| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

नारद उवाच -
ब्रह्मचारी गुरुकुले वसन्दान्तो गुरोर्हितम् । आचरन् दासवत् नीचो गुरौ सुदृढसौहृदः ॥ १ ॥
ब्रह्मचारी गुरु-कुले वसन् दान्तः गुरोः हितम् । आचरन् दास-वत् नीचः गुरौ सु दृढ-सौहृदः ॥ १ ॥
brahmacārī guru-kule vasan dāntaḥ guroḥ hitam . ācaran dāsa-vat nīcaḥ gurau su dṛḍha-sauhṛdaḥ .. 1 ..
सायं प्रातरुपासीत गुर्वग्न्यर्कसुरोत्तमान् । सन्ध्ये उभे च यतवाग् जपन्ब्रह्म समाहितः ॥ २ ॥
सायम् प्रातर् उपासीत गुरु-अग्नि-अर्क-सुर-उत्तमान् । सन्ध्ये उभे च यत-वाच् जपन् ब्रह्म समाहितः ॥ २ ॥
sāyam prātar upāsīta guru-agni-arka-sura-uttamān . sandhye ubhe ca yata-vāc japan brahma samāhitaḥ .. 2 ..
छन्दांस्यधीयीत गुरोः आहूतश्चेत् सुयन्त्रितः । उपक्रमेऽवसाने च चरणौ शिरसा नमेत् ॥ ३ ॥
छन्दांसि अधीयीत गुरोः आहूतः चेद् सु यन्त्रितः । उपक्रमे अवसाने च चरणौ शिरसा नमेत् ॥ ३ ॥
chandāṃsi adhīyīta guroḥ āhūtaḥ ced su yantritaḥ . upakrame avasāne ca caraṇau śirasā namet .. 3 ..
मेखलाजिनवासांसि जटादण्डकमण्डलून् । बिभृयाद् उपवीतं च दर्भपाणिर्यथोदितम् ॥ ४ ॥
मेखला-अजिन-वासांसि जटा-दण्ड-कमण्डलून् । बिभृयात् उपवीतम् च दर्भ-पाणिः यथा उदितम् ॥ ४ ॥
mekhalā-ajina-vāsāṃsi jaṭā-daṇḍa-kamaṇḍalūn . bibhṛyāt upavītam ca darbha-pāṇiḥ yathā uditam .. 4 ..
सायं प्रातश्चरेद्भैक्ष्यं गुरवे तन्निवेदयेत् । भुञ्जीत यद्यनुज्ञातो नो चेदुपवसेत् क्वचित् ॥ ५ ॥
सायम् प्रातर् चरेत् भैक्ष्यम् गुरवे तत् निवेदयेत् । भुञ्जीत यदि अनुज्ञातः नो चेद् उपवसेत् क्वचिद् ॥ ५ ॥
sāyam prātar caret bhaikṣyam gurave tat nivedayet . bhuñjīta yadi anujñātaḥ no ced upavaset kvacid .. 5 ..
सुशीलो मितभुग् दक्षः श्रद्दधानो जितेन्द्रियः । यावदर्थं व्यवहरेत् स्त्रीषु स्त्रीनिर्जितेषु च ॥ ६ ॥
सु शीलः मित-भुज् दक्षः श्रद्दधानः जित-इन्द्रियः । यावदर्थम् व्यवहरेत् स्त्रीषु स्त्री-निर्जितेषु च ॥ ६ ॥
su śīlaḥ mita-bhuj dakṣaḥ śraddadhānaḥ jita-indriyaḥ . yāvadartham vyavaharet strīṣu strī-nirjiteṣu ca .. 6 ..
