने । नानाख्यानेतिहासेषु वर्णयामास तत्त्ववित् ॥ २८ ॥
धर्म-अर्थ-काम-मोक्षान् च सह उपायान् यथा मुने । नाना आख्यान-इतिहासेषु वर्णयामास तत्त्व-विद् ॥ २८ ॥
dharma-artha-kāma-mokṣān ca saha upāyān yathā mune . nānā ākhyāna-itihāseṣu varṇayāmāsa tattva-vid .. 28 ..
धर्मं प्रवदतस्तस्य स कालः प्रत्युपस्थितः । यो योगिनः छन्दमृत्योः वाञ्छितस्तु उत्तरायणः ॥ २९ ॥
धर्मम् प्रवदतः तस्य स कालः प्रत्युपस्थितः । यः योगिनः छन्द-मृत्योः वाञ्छितः तु उत्तरायणः ॥ २९ ॥
dharmam pravadataḥ tasya sa kālaḥ pratyupasthitaḥ . yaḥ yoginaḥ chanda-mṛtyoḥ vāñchitaḥ tu uttarāyaṇaḥ .. 29 ..
तदोपसंहृत्य गिरः सहस्रणीः विमुक्तसङ्गं मन आदिपूरुषे । कृष्णे लसत्पीतपटे चतुर्भुजे पुरः स्थितेऽमीलित दृग् व्यधारयत् ॥ ३० ॥
तदा उपसंहृत्य गिरः सहस्रणीः विमुक्त-सङ्गम् मनः आदिपूरुषे । कृष्णे लसत्-पीत-पटे चतुर्भुजे पुरस् स्थिते अमीलित दृश् व्यधारयत् ॥ ३० ॥
tadā upasaṃhṛtya giraḥ sahasraṇīḥ vimukta-saṅgam manaḥ ādipūruṣe . kṛṣṇe lasat-pīta-paṭe caturbhuje puras sthite amīlita dṛś vyadhārayat .. 30 ..
(वंशस्थ)
विशुद्धया धारणया हताशुभः तदीक्षयैवाशु गतायुधश्रमः । निवृत्त सर्वेन्द्रिय वृत्ति विभ्रमः तुष्टाव जन्यं विसृजन् जनार्दनम् ॥ ३१ ॥
विशुद्धया धारणया हत-अशुभः तत् ईक्षय एव आशु गत-आयुध-श्रमः । निवृत्त-सर्व-इन्द्रिय-वृत्ति-विभ्रमः तुष्टाव जन्यम् विसृजन् जनार्दनम् ॥ ३१ ॥
viśuddhayā dhāraṇayā hata-aśubhaḥ tat īkṣaya eva āśu gata-āyudha-śramaḥ . nivṛtta-sarva-indriya-vṛtti-vibhramaḥ tuṣṭāva janyam visṛjan janārdanam .. 31 ..
इति मतिरुपकल्पिता वितृष्णा भगवति सात्वतपुङ्गवे विभूम्नि । स्वसुखमुपगते क्वचित् विहर्तुं प्रकृतिमुपेयुषि यद्भवप्रवाहः ॥ ३२ ॥
इति मतिः उपकल्पिता वितृष्णा भगवति सात्वत-पुङ्गवे विभूम्नि । स्व-सुखम् उपगते क्वचिद् विहर्तुम् प्रकृतिम् उपेयुषि यद्-भव-प्रवाहः ॥ ३२ ॥
iti matiḥ upakalpitā vitṛṣṇā bhagavati sātvata-puṅgave vibhūmni . sva-sukham upagate kvacid vihartum prakṛtim upeyuṣi yad-bhava-pravāhaḥ .. 32 ..
श्रीभीष्म उवाच ।
त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने । वपुरलककुलावृत आननाब्जं विजयसखे रतिरस्तु मेऽनवद्या ॥ ३३ ॥
त्रिभुवन-कमनम् तमाल-वर्णम् रवि-कर-गौर-वर-अम्बरम् दधाने । वपुः-अलक-कुल-आवृते आनन-अब्जम् विजय-सखे रतिः अस्तु मे अनवद्या ॥ ३३ ॥
tribhuvana-kamanam tamāla-varṇam ravi-kara-gaura-vara-ambaram dadhāne . vapuḥ-alaka-kula-āvṛte ānana-abjam vijaya-sakhe ratiḥ astu me anavadyā .. 33 ..
