| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीनारद उवाच ।
भक्तियोगस्य तत्सर्वमन्तरायतयार्भकः । मन्यमानो हृषीकेशं स्मयमान उवाच ह १ ।
bhaktiyogasya tatsarvamantarāyatayārbhakaḥ . manyamāno hṛṣīkeśaṃ smayamāna uvāca ha 1 .
श्रीप्रह्राद उवाच ।
मा मां प्रलोभयोत्पत्त्या सक्तंकामेषु तैर्वरैः । तत्सङ्गभीतो निर्विण्णो मुमुक्षुस्त्वामुपाश्रितः २ ।
mā māṃ pralobhayotpattyā saktaṃkāmeṣu tairvaraiḥ . tatsaṅgabhīto nirviṇṇo mumukṣustvāmupāśritaḥ 2 .
भृत्यलक्षणजिज्ञासुर्भक्तं कामेष्वचोदयत् । भवान्संसारबीजेषु हृदयग्रन्थिषु प्रभो ३ ।
bhṛtyalakṣaṇajijñāsurbhaktaṃ kāmeṣvacodayat . bhavānsaṃsārabījeṣu hṛdayagranthiṣu prabho 3 .
नान्यथा तेऽखिलगुरो घटेत करुणात्मनः । यस्त आशिष आशास्ते न स भृत्यः स वै वणिक् ४ ।
nānyathā te'khilaguro ghaṭeta karuṇātmanaḥ . yasta āśiṣa āśāste na sa bhṛtyaḥ sa vai vaṇik 4 .
आशासानो न वै भृत्यः स्वामिन्याशिष आत्मनः । न स्वामी भृत्यतः स्वाम्यमिच्छन्यो राति चाशिषः ५ ।
āśāsāno na vai bhṛtyaḥ svāminyāśiṣa ātmanaḥ . na svāmī bhṛtyataḥ svāmyamicchanyo rāti cāśiṣaḥ 5 .
अहं त्वकामस्त्वद्भक्तस्त्वं च स्वाम्यनपाश्रयः । नान्यथेहावयोरर्थो राजसेवकयोरिव ६ ।
ahaṃ tvakāmastvadbhaktastvaṃ ca svāmyanapāśrayaḥ . nānyathehāvayorartho rājasevakayoriva 6 .
यदि दास्यसि मे कामान्वरांस्त्वं वरदर्षभ । कामानां हृद्यसंरोहं भवतस्तु वृणे वरम् ७ ।
yadi dāsyasi me kāmānvarāṃstvaṃ varadarṣabha . kāmānāṃ hṛdyasaṃrohaṃ bhavatastu vṛṇe varam 7 .
इन्द्रि याणि मनः प्राण आत्मा धर्मो धृतिर्मतिः । ह्रीः श्रीस्तेजः स्मृतिः सत्यं यस्य नश्यन्ति जन्मना ८ ।
indri yāṇi manaḥ prāṇa ātmā dharmo dhṛtirmatiḥ . hrīḥ śrīstejaḥ smṛtiḥ satyaṃ yasya naśyanti janmanā 8 .
विमुञ्चति यदा कामान्मानवो मनसि स्थितान् । तर्ह्येव पुण्डरीकाक्ष भगवत्त्वाय कल्पते ९ ।
vimuñcati yadā kāmānmānavo manasi sthitān . tarhyeva puṇḍarīkākṣa bhagavattvāya kalpate 9 .
ॐ नमो भगवते तुभ्यं पुरुषाय महात्मने । हरयेऽद्भुतसिंहाय ब्रह्मणे परमात्मने १० ।
oṃ namo bhagavate tubhyaṃ puruṣāya mahātmane . haraye'dbhutasiṃhāya brahmaṇe paramātmane 10 .