वर्जयेत्प्रमदागाथां अगृहस्थो बृहद्व्रतः । इन्द्रियाणि प्रमाथीनि हरन्त्यपि यतेर्मनः ॥ ७ ॥
वर्जयेत् प्रमदा-गाथाम् अगृहस्थः बृहत्-व्रतः । इन्द्रियाणि प्रमाथीनि हरन्ति अपि यतेः मनः ॥ ७ ॥
varjayet pramadā-gāthām agṛhasthaḥ bṛhat-vrataḥ . indriyāṇi pramāthīni haranti api yateḥ manaḥ .. 7 ..
केशप्रसाधनोन्मर्द स्नपनाभ्यञ्जनादिकम् । गुरुस्त्रीभिर्युवतिभिः कारयेन्नात्मनो युवा ॥ ८ ॥
केश-प्रसाधन-उन्मर्द-स्नपन-अभ्यञ्जन-आदिकम् । गुरु-स्त्रीभिः युवतिभिः कारयेत् न आत्मनः युवा ॥ ८ ॥
keśa-prasādhana-unmarda-snapana-abhyañjana-ādikam . guru-strībhiḥ yuvatibhiḥ kārayet na ātmanaḥ yuvā .. 8 ..
नन्वग्निः प्रमदा नाम घृतकुम्भसमः पुमान् । सुतामपि रहो जह्याद् अन्यदा यावदर्थकृत् ॥ ९ ॥
ननु अग्निः प्रमदा नाम घृत-कुम्भ-समः पुमान् । सुताम् अपि रहः जह्यात् अन्यदा यावत्-अर्थ-कृत् ॥ ९ ॥
nanu agniḥ pramadā nāma ghṛta-kumbha-samaḥ pumān . sutām api rahaḥ jahyāt anyadā yāvat-artha-kṛt .. 9 ..
कल्पयित्वाऽऽत्मना यावद् आभासमिदमीश्वरः । द्वैतं तावन्न विरमेत् ततो ह्यस्य विपर्ययः ॥ १० ॥
कल्पयित्वा आत्मना यावत् आभासम् इदम् ईश्वरः । द्वैतम् तावत् न विरमेत् ततस् हि अस्य विपर्ययः ॥ १० ॥
kalpayitvā ātmanā yāvat ābhāsam idam īśvaraḥ . dvaitam tāvat na viramet tatas hi asya viparyayaḥ .. 10 ..
एतत् सर्वं गृहस्थस्य समाम्नातं यतेरपि । गुरुवृत्तिर्विकल्पेन गृहस्थस्यर्तुगामिनः ॥ ११ ॥
एतत् सर्वम् गृहस्थस्य समाम्नातम् यतेः अपि । गुरु-वृत्तिः विकल्पेन गृहस्थस्य ऋतु-गामिनः ॥ ११ ॥
etat sarvam gṛhasthasya samāmnātam yateḥ api . guru-vṛttiḥ vikalpena gṛhasthasya ṛtu-gāminaḥ .. 11 ..
अञ्जनाभ्यञ्जनोन्मर्द त्र्यवलेखामिषं मधु । स्रग् गन्धलेपालंकारान् त्यजेयुर्ये बृहद्व्रताः ॥ १२ ॥
। स्रज् गन्ध-लेप-अलंकारान् त्यजेयुः ये बृहत्-व्रताः ॥ १२ ॥
. sraj gandha-lepa-alaṃkārān tyajeyuḥ ye bṛhat-vratāḥ .. 12 ..
उषित्वैवं गुरुकुले द्विजोऽधीत्यावबुध्य च । त्रयीं साङ्गोपनिषदं यावदर्थं यथाबलम् ॥ १३ ॥
उषित्वा एवम् गुरु-कुले द्विजः अधीत्य अवबुध्य च । त्रयीम् साङ्ग-उपनिषदम् यावदर्थम् यथाबलम् ॥ १३ ॥
uṣitvā evam guru-kule dvijaḥ adhītya avabudhya ca . trayīm sāṅga-upaniṣadam yāvadartham yathābalam .. 13 ..
