| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच -
श्रुत्वेहितं साधु सभासभाजितं महत्तमाग्रण्य उरुक्रमात्मनः । युधिष्ठिरो दैत्यपतेर्मुदा युतः पप्रच्छ भूयस्तनयं स्वयम्भुवः ॥ १ ॥
श्रुत्वा ईहितम् साधु सभा-सभाजितम् उरुक्रम-आत्मनः । युधिष्ठिरः दैत्य-पतेः मुदा युतः पप्रच्छ भूयस् तनयम् स्वयम्भुवः ॥ १ ॥
śrutvā īhitam sādhu sabhā-sabhājitam urukrama-ātmanaḥ . yudhiṣṭhiraḥ daitya-pateḥ mudā yutaḥ papraccha bhūyas tanayam svayambhuvaḥ .. 1 ..
युधिष्ठिर उवाच - (अनुष्टुप्)
भगवन् श्रोतुमिच्छामि नृणां धर्मं सनातनम् । वर्णाश्रमाचारयुतं यत् पुमान् विन्दते परम् ॥ २ ॥
भगवन् श्रोतुम् इच्छामि नृणाम् धर्मम् सनातनम् । वर्ण-आश्रम-आचार-युतम् यत् पुमान् विन्दते परम् ॥ २ ॥
bhagavan śrotum icchāmi nṛṇām dharmam sanātanam . varṇa-āśrama-ācāra-yutam yat pumān vindate param .. 2 ..
भवान् प्रजापतेः साक्षात् आत्मजः परमेष्ठिनः । सुतानां सम्मतो ब्रह्मन् तपोयोगसमाधिभिः ॥ ३ ॥
भवान् प्रजापतेः साक्षात् आत्मजः परमेष्ठिनः । सुतानाम् सम्मतः ब्रह्मन् तपः-योग-समाधिभिः ॥ ३ ॥
bhavān prajāpateḥ sākṣāt ātmajaḥ parameṣṭhinaḥ . sutānām sammataḥ brahman tapaḥ-yoga-samādhibhiḥ .. 3 ..
नारायणपरा विप्रा धर्मं गुह्यं परं विदुः । करुणाः साधवः शान्ताः त्वद्विधा न तथापरे ॥ ४ ॥
नारायण-पराः विप्राः धर्मम् गुह्यम् परम् विदुः । करुणाः साधवः शान्ताः त्वद्विधाः न तथा अपरे ॥ ४ ॥
nārāyaṇa-parāḥ viprāḥ dharmam guhyam param viduḥ . karuṇāḥ sādhavaḥ śāntāḥ tvadvidhāḥ na tathā apare .. 4 ..
नारद उवाच -
नत्वा भगवतेऽजाय लोकानां धर्महेतवे । वक्ष्ये सनातनं धर्मं नारायणमुखात् श्रुतम् ॥ ५ ॥
नत्वा भगवते अजाय लोकानाम् धर्म-हेतवे । वक्ष्ये सनातनम् धर्मम् नारायण-मुखात् श्रुतम् ॥ ५ ॥
natvā bhagavate ajāya lokānām dharma-hetave . vakṣye sanātanam dharmam nārāyaṇa-mukhāt śrutam .. 5 ..
योऽवतीर्यात्मनोंऽशेन दाक्षायण्यां तु धर्मतः । लोकानां स्वस्तयेऽध्यास्ते तपो बदरिकाश्रमे ॥ ६ ॥
यः अवतीर्य आत्मनः ॐऽशेन दाक्षायण्याम् तु धर्मतः । लोकानाम् स्वस्तये अध्यास्ते तपः बदरिकाश्रमे ॥ ६ ॥
yaḥ avatīrya ātmanaḥ oṃ'śena dākṣāyaṇyām tu dharmataḥ . lokānām svastaye adhyāste tapaḥ badarikāśrame .. 6 ..
धर्ममूलं हि भगवान् सर्ववेदमयो हरिः । स्मृतं च तद्विदां राजन् येन चात्मा प्रसीदति ॥ ७ ॥
धर्म-मूलम् हि भगवान् सर्व-वेद-मयः हरिः । स्मृतम् च तद्-विदाम् राजन् येन च आत्मा प्रसीदति ॥ ७ ॥
dharma-mūlam hi bhagavān sarva-veda-mayaḥ hariḥ . smṛtam ca tad-vidām rājan yena ca ātmā prasīdati .. 7 ..