श्रीभगवानुवाच ।
नैकान्तिनो मे मयि जात्विहाशिष आशासतेऽमुत्र च ये भवद्विधाः । तथापि मन्वन्तरमेतदत्र दैत्येश्वराणामनुभुङ्क्ष्व भोगान् ११ ।
naikāntino me mayi jātvihāśiṣa āśāsate'mutra ca ye bhavadvidhāḥ . tathāpi manvantarametadatra daityeśvarāṇāmanubhuṅkṣva bhogān 11 .
कथा मदीया जुषमाणः प्रियास्त्वमावेश्य मामात्मनि सन्तमेकम् । सर्वेषु भूतेष्वधियज्ञमीशं यजस्व योगेन च कर्म हिन्वन् १२ ।
kathā madīyā juṣamāṇaḥ priyāstvamāveśya māmātmani santamekam . sarveṣu bhūteṣvadhiyajñamīśaṃ yajasva yogena ca karma hinvan 12 .
भोगेन पुण्यं कुशलेन पापं कलेवरं कालजवेन हित्वा । कीर्तिं विशुद्धां सुरलोकगीतां विताय मामेष्यसि मुक्तबन्धः १३ ।
bhogena puṇyaṃ kuśalena pāpaṃ kalevaraṃ kālajavena hitvā . kīrtiṃ viśuddhāṃ suralokagītāṃ vitāya māmeṣyasi muktabandhaḥ 13 .
य एतत्कीर्तयेन्मह्यं त्वया गीतमिदं नरः । त्वां च मां च स्मरन्काले कर्मबन्धात्प्रमुच्यते १४ ।
ya etatkīrtayenmahyaṃ tvayā gītamidaṃ naraḥ . tvāṃ ca māṃ ca smarankāle karmabandhātpramucyate 14 .
श्रीप्रह्राद उवाच ।
वरं वरय एतत्ते वरदेशान्महेश्वर । यदनिन्दत्पिता मे त्वामविद्वांस्तेज ऐश्वरम् १५ ।
varaṃ varaya etatte varadeśānmaheśvara . yadanindatpitā me tvāmavidvāṃsteja aiśvaram 15 .
विद्धामर्षाशयः साक्षात्सर्वलोकगुरुं प्रभुम् । भ्रातृहेति मृषादृष्टिस्त्वद्भक्ते मयि चाघवान् १६ ।
viddhāmarṣāśayaḥ sākṣātsarvalokaguruṃ prabhum . bhrātṛheti mṛṣādṛṣṭistvadbhakte mayi cāghavān 16 .
तस्मात्पिता मे पूयेत दुरन्ताद्दुस्तरादघात् । पूतस्तेऽपाङ्गसंदृष्टस्तदा कृपणवत्सल १७ ।
tasmātpitā me pūyeta durantāddustarādaghāt . pūtaste'pāṅgasaṃdṛṣṭastadā kṛpaṇavatsala 17 .
श्रीभगवानुवाच ।
त्रिःसप्तभिः पिता पूतः पितृभिः सह तेऽनघ । यत्साधोऽस्य कुले जातो भवान्वै कुलपावनः १८ ।
triḥsaptabhiḥ pitā pūtaḥ pitṛbhiḥ saha te'nagha . yatsādho'sya kule jāto bhavānvai kulapāvanaḥ 18 .
यत्र यत्र च मद्भक्ताः प्रशान्ताः समदर्शिनः । साधवः समुदाचारास्ते पूयन्तेऽपि कीकटाः १९ ।
yatra yatra ca madbhaktāḥ praśāntāḥ samadarśinaḥ . sādhavaḥ samudācārāste pūyante'pi kīkaṭāḥ 19 .
सर्वात्मना न हिंसन्ति भूतग्रामेषु किञ्चन । उच्चावचेषु दैत्येन्द्र मद्भावविगतस्पृहाः २० ।
sarvātmanā na hiṃsanti bhūtagrāmeṣu kiñcana . uccāvaceṣu daityendra madbhāvavigataspṛhāḥ 20 .