दत्त्वा वरमनुज्ञातो गुरोः कामं यदीश्वरः । गृहं वनं वा प्रविशेत् प्रव्रजेत् तत्र वा वसेत् ॥ १४ ॥
दत्त्वा वरम् अनुज्ञातः गुरोः कामम् यदि ईश्वरः । गृहम् वनम् वा प्रविशेत् प्रव्रजेत् तत्र वा वसेत् ॥ १४ ॥
dattvā varam anujñātaḥ guroḥ kāmam yadi īśvaraḥ . gṛham vanam vā praviśet pravrajet tatra vā vaset .. 14 ..
अग्नौ गुरावात्मनि च सर्वभूतेष्वधोक्षजम् । भूतैः स्वधामभिः पश्येद् अप्रविष्टं प्रविष्टवत् ॥ १५ ॥
अग्नौ गुरौ आत्मनि च सर्व-भूतेषु अधोक्षजम् । भूतैः स्व-धामभिः पश्येत् अ प्रविष्टम् प्रविष्ट-वत् ॥ १५ ॥
agnau gurau ātmani ca sarva-bhūteṣu adhokṣajam . bhūtaiḥ sva-dhāmabhiḥ paśyet a praviṣṭam praviṣṭa-vat .. 15 ..
एवं विधो ब्रह्मचारी वानप्रस्थो यतिर्गृही । चरन्विदितविज्ञानः परं ब्रह्माधिगच्छति ॥ १६ ॥
एवंविधः ब्रह्मचारी वानप्रस्थः यतिः गृही । चरन् विदित-विज्ञानः परम् ब्रह्म अधिगच्छति ॥ १६ ॥
evaṃvidhaḥ brahmacārī vānaprasthaḥ yatiḥ gṛhī . caran vidita-vijñānaḥ param brahma adhigacchati .. 16 ..
वानप्रस्थस्य वक्ष्यामि नियमान् मुनिसम्मतान् । यानास्थाय मुनिर्गच्छेद् ऋषिलोकमुहाञ्जसा ॥ १७ ॥
वानप्रस्थस्य वक्ष्यामि नियमान् मुनि-सम्मतान् । यान् आस्थाय मुनिः गच्छेत् ऋषि-लोकम् उहान् अञ्जसा ॥ १७ ॥
vānaprasthasya vakṣyāmi niyamān muni-sammatān . yān āsthāya muniḥ gacchet ṛṣi-lokam uhān añjasā .. 17 ..
न कृष्टपच्यमश्नीयाद् अकृष्टं चाप्यकालतः । अग्निपक्वमथामं वा अर्कपक्वमुताहरेत् ॥ १८ ॥
न कृष्ट-पच्यम् अश्नीयात् अ कृष्टम् च अपि अकालतः । अग्नि-पक्वम् अथ आमम् वा अर्क-पक्वम् उत आहरेत् ॥ १८ ॥
na kṛṣṭa-pacyam aśnīyāt a kṛṣṭam ca api akālataḥ . agni-pakvam atha āmam vā arka-pakvam uta āharet .. 18 ..
वन्यैश्चरुपुरोडाशान् निर्वपेत्कालचोदितान् । लब्धे नवे नवेऽन्नाद्ये पुराणं च परित्यजेत् ॥ १९ ॥
वन्यैः चरु-पुरोडाशान् निर्वपेत् काल-चोदितान् । लब्धे नवे नवे अन्नाद्ये पुराणम् च परित्यजेत् ॥ १९ ॥
vanyaiḥ caru-puroḍāśān nirvapet kāla-coditān . labdhe nave nave annādye purāṇam ca parityajet .. 19 ..
अग्न्यर्थमेव शरणं उटजं वाद्रिकन्दरम् । श्रयेत हिमवाय्वग्नि वर्षार्कातपषाट् स्वयम् ॥ २० ॥
अग्नि-अर्थम् एव शरणम् उटजम् वा अद्रि-कन्दरम् । श्रयेत हिम-वायु-अग्नि वर्ष-अर्क-आतप-साह् स्वयम् ॥ २० ॥
agni-artham eva śaraṇam uṭajam vā adri-kandaram . śrayeta hima-vāyu-agni varṣa-arka-ātapa-sāh svayam .. 20 ..
