| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीराजोवाच ।
समः प्रियः सुहृद्ब्रह्मन्भूतानां भगवान्स्वयम् । इन्द्र स्यार्थे कथं दैत्यानवधीद्विषमो यथा १ ।
समः प्रियः सुहृद् ब्रह्मन् भूतानाम् भगवान् स्वयम् । इन्द्र स्य-अर्थे कथम् दैत्यान् अवधीत् विषमः यथा ।
samaḥ priyaḥ suhṛd brahman bhūtānām bhagavān svayam . indra sya-arthe katham daityān avadhīt viṣamaḥ yathā .
न ह्यस्यार्थः सुरगणैः साक्षान्निःश्रेयसात्मनः । नैवासुरेभ्यो विद्वेषो नोद्वेगश्चागुणस्य हि २ ।
न हि अस्य अर्थः सुर-गणैः साक्षात् निःश्रेयस-आत्मनः । न एव असुरेभ्यः विद्वेषः न उद्वेगः च अगुणस्य हि ।
na hi asya arthaḥ sura-gaṇaiḥ sākṣāt niḥśreyasa-ātmanaḥ . na eva asurebhyaḥ vidveṣaḥ na udvegaḥ ca aguṇasya hi .
इति नः सुमहाभाग नारायणगुणान्प्रति । संशयः सुमहान्जातस्तद्भवांश्छेत्तुमर्हति ३ ।
इति नः सु महाभाग नारायण-गुणान् प्रति । संशयः सु महान् जातः तत् भवान् छेत्तुम् अर्हति ।
iti naḥ su mahābhāga nārāyaṇa-guṇān prati . saṃśayaḥ su mahān jātaḥ tat bhavān chettum arhati .
श्रीऋषिरुवाच । साधु पृष्टं महाराज हरेश्चरितमद्भुतम् ।
श्री-ऋषिः उवाच । साधु पृष्टम् महा-राज हरेः चरितम् अद्भुतम् ।
śrī-ṛṣiḥ uvāca . sādhu pṛṣṭam mahā-rāja hareḥ caritam adbhutam .
साधु पृष्टं महाराज हरेश्चरितमद्भुतम् । यद्भागवतमाहात्म्यं भगवद्भक्तिवर्धनम् ४ ।
साधु पृष्टम् महा-राज हरेः चरितम् अद्भुतम् । यत् भागवत-माहात्म्यम् भगवत्-भक्ति-वर्धनम् ।
sādhu pṛṣṭam mahā-rāja hareḥ caritam adbhutam . yat bhāgavata-māhātmyam bhagavat-bhakti-vardhanam .
गीयते परमं पुण्यमृषिभिर्नारदादिभिः । नत्वा कृष्णाय मुनये कथयिष्ये हरेः कथाम् ५ ।
गीयते परमम् पुण्यम् ऋषिभिः नारद-आदिभिः । नत्वा कृष्णाय मुनये कथयिष्ये हरेः कथाम् ।
gīyate paramam puṇyam ṛṣibhiḥ nārada-ādibhiḥ . natvā kṛṣṇāya munaye kathayiṣye hareḥ kathām .
निर्गुणोऽपि ह्यजोऽव्यक्तो भगवान्प्रकृतेः परः । स्वमायागुणमाविश्य बाध्यबाधकतां गतः ६ ।
निर्गुणः अपि हि अजः अव्यक्तः भगवान् प्रकृतेः परः । स्व-माया-गुणम् आविश्य बाध्य-बाधक-ताम् गतः ।
nirguṇaḥ api hi ajaḥ avyaktaḥ bhagavān prakṛteḥ paraḥ . sva-māyā-guṇam āviśya bādhya-bādhaka-tām gataḥ .
सत्त्वं रजस्तम इति प्रकृतेर्नात्मनो गुणाः । न तेषां युगपद्राजन्ह्रास उल्लास एव वा ७ ।
सत्त्वम् रजः तमः इति प्रकृतेः न आत्मनः गुणाः । न तेषाम् युगपद् राजन् ह्रासः उल्लासः एव वा ।
sattvam rajaḥ tamaḥ iti prakṛteḥ na ātmanaḥ guṇāḥ . na teṣām yugapad rājan hrāsaḥ ullāsaḥ eva vā .