भवन्ति पुरुषा लोके मद्भक्तास्त्वामनुव्रताः । भवान्मे खलु भक्तानां सर्वेषां प्रतिरूपधृक् २१ ।
bhavanti puruṣā loke madbhaktāstvāmanuvratāḥ . bhavānme khalu bhaktānāṃ sarveṣāṃ pratirūpadhṛk 21 .
कुरु त्वं प्रेतकृत्यानि पितुः पूतस्य सर्वशः । मदङ्गस्पर्शनेनाङ्ग लोकान्यास्यति सुप्रजाः २२ ।
kuru tvaṃ pretakṛtyāni pituḥ pūtasya sarvaśaḥ . madaṅgasparśanenāṅga lokānyāsyati suprajāḥ 22 .
पित्र्यं च स्थानमातिष्ठ यथोक्तं ब्रह्मवादिभिः । मय्यावेश्य मनस्तात कुरु कर्माणि मत्परः २३ ।
pitryaṃ ca sthānamātiṣṭha yathoktaṃ brahmavādibhiḥ . mayyāveśya manastāta kuru karmāṇi matparaḥ 23 .
श्रीनारद उवाच ।
प्रह्रादोऽपि तथा चक्रे पितुर्यत्साम्परायिकम् । यथाह भगवान्राजन्नभिषिक्तो द्विजातिभिः २४ ।
prahrādo'pi tathā cakre pituryatsāmparāyikam . yathāha bhagavānrājannabhiṣikto dvijātibhiḥ 24 .
प्रसादसुमुखं दृष्ट्वा ब्रह्मा नरहरिं हरिम् । स्तुत्वा वाग्भिः पवित्राभिः प्राह देवादिभिर्वृतः २५ ।
prasādasumukhaṃ dṛṣṭvā brahmā narahariṃ harim . stutvā vāgbhiḥ pavitrābhiḥ prāha devādibhirvṛtaḥ 25 .
श्रीब्रह्मोवाच ।
देवदेवाखिलाध्यक्ष भूतभावन पूर्वज । दिष्ट्या ते निहतः पापो लोकसन्तापनोऽसुरः २६ ।
devadevākhilādhyakṣa bhūtabhāvana pūrvaja . diṣṭyā te nihataḥ pāpo lokasantāpano'suraḥ 26 .
योऽसौ लब्धवरो मत्तो न वध्यो मम सृष्टिभिः । तपोयोगबलोन्नद्धः समस्तनिगमानहन् २७ ।
yo'sau labdhavaro matto na vadhyo mama sṛṣṭibhiḥ . tapoyogabalonnaddhaḥ samastanigamānahan 27 .
दिष्ट्या तत्तनयः साधुर्महाभागवतोऽर्भकः । त्वया विमोचितो मृत्योर्दिष्ट्या त्वां समितोऽधुना २८ ।
diṣṭyā tattanayaḥ sādhurmahābhāgavato'rbhakaḥ . tvayā vimocito mṛtyordiṣṭyā tvāṃ samito'dhunā 28 .
एतद्वपुस्ते भगवन्ध्यायतः परमात्मनः । सर्वतो गोप्तृ सन्त्रासान्मृत्योरपि जिघांसतः २९ ।
etadvapuste bhagavandhyāyataḥ paramātmanaḥ . sarvato goptṛ santrāsānmṛtyorapi jighāṃsataḥ 29 .
श्रीभगवानुवाच ।
मैवं विभोऽसुराणां ते प्रदेयः पद्मसम्भव । वरः क्रूरनिसर्गाणामहीनाममृतं यथा ३० ।
maivaṃ vibho'surāṇāṃ te pradeyaḥ padmasambhava . varaḥ krūranisargāṇāmahīnāmamṛtaṃ yathā 30 .