केशरोमनखश्मश्रु मलानि जटिलो दधत् । कमण्डल्वजिने दण्ड वल्कलाग्निपरिच्छदान् ॥ २१ ॥
केश-रोम-नख-श्मश्रु मलानि जटिलः दधत् । कमण्डलु-अजिने दण्ड-वल्कल-अग्नि-परिच्छदान् ॥ २१ ॥
keśa-roma-nakha-śmaśru malāni jaṭilaḥ dadhat . kamaṇḍalu-ajine daṇḍa-valkala-agni-paricchadān .. 21 ..
चरेद् वने द्वादशाब्दान् अष्टौ वा चतुरो मुनिः । द्वावेकं वा यथा बुद्धिः न विपद्येत कृच्छ्रतः ॥ २२ ॥
चरेत् वने द्वादश-अब्दान् अष्टौ वा चतुरः मुनिः । द्वौ एकम् वा यथा बुद्धिः न विपद्येत कृच्छ्रतः ॥ २२ ॥
caret vane dvādaśa-abdān aṣṭau vā caturaḥ muniḥ . dvau ekam vā yathā buddhiḥ na vipadyeta kṛcchrataḥ .. 22 ..
यदाकल्पः स्वक्रियायां व्याधिभिर्जरयाथवा । आन्वीक्षिक्यां वा विद्यायां कुर्यादनशनादिकम् ॥ २३ ॥
यदा आकल्पः स्व-क्रियायाम् व्याधिभिः जरया अथवा । आन्वीक्षिक्याम् वा विद्यायाम् कुर्यात् अनशन-आदिकम् ॥ २३ ॥
yadā ākalpaḥ sva-kriyāyām vyādhibhiḥ jarayā athavā . ānvīkṣikyām vā vidyāyām kuryāt anaśana-ādikam .. 23 ..
आत्मन्यग्नीन् समारोप्य सन्न्यस्याहं ममात्मताम् । कारणेषु न्यसेत् सम्यक् संघातं तु यथार्हतः ॥ २४ ॥
आत्मनि अग्नीन् समारोप्य सन् न्यस्य अहम् मम आत्मताम् । कारणेषु न्यसेत् सम्यक् संघातम् तु यथार्हतः ॥ २४ ॥
ātmani agnīn samāropya san nyasya aham mama ātmatām . kāraṇeṣu nyaset samyak saṃghātam tu yathārhataḥ .. 24 ..
खे खानि वायौ निश्वासान् तजःसूष्माणमात्मवान् । अप्स्वसृक्श्लेष्मपूयानि क्षितौ शेषं यथोद्भवम् ॥ २५ ॥
खे खानि वायौ निश्वासान् तजःसु ऊष्माणम् आत्मवान् । अप्सु असृज्-श्लेष्म-पूयानि क्षितौ शेषम् यथोद्भवम् ॥ २५ ॥
khe khāni vāyau niśvāsān tajaḥsu ūṣmāṇam ātmavān . apsu asṛj-śleṣma-pūyāni kṣitau śeṣam yathodbhavam .. 25 ..
वाचमग्नौ सवक्तव्यां इन्द्रे शिल्पं करावपि । पदानि गत्या वयसि रत्योपस्थं प्रजापतौ ॥ २६ ॥
वाचम् अग्नौ स वक्तव्याम् इन्द्रे शिल्पम् करौ अपि । पदानि गत्या वयसि रत्य-उपस्थम् प्रजापतौ ॥ २६ ॥
vācam agnau sa vaktavyām indre śilpam karau api . padāni gatyā vayasi ratya-upastham prajāpatau .. 26 ..