(पुष्पिताग्रा)
युधि तुरगरजो विधूम्र विष्वक् कचलुलितश्रमवारि अलङ्कृतास्ये । मम निशितशरैर्विभिद्यमान त्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा ॥ ३४ ॥
युधि कच-लुलित-श्रम-वारि अलङ्कृत-आस्ये । मम निशित-शरैः विभिद्यमान त्वचि विलसत्-कवचे अस्तु कृष्णः आत्मा ॥ ३४ ॥
yudhi kaca-lulita-śrama-vāri alaṅkṛta-āsye . mama niśita-śaraiḥ vibhidyamāna tvaci vilasat-kavace astu kṛṣṇaḥ ātmā .. 34 ..
सपदि सखिवचो निशम्य मध्ये निजपरयोर्बलयो रथं निवेश्य । स्थितवति परसैनिकायुरक्ष्णा हृतवति पार्थसखे रतिर्ममास्तु ॥ ३५ ॥
सपदि सखि-वचः निशम्य मध्ये निज-परयोः बलयोः रथम् निवेश्य । स्थितवति पर-सैनिक-आयुः अक्ष्णा हृतवति पार्थ-सखे रतिः मम अस्तु ॥ ३५ ॥
sapadi sakhi-vacaḥ niśamya madhye nija-parayoḥ balayoḥ ratham niveśya . sthitavati para-sainika-āyuḥ akṣṇā hṛtavati pārtha-sakhe ratiḥ mama astu .. 35 ..
व्यवहित पृतनामुखं निरीक्ष्य स्वजनवधात् विमुखस्य दोषबुद्ध्या । कुमतिम अहरत् आत्मविद्यया यः चश्चरणरतिः परमस्य तस्य मेऽस्तु ॥ ३६ ॥
व्यवहित-पृतना-मुखम् निरीक्ष्य स्व-जन-वधात् विमुखस्य दोष-बुद्ध्या । अहरत् आत्म-विद्यया यः चश्चरण-रतिः परमस्य तस्य मे अस्तु ॥ ३६ ॥
vyavahita-pṛtanā-mukham nirīkṣya sva-jana-vadhāt vimukhasya doṣa-buddhyā . aharat ātma-vidyayā yaḥ caścaraṇa-ratiḥ paramasya tasya me astu .. 36 ..
स्वनिगममपहाय मत्प्रतिज्ञां ऋतमधि कर्तुमवप्लुतो रथस्थः । धृतरथ चरणोऽभ्ययात् चलद्गुः हरिरिव हन्तुमिभं गतोत्तरीयः ॥ ३७ ॥
स्व-निगमम् अपहाय मद्-प्रतिज्ञाम् ऋतम् अधि कर्तुम् अवप्लुतः रथ-स्थः । धृतरथ चरणः अभ्ययात् चलद्गुः हरिः इव हन्तुम् इभम् गत-उत्तरीयः ॥ ३७ ॥
sva-nigamam apahāya mad-pratijñām ṛtam adhi kartum avaplutaḥ ratha-sthaḥ . dhṛtaratha caraṇaḥ abhyayāt caladguḥ hariḥ iva hantum ibham gata-uttarīyaḥ .. 37 ..
शितविशिखहतो विशीर्णदंशः क्षतजपरिप्लुत आततायिनो मे । प्रसभं अभिससार मद्वधार्थं स भवतु मे भगवान् गतिर्मुकुन्दः ॥ ३८ ॥
शित-विशिख-हतः विशीर्ण-दंशः क्षतज-परिप्लुतः आततायिनः मे । प्रसभम् अभिससार मद्-वध-अर्थम् स भवतु मे भगवान् गतिः मुकुन्दः ॥ ३८ ॥
śita-viśikha-hataḥ viśīrṇa-daṃśaḥ kṣataja-pariplutaḥ ātatāyinaḥ me . prasabham abhisasāra mad-vadha-artham sa bhavatu me bhagavān gatiḥ mukundaḥ .. 38 ..