जयकाले तु सत्त्वस्य देवर्षीन्रजसोऽसुरान् । तमसो यक्षरक्षांसि तत्कालानुगुणोऽभजत् ८ ।
जय-काले तु सत्त्वस्य देवर्षीन् रजसः असुरान् । तमसः यक्ष-रक्षांसि तद्-काल-अनुगुणः अभजत् ।
jaya-kāle tu sattvasya devarṣīn rajasaḥ asurān . tamasaḥ yakṣa-rakṣāṃsi tad-kāla-anuguṇaḥ abhajat .
ज्योतिरादिरिवाभाति सङ्घातान्न विविच्यते । विदन्त्यात्मानमात्मस्थं मथित्वा कवयोऽन्ततः ९ ।
ज्योतिः-आदिः इव आभाति सङ्घातात् न विविच्यते । विदन्ति आत्मानम् आत्म-स्थम् मथित्वा कवयः अन्ततस् ।
jyotiḥ-ādiḥ iva ābhāti saṅghātāt na vivicyate . vidanti ātmānam ātma-stham mathitvā kavayaḥ antatas .
यदा सिसृक्षुः पुर आत्मनः परो रजः सृजत्येष पृथक्स्वमायया । सत्त्वं विचित्रासु रिरंसुरीश्वरः शयिष्यमाणस्तम ईरयत्यसौ १० ।
यदा सिसृक्षुः पुरस् आत्मनः परस् रजः सृजति एष पृथक् स्व-मायया । सत्त्वम् विचित्रासु रिरंसुः ईश्वरः शयिष्यमाणः तमः ईरयति असौ ।
yadā sisṛkṣuḥ puras ātmanaḥ paras rajaḥ sṛjati eṣa pṛthak sva-māyayā . sattvam vicitrāsu riraṃsuḥ īśvaraḥ śayiṣyamāṇaḥ tamaḥ īrayati asau .
कालं चरन्तं सृजतीश आश्रयं प्रधानपुम्भ्यां नरदेव सत्यकृत् । य एष राजन्नपि काल ईशिता सत्त्वं सुरानीकमिवैधयत्यतः । तत्प्रत्यनीकानसुरान्सुरप्रियो रजस्तमस्कान्प्रमिणोत्युरुश्रवाः ११ ।
कालम् चरन्तम् सृजति ईशः आश्रयम् प्रधान-पुम्भ्याम् नरदेव सत्य-कृत् । यः एष राजन् अपि कालः ईशिता सत्त्वम् सुर-अनीकम् इव एधयति अतस् । तद्-प्रत्यनीकान् असुरान् सुरप्रियः रजः-तमस्कान् प्रमिणोति उरुश्रवाः ।
kālam carantam sṛjati īśaḥ āśrayam pradhāna-pumbhyām naradeva satya-kṛt . yaḥ eṣa rājan api kālaḥ īśitā sattvam sura-anīkam iva edhayati atas . tad-pratyanīkān asurān surapriyaḥ rajaḥ-tamaskān pramiṇoti uruśravāḥ .
अत्रैवोदाहृतः पूर्वमितिहासः सुरर्षिणा । प्रीत्या महाक्रतौ राजन्पृच्छतेऽजातशत्रवे १२ ।
अत्रा एव उदाहृतः पूर्वम् इतिहासः सुर-ऋषिणा । प्रीत्या महा-क्रतौ राजन् पृच्छते अजातशत्रवे ।
atrā eva udāhṛtaḥ pūrvam itihāsaḥ sura-ṛṣiṇā . prītyā mahā-kratau rājan pṛcchate ajātaśatrave .