मृत्यौ पायुं विसर्गं च यथास्थानं विनिर्दिशेत् । दिक्षु श्रोत्रं सनादेन स्पर्शेनाध्यात्मनि त्वचम् ॥ २७ ॥
मृत्यौ पायुम् विसर्गम् च यथास्थानम् विनिर्दिशेत् । दिक्षु श्रोत्रम् स नादेन स्पर्शेन अध्यात्मनि त्वचम् ॥ २७ ॥
mṛtyau pāyum visargam ca yathāsthānam vinirdiśet . dikṣu śrotram sa nādena sparśena adhyātmani tvacam .. 27 ..
रूपाणि चक्षुषा राजन् ज्योतिष्यभिनिवेशयेत् । अप्सु प्रचेतसा जिह्वां घ्रेयैर्घ्राणं क्षितौ न्यसेत् ॥ २८ ॥
रूपाणि चक्षुषा राजन् ज्योतिषि अभिनिवेशयेत् । अप्सु प्रचेतसा जिह्वाम् घ्रेयैः घ्राणम् क्षितौ न्यसेत् ॥ २८ ॥
rūpāṇi cakṣuṣā rājan jyotiṣi abhiniveśayet . apsu pracetasā jihvām ghreyaiḥ ghrāṇam kṣitau nyaset .. 28 ..
मनो मनोरथैश्चन्द्रे बुद्धिं बोध्यैः कवौ परे । कर्माण्यध्यात्मना रुद्रे यदहं ममताक्रिया । सत्त्वेन चित्तं क्षेत्रज्ञे गुणैर्वैकारिकं परे ॥ २९ ॥
मनः मनोरथैः चन्द्रे बुद्धिम् बोध्यैः कवौ परे । कर्माणि अध्यात्मना रुद्रे यत् अहम् ममता-क्रिया । सत्त्वेन चित्तम् क्षेत्रज्ञे गुणैः वैकारिकम् परे ॥ २९ ॥
manaḥ manorathaiḥ candre buddhim bodhyaiḥ kavau pare . karmāṇi adhyātmanā rudre yat aham mamatā-kriyā . sattvena cittam kṣetrajñe guṇaiḥ vaikārikam pare .. 29 ..
अप्सु क्षितिमपो ज्योतिषि अदो वायौ नभस्यमुम् । कूटस्थे तच्च महति तदव्यक्तेऽक्षरे च तत् ॥ ३० ॥
अप्सु क्षितिम् अपः ज्योतिषि अदः वायौ नभसि अमुम् । कूटस्थे तत् च महति तत् अव्यक्ते अक्षरे च तत् ॥ ३० ॥
apsu kṣitim apaḥ jyotiṣi adaḥ vāyau nabhasi amum . kūṭasthe tat ca mahati tat avyakte akṣare ca tat .. 30 ..
इत्यक्षरतयाऽऽत्मानं चिन्मात्रमवशेषितम् । ज्ञात्वाद्वयोऽथ विरमेद् दग्धयोनिरिवानलः ॥ ३१ ॥
इति अक्षर-तया आत्मानम् चित्-मात्रम् अवशेषितम् । ज्ञात्वा अ द्वयः अथ विरमेत् दग्ध-योनिः इव अनलः ॥ ३१ ॥
iti akṣara-tayā ātmānam cit-mātram avaśeṣitam . jñātvā a dvayaḥ atha viramet dagdha-yoniḥ iva analaḥ .. 31 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे युधिष्ठिरनारदसंवादे सदाचारनिर्णयो नाम द्वादशोऽध्यायः ॥ १२ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् सप्तम-स्कन्धे युधिष्ठिर-नारद-संवादे सदाचारनिर्णयः नाम द्वादशः अध्यायः ॥ १२ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām saptama-skandhe yudhiṣṭhira-nārada-saṃvāde sadācāranirṇayaḥ nāma dvādaśaḥ adhyāyaḥ .. 12 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In