| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच -
श्रुत्वेहितं साधु सभासभाजितं महत्तमाग्रण्य उरुक्रमात्मनः । युधिष्ठिरो दैत्यपतेर्मुदा युतः पप्रच्छ भूयस्तनयं स्वयम्भुवः ॥ १ ॥
śrutvehitaṃ sādhu sabhāsabhājitaṃ mahattamāgraṇya urukramātmanaḥ . yudhiṣṭhiro daityapatermudā yutaḥ papraccha bhūyastanayaṃ svayambhuvaḥ .. 1 ..
युधिष्ठिर उवाच - (अनुष्टुप्)
भगवन् श्रोतुमिच्छामि नृणां धर्मं सनातनम् । वर्णाश्रमाचारयुतं यत् पुमान् विन्दते परम् ॥ २ ॥
bhagavan śrotumicchāmi nṛṇāṃ dharmaṃ sanātanam . varṇāśramācārayutaṃ yat pumān vindate param .. 2 ..
भवान् प्रजापतेः साक्षात् आत्मजः परमेष्ठिनः । सुतानां सम्मतो ब्रह्मन् तपोयोगसमाधिभिः ॥ ३ ॥
bhavān prajāpateḥ sākṣāt ātmajaḥ parameṣṭhinaḥ . sutānāṃ sammato brahman tapoyogasamādhibhiḥ .. 3 ..
नारायणपरा विप्रा धर्मं गुह्यं परं विदुः । करुणाः साधवः शान्ताः त्वद्विधा न तथापरे ॥ ४ ॥
nārāyaṇaparā viprā dharmaṃ guhyaṃ paraṃ viduḥ . karuṇāḥ sādhavaḥ śāntāḥ tvadvidhā na tathāpare .. 4 ..
नारद उवाच -
नत्वा भगवतेऽजाय लोकानां धर्महेतवे । वक्ष्ये सनातनं धर्मं नारायणमुखात् श्रुतम् ॥ ५ ॥
natvā bhagavate'jāya lokānāṃ dharmahetave . vakṣye sanātanaṃ dharmaṃ nārāyaṇamukhāt śrutam .. 5 ..
योऽवतीर्यात्मनोंऽशेन दाक्षायण्यां तु धर्मतः । लोकानां स्वस्तयेऽध्यास्ते तपो बदरिकाश्रमे ॥ ६ ॥
yo'vatīryātmanoṃ'śena dākṣāyaṇyāṃ tu dharmataḥ . lokānāṃ svastaye'dhyāste tapo badarikāśrame .. 6 ..
धर्ममूलं हि भगवान् सर्ववेदमयो हरिः । स्मृतं च तद्विदां राजन् येन चात्मा प्रसीदति ॥ ७ ॥
dharmamūlaṃ hi bhagavān sarvavedamayo hariḥ . smṛtaṃ ca tadvidāṃ rājan yena cātmā prasīdati .. 7 ..
सत्यं दया तपः शौचं तितिक्षेक्षा शमो दमः । अहिंसा ब्रह्मचर्यं च त्यागः स्वाध्याय आर्जवम् ॥ ८ ॥
satyaṃ dayā tapaḥ śaucaṃ titikṣekṣā śamo damaḥ . ahiṃsā brahmacaryaṃ ca tyāgaḥ svādhyāya ārjavam .. 8 ..
सन्तोषः समदृक् सेवा ग्राम्येहोपरमः शनैः । नृणां विपर्ययेहेक्षा मौनं आत्मविमर्शनम् ॥ ९ ॥
santoṣaḥ samadṛk sevā grāmyehoparamaḥ śanaiḥ . nṛṇāṃ viparyayehekṣā maunaṃ ātmavimarśanam .. 9 ..
अन्नाद्यादेः संविभागो भूतेभ्यश्च यथार्हतः । तेष्वात्मदेवताबुद्धिः सुतरां नृषु पाण्डव ॥ १० ॥
annādyādeḥ saṃvibhāgo bhūtebhyaśca yathārhataḥ . teṣvātmadevatābuddhiḥ sutarāṃ nṛṣu pāṇḍava .. 10 ..
श्रवणं कीर्तनं चास्य स्मरणं महतां गतेः । सेवेज्यावनतिर्दास्यं सख्यमात्म समर्पणम् ॥ ११ ॥
śravaṇaṃ kīrtanaṃ cāsya smaraṇaṃ mahatāṃ gateḥ . sevejyāvanatirdāsyaṃ sakhyamātma samarpaṇam .. 11 ..
नृणामयं परो धर्मः सर्वेषां समुदाहृतः । त्रिंशत् लक्षणवान् राजन् सर्वात्मा येन तुष्यति ॥ १२ ॥
nṛṇāmayaṃ paro dharmaḥ sarveṣāṃ samudāhṛtaḥ . triṃśat lakṣaṇavān rājan sarvātmā yena tuṣyati .. 12 ..
