| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीनारद उवाच ।
भक्तियोगस्य तत्सर्वमन्तरायतयार्भकः । मन्यमानो हृषीकेशं स्मयमान उवाच ह १ ।
भक्ति-योगस्य तत् सर्वम् अन्तराय-तया अर्भकः । मन्यमानः हृषीकेशम् स्मयमानः उवाच ह ।
bhakti-yogasya tat sarvam antarāya-tayā arbhakaḥ . manyamānaḥ hṛṣīkeśam smayamānaḥ uvāca ha .
श्रीप्रह्राद उवाच ।
मा मां प्रलोभयोत्पत्त्या सक्तंकामेषु तैर्वरैः । तत्सङ्गभीतो निर्विण्णो मुमुक्षुस्त्वामुपाश्रितः २ ।
मा माम् प्रलोभय उत्पत्त्या सक्तम् कामेषु तैः वरैः । तद्-सङ्ग-भीतः निर्विण्णः मुमुक्षुः त्वाम् उपाश्रितः ।
mā mām pralobhaya utpattyā saktam kāmeṣu taiḥ varaiḥ . tad-saṅga-bhītaḥ nirviṇṇaḥ mumukṣuḥ tvām upāśritaḥ .
भृत्यलक्षणजिज्ञासुर्भक्तं कामेष्वचोदयत् । भवान्संसारबीजेषु हृदयग्रन्थिषु प्रभो ३ ।
भृत्य-लक्षण-जिज्ञासुः भक्तम् कामेषु अचोदयत् । भवान् संसार-बीजेषु हृदय-ग्रन्थिषु प्रभो ।
bhṛtya-lakṣaṇa-jijñāsuḥ bhaktam kāmeṣu acodayat . bhavān saṃsāra-bījeṣu hṛdaya-granthiṣu prabho .
नान्यथा तेऽखिलगुरो घटेत करुणात्मनः । यस्त आशिष आशास्ते न स भृत्यः स वै वणिक् ४ ।
न अन्यथा ते अखिल-गुरो घटेत करुण-आत्मनः । यः ते आशिषः आशास्ते न स भृत्यः स वै वणिज् ।
na anyathā te akhila-guro ghaṭeta karuṇa-ātmanaḥ . yaḥ te āśiṣaḥ āśāste na sa bhṛtyaḥ sa vai vaṇij .
आशासानो न वै भृत्यः स्वामिन्याशिष आत्मनः । न स्वामी भृत्यतः स्वाम्यमिच्छन्यो राति चाशिषः ५ ।
आशासानः न वै भृत्यः स्वामिनि आशिषः आत्मनः । न स्वामी भृत्यतः स्वाम्यम् इच्छन् यः राति च आशिषः ।
āśāsānaḥ na vai bhṛtyaḥ svāmini āśiṣaḥ ātmanaḥ . na svāmī bhṛtyataḥ svāmyam icchan yaḥ rāti ca āśiṣaḥ .
अहं त्वकामस्त्वद्भक्तस्त्वं च स्वाम्यनपाश्रयः । नान्यथेहावयोरर्थो राजसेवकयोरिव ६ ।
अहम् तु अकामः त्वद्-भक्तः त्वम् च स्वामी अनपाश्रयः । न अन्यथा इह आवयोः अर्थः राज-सेवकयोः इव ।
aham tu akāmaḥ tvad-bhaktaḥ tvam ca svāmī anapāśrayaḥ . na anyathā iha āvayoḥ arthaḥ rāja-sevakayoḥ iva .
यदि दास्यसि मे कामान्वरांस्त्वं वरदर्षभ । कामानां हृद्यसंरोहं भवतस्तु वृणे वरम् ७ ।
यदि दास्यसि मे कामान् वरान् त्वम् वर-द-ऋषभ । कामानाम् हृदि असंरोहम् भवतः तु वृणे वरम् ।
yadi dāsyasi me kāmān varān tvam vara-da-ṛṣabha . kāmānām hṛdi asaṃroham bhavataḥ tu vṛṇe varam .
इन्द्रि याणि मनः प्राण आत्मा धर्मो धृतिर्मतिः । ह्रीः श्रीस्तेजः स्मृतिः सत्यं यस्य नश्यन्ति जन्मना ८ ।
इन्द्रि मनः प्राणः आत्मा धर्मः धृतिः मतिः । ह्रीः श्रीः तेजः स्मृतिः सत्यम् यस्य नश्यन्ति जन्मना ।
indri manaḥ prāṇaḥ ātmā dharmaḥ dhṛtiḥ matiḥ . hrīḥ śrīḥ tejaḥ smṛtiḥ satyam yasya naśyanti janmanā .
विमुञ्चति यदा कामान्मानवो मनसि स्थितान् । तर्ह्येव पुण्डरीकाक्ष भगवत्त्वाय कल्पते ९ ।
विमुञ्चति यदा कामान् मानवः मनसि स्थितान् । तर्हि एव पुण्डरीकाक्ष भगवत्-त्वाय कल्पते ।
vimuñcati yadā kāmān mānavaḥ manasi sthitān . tarhi eva puṇḍarīkākṣa bhagavat-tvāya kalpate .