विजयरथकुटुम्ब आत्ततोत्रे धृतहयरश्मिनि तत् श्रियेक्षणीये । भगवति रतिरस्तु मे मुमूर्षोः यमिह निरीक्ष्य हता गताः स्वरूपम् ॥ ३९ ॥
विजय-रथकुटुम्बे आत्त-तोत्रे धृत-हय-रश्मिनि तत् श्रिया ईक्षणीये । भगवति रतिः अस्तु मे मुमूर्षोः यम् इह निरीक्ष्य हताः गताः स्व-रूपम् ॥ ३९ ॥
vijaya-rathakuṭumbe ātta-totre dhṛta-haya-raśmini tat śriyā īkṣaṇīye . bhagavati ratiḥ astu me mumūrṣoḥ yam iha nirīkṣya hatāḥ gatāḥ sva-rūpam .. 39 ..
ललित गति विलास वल्गुहास प्रणय निरीक्षण कल्पितोरुमानाः । कृतमनुकृतवत्य उन्मदान्धाः प्रकृतिमगन् किल यस्य गोपवध्वः ॥ ४० ॥
ललित-गति-विलास-वल्गु-हास-प्रणय-निरीक्षण-कल्पित-ऊरु-मानाः । कृतम् अनुकृतवत्यः उन्मद-अन्धाः प्रकृतिम् अगन् किल यस्य गोप-वध्वः ॥ ४० ॥
lalita-gati-vilāsa-valgu-hāsa-praṇaya-nirīkṣaṇa-kalpita-ūru-mānāḥ . kṛtam anukṛtavatyaḥ unmada-andhāḥ prakṛtim agan kila yasya gopa-vadhvaḥ .. 40 ..
मुनिगण नृपवर्यसङ्कुलेऽन्तः सदसि युधिष्ठिर राजसूय एषाम् । अर्हणं उपपेद ईक्षणीयो मम दृशिगोचर एष आविरात्मा ॥ ४१ ॥
मुनि-गण नृप-वर्य-सङ्कुले अन्तर् सदसि युधिष्ठिर राजसूये एषाम् । अर्हणम् उपपेदे ईक्षणीयः मम दृशि-गोचरः एषः आविस् आत्मा ॥ ४१ ॥
muni-gaṇa nṛpa-varya-saṅkule antar sadasi yudhiṣṭhira rājasūye eṣām . arhaṇam upapede īkṣaṇīyaḥ mama dṛśi-gocaraḥ eṣaḥ āvis ātmā .. 41 ..
तमिममहमजं शरीरभाजां हृदि हृदि धिष्ठितमात्म कल्पितानाम् । प्रतिदृशमिव नैकधार्कमेकं समधिगतोऽस्मि विधूत भेदमोहः ॥ ४२ ॥
तम् इमम् अहम् अजम् शरीर-भाजाम् हृदि हृदि धिष्ठितम् आत्म कल्पितानाम् । प्रतिदृशम् इव ना एकधा अर्कम् एकम् समधिगतः अस्मि विधूत-भेद-मोहः ॥ ४२ ॥
tam imam aham ajam śarīra-bhājām hṛdi hṛdi dhiṣṭhitam ātma kalpitānām . pratidṛśam iva nā ekadhā arkam ekam samadhigataḥ asmi vidhūta-bheda-mohaḥ .. 42 ..
कृष्ण एवं भगवति मनोवाक् दृष्टिवृत्तिभिः । आत्मनि आत्मानमावेश्य सोऽन्तःश्वास उपारमत् ॥ ४३ ॥
कृष्णे एवम् भगवति मनः-वाच् दृष्टि-वृत्तिभिः । आत्मनि आत्मानम् आवेश्य सः अन्तर् श्वासः उपारमत् ॥ ४३ ॥
kṛṣṇe evam bhagavati manaḥ-vāc dṛṣṭi-vṛttibhiḥ . ātmani ātmānam āveśya saḥ antar śvāsaḥ upāramat .. 43 ..