संस्कारा यदविच्छिन्नाः स द्विजोऽजो जगाद यम् । इज्याध्ययनदानानि विहितानि द्विजन्मनाम् । जन्मकर्मावदातानां क्रियाश्चाश्रमचोदिताः ॥ १३ ॥
saṃskārā yadavicchinnāḥ sa dvijo'jo jagāda yam . ijyādhyayanadānāni vihitāni dvijanmanām . janmakarmāvadātānāṃ kriyāścāśramacoditāḥ .. 13 ..
विप्रस्याध्ययनादीनि षडन्यस्याप्रतिग्रहः । राज्ञो वृत्तिः प्रजागोप्तुः अविप्राद् वा करादिभिः ॥ १४ ॥
viprasyādhyayanādīni ṣaḍanyasyāpratigrahaḥ . rājño vṛttiḥ prajāgoptuḥ aviprād vā karādibhiḥ .. 14 ..
वैश्यस्तु वार्तावृत्तिश्च नित्यं ब्रह्मकुलानुगः । शूद्रस्य द्विजशुश्रूषा वृत्तिश्च स्वामिनो भवेत् ॥ १५ ॥
vaiśyastu vārtāvṛttiśca nityaṃ brahmakulānugaḥ . śūdrasya dvijaśuśrūṣā vṛttiśca svāmino bhavet .. 15 ..
वार्ता विचित्रा शालीन यायावरशिलोञ्छनम् । विप्रवृत्तिश्चतुर्धेयं श्रेयसी चोत्तरोत्तरा ॥ १६ ॥
vārtā vicitrā śālīna yāyāvaraśiloñchanam . vipravṛttiścaturdheyaṃ śreyasī cottarottarā .. 16 ..
जघन्यो नोत्तमां वृत्तिं अनापदि भजेन्नरः । ऋते राजन्यमापत्सु सर्वेषामपि सर्वशः ॥ १७ ॥
jaghanyo nottamāṃ vṛttiṃ anāpadi bhajennaraḥ . ṛte rājanyamāpatsu sarveṣāmapi sarvaśaḥ .. 17 ..
ऋतां ऋताभ्यां जीवेत मृतेन प्रमृतेन वा । सत्यानृताभ्यां जीवेत न श्ववृत्त्या कदाचन ॥ १८ ॥
ṛtāṃ ṛtābhyāṃ jīveta mṛtena pramṛtena vā . satyānṛtābhyāṃ jīveta na śvavṛttyā kadācana .. 18 ..
ऋतमुञ्छशिलं प्रोक्तं अमृतं यद् अयाचितम् । मृतं तु नित्ययांच्या स्यात् प्रमृतं कर्षणं स्मृतम् ॥ १९ ॥
ṛtamuñchaśilaṃ proktaṃ amṛtaṃ yad ayācitam . mṛtaṃ tu nityayāṃcyā syāt pramṛtaṃ karṣaṇaṃ smṛtam .. 19 ..
सत्यानृतं च वाणिज्यं श्ववृत्तिर्नीचसेवनम् । वर्जयेत्तां सदा विप्रो राजन्यश्च जुगुप्सिताम् । सर्ववेदमयो विप्रः सर्वदेवमयो नृपः ॥ २० ॥
satyānṛtaṃ ca vāṇijyaṃ śvavṛttirnīcasevanam . varjayettāṃ sadā vipro rājanyaśca jugupsitām . sarvavedamayo vipraḥ sarvadevamayo nṛpaḥ .. 20 ..
शमो दमस्तपः शौचं सन्तोषः क्षान्तिरार्जवम् । ज्ञानं दयाच्युतात्मत्वं सत्यं च ब्रह्मलक्षणम् ॥ २१ ॥
śamo damastapaḥ śaucaṃ santoṣaḥ kṣāntirārjavam . jñānaṃ dayācyutātmatvaṃ satyaṃ ca brahmalakṣaṇam .. 21 ..
शौर्यं वीर्यं धृतिस्तेजः त्याग आत्मजयः क्षमा । ब्रह्मण्यता प्रसादश्च सत्यं च क्षत्रलक्षणम् ॥ २२ ॥
śauryaṃ vīryaṃ dhṛtistejaḥ tyāga ātmajayaḥ kṣamā . brahmaṇyatā prasādaśca satyaṃ ca kṣatralakṣaṇam .. 22 ..
देवगुर्वच्युते भक्तिः त्रिवर्गपरिपोषणम् । आस्तिक्यं उद्यमो नित्यं नैपुण्यं वैश्यलक्षणम् ॥ २३ ॥
devagurvacyute bhaktiḥ trivargaparipoṣaṇam . āstikyaṃ udyamo nityaṃ naipuṇyaṃ vaiśyalakṣaṇam .. 23 ..