ॐ नमो भगवते तुभ्यं पुरुषाय महात्मने । हरयेऽद्भुतसिंहाय ब्रह्मणे परमात्मने १० ।
ओम् नमः भगवते तुभ्यम् पुरुषाय महात्मने । हरये अद्भुत-सिंहाय ब्रह्मणे परमात्मने ।
om namaḥ bhagavate tubhyam puruṣāya mahātmane . haraye adbhuta-siṃhāya brahmaṇe paramātmane .
श्रीभगवानुवाच ।
नैकान्तिनो मे मयि जात्विहाशिष आशासतेऽमुत्र च ये भवद्विधाः । तथापि मन्वन्तरमेतदत्र दैत्येश्वराणामनुभुङ्क्ष्व भोगान् ११ ।
न एकान्तिनः मे मयि जातु इह आशिषः आशासते अमुत्र च ये भवद्विधाः । तथा अपि मन्वन्तरम् एतत् अत्र दैत्य-ईश्वराणाम् अनुभुङ्क्ष्व भोगान् ।
na ekāntinaḥ me mayi jātu iha āśiṣaḥ āśāsate amutra ca ye bhavadvidhāḥ . tathā api manvantaram etat atra daitya-īśvarāṇām anubhuṅkṣva bhogān .
कथा मदीया जुषमाणः प्रियास्त्वमावेश्य मामात्मनि सन्तमेकम् । सर्वेषु भूतेष्वधियज्ञमीशं यजस्व योगेन च कर्म हिन्वन् १२ ।
कथा मदीयाः जुषमाणः प्रियाः त्वम् आवेश्य माम् आत्मनि सन्तम् एकम् । सर्वेषु भूतेषु अधियज्ञम् ईशम् यजस्व योगेन च कर्म हिन्वन् ।
kathā madīyāḥ juṣamāṇaḥ priyāḥ tvam āveśya mām ātmani santam ekam . sarveṣu bhūteṣu adhiyajñam īśam yajasva yogena ca karma hinvan .
भोगेन पुण्यं कुशलेन पापं कलेवरं कालजवेन हित्वा । कीर्तिं विशुद्धां सुरलोकगीतां विताय मामेष्यसि मुक्तबन्धः १३ ।
भोगेन पुण्यम् कुशलेन पापम् कलेवरम् काल-जवेन हित्वा । कीर्तिम् विशुद्धाम् सुर-लोक-गीताम् विताय माम् एष्यसि मुक्त-बन्धः ।
bhogena puṇyam kuśalena pāpam kalevaram kāla-javena hitvā . kīrtim viśuddhām sura-loka-gītām vitāya mām eṣyasi mukta-bandhaḥ .
य एतत्कीर्तयेन्मह्यं त्वया गीतमिदं नरः । त्वां च मां च स्मरन्काले कर्मबन्धात्प्रमुच्यते १४ ।
यः एतत् कीर्तयेत् मह्यम् त्वया गीतम् इदम् नरः । त्वाम् च माम् च स्मरन् काले कर्म-बन्धात् प्रमुच्यते ।
yaḥ etat kīrtayet mahyam tvayā gītam idam naraḥ . tvām ca mām ca smaran kāle karma-bandhāt pramucyate .
श्रीप्रह्राद उवाच ।
वरं वरय एतत्ते वरदेशान्महेश्वर । यदनिन्दत्पिता मे त्वामविद्वांस्तेज ऐश्वरम् १५ ।
वरम् वरये एतत् ते वर-देशात् महेश्वर । यत् अनिन्दत् पिता मे त्वाम् अविद्वान् तेजः ऐश्वरम् ।
varam varaye etat te vara-deśāt maheśvara . yat anindat pitā me tvām avidvān tejaḥ aiśvaram .
विद्धामर्षाशयः साक्षात्सर्वलोकगुरुं प्रभुम् । भ्रातृहेति मृषादृष्टिस्त्वद्भक्ते मयि चाघवान् १६ ।
विद्ध-अमर्ष-आशयः साक्षात् सर्व-लोक-गुरुम् प्रभुम् । भ्रातृ-हा इति मृषा दृष्टिः त्वद्-भक्ते मयि च अघवान् ।
viddha-amarṣa-āśayaḥ sākṣāt sarva-loka-gurum prabhum . bhrātṛ-hā iti mṛṣā dṛṣṭiḥ tvad-bhakte mayi ca aghavān .
तस्मात्पिता मे पूयेत दुरन्ताद्दुस्तरादघात् । पूतस्तेऽपाङ्गसंदृष्टस्तदा कृपणवत्सल १७ ।
तस्मात् पिता मे पूयेत दुरन्तात् दुस्तरात् अघात् । पूतः ते अपाङ्ग-संदृष्टः तदा कृपण-वत्सल ।
tasmāt pitā me pūyeta durantāt dustarāt aghāt . pūtaḥ te apāṅga-saṃdṛṣṭaḥ tadā kṛpaṇa-vatsala .
