| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

नारद उवाच -
ब्रह्मचारी गुरुकुले वसन्दान्तो गुरोर्हितम् । आचरन् दासवत् नीचो गुरौ सुदृढसौहृदः ॥ १ ॥
brahmacārī gurukule vasandānto gurorhitam . ācaran dāsavat nīco gurau sudṛḍhasauhṛdaḥ .. 1 ..
सायं प्रातरुपासीत गुर्वग्न्यर्कसुरोत्तमान् । सन्ध्ये उभे च यतवाग् जपन्ब्रह्म समाहितः ॥ २ ॥
sāyaṃ prātarupāsīta gurvagnyarkasurottamān . sandhye ubhe ca yatavāg japanbrahma samāhitaḥ .. 2 ..
छन्दांस्यधीयीत गुरोः आहूतश्चेत् सुयन्त्रितः । उपक्रमेऽवसाने च चरणौ शिरसा नमेत् ॥ ३ ॥
chandāṃsyadhīyīta guroḥ āhūtaścet suyantritaḥ . upakrame'vasāne ca caraṇau śirasā namet .. 3 ..
मेखलाजिनवासांसि जटादण्डकमण्डलून् । बिभृयाद् उपवीतं च दर्भपाणिर्यथोदितम् ॥ ४ ॥
mekhalājinavāsāṃsi jaṭādaṇḍakamaṇḍalūn . bibhṛyād upavītaṃ ca darbhapāṇiryathoditam .. 4 ..
सायं प्रातश्चरेद्भैक्ष्यं गुरवे तन्निवेदयेत् । भुञ्जीत यद्यनुज्ञातो नो चेदुपवसेत् क्वचित् ॥ ५ ॥
sāyaṃ prātaścaredbhaikṣyaṃ gurave tannivedayet . bhuñjīta yadyanujñāto no cedupavaset kvacit .. 5 ..
सुशीलो मितभुग् दक्षः श्रद्दधानो जितेन्द्रियः । यावदर्थं व्यवहरेत् स्त्रीषु स्त्रीनिर्जितेषु च ॥ ६ ॥
suśīlo mitabhug dakṣaḥ śraddadhāno jitendriyaḥ . yāvadarthaṃ vyavaharet strīṣu strīnirjiteṣu ca .. 6 ..
वर्जयेत्प्रमदागाथां अगृहस्थो बृहद्व्रतः । इन्द्रियाणि प्रमाथीनि हरन्त्यपि यतेर्मनः ॥ ७ ॥
varjayetpramadāgāthāṃ agṛhastho bṛhadvrataḥ . indriyāṇi pramāthīni harantyapi yatermanaḥ .. 7 ..
केशप्रसाधनोन्मर्द स्नपनाभ्यञ्जनादिकम् । गुरुस्त्रीभिर्युवतिभिः कारयेन्नात्मनो युवा ॥ ८ ॥
keśaprasādhanonmarda snapanābhyañjanādikam . gurustrībhiryuvatibhiḥ kārayennātmano yuvā .. 8 ..
नन्वग्निः प्रमदा नाम घृतकुम्भसमः पुमान् । सुतामपि रहो जह्याद् अन्यदा यावदर्थकृत् ॥ ९ ॥
nanvagniḥ pramadā nāma ghṛtakumbhasamaḥ pumān . sutāmapi raho jahyād anyadā yāvadarthakṛt .. 9 ..
कल्पयित्वाऽऽत्मना यावद् आभासमिदमीश्वरः । द्वैतं तावन्न विरमेत् ततो ह्यस्य विपर्ययः ॥ १० ॥
kalpayitvā''tmanā yāvad ābhāsamidamīśvaraḥ . dvaitaṃ tāvanna viramet tato hyasya viparyayaḥ .. 10 ..
एतत् सर्वं गृहस्थस्य समाम्नातं यतेरपि । गुरुवृत्तिर्विकल्पेन गृहस्थस्यर्तुगामिनः ॥ ११ ॥
etat sarvaṃ gṛhasthasya samāmnātaṃ yaterapi . guruvṛttirvikalpena gṛhasthasyartugāminaḥ .. 11 ..