श्रीनारद उवाच ।
इत्युक्त्वा भगवान्राजंस्ततश्चान्तर्दधे हरिः । अदृश्यः सर्वभूतानां पूजितः परमेष्ठिना ३१ ।
ityuktvā bhagavānrājaṃstataścāntardadhe hariḥ . adṛśyaḥ sarvabhūtānāṃ pūjitaḥ parameṣṭhinā 31 .
ततः सम्पूज्य शिरसा ववन्दे परमेष्ठिनम् । भवं प्रजापतीन्देवान्प्रह्रादो भगवत्कलाः ३२ ।
tataḥ sampūjya śirasā vavande parameṣṭhinam . bhavaṃ prajāpatīndevānprahrādo bhagavatkalāḥ 32 .
ततः काव्यादिभिः सार्धं मुनिभिः कमलासनः । दैत्यानां दानवानां च प्रह्रादमकरोत्पतिम् ३३ ।
tataḥ kāvyādibhiḥ sārdhaṃ munibhiḥ kamalāsanaḥ . daityānāṃ dānavānāṃ ca prahrādamakarotpatim 33 .
प्रतिनन्द्य ततो देवाः प्रयुज्य परमाशिषः । स्वधामानि ययू राजन्ब्रह्माद्याः प्रतिपूजिताः ३४ ।
pratinandya tato devāḥ prayujya paramāśiṣaḥ . svadhāmāni yayū rājanbrahmādyāḥ pratipūjitāḥ 34 .
एवं च पार्षदौ विष्णोः पुत्रत्वं प्रापितौ दितेः । हृदि स्थितेन हरिणा वैरभावेन तौ हतौ ३५ ।
evaṃ ca pārṣadau viṣṇoḥ putratvaṃ prāpitau diteḥ . hṛdi sthitena hariṇā vairabhāvena tau hatau 35 .
पुनश्च विप्रशापेन राक्षसौ तौ बभूवतुः । कुम्भकर्णदशग्रीवौ हतौ तौ रामविक्रमैः ३६ ।
punaśca vipraśāpena rākṣasau tau babhūvatuḥ . kumbhakarṇadaśagrīvau hatau tau rāmavikramaiḥ 36 .
शयानौ युधि निर्भिन्न हृदयौ रामशायकैः । तच्चित्तौ जहतुर्देहं यथा प्राक्तनजन्मनि ३७ ।
śayānau yudhi nirbhinna hṛdayau rāmaśāyakaiḥ . taccittau jahaturdehaṃ yathā prāktanajanmani 37 .
ताविहाथ पुनर्जातौ शिशुपालकरूषजौ । हरौ वैरानुबन्धेन पश्यतस्ते समीयतुः ३८ ।
tāvihātha punarjātau śiśupālakarūṣajau . harau vairānubandhena paśyataste samīyatuḥ 38 .
एनः पूर्वकृतं यत्तद्राजानः कृष्णवैरिणः । जहुस्तेऽन्ते तदात्मानः कीटः पेशस्कृतो यथा ३९ ।
enaḥ pūrvakṛtaṃ yattadrājānaḥ kṛṣṇavairiṇaḥ . jahuste'nte tadātmānaḥ kīṭaḥ peśaskṛto yathā 39 .
यथा यथा भगवतो भक्त्या परमयाभिदा । नृपाश्चैद्यादयः सात्म्यं हरेस्तच्चिन्तया ययुः ४० ।
yathā yathā bhagavato bhaktyā paramayābhidā . nṛpāścaidyādayaḥ sātmyaṃ harestaccintayā yayuḥ 40 .
आख्यातं सर्वमेतत्ते यन्मां त्वं परिपृष्टवान् । दमघोषसुतादीनां हरेः सात्म्यमपि द्विषाम् ४१ ।
ākhyātaṃ sarvametatte yanmāṃ tvaṃ paripṛṣṭavān . damaghoṣasutādīnāṃ hareḥ sātmyamapi dviṣām 41 .