श्रीभगवानुवाच ।
त्रिःसप्तभिः पिता पूतः पितृभिः सह तेऽनघ । यत्साधोऽस्य कुले जातो भवान्वै कुलपावनः १८ ।
त्रिःसप्तभिः पिता पूतः पितृभिः सह ते अनघ । यत् साधो अस्य कुले जातः भवान् वै कुल-पावनः ।
triḥsaptabhiḥ pitā pūtaḥ pitṛbhiḥ saha te anagha . yat sādho asya kule jātaḥ bhavān vai kula-pāvanaḥ .
यत्र यत्र च मद्भक्ताः प्रशान्ताः समदर्शिनः । साधवः समुदाचारास्ते पूयन्तेऽपि कीकटाः १९ ।
यत्र यत्र च मद्-भक्ताः प्रशान्ताः सम-दर्शिनः । साधवः समुदाचाराः ते पूयन्ते अपि कीकटाः ।
yatra yatra ca mad-bhaktāḥ praśāntāḥ sama-darśinaḥ . sādhavaḥ samudācārāḥ te pūyante api kīkaṭāḥ .
सर्वात्मना न हिंसन्ति भूतग्रामेषु किञ्चन । उच्चावचेषु दैत्येन्द्र मद्भावविगतस्पृहाः २० ।
सर्व-आत्मना न हिंसन्ति भूत-ग्रामेषु किञ्चन । उच्चावचेषु दैत्य-इन्द्र मद्-भाव-विगत-स्पृहाः ।
sarva-ātmanā na hiṃsanti bhūta-grāmeṣu kiñcana . uccāvaceṣu daitya-indra mad-bhāva-vigata-spṛhāḥ .
भवन्ति पुरुषा लोके मद्भक्तास्त्वामनुव्रताः । भवान्मे खलु भक्तानां सर्वेषां प्रतिरूपधृक् २१ ।
भवन्ति पुरुषाः लोके मद्-भक्ताः त्वाम् अनुव्रताः । भवान् मे खलु भक्तानाम् सर्वेषाम् प्रतिरूप-धृक् ।
bhavanti puruṣāḥ loke mad-bhaktāḥ tvām anuvratāḥ . bhavān me khalu bhaktānām sarveṣām pratirūpa-dhṛk .
कुरु त्वं प्रेतकृत्यानि पितुः पूतस्य सर्वशः । मदङ्गस्पर्शनेनाङ्ग लोकान्यास्यति सुप्रजाः २२ ।
कुरु त्वम् प्रेत-कृत्यानि पितुः पूतस्य सर्वशस् । मद्-अङ्ग-स्पर्शनेन अङ्ग लोकान् यास्यति सुप्रजाः ।
kuru tvam preta-kṛtyāni pituḥ pūtasya sarvaśas . mad-aṅga-sparśanena aṅga lokān yāsyati suprajāḥ .
पित्र्यं च स्थानमातिष्ठ यथोक्तं ब्रह्मवादिभिः । मय्यावेश्य मनस्तात कुरु कर्माणि मत्परः २३ ।
पित्र्यम् च स्थानम् आतिष्ठ यथा उक्तम् ब्रह्म-वादिभिः । मयि आवेश्य मनः तात कुरु कर्माणि मद्-परः ।
pitryam ca sthānam ātiṣṭha yathā uktam brahma-vādibhiḥ . mayi āveśya manaḥ tāta kuru karmāṇi mad-paraḥ .
श्रीनारद उवाच ।
प्रह्रादोऽपि तथा चक्रे पितुर्यत्साम्परायिकम् । यथाह भगवान्राजन्नभिषिक्तो द्विजातिभिः २४ ।
प्रह्रादः अपि तथा चक्रे पितुः यत् साम्परायिकम् । यथा आह भगवान् राजन् अभिषिक्तः द्विजातिभिः ।
prahrādaḥ api tathā cakre pituḥ yat sāmparāyikam . yathā āha bhagavān rājan abhiṣiktaḥ dvijātibhiḥ .
प्रसादसुमुखं दृष्ट्वा ब्रह्मा नरहरिं हरिम् । स्तुत्वा वाग्भिः पवित्राभिः प्राह देवादिभिर्वृतः २५ ।
प्रसाद-सु मुखम् दृष्ट्वा ब्रह्मा नरहरिम् हरिम् । स्तुत्वा वाग्भिः पवित्राभिः प्राह देव-आदिभिः वृतः ।
prasāda-su mukham dṛṣṭvā brahmā naraharim harim . stutvā vāgbhiḥ pavitrābhiḥ prāha deva-ādibhiḥ vṛtaḥ .
श्रीब्रह्मोवाच ।
देवदेवाखिलाध्यक्ष भूतभावन पूर्वज । दिष्ट्या ते निहतः पापो लोकसन्तापनोऽसुरः २६ ।
देवदेव अखिल-अध्यक्ष भूतभावन पूर्वज । दिष्ट्या ते निहतः पापः लोक-सन्तापनः असुरः ।
devadeva akhila-adhyakṣa bhūtabhāvana pūrvaja . diṣṭyā te nihataḥ pāpaḥ loka-santāpanaḥ asuraḥ .
योऽसौ लब्धवरो मत्तो न वध्यो मम सृष्टिभिः । तपोयोगबलोन्नद्धः समस्तनिगमानहन् २७ ।
यः असौ लब्ध-वरः मत्तः न वध्यः मम सृष्टिभिः । तपः-योग-बल-उन्नद्धः समस्त-निगमान् अहन् ।
yaḥ asau labdha-varaḥ mattaḥ na vadhyaḥ mama sṛṣṭibhiḥ . tapaḥ-yoga-bala-unnaddhaḥ samasta-nigamān ahan .