दृष्ट्वा महाद्भुतं राजा राजसूये महाक्रतौ । वासुदेवे भगवति सायुज्यं चेदिभूभुजः १३ ।
दृष्ट्वा महा-अद्भुतम् राजा राजसूये महा-क्रतौ । वासुदेवे भगवति सायुज्यम् चेदि-भूभुजः ।
dṛṣṭvā mahā-adbhutam rājā rājasūye mahā-kratau . vāsudeve bhagavati sāyujyam cedi-bhūbhujaḥ .
तत्रासीनं सुरऋषिं राजा पाण्डुसुतः क्रतौ । पप्रच्छ विस्मितमना मुनीनां शृण्वतामिदम् १४ ।
तत्र आसीनम् सुर-ऋषिम् राजा पाण्डु-सुतः क्रतौ । पप्रच्छ विस्मित-मनाः मुनीनाम् शृण्वताम् इदम् ।
tatra āsīnam sura-ṛṣim rājā pāṇḍu-sutaḥ kratau . papraccha vismita-manāḥ munīnām śṛṇvatām idam .
श्रीयुधिष्ठिर उवाच ।
अहो अत्यद्भुतं ह्येतद्दुर्लभैकान्तिनामपि । वासुदेवे परे तत्त्वे प्राप्तिश्चैद्यस्य विद्विषः १५ ।
अहो अति अद्भुतम् हि एतत् दुर्लभ-एकान्तिनाम् अपि । वासुदेवे परे तत्त्वे प्राप्तिः चैद्यस्य विद्विषः ।
aho ati adbhutam hi etat durlabha-ekāntinām api . vāsudeve pare tattve prāptiḥ caidyasya vidviṣaḥ .
एतद्वेदितुमिच्छामः सर्व एव वयं मुने । भगवन्निन्दया वेनो द्विजैस्तमसि पातितः १६ ।
एतत् वेदितुम् इच्छामः सर्वे एव वयम् मुने । भगवत् निन्दया वेनः द्विजैः तमसि पातितः ।
etat veditum icchāmaḥ sarve eva vayam mune . bhagavat nindayā venaḥ dvijaiḥ tamasi pātitaḥ .
दमघोषसुतः पाप आरभ्य कलभाषणात् । सम्प्रत्यमर्षी गोविन्दे दन्तवक्रश्च दुर्मतिः १७ ।
दमघोष-सुतः पापः आरभ्य कल-भाषणात् । सम्प्रति अमर्षी गोविन्दे दन्तवक्रः च दुर्मतिः ।
damaghoṣa-sutaḥ pāpaḥ ārabhya kala-bhāṣaṇāt . samprati amarṣī govinde dantavakraḥ ca durmatiḥ .
शपतोरसकृद्विष्णुं यद्ब्रह्म परमव्ययम् । श्वित्रो न जातो जिह्वायां नान्धं विविशतुस्तमः १८ ।
शपतोः असकृत् विष्णुम् यत् ब्रह्म परम् अव्ययम् । श्वित्रः न जातः जिह्वायाम् न अन्धम् विविशतुः तमः ।
śapatoḥ asakṛt viṣṇum yat brahma param avyayam . śvitraḥ na jātaḥ jihvāyām na andham viviśatuḥ tamaḥ .
कथं तस्मिन्भगवति दुरवग्राह्यधामनि । पश्यतां सर्वलोकानां लयमीयतुरञ्जसा १९ ।
कथम् तस्मिन् भगवति दुरवग्राह्य-धामनि । पश्यताम् सर्व-लोकानाम् लयम् ईयतुः अञ्जसा ।
katham tasmin bhagavati duravagrāhya-dhāmani . paśyatām sarva-lokānām layam īyatuḥ añjasā .
एतद्भ्राम्यति मे बुद्धिर्दीपार्चिरिव वायुना । ब्रूह्येतदद्भुततमं भगवान्ह्यत्र कारणम् २० ।
एतत् भ्राम्यति मे बुद्धिः दीप-अर्चिः इव वायुना । ब्रूहि एतत् अद्भुततमम् भगवान् हि अत्र कारणम् ।
etat bhrāmyati me buddhiḥ dīpa-arciḥ iva vāyunā . brūhi etat adbhutatamam bhagavān hi atra kāraṇam .