सत्यं दया तपः शौचं तितिक्षेक्षा शमो दमः । अहिंसा ब्रह्मचर्यं च त्यागः स्वाध्याय आर्जवम् ॥ ८ ॥
सत्यम् दया तपः शौचम् तितिक्षा ईक्षा शमः दमः । अहिंसा ब्रह्मचर्यम् च त्यागः स्वाध्यायः आर्जवम् ॥ ८ ॥
satyam dayā tapaḥ śaucam titikṣā īkṣā śamaḥ damaḥ . ahiṃsā brahmacaryam ca tyāgaḥ svādhyāyaḥ ārjavam .. 8 ..
सन्तोषः समदृक् सेवा ग्राम्येहोपरमः शनैः । नृणां विपर्ययेहेक्षा मौनं आत्मविमर्शनम् ॥ ९ ॥
सन्तोषः समदृश् सेवा ग्राम्या इह उपरमः शनैस् । नृणाम् विपर्यय-इह ईक्षा मौनम् आत्म-विमर्शनम् ॥ ९ ॥
santoṣaḥ samadṛś sevā grāmyā iha uparamaḥ śanais . nṛṇām viparyaya-iha īkṣā maunam ātma-vimarśanam .. 9 ..
अन्नाद्यादेः संविभागो भूतेभ्यश्च यथार्हतः । तेष्वात्मदेवताबुद्धिः सुतरां नृषु पाण्डव ॥ १० ॥
अन्नाद्य-आदेः संविभागः भूतेभ्यः च यथार्हतः । तेषु आत्म-देवता-बुद्धिः सुतराम् नृषु पाण्डव ॥ १० ॥
annādya-ādeḥ saṃvibhāgaḥ bhūtebhyaḥ ca yathārhataḥ . teṣu ātma-devatā-buddhiḥ sutarām nṛṣu pāṇḍava .. 10 ..
श्रवणं कीर्तनं चास्य स्मरणं महतां गतेः । सेवेज्यावनतिर्दास्यं सख्यमात्म समर्पणम् ॥ ११ ॥
श्रवणम् कीर्तनम् च अस्य स्मरणम् महताम् गतेः । सेवा इज्या अवनतिः दास्यम् सख्यम् आत्म समर्पणम् ॥ ११ ॥
śravaṇam kīrtanam ca asya smaraṇam mahatām gateḥ . sevā ijyā avanatiḥ dāsyam sakhyam ātma samarpaṇam .. 11 ..
नृणामयं परो धर्मः सर्वेषां समुदाहृतः । त्रिंशत् लक्षणवान् राजन् सर्वात्मा येन तुष्यति ॥ १२ ॥
नृणाम् अयम् परः धर्मः सर्वेषाम् समुदाहृतः । त्रिंशत्-लक्षणवान् राजन् सर्वात्मा येन तुष्यति ॥ १२ ॥
nṛṇām ayam paraḥ dharmaḥ sarveṣām samudāhṛtaḥ . triṃśat-lakṣaṇavān rājan sarvātmā yena tuṣyati .. 12 ..
संस्कारा यदविच्छिन्नाः स द्विजोऽजो जगाद यम् । इज्याध्ययनदानानि विहितानि द्विजन्मनाम् । जन्मकर्मावदातानां क्रियाश्चाश्रमचोदिताः ॥ १३ ॥
संस्काराः यत् अविच्छिन्नाः स द्विजः अजः जगाद यम् । इज्या-अध्ययन-दानानि विहितानि द्विजन्मनाम् । जन्म-कर्म-अवदातानाम् क्रियाः च आश्रम-चोदिताः ॥ १३ ॥
saṃskārāḥ yat avicchinnāḥ sa dvijaḥ ajaḥ jagāda yam . ijyā-adhyayana-dānāni vihitāni dvijanmanām . janma-karma-avadātānām kriyāḥ ca āśrama-coditāḥ .. 13 ..
विप्रस्याध्ययनादीनि षडन्यस्याप्रतिग्रहः । राज्ञो वृत्तिः प्रजागोप्तुः अविप्राद् वा करादिभिः ॥ १४ ॥
विप्रस्य अध्ययन-आदीनि षड् अन्यस्य अ प्रतिग्रहः । राज्ञः वृत्तिः प्रजा-गोप्तुः अ विप्रात् वा कर-आदिभिः ॥ १४ ॥
viprasya adhyayana-ādīni ṣaḍ anyasya a pratigrahaḥ . rājñaḥ vṛttiḥ prajā-goptuḥ a viprāt vā kara-ādibhiḥ .. 14 ..