दिष्ट्या तत्तनयः साधुर्महाभागवतोऽर्भकः । त्वया विमोचितो मृत्योर्दिष्ट्या त्वां समितोऽधुना २८ ।
दिष्ट्या तद्-तनयः साधुः महा-भागवतः अर्भकः । त्वया विमोचितः मृत्योः दिष्ट्या त्वाम् समितः अधुना ।
diṣṭyā tad-tanayaḥ sādhuḥ mahā-bhāgavataḥ arbhakaḥ . tvayā vimocitaḥ mṛtyoḥ diṣṭyā tvām samitaḥ adhunā .
एतद्वपुस्ते भगवन्ध्यायतः परमात्मनः । सर्वतो गोप्तृ सन्त्रासान्मृत्योरपि जिघांसतः २९ ।
एतत् वपुः ते भगवन् ध्यायतः परमात्मनः । सर्वतस् गोप्तृ सन्त्रासात् मृत्योः अपि जिघांसतः ।
etat vapuḥ te bhagavan dhyāyataḥ paramātmanaḥ . sarvatas goptṛ santrāsāt mṛtyoḥ api jighāṃsataḥ .
श्रीभगवानुवाच ।
मैवं विभोऽसुराणां ते प्रदेयः पद्मसम्भव । वरः क्रूरनिसर्गाणामहीनाममृतं यथा ३० ।
मा एवम् विभो असुराणाम् ते प्रदेयः पद्मसम्भव । वरः क्रूर-निसर्गाणाम् अहीनाम् अमृतम् यथा ।
mā evam vibho asurāṇām te pradeyaḥ padmasambhava . varaḥ krūra-nisargāṇām ahīnām amṛtam yathā .
श्रीनारद उवाच ।
इत्युक्त्वा भगवान्राजंस्ततश्चान्तर्दधे हरिः । अदृश्यः सर्वभूतानां पूजितः परमेष्ठिना ३१ ।
इति उक्त्वा भगवान् राजन् ततस् च अन्तर्दधे हरिः । अदृश्यः सर्व-भूतानाम् पूजितः परमेष्ठिना ।
iti uktvā bhagavān rājan tatas ca antardadhe hariḥ . adṛśyaḥ sarva-bhūtānām pūjitaḥ parameṣṭhinā .
ततः सम्पूज्य शिरसा ववन्दे परमेष्ठिनम् । भवं प्रजापतीन्देवान्प्रह्रादो भगवत्कलाः ३२ ।
ततस् सम्पूज्य शिरसा ववन्दे परमेष्ठिनम् । भवम् प्रजापतीन् देवान् प्रह्रादः भगवत्-कलाः ।
tatas sampūjya śirasā vavande parameṣṭhinam . bhavam prajāpatīn devān prahrādaḥ bhagavat-kalāḥ .
ततः काव्यादिभिः सार्धं मुनिभिः कमलासनः । दैत्यानां दानवानां च प्रह्रादमकरोत्पतिम् ३३ ।
ततस् काव्य-आदिभिः सार्धम् मुनिभिः कमलासनः । दैत्यानाम् दानवानाम् च प्रह्रादम् अकरोत् पतिम् ।
tatas kāvya-ādibhiḥ sārdham munibhiḥ kamalāsanaḥ . daityānām dānavānām ca prahrādam akarot patim .
प्रतिनन्द्य ततो देवाः प्रयुज्य परमाशिषः । स्वधामानि ययू राजन्ब्रह्माद्याः प्रतिपूजिताः ३४ ।
प्रतिनन्द्य ततस् देवाः प्रयुज्य परम-आशिषः । स्व-धामानि ययुः राजन् ब्रह्म-आद्याः प्रतिपूजिताः ।
pratinandya tatas devāḥ prayujya parama-āśiṣaḥ . sva-dhāmāni yayuḥ rājan brahma-ādyāḥ pratipūjitāḥ .
एवं च पार्षदौ विष्णोः पुत्रत्वं प्रापितौ दितेः । हृदि स्थितेन हरिणा वैरभावेन तौ हतौ ३५ ।
एवम् च पार्षदौ विष्णोः पुत्र-त्वम् प्रापितौ दितेः । हृदि स्थितेन हरिणा वैर-भावेन तौ हतौ ।
evam ca pārṣadau viṣṇoḥ putra-tvam prāpitau diteḥ . hṛdi sthitena hariṇā vaira-bhāvena tau hatau .
पुनश्च विप्रशापेन राक्षसौ तौ बभूवतुः । कुम्भकर्णदशग्रीवौ हतौ तौ रामविक्रमैः ३६ ।
पुनर् च विप्र-शापेन राक्षसौ तौ बभूवतुः । कुम्भकर्ण-दशग्रीवौ हतौ तौ राम-विक्रमैः ।
punar ca vipra-śāpena rākṣasau tau babhūvatuḥ . kumbhakarṇa-daśagrīvau hatau tau rāma-vikramaiḥ .