श्रीबादरायणिरुवाच ।
राज्ञस्तद्वच आकर्ण्य नारदो भगवानृषिः । तुष्टः प्राह तमाभाष्य शृण्वत्यास्तत्सदः कथाः २१ ।
राज्ञः तत् वचः आकर्ण्य नारदः भगवान् ऋषिः । तुष्टः प्राह तम् आभाष्य शृण्वत्याः तद्-सदः कथाः ।
rājñaḥ tat vacaḥ ākarṇya nāradaḥ bhagavān ṛṣiḥ . tuṣṭaḥ prāha tam ābhāṣya śṛṇvatyāḥ tad-sadaḥ kathāḥ .
श्रीनारद उवाच ।
निन्दनस्तवसत्कार न्यक्कारार्थं कलेवरम् । प्रधानपरयो राजन्नविवेकेन कल्पितम् २२ ।
निन्दन-स्तव-सत्कार न्यक्कार-अर्थम् कलेवरम् । प्रधान-परयोः राजन् अविवेकेन कल्पितम् ।
nindana-stava-satkāra nyakkāra-artham kalevaram . pradhāna-parayoḥ rājan avivekena kalpitam .
हिंसा तदभिमानेन दण्डपारुष्ययोर्यथा । वैषम्यमिह भूतानां ममाहमिति पार्थिव २३ ।
हिंसा तद्-अभिमानेन दण्ड-पारुष्ययोः यथा । वैषम्यम् इह भूतानाम् मम अहम् इति पार्थिव ।
hiṃsā tad-abhimānena daṇḍa-pāruṣyayoḥ yathā . vaiṣamyam iha bhūtānām mama aham iti pārthiva .
यन्निबद्धोऽभिमानोऽयं तद्वधात्प्राणिनां वधः । तथा न यस्य कैवल्यादभिमानोऽखिलात्मनः । परस्य दमकर्तुर्हि हिंसा केनास्य कल्प्यते २४ ।
यद्-निबद्धः अभिमानः अयम् तद्-वधात् प्राणिनाम् वधः । तथा न यस्य कैवल्यात् अभिमानः अखिलात्मनः । परस्य दम-कर्तुः हि हिंसा केन अस्य कल्प्यते ।
yad-nibaddhaḥ abhimānaḥ ayam tad-vadhāt prāṇinām vadhaḥ . tathā na yasya kaivalyāt abhimānaḥ akhilātmanaḥ . parasya dama-kartuḥ hi hiṃsā kena asya kalpyate .
तस्माद्वैरानुबन्धेन निर्वैरेण भयेन वा । स्नेहात्कामेन वा युञ्ज्यात्कथञ्चिन्नेक्षते पृथक् २५ ।
तस्मात् वैर-अनुबन्धेन निर्वैरेण भयेन वा । स्नेहात् कामेन वा युञ्ज्यात् कथञ्चिद् न ईक्षते पृथक् ।
tasmāt vaira-anubandhena nirvaireṇa bhayena vā . snehāt kāmena vā yuñjyāt kathañcid na īkṣate pṛthak .
यथा वैरानुबन्धेन मर्त्यस्तन्मयतामियात् । न तथा भक्तियोगेन इति मे निश्चिता मतिः २६ ।
यथा वैर-अनुबन्धेन मर्त्यः तद्-मय-ताम् इयात् । न तथा भक्ति-योगेन इति मे निश्चिता मतिः ।
yathā vaira-anubandhena martyaḥ tad-maya-tām iyāt . na tathā bhakti-yogena iti me niścitā matiḥ .
कीटः पेशस्कृता रुद्धः कुड्यायां तमनुस्मरन् । संरम्भभययोगेन विन्दते तत्स्वरूपताम् २७ ।
कीटः पेशस्कृता रुद्धः कुड्यायाम् तम् अनुस्मरन् । संरम्भ-भय-योगेन विन्दते तद्-स्व-रूप-ताम् ।
kīṭaḥ peśaskṛtā ruddhaḥ kuḍyāyām tam anusmaran . saṃrambha-bhaya-yogena vindate tad-sva-rūpa-tām .