शूद्रस्य सन्नतिः शौचं सेवा स्वामिन्यमायया । अमन्त्रयज्ञो ह्यस्तेयं सत्यं गोविप्र रक्षणम् ॥ २४ ॥
śūdrasya sannatiḥ śaucaṃ sevā svāminyamāyayā . amantrayajño hyasteyaṃ satyaṃ govipra rakṣaṇam .. 24 ..
स्त्रीणां च पतिदेवानां तत् शुश्रूषानुकूलता । तद्बन्धुष्वनुवृत्तिश्च नित्यं तद्व्रतधारणम् ॥ २५ ॥
strīṇāṃ ca patidevānāṃ tat śuśrūṣānukūlatā . tadbandhuṣvanuvṛttiśca nityaṃ tadvratadhāraṇam .. 25 ..
सम्मार्जनोपलेपाभ्यां गृहमण्डनवर्तनैः । स्वयं च मण्डिता नित्यं परिमृष्टपरिच्छदा ॥ २६ ॥
sammārjanopalepābhyāṃ gṛhamaṇḍanavartanaiḥ . svayaṃ ca maṇḍitā nityaṃ parimṛṣṭaparicchadā .. 26 ..
कामैरुच्चावचैः साध्वी प्रश्रयेण दमेन च । वाक्यैः सत्यैः प्रियैः प्रेम्णा काले काले भजेत्पतिम् ॥ २७ ॥
kāmairuccāvacaiḥ sādhvī praśrayeṇa damena ca . vākyaiḥ satyaiḥ priyaiḥ premṇā kāle kāle bhajetpatim .. 27 ..
सन्तुष्टालोलुपा दक्षा धर्मज्ञा प्रियसत्यवाक् । अप्रमत्ता शुचिः स्निग्धा पतिं त्वपतितं भजेत् ॥ २८ ॥
santuṣṭālolupā dakṣā dharmajñā priyasatyavāk . apramattā śuciḥ snigdhā patiṃ tvapatitaṃ bhajet .. 28 ..
या पतिं हरिभावेन भजेत् श्रीरिव तत्परा । हर्यात्मना हरेर्लोके पत्या श्रीरिव मोदते ॥ २९ ॥
yā patiṃ haribhāvena bhajet śrīriva tatparā . haryātmanā harerloke patyā śrīriva modate .. 29 ..
वृत्तिः सङ्करजातीनां तत्तत्कुलकृता भवेत् । अचौराणां अपापानां अन्त्यजान्तेऽवसायिनाम् ॥ ३० ॥
vṛttiḥ saṅkarajātīnāṃ tattatkulakṛtā bhavet . acaurāṇāṃ apāpānāṃ antyajānte'vasāyinām .. 30 ..
प्रायः स्वभावविहितो नृणां धर्मो युगे युगे । वेददृग्भिः स्मृतो राजन् प्रेत्य चेह च शर्मकृत् ॥ ३१ ॥
prāyaḥ svabhāvavihito nṛṇāṃ dharmo yuge yuge . vedadṛgbhiḥ smṛto rājan pretya ceha ca śarmakṛt .. 31 ..
वृत्त्या स्वभावकृतया वर्तमानः स्वकर्मकृत् । हित्वा स्वभावजं कर्म शनैर्निर्गुणतामियात् ॥ ३२ ॥
vṛttyā svabhāvakṛtayā vartamānaḥ svakarmakṛt . hitvā svabhāvajaṃ karma śanairnirguṇatāmiyāt .. 32 ..
उप्यमानं मुहुः क्षेत्रं स्वयं निर्वीर्यतामियात् । न कल्पते पुनः सूत्यै उप्तं बीजं च नश्यति ॥ ३३ ॥
upyamānaṃ muhuḥ kṣetraṃ svayaṃ nirvīryatāmiyāt . na kalpate punaḥ sūtyai uptaṃ bījaṃ ca naśyati .. 33 ..
एवं कामाशयं चित्तं कामानामतिसेवया । विरज्येत यथा राजन् अग्निवत् कामबिन्दुभिः ॥ ३४ ॥
evaṃ kāmāśayaṃ cittaṃ kāmānāmatisevayā . virajyeta yathā rājan agnivat kāmabindubhiḥ .. 34 ..
यस्य यल्लक्षणं प्रोक्तं पुंसो वर्णाभिव्यञ्जकम् । यदन्यत्रापि दृश्येत तत्तेनैव विनिर्दिशेत् ॥ ३५ ॥
yasya yallakṣaṇaṃ proktaṃ puṃso varṇābhivyañjakam . yadanyatrāpi dṛśyeta tattenaiva vinirdiśet .. 35 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे युधिष्ठिरनारदसंवादे सदाचारनिर्णयो नाम एकादशोऽध्यायः ॥ ११ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ saptamaskandhe yudhiṣṭhiranāradasaṃvāde sadācāranirṇayo nāma ekādaśo'dhyāyaḥ .. 11 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In