शयानौ युधि निर्भिन्न हृदयौ रामशायकैः । तच्चित्तौ जहतुर्देहं यथा प्राक्तनजन्मनि ३७ ।
शयानौ युधि निर्भिन्न-हृदयौ राम-शायकैः । तद्-चित्तौ जहतुः देहम् यथा प्राक्तन-जन्मनि ।
śayānau yudhi nirbhinna-hṛdayau rāma-śāyakaiḥ . tad-cittau jahatuḥ deham yathā prāktana-janmani .
ताविहाथ पुनर्जातौ शिशुपालकरूषजौ । हरौ वैरानुबन्धेन पश्यतस्ते समीयतुः ३८ ।
तौ इह अथ पुनर् जातौ शिशुपाल-करूष-जौ । हरौ वैर-अनुबन्धेन पश्यतः ते समीयतुः ।
tau iha atha punar jātau śiśupāla-karūṣa-jau . harau vaira-anubandhena paśyataḥ te samīyatuḥ .
एनः पूर्वकृतं यत्तद्राजानः कृष्णवैरिणः । जहुस्तेऽन्ते तदात्मानः कीटः पेशस्कृतो यथा ३९ ।
एनः पूर्व-कृतम् यत् तत् राजानः कृष्ण-वैरिणः । जहुः ते अन्ते तद्-आत्मानः कीटः पेशस्कृतः यथा ।
enaḥ pūrva-kṛtam yat tat rājānaḥ kṛṣṇa-vairiṇaḥ . jahuḥ te ante tad-ātmānaḥ kīṭaḥ peśaskṛtaḥ yathā .
यथा यथा भगवतो भक्त्या परमयाभिदा । नृपाश्चैद्यादयः सात्म्यं हरेस्तच्चिन्तया ययुः ४० ।
यथा यथा भगवतः भक्त्या परमया अभिदा । नृपाः चैद्य-आदयः सात्म्यम् हरेः तद्-चिन्तया ययुः ।
yathā yathā bhagavataḥ bhaktyā paramayā abhidā . nṛpāḥ caidya-ādayaḥ sātmyam hareḥ tad-cintayā yayuḥ .
आख्यातं सर्वमेतत्ते यन्मां त्वं परिपृष्टवान् । दमघोषसुतादीनां हरेः सात्म्यमपि द्विषाम् ४१ ।
आख्यातम् सर्वम् एतत् ते यत् माम् त्वम् परिपृष्टवान् । दमघोष-सुत-आदीनाम् हरेः सात्म्यम् अपि द्विषाम् ।
ākhyātam sarvam etat te yat mām tvam paripṛṣṭavān . damaghoṣa-suta-ādīnām hareḥ sātmyam api dviṣām .
एषा ब्रह्मण्यदेवस्य कृष्णस्य च महात्मनः । अवतारकथा पुण्या वधो यत्रादिदैत्ययोः ४२ ।
एषा ब्रह्मण्यदेवस्य कृष्णस्य च महात्मनः । अवतार-कथा पुण्या वधः यत्र आदिदैत्ययोः ।
eṣā brahmaṇyadevasya kṛṣṇasya ca mahātmanaḥ . avatāra-kathā puṇyā vadhaḥ yatra ādidaityayoḥ .
प्रह्रादस्यानुचरितं महाभागवतस्य च । भक्तिर्ज्ञानं विरक्तिश्च याथार्थ्यं चास्य वै हरेः ४३ ।
प्रह्रादस्य अनुचरितम् महा-भागवतस्य च । भक्तिः ज्ञानम् विरक्तिः च याथार्थ्यम् च अस्य वै हरेः ।
prahrādasya anucaritam mahā-bhāgavatasya ca . bhaktiḥ jñānam viraktiḥ ca yāthārthyam ca asya vai hareḥ .
सर्गस्थित्यप्ययेशस्य गुणकर्मानुवर्णनम् । परावरेषां स्थानानां कालेन व्यत्ययो महान् ४४ ।
सर्ग-स्थिति-अप्यय-ईशस्य गुण-कर्म-अनुवर्णनम् । पर-अवरेषाम् स्थानानाम् कालेन व्यत्ययः महान् ।
sarga-sthiti-apyaya-īśasya guṇa-karma-anuvarṇanam . para-avareṣām sthānānām kālena vyatyayaḥ mahān .
धर्मो भागवतानां च भगवान्येन गम्यते । आख्यानेऽस्मिन्समाम्नातमाध्यात्मिकमशेषतः ४५ ।
धर्मः भागवतानाम् च भगवान् येन गम्यते । आख्याने अस्मिन् समाम्नातम् आध्यात्मिकम् अशेषतस् ।
dharmaḥ bhāgavatānām ca bhagavān yena gamyate . ākhyāne asmin samāmnātam ādhyātmikam aśeṣatas .
य एतत्पुण्यमाख्यानं विष्णोर्वीर्योपबृंहितम् । कीर्तयेच्छ्रद्धया श्रुत्वा कर्मपाशैर्विमुच्यते ४६ ।
यः एतत् पुण्यम् आख्यानम् विष्णोः वीर्य-उपबृंहितम् । कीर्तयेत् श्रद्धया श्रुत्वा कर्म-पाशैः विमुच्यते ।
yaḥ etat puṇyam ākhyānam viṣṇoḥ vīrya-upabṛṃhitam . kīrtayet śraddhayā śrutvā karma-pāśaiḥ vimucyate .