वैश्यस्तु वार्तावृत्तिश्च नित्यं ब्रह्मकुलानुगः । शूद्रस्य द्विजशुश्रूषा वृत्तिश्च स्वामिनो भवेत् ॥ १५ ॥
वैश्यः तु वार्ता-वृत्तिः च नित्यम् ब्रह्म-कुल-अनुगः । शूद्रस्य द्विज-शुश्रूषा वृत्तिः च स्वामिनः भवेत् ॥ १५ ॥
vaiśyaḥ tu vārtā-vṛttiḥ ca nityam brahma-kula-anugaḥ . śūdrasya dvija-śuśrūṣā vṛttiḥ ca svāminaḥ bhavet .. 15 ..
वार्ता विचित्रा शालीन यायावरशिलोञ्छनम् । विप्रवृत्तिश्चतुर्धेयं श्रेयसी चोत्तरोत्तरा ॥ १६ ॥
वार्ता विचित्रा यायावर-शिला-उञ्छनम् । विप्रवृत्तिः चतुर्धा इयम् श्रेयसी च उत्तरोत्तरा ॥ १६ ॥
vārtā vicitrā yāyāvara-śilā-uñchanam . vipravṛttiḥ caturdhā iyam śreyasī ca uttarottarā .. 16 ..
जघन्यो नोत्तमां वृत्तिं अनापदि भजेन्नरः । ऋते राजन्यमापत्सु सर्वेषामपि सर्वशः ॥ १७ ॥
जघन्यः ना उत्तमाम् वृत्तिम् अनापदि भजेत् नरः । ऋते राजन्यम् आपत्सु सर्वेषाम् अपि सर्वशस् ॥ १७ ॥
jaghanyaḥ nā uttamām vṛttim anāpadi bhajet naraḥ . ṛte rājanyam āpatsu sarveṣām api sarvaśas .. 17 ..
ऋतां ऋताभ्यां जीवेत मृतेन प्रमृतेन वा । सत्यानृताभ्यां जीवेत न श्ववृत्त्या कदाचन ॥ १८ ॥
ऋताम् ऋताभ्याम् जीवेत मृतेन प्रमृतेन वा । सत्य-अनृताभ्याम् जीवेत न श्ववृत्त्या कदाचन ॥ १८ ॥
ṛtām ṛtābhyām jīveta mṛtena pramṛtena vā . satya-anṛtābhyām jīveta na śvavṛttyā kadācana .. 18 ..
ऋतमुञ्छशिलं प्रोक्तं अमृतं यद् अयाचितम् । मृतं तु नित्ययांच्या स्यात् प्रमृतं कर्षणं स्मृतम् ॥ १९ ॥
ऋतमुञ्छ-शिलम् प्रोक्तम् अमृतम् यत् अ याचितम् । मृतम् तु स्यात् प्रमृतम् कर्षणम् स्मृतम् ॥ १९ ॥
ṛtamuñcha-śilam proktam amṛtam yat a yācitam . mṛtam tu syāt pramṛtam karṣaṇam smṛtam .. 19 ..
सत्यानृतं च वाणिज्यं श्ववृत्तिर्नीचसेवनम् । वर्जयेत्तां सदा विप्रो राजन्यश्च जुगुप्सिताम् । सर्ववेदमयो विप्रः सर्वदेवमयो नृपः ॥ २० ॥
सत्य-अनृतम् च वाणिज्यम् श्ववृत्तिः नीच-सेवनम् । वर्जयेत् ताम् सदा विप्रः राजन्यः च जुगुप्सिताम् । सर्व-वेद-मयः विप्रः सर्व-देव-मयः नृपः ॥ २० ॥
satya-anṛtam ca vāṇijyam śvavṛttiḥ nīca-sevanam . varjayet tām sadā vipraḥ rājanyaḥ ca jugupsitām . sarva-veda-mayaḥ vipraḥ sarva-deva-mayaḥ nṛpaḥ .. 20 ..
शमो दमस्तपः शौचं सन्तोषः क्षान्तिरार्जवम् । ज्ञानं दयाच्युतात्मत्वं सत्यं च ब्रह्मलक्षणम् ॥ २१ ॥
शमः दमः तपः शौचम् सन्तोषः क्षान्तिः आर्जवम् । ज्ञानम् दया अच्युत-आत्म-त्वम् सत्यम् च ब्रह्म-लक्षणम् ॥ २१ ॥
śamaḥ damaḥ tapaḥ śaucam santoṣaḥ kṣāntiḥ ārjavam . jñānam dayā acyuta-ātma-tvam satyam ca brahma-lakṣaṇam .. 21 ..