अञ्जनाभ्यञ्जनोन्मर्द त्र्यवलेखामिषं मधु । स्रग् गन्धलेपालंकारान् त्यजेयुर्ये बृहद्व्रताः ॥ १२ ॥
añjanābhyañjanonmarda tryavalekhāmiṣaṃ madhu . srag gandhalepālaṃkārān tyajeyurye bṛhadvratāḥ .. 12 ..
उषित्वैवं गुरुकुले द्विजोऽधीत्यावबुध्य च । त्रयीं साङ्गोपनिषदं यावदर्थं यथाबलम् ॥ १३ ॥
uṣitvaivaṃ gurukule dvijo'dhītyāvabudhya ca . trayīṃ sāṅgopaniṣadaṃ yāvadarthaṃ yathābalam .. 13 ..
दत्त्वा वरमनुज्ञातो गुरोः कामं यदीश्वरः । गृहं वनं वा प्रविशेत् प्रव्रजेत् तत्र वा वसेत् ॥ १४ ॥
dattvā varamanujñāto guroḥ kāmaṃ yadīśvaraḥ . gṛhaṃ vanaṃ vā praviśet pravrajet tatra vā vaset .. 14 ..
अग्नौ गुरावात्मनि च सर्वभूतेष्वधोक्षजम् । भूतैः स्वधामभिः पश्येद् अप्रविष्टं प्रविष्टवत् ॥ १५ ॥
agnau gurāvātmani ca sarvabhūteṣvadhokṣajam . bhūtaiḥ svadhāmabhiḥ paśyed apraviṣṭaṃ praviṣṭavat .. 15 ..
एवं विधो ब्रह्मचारी वानप्रस्थो यतिर्गृही । चरन्विदितविज्ञानः परं ब्रह्माधिगच्छति ॥ १६ ॥
evaṃ vidho brahmacārī vānaprastho yatirgṛhī . caranviditavijñānaḥ paraṃ brahmādhigacchati .. 16 ..
वानप्रस्थस्य वक्ष्यामि नियमान् मुनिसम्मतान् । यानास्थाय मुनिर्गच्छेद् ऋषिलोकमुहाञ्जसा ॥ १७ ॥
vānaprasthasya vakṣyāmi niyamān munisammatān . yānāsthāya munirgacched ṛṣilokamuhāñjasā .. 17 ..
न कृष्टपच्यमश्नीयाद् अकृष्टं चाप्यकालतः । अग्निपक्वमथामं वा अर्कपक्वमुताहरेत् ॥ १८ ॥
na kṛṣṭapacyamaśnīyād akṛṣṭaṃ cāpyakālataḥ . agnipakvamathāmaṃ vā arkapakvamutāharet .. 18 ..
वन्यैश्चरुपुरोडाशान् निर्वपेत्कालचोदितान् । लब्धे नवे नवेऽन्नाद्ये पुराणं च परित्यजेत् ॥ १९ ॥
vanyaiścarupuroḍāśān nirvapetkālacoditān . labdhe nave nave'nnādye purāṇaṃ ca parityajet .. 19 ..
अग्न्यर्थमेव शरणं उटजं वाद्रिकन्दरम् । श्रयेत हिमवाय्वग्नि वर्षार्कातपषाट् स्वयम् ॥ २० ॥
agnyarthameva śaraṇaṃ uṭajaṃ vādrikandaram . śrayeta himavāyvagni varṣārkātapaṣāṭ svayam .. 20 ..
केशरोमनखश्मश्रु मलानि जटिलो दधत् । कमण्डल्वजिने दण्ड वल्कलाग्निपरिच्छदान् ॥ २१ ॥
keśaromanakhaśmaśru malāni jaṭilo dadhat . kamaṇḍalvajine daṇḍa valkalāgniparicchadān .. 21 ..
चरेद् वने द्वादशाब्दान् अष्टौ वा चतुरो मुनिः । द्वावेकं वा यथा बुद्धिः न विपद्येत कृच्छ्रतः ॥ २२ ॥
cared vane dvādaśābdān aṣṭau vā caturo muniḥ . dvāvekaṃ vā yathā buddhiḥ na vipadyeta kṛcchrataḥ .. 22 ..