एतद्य आदिपुरुषस्य मृगेन्द्र लीलां । दैत्येन्द्र यूथपवधं प्रयतः पठेत । दैत्यात्मजस्य च सतां प्रवरस्य पुण्यं । श्रुत्वानुभावमकुतोभयमेति लोकम् ४७ ।
एतत् यः आदिपुरुषस्य मृगेन्द्र लीलाम् । दैत्य-इन्द्र यूथप-वधम् प्रयतः पठेत । दैत्य-आत्मजस्य च सताम् प्रवरस्य पुण्यम् । श्रुत्वा अनुभावम् अकुतोभयम् एति लोकम् ।
etat yaḥ ādipuruṣasya mṛgendra līlām . daitya-indra yūthapa-vadham prayataḥ paṭheta . daitya-ātmajasya ca satām pravarasya puṇyam . śrutvā anubhāvam akutobhayam eti lokam .
यूयं नृलोके बत भूरिभागा लोकं पुनाना मुनयोऽभियन्ति । येषां गृहानावसतीति साक्षाद्गूढं परं ब्रह्म मनुष्यलिङ्गम् ४८ ।
यूयम् नृ-लोके बत भूरि-भागाः लोकम् पुनानाः मुनयः अभियन्ति । येषाम् गृहान् आवसति इति साक्षात् गूढम् परम् ब्रह्म मनुष्य-लिङ्गम् ।
yūyam nṛ-loke bata bhūri-bhāgāḥ lokam punānāḥ munayaḥ abhiyanti . yeṣām gṛhān āvasati iti sākṣāt gūḍham param brahma manuṣya-liṅgam .
स वा अयं ब्रह्म महद्विमृग्य कैवल्यनिर्वाणसुखानुभूतिः । प्रियः सुहृद्वः खलु मातुलेय आत्मार्हणीयो विधिकृद्गुरुश्च ४९ ।
स वै अयम् ब्रह्म महत् विमृग्य कैवल्य-निर्वाण-सुख-अनुभूतिः । प्रियः सुहृद् वः खलु मातुलेयः आत्म-अर्हणीयः विधि-कृत् गुरुः च ।
sa vai ayam brahma mahat vimṛgya kaivalya-nirvāṇa-sukha-anubhūtiḥ . priyaḥ suhṛd vaḥ khalu mātuleyaḥ ātma-arhaṇīyaḥ vidhi-kṛt guruḥ ca .
न यस्य साक्षाद्भवपद्मजादिभी रूपं धिया वस्तुतयोपवर्णितम् । मौनेन भक्त्योपशमेन पूजितः प्रसीदतामेष स सात्वतां पतिः ५० ।
न यस्य साक्षात् भव-पद्मज-आदिभिः रूपम् धिया वस्तु-तया उपवर्णितम् । मौनेन भक्त्या उपशमेन पूजितः प्रसीदताम् एष स सात्वताम् पतिः ।
na yasya sākṣāt bhava-padmaja-ādibhiḥ rūpam dhiyā vastu-tayā upavarṇitam . maunena bhaktyā upaśamena pūjitaḥ prasīdatām eṣa sa sātvatām patiḥ .
स एष भगवान्राजन्व्यतनोद्विहतं यशः । पुरा रुद्र स्य देवस्य मयेनानन्तमायिना ५१ ।
सः एष भगवान् राजन् व्यतन-उद्विहतम् यशः । पुरा देवस्य मयेन अनन्त-मायिना ।
saḥ eṣa bhagavān rājan vyatana-udvihatam yaśaḥ . purā devasya mayena ananta-māyinā .
राजोवाच ।
कस्मिन्कर्मणि देवस्य मयोऽहन्जगदीशितुः । यथा चोपचिता कीर्तिः कृष्णेनानेन कथ्यताम् ५२ ।
कस्मिन् कर्मणि देवस्य मयः अहन् जगदीशितुः । यथा च उपचिता कीर्तिः कृष्णेन अनेन कथ्यताम् ।
kasmin karmaṇi devasya mayaḥ ahan jagadīśituḥ . yathā ca upacitā kīrtiḥ kṛṣṇena anena kathyatām .
श्रीनारद उवाच ।
निर्जिता असुरा देवैर्युध्यनेनोपबृंहितैः । मायिनां परमाचार्यं मयं शरणमाययुः ५३ ।
निर्जिताः असुराः देवैः युधि अनेन उपबृंहितैः । मायिनाम् परम-आचार्यम् मयम् शरणम् आययुः ।
nirjitāḥ asurāḥ devaiḥ yudhi anena upabṛṃhitaiḥ . māyinām parama-ācāryam mayam śaraṇam āyayuḥ .
स निर्माय पुरस्तिस्रो हैमीरौप्यायसीर्विभुः । दुर्लक्ष्यापायसंयोगा दुर्वितर्क्यपरिच्छदाः ५४ ।
स निर्माय पुरः तिस्रः हैमीः रौप्य-आयसीः विभुः । दुर्लक्ष्य-अपाय-संयोगाः दुर्वितर्क्य-परिच्छदाः ।
sa nirmāya puraḥ tisraḥ haimīḥ raupya-āyasīḥ vibhuḥ . durlakṣya-apāya-saṃyogāḥ durvitarkya-paricchadāḥ .