एषा ब्रह्मण्यदेवस्य कृष्णस्य च महात्मनः । अवतारकथा पुण्या वधो यत्रादिदैत्ययोः ४२ ।
eṣā brahmaṇyadevasya kṛṣṇasya ca mahātmanaḥ . avatārakathā puṇyā vadho yatrādidaityayoḥ 42 .
प्रह्रादस्यानुचरितं महाभागवतस्य च । भक्तिर्ज्ञानं विरक्तिश्च याथार्थ्यं चास्य वै हरेः ४३ ।
prahrādasyānucaritaṃ mahābhāgavatasya ca . bhaktirjñānaṃ viraktiśca yāthārthyaṃ cāsya vai hareḥ 43 .
सर्गस्थित्यप्ययेशस्य गुणकर्मानुवर्णनम् । परावरेषां स्थानानां कालेन व्यत्ययो महान् ४४ ।
sargasthityapyayeśasya guṇakarmānuvarṇanam . parāvareṣāṃ sthānānāṃ kālena vyatyayo mahān 44 .
धर्मो भागवतानां च भगवान्येन गम्यते । आख्यानेऽस्मिन्समाम्नातमाध्यात्मिकमशेषतः ४५ ।
dharmo bhāgavatānāṃ ca bhagavānyena gamyate . ākhyāne'sminsamāmnātamādhyātmikamaśeṣataḥ 45 .
य एतत्पुण्यमाख्यानं विष्णोर्वीर्योपबृंहितम् । कीर्तयेच्छ्रद्धया श्रुत्वा कर्मपाशैर्विमुच्यते ४६ ।
ya etatpuṇyamākhyānaṃ viṣṇorvīryopabṛṃhitam . kīrtayecchraddhayā śrutvā karmapāśairvimucyate 46 .
एतद्य आदिपुरुषस्य मृगेन्द्र लीलां । दैत्येन्द्र यूथपवधं प्रयतः पठेत । दैत्यात्मजस्य च सतां प्रवरस्य पुण्यं । श्रुत्वानुभावमकुतोभयमेति लोकम् ४७ ।
etadya ādipuruṣasya mṛgendra līlāṃ . daityendra yūthapavadhaṃ prayataḥ paṭheta . daityātmajasya ca satāṃ pravarasya puṇyaṃ . śrutvānubhāvamakutobhayameti lokam 47 .
यूयं नृलोके बत भूरिभागा लोकं पुनाना मुनयोऽभियन्ति । येषां गृहानावसतीति साक्षाद्गूढं परं ब्रह्म मनुष्यलिङ्गम् ४८ ।
yūyaṃ nṛloke bata bhūribhāgā lokaṃ punānā munayo'bhiyanti . yeṣāṃ gṛhānāvasatīti sākṣādgūḍhaṃ paraṃ brahma manuṣyaliṅgam 48 .
स वा अयं ब्रह्म महद्विमृग्य कैवल्यनिर्वाणसुखानुभूतिः । प्रियः सुहृद्वः खलु मातुलेय आत्मार्हणीयो विधिकृद्गुरुश्च ४९ ।
sa vā ayaṃ brahma mahadvimṛgya kaivalyanirvāṇasukhānubhūtiḥ . priyaḥ suhṛdvaḥ khalu mātuleya ātmārhaṇīyo vidhikṛdguruśca 49 .
न यस्य साक्षाद्भवपद्मजादिभी रूपं धिया वस्तुतयोपवर्णितम् । मौनेन भक्त्योपशमेन पूजितः प्रसीदतामेष स सात्वतां पतिः ५० ।
na yasya sākṣādbhavapadmajādibhī rūpaṃ dhiyā vastutayopavarṇitam . maunena bhaktyopaśamena pūjitaḥ prasīdatāmeṣa sa sātvatāṃ patiḥ 50 .
स एष भगवान्राजन्व्यतनोद्विहतं यशः । पुरा रुद्र स्य देवस्य मयेनानन्तमायिना ५१ ।
sa eṣa bhagavānrājanvyatanodvihataṃ yaśaḥ . purā rudra sya devasya mayenānantamāyinā 51 .