यदाकल्पः स्वक्रियायां व्याधिभिर्जरयाथवा । आन्वीक्षिक्यां वा विद्यायां कुर्यादनशनादिकम् ॥ २३ ॥
yadākalpaḥ svakriyāyāṃ vyādhibhirjarayāthavā . ānvīkṣikyāṃ vā vidyāyāṃ kuryādanaśanādikam .. 23 ..
आत्मन्यग्नीन् समारोप्य सन्न्यस्याहं ममात्मताम् । कारणेषु न्यसेत् सम्यक् संघातं तु यथार्हतः ॥ २४ ॥
ātmanyagnīn samāropya sannyasyāhaṃ mamātmatām . kāraṇeṣu nyaset samyak saṃghātaṃ tu yathārhataḥ .. 24 ..
खे खानि वायौ निश्वासान् तजःसूष्माणमात्मवान् । अप्स्वसृक्श्लेष्मपूयानि क्षितौ शेषं यथोद्भवम् ॥ २५ ॥
khe khāni vāyau niśvāsān tajaḥsūṣmāṇamātmavān . apsvasṛkśleṣmapūyāni kṣitau śeṣaṃ yathodbhavam .. 25 ..
वाचमग्नौ सवक्तव्यां इन्द्रे शिल्पं करावपि । पदानि गत्या वयसि रत्योपस्थं प्रजापतौ ॥ २६ ॥
vācamagnau savaktavyāṃ indre śilpaṃ karāvapi . padāni gatyā vayasi ratyopasthaṃ prajāpatau .. 26 ..
मृत्यौ पायुं विसर्गं च यथास्थानं विनिर्दिशेत् । दिक्षु श्रोत्रं सनादेन स्पर्शेनाध्यात्मनि त्वचम् ॥ २७ ॥
mṛtyau pāyuṃ visargaṃ ca yathāsthānaṃ vinirdiśet . dikṣu śrotraṃ sanādena sparśenādhyātmani tvacam .. 27 ..
रूपाणि चक्षुषा राजन् ज्योतिष्यभिनिवेशयेत् । अप्सु प्रचेतसा जिह्वां घ्रेयैर्घ्राणं क्षितौ न्यसेत् ॥ २८ ॥
rūpāṇi cakṣuṣā rājan jyotiṣyabhiniveśayet . apsu pracetasā jihvāṃ ghreyairghrāṇaṃ kṣitau nyaset .. 28 ..
मनो मनोरथैश्चन्द्रे बुद्धिं बोध्यैः कवौ परे । कर्माण्यध्यात्मना रुद्रे यदहं ममताक्रिया । सत्त्वेन चित्तं क्षेत्रज्ञे गुणैर्वैकारिकं परे ॥ २९ ॥
mano manorathaiścandre buddhiṃ bodhyaiḥ kavau pare . karmāṇyadhyātmanā rudre yadahaṃ mamatākriyā . sattvena cittaṃ kṣetrajñe guṇairvaikārikaṃ pare .. 29 ..
अप्सु क्षितिमपो ज्योतिषि अदो वायौ नभस्यमुम् । कूटस्थे तच्च महति तदव्यक्तेऽक्षरे च तत् ॥ ३० ॥
apsu kṣitimapo jyotiṣi ado vāyau nabhasyamum . kūṭasthe tacca mahati tadavyakte'kṣare ca tat .. 30 ..
इत्यक्षरतयाऽऽत्मानं चिन्मात्रमवशेषितम् । ज्ञात्वाद्वयोऽथ विरमेद् दग्धयोनिरिवानलः ॥ ३१ ॥
ityakṣaratayā''tmānaṃ cinmātramavaśeṣitam . jñātvādvayo'tha viramed dagdhayonirivānalaḥ .. 31 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे युधिष्ठिरनारदसंवादे सदाचारनिर्णयो नाम द्वादशोऽध्यायः ॥ १२ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ saptamaskandhe yudhiṣṭhiranāradasaṃvāde sadācāranirṇayo nāma dvādaśo'dhyāyaḥ .. 12 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In