ताभिस्तेऽसुरसेनान्यो लोकांस्त्रीन्सेश्वरान्नृप । स्मरन्तो नाशयां चक्रुः पूर्ववैरमलक्षिताः ५५ ।
ताभिः ते असुर-सेनान् यः लोकान् त्रीन् स ईश्वरान् नृप । स्मरन्तः चक्रुः पूर्व-वैरम् अलक्षिताः ।
tābhiḥ te asura-senān yaḥ lokān trīn sa īśvarān nṛpa . smarantaḥ cakruḥ pūrva-vairam alakṣitāḥ .
ततस्ते सेश्वरा लोका उपासाद्येश्वरं नताः । त्राहि नस्तावकान्देव विनष्टांस्त्रिपुरालयैः ५६ ।
ततस् ते स ईश्वराः लोकाः उपासाद्य ईश्वरम् नताः । त्राहि नः तावकान् देव विनष्टान् त्रिपुर-आलयैः ।
tatas te sa īśvarāḥ lokāḥ upāsādya īśvaram natāḥ . trāhi naḥ tāvakān deva vinaṣṭān tripura-ālayaiḥ .
अथानुगृह्य भगवान्मा भैष्टेति सुरान्विभुः । शरं धनुषि सन्धाय पुरेष्वस्त्रं व्यमुञ्चत ५७ ।
अथ अनुगृह्य भगवान् मा भैष्ट इति सुरान् विभुः । शरम् धनुषि सन्धाय पुरेषु अस्त्रम् व्यमुञ्चत ।
atha anugṛhya bhagavān mā bhaiṣṭa iti surān vibhuḥ . śaram dhanuṣi sandhāya pureṣu astram vyamuñcata .
ततोऽग्निवर्णा इषव उत्पेतुः सूर्यमण्डलात् । यथा मयूखसन्दोहा नादृश्यन्त पुरो यतः ५८ ।
ततस् अग्नि-वर्णाः इषवः उत्पेतुः सूर्य-मण्डलात् । यथा मयूख-सन्दोहाः न अदृश्यन्त पुरस् यतस् ।
tatas agni-varṇāḥ iṣavaḥ utpetuḥ sūrya-maṇḍalāt . yathā mayūkha-sandohāḥ na adṛśyanta puras yatas .
तैः स्पृष्टा व्यसवः सर्वे निपेतुः स्म पुरौकसः । तानानीय महायोगी मयः कूपरसेऽक्षिपत् ५९ ।
तैः स्पृष्टाः व्यसवः सर्वे निपेतुः स्म पुरौकसः । तान् आनीय महा-योगी मयः कूप-रसे अक्षिपत् ।
taiḥ spṛṣṭāḥ vyasavaḥ sarve nipetuḥ sma puraukasaḥ . tān ānīya mahā-yogī mayaḥ kūpa-rase akṣipat .
सिद्धामृतरसस्पृष्टा वज्रसारा महौजसः । उत्तस्थुर्मेघदलना वैद्युता इव वह्नयः ६० ।
सिद्ध-अमृत-रस-स्पृष्टाः वज्र-साराः महा-ओजसः । उत्तस्थुः मेघ-दलनाः वैद्युताः इव वह्नयः ।
siddha-amṛta-rasa-spṛṣṭāḥ vajra-sārāḥ mahā-ojasaḥ . uttasthuḥ megha-dalanāḥ vaidyutāḥ iva vahnayaḥ .
विलोक्य भग्नसङ्कल्पं विमनस्कं वृषध्वजम् । तदायं भगवान्विष्णुस्तत्रोपायमकल्पयत् ६१ ।
विलोक्य भग्न-सङ्कल्पम् विमनस्कम् वृषध्वजम् । तदा अयम् भगवान् विष्णुः तत्र उपायम् अकल्पयत् ।
vilokya bhagna-saṅkalpam vimanaskam vṛṣadhvajam . tadā ayam bhagavān viṣṇuḥ tatra upāyam akalpayat .
वत्सश्चासीत्तदा ब्रह्मा स्वयं विष्णुरयं हि गौः । प्रविश्य त्रिपुरं काले रसकूपामृतं पपौ ६२ ।
वत्सः च आसीत् तदा ब्रह्मा स्वयम् विष्णुः अयम् हि गौः । प्रविश्य त्रिपुरम् काले रसकूप-अमृतम् पपौ ।
vatsaḥ ca āsīt tadā brahmā svayam viṣṇuḥ ayam hi gauḥ . praviśya tripuram kāle rasakūpa-amṛtam papau .
तेऽसुरा ह्यपि पश्यन्तो न न्यषेधन्विमोहिताः । तद्विज्ञाय महायोगी रसपालानिदं जगौ ६३ ।
ते असुराः हि अपि पश्यन्तः न न्यषेधन् विमोहिताः । तत् विज्ञाय महा-योगी रसपालान् इदम् जगौ ।
te asurāḥ hi api paśyantaḥ na nyaṣedhan vimohitāḥ . tat vijñāya mahā-yogī rasapālān idam jagau .