एवं कृष्णे भगवति मायामनुज ईश्वरे । वैरेण पूतपाप्मानस्तमापुरनुचिन्तया २८ ।
एवम् कृष्णे भगवति माया-मनुजे ईश्वरे । वैरेण पूत-पाप्मानः तम् आपुः अनुचिन्तया ।
evam kṛṣṇe bhagavati māyā-manuje īśvare . vaireṇa pūta-pāpmānaḥ tam āpuḥ anucintayā .
कामाद्द्वेषाद्भयात्स्नेहाद्यथा भक्त्येश्वरे मनः । आवेश्य तदघं हित्वा बहवस्तद्गतिं गताः २९ ।
कामात् द्वेषात् भयात् स्नेहात् यथा भक्त्या ईश्वरे मनः । आवेश्य तत् अघम् हित्वा बहवः तद्-गतिम् गताः ।
kāmāt dveṣāt bhayāt snehāt yathā bhaktyā īśvare manaḥ . āveśya tat agham hitvā bahavaḥ tad-gatim gatāḥ .
गोप्यः कामाद्भयात्कंसो द्वेषाच्चैद्यादयो नृपाः । सम्बन्धाद्वृष्णयः स्नेहाद्यूयं भक्त्या वयं विभो ३० ।
गोप्यः कामात् भयात् कंसः द्वेषात् चैद्य-आदयः नृपाः । सम्बन्धात् वृष्णयः स्नेहात् यूयम् भक्त्या वयम् विभो ।
gopyaḥ kāmāt bhayāt kaṃsaḥ dveṣāt caidya-ādayaḥ nṛpāḥ . sambandhāt vṛṣṇayaḥ snehāt yūyam bhaktyā vayam vibho .
कतमोऽपि न वेनः स्यात्पञ्चानां पुरुषं प्रति । तस्मात्केनाप्युपायेन मनः कृष्णे निवेशयेत् ३१ ।
कतमः अपि न वेनः स्यात् पञ्चानाम् पुरुषम् प्रति । तस्मात् केन अपि उपायेन मनः कृष्णे निवेशयेत् ।
katamaḥ api na venaḥ syāt pañcānām puruṣam prati . tasmāt kena api upāyena manaḥ kṛṣṇe niveśayet .
मातृष्वस्रेयो वश्चैद्यो दन्तवक्रश्च पाण्डव । पार्षदप्रवरौ विष्णोर्विप्रशापात्पदच्युतौ ३२ ।
मातृष्वस्रेयः वः चैद्यः दन्तवक्रः च पाण्डव । पार्षद-प्रवरौ विष्णोः विप्र-शापात् पद-च्युतौ ।
mātṛṣvasreyaḥ vaḥ caidyaḥ dantavakraḥ ca pāṇḍava . pārṣada-pravarau viṣṇoḥ vipra-śāpāt pada-cyutau .
श्रीयुधिष्ठिर उवाच ।
कीदृशः कस्य वा शापो हरिदासाभिमर्शनः । अश्रद्धेय इवाभाति हरेरेकान्तिनां भवः ३३ ।
कीदृशः कस्य वा शापः हरि-दास-अभिमर्शनः । अश्रद्धेयः इव आभाति हरेः एकान्तिनाम् भवः ।
kīdṛśaḥ kasya vā śāpaḥ hari-dāsa-abhimarśanaḥ . aśraddheyaḥ iva ābhāti hareḥ ekāntinām bhavaḥ .
देहेन्द्रि यासुहीनानां वैकुण्ठपुरवासिनाम् । देहसम्बन्धसम्बद्धमेतदाख्यातुमर्हसि ३४ ।
वैकुण्ठ-पुर-वासिनाम् । देह-सम्बन्ध-सम्बद्धम् एतत् आख्यातुम् अर्हसि ।
vaikuṇṭha-pura-vāsinām . deha-sambandha-sambaddham etat ākhyātum arhasi .