राजोवाच ।
कस्मिन्कर्मणि देवस्य मयोऽहन्जगदीशितुः । यथा चोपचिता कीर्तिः कृष्णेनानेन कथ्यताम् ५२ ।
kasminkarmaṇi devasya mayo'hanjagadīśituḥ . yathā copacitā kīrtiḥ kṛṣṇenānena kathyatām 52 .
श्रीनारद उवाच ।
निर्जिता असुरा देवैर्युध्यनेनोपबृंहितैः । मायिनां परमाचार्यं मयं शरणमाययुः ५३ ।
nirjitā asurā devairyudhyanenopabṛṃhitaiḥ . māyināṃ paramācāryaṃ mayaṃ śaraṇamāyayuḥ 53 .
स निर्माय पुरस्तिस्रो हैमीरौप्यायसीर्विभुः । दुर्लक्ष्यापायसंयोगा दुर्वितर्क्यपरिच्छदाः ५४ ।
sa nirmāya purastisro haimīraupyāyasīrvibhuḥ . durlakṣyāpāyasaṃyogā durvitarkyaparicchadāḥ 54 .
ताभिस्तेऽसुरसेनान्यो लोकांस्त्रीन्सेश्वरान्नृप । स्मरन्तो नाशयां चक्रुः पूर्ववैरमलक्षिताः ५५ ।
tābhiste'surasenānyo lokāṃstrīnseśvarānnṛpa . smaranto nāśayāṃ cakruḥ pūrvavairamalakṣitāḥ 55 .
ततस्ते सेश्वरा लोका उपासाद्येश्वरं नताः । त्राहि नस्तावकान्देव विनष्टांस्त्रिपुरालयैः ५६ ।
tataste seśvarā lokā upāsādyeśvaraṃ natāḥ . trāhi nastāvakāndeva vinaṣṭāṃstripurālayaiḥ 56 .
अथानुगृह्य भगवान्मा भैष्टेति सुरान्विभुः । शरं धनुषि सन्धाय पुरेष्वस्त्रं व्यमुञ्चत ५७ ।
athānugṛhya bhagavānmā bhaiṣṭeti surānvibhuḥ . śaraṃ dhanuṣi sandhāya pureṣvastraṃ vyamuñcata 57 .
ततोऽग्निवर्णा इषव उत्पेतुः सूर्यमण्डलात् । यथा मयूखसन्दोहा नादृश्यन्त पुरो यतः ५८ ।
tato'gnivarṇā iṣava utpetuḥ sūryamaṇḍalāt . yathā mayūkhasandohā nādṛśyanta puro yataḥ 58 .
तैः स्पृष्टा व्यसवः सर्वे निपेतुः स्म पुरौकसः । तानानीय महायोगी मयः कूपरसेऽक्षिपत् ५९ ।
taiḥ spṛṣṭā vyasavaḥ sarve nipetuḥ sma puraukasaḥ . tānānīya mahāyogī mayaḥ kūparase'kṣipat 59 .
सिद्धामृतरसस्पृष्टा वज्रसारा महौजसः । उत्तस्थुर्मेघदलना वैद्युता इव वह्नयः ६० ।
siddhāmṛtarasaspṛṣṭā vajrasārā mahaujasaḥ . uttasthurmeghadalanā vaidyutā iva vahnayaḥ 60 .
विलोक्य भग्नसङ्कल्पं विमनस्कं वृषध्वजम् । तदायं भगवान्विष्णुस्तत्रोपायमकल्पयत् ६१ ।
vilokya bhagnasaṅkalpaṃ vimanaskaṃ vṛṣadhvajam . tadāyaṃ bhagavānviṣṇustatropāyamakalpayat 61 .