स्मयन्विशोकः शोकार्तान्स्मरन्दैवगतिं च ताम् । देवोऽसुरो नरोऽन्यो वा नेश्वरोऽस्तीह कश्चन ६४ ।
स्मयन् विशोकः शोक-आर्तान् स्मरन् दैव-गतिम् च ताम् । देवः असुरः नरः अन्यः वा न ईश्वरः अस्ति इह कश्चन ।
smayan viśokaḥ śoka-ārtān smaran daiva-gatim ca tām . devaḥ asuraḥ naraḥ anyaḥ vā na īśvaraḥ asti iha kaścana .
आत्मनोऽन्यस्य वा दिष्टं दैवेनापोहितुं द्वयोः । अथासौ शक्तिभिः स्वाभिः शम्भोः प्राधानिकं व्यधात् ६५ ।
आत्मनः अन्यस्य वा दिष्टम् दैवेन अपोहितुम् द्वयोः । अथा असौ शक्तिभिः स्वाभिः शम्भोः प्राधानिकम् व्यधात् ।
ātmanaḥ anyasya vā diṣṭam daivena apohitum dvayoḥ . athā asau śaktibhiḥ svābhiḥ śambhoḥ prādhānikam vyadhāt .
धर्मज्ञानविरक्त्यृद्धि तपोविद्याक्रियादिभिः । रथं सूतं ध्वजं वाहान्धनुर्वर्मशरादि यत् ६६ ।
। रथम् सूतम् ध्वजम् वाहान् धनुः-वर्म-शर-आदि यत् ।
. ratham sūtam dhvajam vāhān dhanuḥ-varma-śara-ādi yat .
सन्नद्धो रथमास्थाय शरं धनुरुपाददे । शरं धनुषि सन्धाय मुहूर्तेऽभिजितीश्वरः ६७ ।
सन्नद्धः रथम् आस्थाय शरम् धनुः उपाददे । शरम् धनुषि सन्धाय मुहूर्ते अभिजिति-ईश्वरः ।
sannaddhaḥ ratham āsthāya śaram dhanuḥ upādade . śaram dhanuṣi sandhāya muhūrte abhijiti-īśvaraḥ .
ददाह तेन दुर्भेद्या हरोऽथ त्रिपुरो नृप । दिवि दुन्दुभयो नेदुर्विमानशतसङ्कुलाः ६८ ।
ददाह तेन दुर्भेद्या हरः अथ त्रिपुरः नृप । दिवि दुन्दुभयः नेदुः विमान-शत-सङ्कुलाः ।
dadāha tena durbhedyā haraḥ atha tripuraḥ nṛpa . divi dundubhayaḥ neduḥ vimāna-śata-saṅkulāḥ .
देवर्षिपितृसिद्धेशा जयेति कुसुमोत्करैः । अवाकिरन्जगुर्हृष्टा ननृतुश्चाप्सरोगणाः ६९ ।
देव-ऋषि-पितृ-सिद्ध-ईशाः जय इति कुसुम-उत्करैः । अवाकिरन् जगुः हृष्टाः ननृतुः च अप्सरः-गणाः ।
deva-ṛṣi-pitṛ-siddha-īśāḥ jaya iti kusuma-utkaraiḥ . avākiran jaguḥ hṛṣṭāḥ nanṛtuḥ ca apsaraḥ-gaṇāḥ .
एवं दग्ध्वा पुरस्तिस्रो भगवान्पुरहा नृप । ब्रह्मादिभिः स्तूयमानः स्वं धाम प्रत्यपद्यत ७० ।
एवम् दग्ध्वा पुरः तिस्रः भगवान् पुर-हा नृप । ब्रह्म-आदिभिः स्तूयमानः स्वम् धाम प्रत्यपद्यत ।
evam dagdhvā puraḥ tisraḥ bhagavān pura-hā nṛpa . brahma-ādibhiḥ stūyamānaḥ svam dhāma pratyapadyata .
एवं विधान्यस्य हरेः स्वमायया विडम्बमानस्य नृलोकमात्मनः । वीर्याणि गीतान्यृषिभिर्जगद्गुरोर्लोकं पुनानान्यपरं वदामि किम् ७१ ।
एवंविधानि अस्य हरेः स्व-मायया विडम्बमानस्य नृ-लोकम् आत्मनः । वीर्याणि गीतानि ऋषिभिः जगद्गुरोः लोकम् पुनाना अन्य-परम् वदामि किम् ।
evaṃvidhāni asya hareḥ sva-māyayā viḍambamānasya nṛ-lokam ātmanaḥ . vīryāṇi gītāni ṛṣibhiḥ jagadguroḥ lokam punānā anya-param vadāmi kim .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे युधिष्ठिरनारदसंवादे त्रिपुरविजये नाम दशमोऽध्यायः ।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् सप्तम-स्कन्धे युधिष्ठिर-नारद-संवादे त्रिपुरविजये नाम दशमः अध्यायः ।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām saptama-skandhe yudhiṣṭhira-nārada-saṃvāde tripuravijaye nāma daśamaḥ adhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In