श्रीनारद उवाच ।
एकदा ब्रह्मणः पुत्रा विष्णुलोकं यदृच्छया । सनन्दनादयो जग्मुश्चरन्तो भुवनत्रयम् ३५ ।
एकदा ब्रह्मणः पुत्राः विष्णु-लोकम् यदृच्छया । सनन्दन-आदयः जग्मुः चरन्तः भुवनत्रयम् ।
ekadā brahmaṇaḥ putrāḥ viṣṇu-lokam yadṛcchayā . sanandana-ādayaḥ jagmuḥ carantaḥ bhuvanatrayam .
पञ्चषड्ढायनार्भाभाः पूर्वेषामपि पूर्वजाः । दिग्वाससः शिशून्मत्वा द्वाःस्थौ तान्प्रत्यषेधताम् ३६ ।
पञ्च-षड्ढायन-अर्भ-आभाः पूर्वेषाम् अपि पूर्वजाः । दिग्वाससः शिशून् मत्वा द्वाःस्थौ तान् प्रत्यषेधताम् ।
pañca-ṣaḍḍhāyana-arbha-ābhāḥ pūrveṣām api pūrvajāḥ . digvāsasaḥ śiśūn matvā dvāḥsthau tān pratyaṣedhatām .
अशपन्कुपिता एवं युवां वासं न चार्हथः । रजस्तमोभ्यां रहिते पादमूले मधुद्विषः । पापिष्ठामासुरीं योनिं बालिशौ यातमाश्वतः ३७ ।
अशपन् कुपिताः एवम् युवाम् वासम् न च अर्हथः । रजः-तमोभ्याम् रहिते पाद-मूले मधुद्विषः । पापिष्ठाम् आसुरीम् योनिम् बालिशौ यातम् आश्वतस् ।
aśapan kupitāḥ evam yuvām vāsam na ca arhathaḥ . rajaḥ-tamobhyām rahite pāda-mūle madhudviṣaḥ . pāpiṣṭhām āsurīm yonim bāliśau yātam āśvatas .
एवं शप्तौ स्वभवनात्पतन्तौ तौ कृपालुभिः । प्रोक्तौ पुनर्जन्मभिर्वां त्रिभिर्लोकाय कल्पताम् ३८ ।
एवम् शप्तौ स्व-भवनात् पतन्तौ तौ कृपालुभिः । प्रोक्तौ पुनर्जन्मभिः वाम् त्रिभिः लोकाय कल्पताम् ।
evam śaptau sva-bhavanāt patantau tau kṛpālubhiḥ . proktau punarjanmabhiḥ vām tribhiḥ lokāya kalpatām .
जज्ञाते तौ दितेः पुत्रौ दैत्यदानववन्दितौ । हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षोऽनुजस्ततः ३९ ।
जज्ञाते तौ दितेः पुत्रौ दैत्य-दानव-वन्दितौ । हिरण्यकशिपुः ज्येष्ठः हिरण्याक्षः अनुजः ततस् ।
jajñāte tau diteḥ putrau daitya-dānava-vanditau . hiraṇyakaśipuḥ jyeṣṭhaḥ hiraṇyākṣaḥ anujaḥ tatas .
हतो हिरण्यकशिपुर्हरिणा सिंहरूपिणा । हिरण्याक्षो धरोद्धारे बिभ्रता शौकरं वपुः ४० ।
हतः हिरण्यकशिपुः हरिणा सिंह-रूपिणा । हिरण्याक्षः धरा-उद्धारे बिभ्रता शौकरम् वपुः ।
hataḥ hiraṇyakaśipuḥ hariṇā siṃha-rūpiṇā . hiraṇyākṣaḥ dharā-uddhāre bibhratā śaukaram vapuḥ .