सूत उवाच ।
सम्पद्यमानमाज्ञाय भीष्मं ब्रह्मणि निष्कले । सर्वे बभूवुस्ते तूष्णीं वयांसीव दिनात्यये ॥ ४४ ॥
सम्पद्यमानम् आज्ञाय भीष्मम् ब्रह्मणि निष्कले । सर्वे बभूवुः ते तूष्णीम् वयांसि इव दिन-अत्यये ॥ ४४ ॥
sampadyamānam ājñāya bhīṣmam brahmaṇi niṣkale . sarve babhūvuḥ te tūṣṇīm vayāṃsi iva dina-atyaye .. 44 ..
(अनुष्टुप्)
तत्र दुन्दुभयो नेदुः देवमानव वादिताः । शशंसुः साधवो राज्ञां खात्पेतुः पुष्पवृष्टयः ॥ ४५ ॥
तत्र दुन्दुभयः नेदुः देव-मानव वादिताः । शशंसुः साधवः राज्ञाम् खात् पेतुः पुष्प-वृष्टयः ॥ ४५ ॥
tatra dundubhayaḥ neduḥ deva-mānava vāditāḥ . śaśaṃsuḥ sādhavaḥ rājñām khāt petuḥ puṣpa-vṛṣṭayaḥ .. 45 ..
तस्य निर्हरणादीनि सम्परेतस्य भार्गव । युधिष्ठिरः कारयित्वा मुहूर्तं दुःखितोऽभवत् ॥ ४६ ॥
तस्य निर्हरण-आदीनि सम्परेतस्य भार्गव । युधिष्ठिरः कारयित्वा मुहूर्तम् दुःखितः अभवत् ॥ ४६ ॥
tasya nirharaṇa-ādīni samparetasya bhārgava . yudhiṣṭhiraḥ kārayitvā muhūrtam duḥkhitaḥ abhavat .. 46 ..
तुष्टुवुर्मुनयो हृष्टाः कृष्णं तत् गुह्यनामभिः । ततस्ते कृष्णहृदयाः स्वाश्रमान्प्रययुः पुनः ॥ ४७ ॥
तुष्टुवुः मुनयः हृष्टाः कृष्णम् तत् गुह्य-नामभिः । ततस् ते कृष्ण-हृदयाः स्व-आश्रमान् प्रययुः पुनर् ॥ ४७ ॥
tuṣṭuvuḥ munayaḥ hṛṣṭāḥ kṛṣṇam tat guhya-nāmabhiḥ . tatas te kṛṣṇa-hṛdayāḥ sva-āśramān prayayuḥ punar .. 47 ..
ततो युधिष्ठिरो गत्वा सहकृष्णो गजाह्वयम् । पितरं सान्त्वयामास गान्धारीं च तपस्विनीम् ॥ ४८ ॥
ततस् युधिष्ठिरः गत्वा सह कृष्णः गजाह्वयम् । पितरम् सान्त्वयामास गान्धारीम् च तपस्विनीम् ॥ ४८ ॥
tatas yudhiṣṭhiraḥ gatvā saha kṛṣṇaḥ gajāhvayam . pitaram sāntvayāmāsa gāndhārīm ca tapasvinīm .. 48 ..
पित्रा चानुमतो राजा वासुदेवानुमोदितः । चकार राज्यं धर्मेण पितृपैतामहं विभुः ॥ ४९ ॥
पित्रा च अनुमतः राजा वासुदेव-अनुमोदितः । चकार राज्यम् धर्मेण पितृपैतामहम् विभुः ॥ ४९ ॥
pitrā ca anumataḥ rājā vāsudeva-anumoditaḥ . cakāra rājyam dharmeṇa pitṛpaitāmaham vibhuḥ .. 49 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे युधिष्ठिरराज्यप्रलम्भो नाम नवमोऽध्यायः ॥ ९ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् प्रथम-स्कन्धे युधिष्ठिरराज्यप्रलम्भः नाम नवमः अध्यायः ॥ ९ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām prathama-skandhe yudhiṣṭhirarājyapralambhaḥ nāma navamaḥ adhyāyaḥ .. 9 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In