शौर्यं वीर्यं धृतिस्तेजः त्याग आत्मजयः क्षमा । ब्रह्मण्यता प्रसादश्च सत्यं च क्षत्रलक्षणम् ॥ २२ ॥
शौर्यम् वीर्यम् धृतिः तेजः त्यागः आत्म-जयः क्षमा । ब्रह्मण्य-ता प्रसादः च सत्यम् च क्षत्र-लक्षणम् ॥ २२ ॥
śauryam vīryam dhṛtiḥ tejaḥ tyāgaḥ ātma-jayaḥ kṣamā . brahmaṇya-tā prasādaḥ ca satyam ca kṣatra-lakṣaṇam .. 22 ..
देवगुर्वच्युते भक्तिः त्रिवर्गपरिपोषणम् । आस्तिक्यं उद्यमो नित्यं नैपुण्यं वैश्यलक्षणम् ॥ २३ ॥
। आस्तिक्यम् उद्यमः नित्यम् नैपुण्यम् वैश्य-लक्षणम् ॥ २३ ॥
. āstikyam udyamaḥ nityam naipuṇyam vaiśya-lakṣaṇam .. 23 ..
शूद्रस्य सन्नतिः शौचं सेवा स्वामिन्यमायया । अमन्त्रयज्ञो ह्यस्तेयं सत्यं गोविप्र रक्षणम् ॥ २४ ॥
शूद्रस्य सन्नतिः शौचम् सेवा स्वामिनि अमायया । अ मन्त्र-यज्ञः हि अस्तेयम् सत्यम् गो-विप्र रक्षणम् ॥ २४ ॥
śūdrasya sannatiḥ śaucam sevā svāmini amāyayā . a mantra-yajñaḥ hi asteyam satyam go-vipra rakṣaṇam .. 24 ..
स्त्रीणां च पतिदेवानां तत् शुश्रूषानुकूलता । तद्बन्धुष्वनुवृत्तिश्च नित्यं तद्व्रतधारणम् ॥ २५ ॥
स्त्रीणाम् च पति-देवानाम् तत् शुश्रूषा-अनुकूल-ता । तद्-बन्धुषु अनुवृत्तिः च नित्यम् तद्-व्रत-धारणम् ॥ २५ ॥
strīṇām ca pati-devānām tat śuśrūṣā-anukūla-tā . tad-bandhuṣu anuvṛttiḥ ca nityam tad-vrata-dhāraṇam .. 25 ..
सम्मार्जनोपलेपाभ्यां गृहमण्डनवर्तनैः । स्वयं च मण्डिता नित्यं परिमृष्टपरिच्छदा ॥ २६ ॥
सम्मार्जन-उपलेपाभ्याम् गृह-मण्डन-वर्तनैः । स्वयम् च मण्डिता नित्यम् परिमृष्ट-परिच्छदा ॥ २६ ॥
sammārjana-upalepābhyām gṛha-maṇḍana-vartanaiḥ . svayam ca maṇḍitā nityam parimṛṣṭa-paricchadā .. 26 ..
कामैरुच्चावचैः साध्वी प्रश्रयेण दमेन च । वाक्यैः सत्यैः प्रियैः प्रेम्णा काले काले भजेत्पतिम् ॥ २७ ॥
कामैः उच्चावचैः साध्वी प्रश्रयेण दमेन च । वाक्यैः सत्यैः प्रियैः प्रेम्णा काले काले भजेत् पतिम् ॥ २७ ॥
kāmaiḥ uccāvacaiḥ sādhvī praśrayeṇa damena ca . vākyaiḥ satyaiḥ priyaiḥ premṇā kāle kāle bhajet patim .. 27 ..
सन्तुष्टालोलुपा दक्षा धर्मज्ञा प्रियसत्यवाक् । अप्रमत्ता शुचिः स्निग्धा पतिं त्वपतितं भजेत् ॥ २८ ॥
सन्तुष्टा अ लोलुपा दक्षा धर्म-ज्ञा प्रिय-सत्य-वाच् । अप्रमत्ता शुचिः स्निग्धा पतिम् तु अपतितम् भजेत् ॥ २८ ॥
santuṣṭā a lolupā dakṣā dharma-jñā priya-satya-vāc . apramattā śuciḥ snigdhā patim tu apatitam bhajet .. 28 ..