हिरण्यकशिपुः पुत्रं प्रह्लादं केशवप्रियम् । जिघांसुरकरोन्नाना यातना मृत्युहेतवे ४१ ।
हिरण्यकशिपुः पुत्रम् प्रह्लादम् केशव-प्रियम् । जिघांसुः अकरोत् नाना यातनाः मृत्यु-हेतवे ।
hiraṇyakaśipuḥ putram prahlādam keśava-priyam . jighāṃsuḥ akarot nānā yātanāḥ mṛtyu-hetave .
तं सर्वभूतात्मभूतं प्रशान्तं समदर्शनम् । भगवत्तेजसा स्पृष्टं नाशक्नोद्धन्तुमुद्यमैः ४२ ।
तम् सर्व-भूत-आत्म-भूतम् प्रशान्तम् समदर्शनम् । भगवत्-तेजसा स्पृष्टम् न अशक्नोत् हन्तुम् उद्यमैः ।
tam sarva-bhūta-ātma-bhūtam praśāntam samadarśanam . bhagavat-tejasā spṛṣṭam na aśaknot hantum udyamaiḥ .
ततस्तौ राक्षसौ जातौ केशिन्यां विश्रवःसुतौ । रावणः कुम्भकर्णश्च सर्वलोकोपतापनौ ४३ ।
ततस् तौ राक्षसौ जातौ केशिन्याम् विश्रवः-सुतौ । रावणः कुम्भकर्णः च सर्व-लोक-उपतापनौ ।
tatas tau rākṣasau jātau keśinyām viśravaḥ-sutau . rāvaṇaḥ kumbhakarṇaḥ ca sarva-loka-upatāpanau .
तत्रापि राघवो भूत्वा न्यहनच्छापमुक्तये । रामवीर्यं श्रोष्यसि त्वं मार्कण्डेयमुखात्प्रभो ४४ ।
तत्र अपि राघवः भूत्वा न्यहनत् शाप-मुक्तये । राम-वीर्यम् श्रोष्यसि त्वम् मार्कण्डेय-मुखात् प्रभो ।
tatra api rāghavaḥ bhūtvā nyahanat śāpa-muktaye . rāma-vīryam śroṣyasi tvam mārkaṇḍeya-mukhāt prabho .
तावत्र क्षत्रियौ जातौ मातृष्वस्रात्मजौ तव । अधुना शापनिर्मुक्तौ कृष्णचक्रहतांहसौ ४५ ।
तौ अत्र क्षत्रियौ जातौ मातृष्वस्र-आत्मजौ तव । अधुना शाप-निर्मुक्तौ कृष्ण-चक्र-हत-अंहसौ ।
tau atra kṣatriyau jātau mātṛṣvasra-ātmajau tava . adhunā śāpa-nirmuktau kṛṣṇa-cakra-hata-aṃhasau .
वैरानुबन्धतीव्रेण ध्यानेनाच्युतसात्मताम् । नीतौ पुनर्हरेः पार्श्वं जग्मतुर्विष्णुपार्षदौ ४६ ।
वैर-अनुबन्ध-तीव्रेण ध्यानेन अच्युत-सात्मताम् । नीतौ पुनर् हरेः पार्श्वम् जग्मतुः विष्णु-पार्षदौ ।
vaira-anubandha-tīvreṇa dhyānena acyuta-sātmatām . nītau punar hareḥ pārśvam jagmatuḥ viṣṇu-pārṣadau .
श्रीयुधिष्ठिर उवाच ।
विद्वेषो दयिते पुत्रे कथमासीन्महात्मनि । ब्रूहि मे भगवन्येन प्रह्लादस्याच्युतात्मता ४७ ।
विद्वेषः दयिते पुत्रे कथम् आसीत् महात्मनि । ब्रूहि मे भगवन् येन प्रह्लादस्य अच्युत-आत्मता ।
vidveṣaḥ dayite putre katham āsīt mahātmani . brūhi me bhagavan yena prahlādasya acyuta-ātmatā .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्लादचरितोपक्रमे प्रथमोऽध्यायः ।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् सप्तम-स्कन्धे प्रह्लाद-चरित-उपक्रमे प्रथमः अध्यायः ।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām saptama-skandhe prahlāda-carita-upakrame prathamaḥ adhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In