वत्सश्चासीत्तदा ब्रह्मा स्वयं विष्णुरयं हि गौः । प्रविश्य त्रिपुरं काले रसकूपामृतं पपौ ६२ ।
vatsaścāsīttadā brahmā svayaṃ viṣṇurayaṃ hi gauḥ . praviśya tripuraṃ kāle rasakūpāmṛtaṃ papau 62 .
तेऽसुरा ह्यपि पश्यन्तो न न्यषेधन्विमोहिताः । तद्विज्ञाय महायोगी रसपालानिदं जगौ ६३ ।
te'surā hyapi paśyanto na nyaṣedhanvimohitāḥ . tadvijñāya mahāyogī rasapālānidaṃ jagau 63 .
स्मयन्विशोकः शोकार्तान्स्मरन्दैवगतिं च ताम् । देवोऽसुरो नरोऽन्यो वा नेश्वरोऽस्तीह कश्चन ६४ ।
smayanviśokaḥ śokārtānsmarandaivagatiṃ ca tām . devo'suro naro'nyo vā neśvaro'stīha kaścana 64 .
आत्मनोऽन्यस्य वा दिष्टं दैवेनापोहितुं द्वयोः । अथासौ शक्तिभिः स्वाभिः शम्भोः प्राधानिकं व्यधात् ६५ ।
ātmano'nyasya vā diṣṭaṃ daivenāpohituṃ dvayoḥ . athāsau śaktibhiḥ svābhiḥ śambhoḥ prādhānikaṃ vyadhāt 65 .
धर्मज्ञानविरक्त्यृद्धि तपोविद्याक्रियादिभिः । रथं सूतं ध्वजं वाहान्धनुर्वर्मशरादि यत् ६६ ।
dharmajñānaviraktyṛddhi tapovidyākriyādibhiḥ . rathaṃ sūtaṃ dhvajaṃ vāhāndhanurvarmaśarādi yat 66 .
सन्नद्धो रथमास्थाय शरं धनुरुपाददे । शरं धनुषि सन्धाय मुहूर्तेऽभिजितीश्वरः ६७ ।
sannaddho rathamāsthāya śaraṃ dhanurupādade . śaraṃ dhanuṣi sandhāya muhūrte'bhijitīśvaraḥ 67 .
ददाह तेन दुर्भेद्या हरोऽथ त्रिपुरो नृप । दिवि दुन्दुभयो नेदुर्विमानशतसङ्कुलाः ६८ ।
dadāha tena durbhedyā haro'tha tripuro nṛpa . divi dundubhayo nedurvimānaśatasaṅkulāḥ 68 .
देवर्षिपितृसिद्धेशा जयेति कुसुमोत्करैः । अवाकिरन्जगुर्हृष्टा ननृतुश्चाप्सरोगणाः ६९ ।
devarṣipitṛsiddheśā jayeti kusumotkaraiḥ . avākiranjagurhṛṣṭā nanṛtuścāpsarogaṇāḥ 69 .
एवं दग्ध्वा पुरस्तिस्रो भगवान्पुरहा नृप । ब्रह्मादिभिः स्तूयमानः स्वं धाम प्रत्यपद्यत ७० ।
evaṃ dagdhvā purastisro bhagavānpurahā nṛpa . brahmādibhiḥ stūyamānaḥ svaṃ dhāma pratyapadyata 70 .
एवं विधान्यस्य हरेः स्वमायया विडम्बमानस्य नृलोकमात्मनः । वीर्याणि गीतान्यृषिभिर्जगद्गुरोर्लोकं पुनानान्यपरं वदामि किम् ७१ ।
evaṃ vidhānyasya hareḥ svamāyayā viḍambamānasya nṛlokamātmanaḥ . vīryāṇi gītānyṛṣibhirjagadgurorlokaṃ punānānyaparaṃ vadāmi kim 71 .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे युधिष्ठिरनारदसंवादे त्रिपुरविजये नाम दशमोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ saptamaskandhe yudhiṣṭhiranāradasaṃvāde tripuravijaye nāma daśamo'dhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In