या पतिं हरिभावेन भजेत् श्रीरिव तत्परा । हर्यात्मना हरेर्लोके पत्या श्रीरिव मोदते ॥ २९ ॥
या पतिम् हरि-भावेन भजेत् श्रीः इव तद्-परा । हरि-आत्मना हरेः लोके पत्या श्रीः इव मोदते ॥ २९ ॥
yā patim hari-bhāvena bhajet śrīḥ iva tad-parā . hari-ātmanā hareḥ loke patyā śrīḥ iva modate .. 29 ..
वृत्तिः सङ्करजातीनां तत्तत्कुलकृता भवेत् । अचौराणां अपापानां अन्त्यजान्तेऽवसायिनाम् ॥ ३० ॥
वृत्तिः सङ्कर-जातीनाम् तद्-तद्-कुल-कृता भवेत् । अ चौराणाम् अ पापानाम् अन्त्यज-अन्ते अवसायिनाम् ॥ ३० ॥
vṛttiḥ saṅkara-jātīnām tad-tad-kula-kṛtā bhavet . a caurāṇām a pāpānām antyaja-ante avasāyinām .. 30 ..
प्रायः स्वभावविहितो नृणां धर्मो युगे युगे । वेददृग्भिः स्मृतो राजन् प्रेत्य चेह च शर्मकृत् ॥ ३१ ॥
प्रायस् स्वभाव-विहितः नृणाम् धर्मः युगे युगे । वेद-दृग्भिः स्मृतः राजन् प्रेत्य च इह च शर्म-कृत् ॥ ३१ ॥
prāyas svabhāva-vihitaḥ nṛṇām dharmaḥ yuge yuge . veda-dṛgbhiḥ smṛtaḥ rājan pretya ca iha ca śarma-kṛt .. 31 ..
वृत्त्या स्वभावकृतया वर्तमानः स्वकर्मकृत् । हित्वा स्वभावजं कर्म शनैर्निर्गुणतामियात् ॥ ३२ ॥
वृत्त्या स्वभाव-कृतया वर्तमानः स्व-कर्म-कृत् । हित्वा स्वभाव-जम् कर्म शनैस् निर्गुण-ताम् इयात् ॥ ३२ ॥
vṛttyā svabhāva-kṛtayā vartamānaḥ sva-karma-kṛt . hitvā svabhāva-jam karma śanais nirguṇa-tām iyāt .. 32 ..
उप्यमानं मुहुः क्षेत्रं स्वयं निर्वीर्यतामियात् । न कल्पते पुनः सूत्यै उप्तं बीजं च नश्यति ॥ ३३ ॥
उप्यमानम् मुहुर् क्षेत्रम् स्वयम् निर्वीर्य-ताम् इयात् । न कल्पते पुनर् सूत्यै उप्तम् बीजम् च नश्यति ॥ ३३ ॥
upyamānam muhur kṣetram svayam nirvīrya-tām iyāt . na kalpate punar sūtyai uptam bījam ca naśyati .. 33 ..
एवं कामाशयं चित्तं कामानामतिसेवया । विरज्येत यथा राजन् अग्निवत् कामबिन्दुभिः ॥ ३४ ॥
एवम् काम-आशयम् चित्तम् कामानाम् अतिसेवया । विरज्येत यथा राजन् अग्नि-वत् काम-बिन्दुभिः ॥ ३४ ॥
evam kāma-āśayam cittam kāmānām atisevayā . virajyeta yathā rājan agni-vat kāma-bindubhiḥ .. 34 ..
यस्य यल्लक्षणं प्रोक्तं पुंसो वर्णाभिव्यञ्जकम् । यदन्यत्रापि दृश्येत तत्तेनैव विनिर्दिशेत् ॥ ३५ ॥
यस्य यत् लक्षणम् प्रोक्तम् पुंसः वर्ण-अभिव्यञ्जकम् । यत् अन्यत्र अपि दृश्येत तत् तेन एव विनिर्दिशेत् ॥ ३५ ॥
yasya yat lakṣaṇam proktam puṃsaḥ varṇa-abhivyañjakam . yat anyatra api dṛśyeta tat tena eva vinirdiśet .. 35 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे युधिष्ठिरनारदसंवादे सदाचारनिर्णयो नाम एकादशोऽध्यायः ॥ ११ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् सप्तम-स्कन्धे युधिष्ठिर-नारद-संवादे सदाचारनिर्णयः नाम एकादशः अध्यायः ॥ ११ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām saptama-skandhe yudhiṣṭhira-nārada-saṃvāde sadācāranirṇayaḥ nāma ekādaśaḥ adhyāyaḥ .. 11 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In